गुणकारण्डव्यूहसूत्र · भाग 4160
तथैन्द्रानिन्द्ररुपेण सर्वानपि प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा सूर्यस्य वैनेयान् सूर्येरुपेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा च चन्द्रवैनेयांश्चन्द्ररुप्रेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा च वह्निवैनेयान् वह्निरुपेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा च यमवैनेयान् यमरुपेण बोधयन् ।
एवं वरुणरुपेण वैनेयान् वरुणस्य च ॥
तथा च वायुवैनेयान् वायुरुपेण बोधयन् ।
वैनेयान् राक्षसस्यापि रक्षोरुपेण बोधयन् ॥
यक्षरुपेण यक्षस्य वैनेयान् संप्रबोधयन् ।
नागरुपेण नागस्य वैनेयान् संप्रबोधयन् ॥
तथा भूतेशरुपेण वैनेयान् भूतपरेरपि ।
तथा गणेशरुपेण वैनेयान् गणपस्य च ॥
तथा गन्धर्वरुपेण गान्धर्वधर्मचारिणः ।
तथा किन्नररुपेण वैनेयान् किन्नरस्य च ॥
विद्याधरस्य रुपेण वैद्याधरान् प्रबोधयन् ।
तथा भैरववैनेयान् रुपेण भैरवस्य च ॥
तथा कुमारवैनेयान् स्कन्दरुपेण बोधयन् ॥
महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् ।
महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् ॥
मातृकाणां च रुपेण वैनेयान् संप्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
एवं यस्य यस्य वैनेयान् सत्त्वान् यन्तेन बोधयन् ।
तस्य तस्यैव रुपेण योगयति जगद्धिते ॥
एवं स ऋषिवैनेयानृषिरुपेण बोधयन् ।
योगिरुपेण वैनेयान् योगिनश्चापि बोधयन् ॥
तथा च यतिवैनेयान् यतिरुपेण बोधयन् ।
तथा तपस्ववैनेयांस्तपस्विरुपेण बोधयन् ॥
तथा तैर्थिकरुपेण तीर्थिकांश्चापि बोधयन् ।
तथा च राजवैनेयान् राजरुपेण बोधयन् ॥
वैश्यरुपेण वैनेयान् वैश्यस्यापि प्रबोधयन् ।
शूद्ररुपेण शूद्रस्य वैनेयांश्च प्रबोधयन् ॥
गृहपतेश्चापि वैनेयांस्तद्रूपेण प्रबोधयन् ।
तथा च मंत्रीवैनेयान् मंत्रीरुपेण बोधयन् ॥
तथा चामात्यरुपेण तद्वैनेयान् प्रबोधयन् ।
तथा च योधृवैनेयान् योधृरुपेण कांश्चन ॥
एवं च भृत्यरुपेण दासरुपेण कांश्चन ।
कांस्चिच्च सार्थभृद्रूपेण शिन्पिरुपेण कांश्चन ॥
तथा च वैद्यरुपेण वणिग्रूपेण कांश्चन ।
कांश्चिच्च पितृरुपेण मातृरुपेण कांश्चन ॥
तथा च भ्रातृरुपेण भार्यारुपेण कांश्चन ।
रुपेणापि भगिन्याश्च पुत्ररुपेण कांश्चन ॥
कश्चिद्दुहितृरुपेण पौत्ररुपेण कांश्चन ।
एवं पितामहादीनां ज्ञातीनां सुहृदामपि ॥
बंधुमित्रसहायानां रुपेण परिबोधयन् ।
कांश्चिच्च शत्रुरुपेण संत्रासयन् प्रयत्नतः ॥
कांश्चिच्चण्डालरुपेण चौररुपेण कांश्चन ।
सद्धर्मे प्रेरयित्वैव चररयति जगद्धिते ॥
एवं सिंहादिजन्तूनां रुपेण त्रासयन्नपि ।
पशूनां पक्षिणां चाअपि कृमिकीटादिप्राणिनाम् ॥
रुपेण त्रासयित्वापि बोधयित्वा च यत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगच्छुभे ॥
एवमसौ महासत्त्वो लोकनाथो जगत्प्रभुः ।
नानारुपेण सर्वेषां सत्त्वानां बोधयन् मनः ॥
त्रासयन्नपि सद्धर्मे प्रेरयसि प्रयत्नतः ॥
एवं स त्रिजगन्नाथो बोधिसत्त्वो जिनात्मजः ।
सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
एवं कृत्वा स लोकेशः सर्वलोकाधिपेश्वरः ।
षड्गतिभवचारीणां दुष्टानामपि मूढानाम् ॥
सद्धर्मसद्गुणश्रीमन्माहैश्वर्यसमृद्धिमान् ॥
नास्ति तेन समः कश्चित्पुण्यश्रीगुणवानपि ।
दयालुर्भद्रसंचारी त्रैधातुभुवनेष्वपि ॥
एवं तस्य महत्पुण्यं मत्वा संबोधिवांछिनः ।
श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते ॥
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते ।
सर्वे हि विमलात्मानो भद्राशयाः शुभेंद्रियाः ॥
बोधिसत्वा महासत्वाः प्रचरंतः सदा शुभे ।
त्रिविधां बोधिमासाध्य निर्वृतिं पदमाप्नुयुः ॥
इत्यादिष्टं मुनींद्रेण रत्नपाणिर्निशम्य सः ।
अत्यद्भुतसमक्रान्तहदयश्चैवमब्रवीत् ॥
परमाद्भुतप्राप्तो ऽहं भगवन् यदीदृशं क्वचित् ।
धर्मश्रीगुणमाहात्म्यं दृष्टं न श्रूयते ऽपि न ॥
ईदृशं पुण्यसंभारं जिनानामपि न क्वचित् ।
दृश्यते श्रूयते नापि कदाचन मया खलु ॥
एवं तेनोदितं श्रुत्वा भगवान् स शिखी जिनः ।
रत्नपाणिं महासत्त्वं तमालोक्यैवमादिशत् ॥
सर्वाकारसुभद्रांशो विश्वरुपो मणिर्यथा ।
चिन्तामणिर्महारत्न इव सर्वहितार्थभृत् ॥
कामधेनुर्यथाकामं भोग्यं संपत्तिसंभरः ।
कल्पवृक्षो यथा भद्रश्रीसमृद्धिप्रदायकः ॥
भग्रघटो यथा सर्वसत्त्ववांछितपूरकः ।
लोकेश्वरः स सर्वेषां वांछितार्थाभिपूरकः ॥
बोधिसत्त्वो जगद्भर्ता विश्वनाथो जगत्प्रभुः ।
सर्वधर्माधिपश्शास्ता सर्वलोकाधिपेश्श्वरः ॥
किं वक्ष्यते ऽस्य माहात्म्यं बोधिश्रीगुणसंभृतः ।
शक्यते न समाख्यातुं सर्वैरपि मुनीश्वरैः ॥
तद्यथासौ महासत्त्वो दुर्दान्तानपि बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
वज्रकुक्षिगुहा ख्याता जम्बूद्विपे ऽत्र विद्यते ।
तत्रानेकसहस्त्रानि वसन्ति स्म सुरद्विषाम् ॥
तत्र गत्वा सुराणां स शास्तृरुपेण संसरन् ।
सद्धर्मं समुपादेष्टुं पश्यंस्तान् समुपाचरत् ॥
तं दृष्ट्वा समुपायातमाचार्यं ते ऽसुरा मुदा ।
सर्वे ते सहसोपेत्य प्रणत्वैवं बभाषिरे ॥
स्वागतं ते समयासि प्रणत्वैवं बभाषिरे ॥
स्वागतं ते समायसि कश्चित् सर्वत्र कौशलम् ।
कृपया नः समालोक्य धर्ममादेष्टुमर्हसि ॥
भवता यद्यथादिष्टं तत्तथा वयमादरात् ।
श्रुत्वा धृत्वा चरिष्यामः संसारसुखसाधने ॥
इति संप्रार्थन्ते सर्वे दानवास्तं गुरुं मुदा ।
सभासने प्रतिष्ठाप्य धर्मं श्रोतुमुपाश्रयन् ॥
तान् सर्वान् समुपासीनान् दृष्ट्वा स सुगतात्मजः ।
दैत्यानां धर्ममारभ्य सद्धर्मं समुपादिशत् ॥
भवन्तः श्रूयत्वा धर्में संसारसुखसाधनम् ।
वक्ष्यते ऽत्र मया युष्मत्संसारगुःखमुक्तये ॥
मैत्रचिता भवन्तो ऽत्र शान्तचिता जितेन्द्रियाः ।
दयाचित्ताश्च सत्त्वेषु भवध्यं समाचारिणः ॥
ततः सत्यसमाचाराः परिशुद्धाशया मुदा ।
त्रिरत्नशरणं गत्वा चरध्वं पोषधं व्रतम् ॥
धृत्वा तदव्रतराजाख्यं संसारभद्रकारिणः ।
शृणुध्वं चापि कारण्डव्यूहसूत्रसुभाषिते ॥
ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् ।
त्रिरत्नशरणं गत्वा चरन्ति पोषधं व्रतम् ॥
तेषां सर्वाणि पापानि पंचानन्तर्यकान्यपि ।
निःशेषं परिनष्टानि भविष्यन्ति सदा भवे ॥
ये च श्रुत्वानुदन्ति श्रद्दधास्यन्ति चादरात् ।
गृहिष्यन्ति लिखिष्यन्ति स्वाध्यास्यन्ति प्रमोदिताः ॥
ये च लिखापयिष्यन्ति वाचयिष्यन्ति सर्वदा ।
सदानुचिन्तयिष्यन्ति भावयिष्यन्ति चादरात ॥
परेभ्यो विस्तरेणार्थमुपदेष्यन्ति सादरात् ।
सत्कारैः श्रद्धया नित्यं पूजयिष्यन्ति सर्वदा ॥
ते एव सुखिता धन्याः संसारसुखभागिनः ।
न ते दुर्गतिदुःखानि भोज्यन्ते ऽपि कदाचन ॥
सदासद्गतिसंजाताः संसारसुखभोगिनः ।
सद्गुणश्रीमहत्सपदृद्धिमन्तो महर्द्धिकाः ॥
बोधिचर्याव्रतं धृत्वा स्वपरात्महितोद्यताः ।
कृत्वा सर्वत्र भद्राणि चरिष्यन्ति सदा भवे ॥
प्रान्ते जातिस्मरास्ते च बोधिप्रणिहिताशयाः ।
त्रिरत्नशरणं गत्वा समेष्यन्ति सुनिर्वृतिम् ॥
यदा काले समायाते तेषां निर्वृतिवांछिनाम् ।
द्वादशा सुगताः प्रेक्ष्य समुपागम्य सम्मुखम् ॥
उपस्थिताः समालोक्य स्पृष्ट्वा पुण्यसुधाकरैः ।
संपश्यन्तः समाश्वास्य मानयन्त्येवमादरात् ॥
मा भैषीः कुलपुत्रात्र तिष्ठालं व्यसुधीरताम् ।
यन्महायानकारण्यूहसूत्रं त्वया श्रुतम् ॥
तत्ते नास्ति भयं किंचिददुर्गतेश्च कदाचन ।
गमनाय सुखावत्यां मार्गेस्ते परिशोधितः ॥
युष्मदर्थे सुखावत्यां दिव्यालंकारभूषणम् ।
दिव्यामृतसुभोग्यं च संस्थापितमहत्तमम् ॥
इत्याश्वास्य मुनीन्द्रास्तान् त्यक्तदेहान् सुखावतिम् ।
नीत्वामिताभनाथस्य स्थापयेयुः सभासने ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं मुदा ।
बोधिचर्याव्रतं धृत्वा प्रचरेयुः सदापि ते ॥
क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते ।
त्रिविधां बोधिमासाद्य समाप्स्यन्ति सुनिर्वृतिम् ॥
इअत्येवं सुगतैः सर्वैः समाख्यातं मया श्रुतम् ।
तथा समुदितं श्रूत्वा यूयं सर्वे ऽनुमोदत ॥
यद्येवं निर्वृतिं गन्तुं सर्वे यूयं समिच्छथ ।
त्रिरत्नशरणं गत्वा चरत पोषधव्रतम् ॥
महायानसूत्रराजं कारण्डव्यूहमुत्तमम् ।
श्रुत्वा सदा समाधाय चरते बोधिसंवरम् ॥
एतत्पुण्यानुभावेन सदाअ भुक्त्वा महासुखम् ।
निःक्लेशा विमलात्मानः परिशुद्धत्रिमण्डलाः ॥
बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते ।
बोधिसत्त्वा महासत्वाः सर्वसंसारपालकाः ॥
ततः प्रान्ते सुखावत्यां गत्वा भुक्त्वा महत्सुखम् ।
सद्धर्ममिताभस्य श्रुत्वा शुभे चरिष्यथ ॥
तत्रापि बोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाध्य संप्राप्स्यथ सुनिर्वृतिम् ॥
एतन्मया समाख्यातं यदि निर्वृतिमिच्छथ ।
श्रुत्वा यथा मयोद्दिष्टं तथा चरत सर्वदा ॥
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः ।
तथेत्यभ्यनुमोदित्वा तथा चरितुमीच्छिरे ॥
ततस्ते दानवाः सर्वे निर्वृतिसुखवांछिनः ।
तमाचार्यं पुनर्नत्वा प्रार्थयन्नेवमादरात् ॥
शास्तर्भवत्समादिष्टं श्रुत्वा वयं प्रबोधिताः ।
तथा चरितुमिच्छामस्तत्समादेष्टुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा स लोकेशो ऽसुरात्मधृत् ।
सर्वांस्तानसुरान् पश्यन् समामन्त्र्यैवमादिशत् ॥
भो भवन्तो ऽसुराः सर्वे शृणुत तन्मयोदितम् ।
श्रुवानुमोदनां कृत्वा चरतैतद् व्रतं सदा ॥
आदौ सर्वे महायानसूत्रराजं वरोत्तमम् ।
कारण्डव्यूहमाकर्ण्य प्रानुमोद्य प्रबोधिताः ॥
प्रातस्तीर्थजले स्नात्वा शुद्धशीला जिनेन्द्रियाः ।
त्रिरत्नशरणं गत्वा ध्यानत्वा लोकेश्वरं प्रभुम् ॥
यथाविधि समभ्यर्च्य जपस्तोत्राभिवन्दनैः ।
संतोस्य प्रार्थनां कुर्युः संबोधिव्रतसाधनाम् ॥
एवं व्रतं समाप्यैव पंचामृतैर्निरामिषैः ।
भोजनैस्तृतीये यामे कुर्युस्तत्पालनं मुदा ॥
एवं नित्वं यथाशक्ति मासे मासे ऽपि सर्वदा ।
अष्टम्यां पंचदश्यां च व्रतं कुर्युर्यथाविधि ॥
चरतैतदव्रतं नित्यं मासे मासे ऽपि सर्वदा ।
अथैकवारमप्येवं वर्षे चरत्कार्तिके ॥
कार्तिके यय्कृतं कर्म तत्fअलं बहुसत्तमम् ।
अप्र्मेयमसंख्येयं न क्षणुयात कदाचन ॥
इति मत्वा समाधाय चरतैतद्व्रतं सदा ।
एवं स समुपादिश्य तद्विधिं समुपादिशत् ॥
तदाचार्यसमादिष्टं धृत्वा सर्वे ऽपि ते ऽसुराः ।
यथाविधि समाधाय प्रेचिरुस्तदव्रतं सदा ॥
ततस्ते दानवाः सर्वे चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वा बभूवुर्भद्रचारिणः ॥
एवमसौ महाभिज्ञो दुर्दान्तानपि दानवान् ।
बोधयित्वा प्रयत्नेन बोधिमार्गे प्रयोजयेत् ॥
एवं तस्य जगच्छास्तुः पुण्यस्कन्धं महद्बहु ।
अप्रमेयमसंख्येयं इत्याख्यातं मुनीश्वरैः ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
स्वयं पश्यन् जगत्सर्वं पालयति सदा भवे ॥
पापिष्टानपि दुर्दान्तानपि यत्नैः प्रबोधयन् ।
बोधिमार्गे नियुज्यैवं प्रेषयति सुनिर्वृतिम् ॥
तेनासौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः ।
भजनीयः सदा भक्त्या संबोधिज्ञानवांछिभिः ॥
तस्य नाम समुच्चार्य स्मृत्वा ध्यात्वा भजन्ति ये ।
ते नूनं बोधिमासाध्य निर्वृतिं समवाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः ।
प्रबोधितः प्रसन्नात्मा प्राभ्यनन्दत् स पार्षदः ॥
इत्येवं शिखिनादिष्टं संबुद्धेन मया श्रुतम् ।
लोकेश्वरस्य माहात्म्यं पुण्यस्कन्धं महत्तरम् ॥
इति तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतां सदा ॥
तस्य नाम समुच्च्चार्य स्मृत्वा ध्यात्वा भजन्ति ये ।
ते सर्वे विमलात्मानः संयास्यन्ति सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते ॥
बोधिसत्त्वा महाभिज्ञाः परिशुद्धत्रिमण्डलाः ।
त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन स पार्षदः ।
श्रुत्वा सर्वनीवरणविष्कम्भी प्राभ्यनन्दत ॥
॥ इति श्रीसर्वाकारसर्वप्रबोधनसद्धर्मसंचारणं प्रकरणम् ॥
6. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम्
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
भगवन्तं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥
दुर्क्लभं भगवन्स्तस्य लोकेश्वरस्य दर्शनम् ।
सद्धर्मश्रवणं चापि सदा त्रैधातुकेष्वपी ॥
कदासौ त्रिजगन्नाथो लोकेश्वर इहाव्रजेत् ।
द्रष्टुमिच्छाम्यहं शास्तस्तं सर्वाधिपतिं प्रभुम् ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥
भूयस्तस्य जगद्भर्तुः लोकेश्स्य महात्मनः ।
सद्धर्मगुणमाहात्म्यं वक्ष्ये तच्छ्रणुतादरात् ॥
अस्मिन् द्वीपे ऽस्ति कांचन्यमयी भूमिर्मनोरमा ।
तत्रानेकसहस्राणि वसन्ति स्मामरद्विषाम् ॥
तत्रासौ त्रिजगन्नाथो लोकेश्वरो विलोकयन् ।
दुर्दन्तान् दनुजान् दुष्टान् समुद्धर्तुमुपाचरत् ॥
ददर्श तान् महादुष्टान् दशाकुशले संचरतान् ।
मदमानातिर्दर्पान्धान् क्लेशाग्नितापिताशयान् ॥
संपश्यन् करुणात्मा स मैत्रीकारुण्यचोदितः ।
पुण्यरश्मिं समुत्सृज्य प्रभासयन्नुपाचरत् ॥
तद्रश्मिपरिसंस्पृष्टाः सर्वे ते सुखतान्विताः ।
अत्यद्भुतसमाघ्रातचित्ता एवं व्यचिन्तयन् ॥
अहो कुत इयं कान्तिः प्रायातेह प्रसारिता ।
यया स्पृष्टा वयं सर्वे महत्सौख्यसमन्विताः ॥
इति चिन्तयतां तेषां स लोकेश्शो जिनात्मजः ।
पुर आचार्यरुपेण संपश्यन् समुपाचरन् ॥
तमेवं समुपायातं दृष्ट्वा सर्वे ऽपि ते ऽसुराः ।
सुप्रसन्नाः समागम्य प्रणत्वैवं बभाषिरे ॥
स्वागतं ते शिवं कश्चिद्विजयस्वात्र सद्गुरो ।
प्रविशेहासने शास्तर्यत्कार्यं तत्समादिश ॥
इति तैः प्रार्थितं श्रुत्वा समाश्रित्य स आसने ।
सर्वांस्तान् समुपासीनान् समालोक्यैवमब्रवीत् ॥
कस्येयं कान्तिरायाता यत्पृष्टे नो महत्सुखम् ।
मन्यध्वं किं भवद्भिस्तद्भुतमिह जायते ॥
इति तेनोदितं श्रुत्वा सर्वे ते दानवा अपि ।
शास्तारं तं समालोक्य प्रत्यूचुरेवमादरात् ॥
न जानीमो वयं शास्तः कस्येयं कान्तिरागता ।
तद्भवान्नः समादिश्य प्रबोधयितुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा स आचार्यो विलोक्य तान् ।
सर्वांस्तदद्भुतं प्रष्टुकामानेवमभाषत ॥
शृण्वन्तु तदहं वक्ष्ये यदियं कान्तिरागता ।
श्रुत्वा मया यथाख्यातं तथा चरितुमर्हथ ॥
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः ।
सुप्रसन्नाशया नत्वा तं गुरुमेवमब्रुवन् ॥
शास्तर्भवान् यदमाकमाचार्यो धर्मदेशकः ।
तदेतदद्भुतं जातं समुपादेष्टुमर्हति ॥
इति तैः प्रार्थ्यमानः स आचार्यस्तान् प्रसादितान् ।
सर्वान् विस्मयसंपन्नान् समालोक्यैवमादिशत् ॥
शृणुध्वमादद्यूयं सर्वं तत्र ममोदितम् ।
तदेवमद्भुतं जातं बोधयितुं प्रवक्ष्यते ॥
तद्यथा यो जगन्नाथः सर्वत्रैधातुकाधिपः ।
जगच्छास्ता जगद्भर्ता बोधिसत्त्वो जिनात्मजः ॥
महासत्त्वो महाभिज्ञ आर्यावलोकितेश्वरः ।
मैत्रीक्षमाप्रसन्नात्मा करुणामय ईश्वरः ॥
स त्रैलोकेश्वरः श्रीमान् सद्धर्मपुण्यभास्करः ।
सर्वान् सत्त्वान् समुद्धर्तुं चरते त्रिभवेष्वपि ॥
सर्वत्र स समालोक्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥
स एवं सर्वलोकेषु सर्वेषु नारकेष्वपि ।
निमग्नान् पापिनो दुष्टानपि सत्त्वान् विलोकयन् ॥
पुण्यसुधाकरैः स्पृष्ट्वा समुद्धृत्य प्रबोधयन् ॥
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥
दिने दिने स आलोक्य समुद्धृय प्रबोधयन् ।
अप्रेमेयानसंख्येयान् सत्त्वान् प्रेषयति सद्गतौ ॥
एवं कृत्वा स लोकेशोओ महत्पुण्यैः समन्वितः ।
सर्वधर्माधिपः शास्ता धर्मराजो जगत्प्रभुः ॥
बोधिसत्त्वो महासत्वः सर्वसत्त्वहितार्थभृत् ।
सर्वविद्याधिपो धीरः संबोधिज्ञानभास्करः ॥
इहापि स समागत्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम् ॥
इत्येवं स इहागन्तुं पुण्यरश्मि समुत्सृजन् ।
प्रभासयन् जगल्लोकं संचरत्वे जिनालयान् ॥
तस्य पुण्यप्रभाकान्तिरिहापीयं प्रसारिता ।
तया यूयं परिस्पृष्टा महत्सुखसमन्विताः ॥
तत्तस्य शरणं कृत्वा ध्यात्वा स्मृवापि सर्वदा ।
नामापि च समुच्चार्य नत्वा भजितुमर्हथ ॥
ये तस्य शरणं कृत्वा ध्यात्वा स्मृत्वा समादरात् ।
श्रद्धया नाम प्रोच्चार्य स्तुत्वा नत्वा भजन्त्यपि ॥
सर्वे ऽपि ते न जायन्ते दुर्गतीषु कदाचन ।
सदा सद्गतिसंजाताश्चरन्ति सर्वदा शुभे ॥
विरतमारसंचाराः सद्धर्मगुणलालसाः ।
सर्वसत्त्वहिताधानसंबोधिव्रतकामिनः ॥
त्रिरत्नभजनोत्साहाश्चतुर्ब्रह्मविहारिणः ।
भद्रश्रीगुणसंपत्तिसमुद्धाः सद्गुणारताः ॥
यावज्जीवं सुखं भुक्त्वा स्वपरात्महितोद्यताः ।
बोधिचर्याव्रतं धृत्वा संचरेरन् जगच्छुभे ॥
ततो ऽन्तःसमये तेषां लोकेश्वरः स संमुखम् ॥
उपागत्य समाश्वासं दद्यादेवं वदत्पुरः ॥
मा भैषीः कुलपुत्रात्र किंचिन्ना ते भयं क्वचित् ॥
त्रिरत्नभजनं कृत्वा सद्धर्मं यत् त्वयार्जितम् ।
न त्वं यायाः पुनः क्वापि दुर्गतिषु कदाचन ।
सदा सद्गुतिसंजाताः सद्धर्मश्रीसुखान्वितः ।
त्रिरत्नभजनं कृत्वा संचरेथाः सुसंवरे ॥
तथा यावद्भुवं लोके बोधिचर्याव्रतं चरन् ।
कृत्वा सत्त्वहितं सौख्यं भुक्त्वा प्रान्ते व्रजेद्दिवि ॥
तत्रापि त्वं महासौख्यं भुक्त्वा चरेत्सदा शुभे ॥
एवं मत्वा समाधाय स्मृत्वा रत्नत्रयं सदा ।
तिष्ठामो ऽत्र विषीद त्वं मृतो ऽपि सत्सुखं लभेः ॥
सर्वेषामपि जन्तूनां ससारे मरणं ध्रुवम् ।
त्वं सुखेनैव मुक्त्वेमं कायं दिव्यमवाप्स्यसि ॥
यावज्जीवं यथाकामं भुक्त्वा स्वर्गे ऽमरैः सह ।
ततश्चापि सुखेनैव यायादन्ते सुखावतीम् ॥
तत्र गत्वामिताभस्य त्रिशास्तुः समुपाश्रितः ।
सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥
तत्रैवं सुचिरं भुक्त्वा सद्धर्मश्रीसुखोत्सवम् ।
प्रान्ते बोधिं समासाद्य समाप्नुयाः सुनिर्वृतिम् ॥
इत्यन्ते समये तेषां लोकनाथः स संमुखम् ।
समागत्य समाश्वासं दत्वाभयं समर्पयेत् ॥
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ।
श्रुतं मया तथाख्यातं श्रुवानुमोद्य चर्यताम् ॥
एवं मत्वास्य त्रैलोकनाथस्य शरणं गताः ।
स्मृत्वा नाम समुच्चार्य ध्यात्वा भजत सर्वदा ॥
तथा वः सर्वदा भद्रं निरुत्पातं भवेद् ध्रुवम् ।
यावज्जीवं सुखं भुक्त्वा यायान्तान्ते सुरालयम् ॥
तत्रापि सुचिरं भुक्त्वा दिव्यकामं सुखोत्सवम् ।
ततो ऽन्तसमये च्युत्वा संयास्यथ सुखावतीम् ॥
तत्र गत्वामिताभस्य सर्वदा समुपस्थिताः ।
पीत्वा धर्मामृतं पुण्यं महोत्साहैश्चरिष्यथ ॥
तत्रापि सुचिरं भुक्त्वा सद्धर्मश्रीमहोत्सवम् ।
प्रान्ते संबोधिमासाद्य समवाप्स्यथ निर्वृतिम् ।
इति तेन समादिष्टं श्रुत्वा सर्वै ऽपि ते ऽसुराः ।
तथेति प्रतिविज्ञाप्य प्रबोधिताश्चैवमब्रुवन् ॥
शास्तस्तथा करिष्यामः यथादिष्टं त्वयाधुना ।
अद्यारभ्य सदा तस्य नाथस्य शरणं गताः ॥
स्मृत्वा ध्यात्वा समुच्चार्य नामापि प्रभजामहे ।
तदस्माकं हितार्थेन भवांस्तस्य जगत्प्रभोः ॥
व्रतस्यापि विधानं च समुपादेष्टुमर्हति ।
इति तैः प्रार्थितं श्रुत्वा स आचार्यो ऽप्रबोधितान् ।
सर्वांस्तान् दानवान् दृष्ट्वा पुनरेवमुपादिशत् ।
शृणुध्वमस्य वक्ष्यामि व्रतविधिं समासतः ॥
आदौ तीर्थे जले स्नात्वा शुद्धशीला जिनेन्द्रियाः ।
ब्रह्मविहारिणो भूत्वा चरित्वा पोषधं व्रतम् ।
त्रिरत्नशरणं गत्वा ध्यात्वा तं सुगतात्मजम् ।
लोकेश्वरं समावाह्य समभ्यर्च्य यथाविधि ।
जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् ।
जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् ।
अष्टांगै प्रणतिं कृवा स्मृत्वा चापि समादरात् ॥
नामानि च समुच्चार्य दृष्ट्वा श्रुत्वापि तद्गुणान् ।
प्रशंसामपि भाषित्वा प्रकाशित्वा च सर्वतः ॥
सत्कृत्य श्रद्धया सर्वैरुपकणवस्तुभिः ।
यथाशक्ति समभ्यर्च्य वन्दित्वा भजताभवम् ।
एवं नित्यं समाधाय चतुस्संध्यं दिने दिने ।
यथाशक्ति भजध्वं तं ध्यात्वा स्मृत्वापि भावतः ॥
प्रत्यहमेकवारं वा मासे मासे ऽपि वा सिते ।
अष्टम्यां पूर्णमास्यां वा भजध्वं सर्वदा तथा ॥
एवं विधाय सर्वे ऽपि यूयमेतद् गुणान्विताः ।
यथोक्तं तत्fअलं प्राप्य नूनं यास्यथ निर्वृतिम् ॥
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः ।
प्रबोधिताः प्रमोदन्तस्तथा चरितुमिच्छिरे ॥
ततस्ते दानवास्सर्वे दुर्दान्ता मदमानिनः ।
अप्येतत्पुण्यसत्सौख्यप्रकाममुदिताशयाः ॥
शुद्धशीलाः प्रसन्नाश्च सद्धर्मगुणलालसाः ।
विरतोपायसंचाराश्चतुर्ब्रह्म्विहारिणः ॥
तेन शास्त्रा यथादिष्टं तथाधाय समादरात् ।
तस्य त्रैलोकनाथस्य प्रकृत्वा शरणं मुदा ॥
ध्यात्वा स्मृत्वा सदा नाम समुच्चार्य यथाविधि ।
पोषधं च व्रतं धृत्वा प्राचरन्त समाहिताः ॥
यथाशक्ति समभ्यर्च्य सर्वोपकणैरपि ।
कृत्वा प्रदक्षिणान्येव कृत्वा च प्रणतिं मुहुः ।
अष्टांगैश्चापि वन्दित्वा प्रभजन्तः समाचरन् ॥
एवं ते दानवाः सर्वे शान्तचर्या जितेन्द्रियाः ।
शुद्धशीलाः शुभाचाराश्चतर्ब्रविहारिणः ॥
परस्परं हितं कृत्वा सद्धर्मगुणभाषिणः ।
बोधिचर्याव्रतारक्ता बभूवुर्बोधिभागिनः ॥
एवं तान् दानवान् सर्वानाचार्यः स प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य समामन्त्र्य ततो ऽचरत् ॥
ततः सो ऽन्तर्हितः खे स्थः प्रभासयन् समन्ततः ।
धृत्वा लोकेश्वरो मूर्तिं सर्वांस्तान् समदर्शयत् ॥
तमाकाशे प्रभासन्तं लोकेश्वरं जिनात्मजम् ।
दृष्ट्वा ते दानवास्सर्वे बभूवुर्विस्मयान्विताः ॥
तत्र ते प्रणतिं कृत्वा गत्वा तं शरणं मुदा ।
जपस्तोत्रादिभिः स्तुत्वा वन्दित्वा प्रावदंस्तथा ॥
नमस्ते भगवन्नाथ सदा ते शरणं स्थिताः ।
बोधिचर्याव्रतं धृत्वा चराम तत्प्रसीदतु ॥
यदस्मदपराधं तत् क्षन्तव्यं भवता सदा ।
एवमस्मान् समालोक्य संपालयितुमर्हति ॥
इत्येवं ते ऽसुराः सर्वे प्रार्थयित्वा समादरात् ।
अष्टांगैरपि तं नत्वा पश्यन्त एव तस्थिरे ॥
ततः स त्रिजगन्नाथो दत्वा तेभ्यो जयाशिषम् ।
ततश्चान्तर्हितो ऽयत्र सत्त्वानुद्धर्तुमाचरत् ॥
ततस्ते दानवाः सर्वे भूयो ऽतिधर्मलालसाः ।
त्रिरत्नभजनं कृत्वा संप्रचेरुः सदा शुभे ॥
एवं स त्रिजगन्नाथो नानारुपेण बोधयन् ।
दुर्दान्तानपि सद्धर्मे नियोजयति यत्नतः ॥
तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
इत्यसौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः ।
सर्वज्ञैः सुगतैः सर्वैः प्रशंसितः सदादरात् ॥
इति तस्य जगल्लोकैः पुण्यमाहात्म्यसत्कथाम् ।
श्रुत्वानुमोदनां कृत्वा प्रशंस्य ते समन्ततः ॥
इति मत्वा सदा तस्य लोकेशस्य जगत्प्रभोः ।
श्रद्धया शरणे स्थित्वा भक्तव्यं सः सुखार्थिभिः ॥
इत्येवं शिखिनाख्यातं संबुद्धेन मया श्रुतम् ।
तथात्र वः समाख्यातं श्रुत्वानुप्रतिबुध्यताम् ॥
एवं मत्वास्य माहात्म्यं सद्धर्मगुणवांछिभिः ।
कर्तुव्याः सर्वदा भक्त्या ध्यात्वा स्मृत्वापि भावतः ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि भावतः ।
नामापि च समुच्चार्य भजन्ति सर्वदा मुदा ।
ते सर्वे विमलात्मानः संबुद्धश्रीगुणाकराः ॥
बोधिसत्त्वा महासत्वा भविष्यन्ति जिनात्मजाः ।
इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते ॥
विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति दुर्दान्तदानवप्रबोधन बोधिचर्यावतारणप्रकरणम् ॥
7. अधोमुख सत्त्वोद्धारण प्रकरणम्
अथासौ भगवांच्छास्ता श्रीघनस्त्रिजगद्गुरुः ।
विष्कम्भिनं महासत्त्वं संपश्यंश्चैवमब्रवीत् ॥
भूयो ऽपि कुलपुत्रास्य लोकेशस्य महद्गुणम् ।
श्रुतं मया तथा वक्ष्ये तच्छृणुत समादरात् ॥
तद्यथाभुत् पुरा शास्ता तथागतो मुनीश्वरः ।
सर्वज्ञो ऽर्हन्महाभिज्ञो धर्मराजो विनायकः ॥
सर्वधर्माधिपो नाथः सर्वविद्याधिपेश्वरः ।
विश्वभूर्नाम् संबुद्धो भगवान् सुगतो जिनः ॥
तदाहं कुलपुत्रासं क्षान्तिवादीति विश्रुतः ।
महर्षिस्तापसो धीमान् संयमी विजितेन्द्रियः ॥
गिरिगुहां समाश्रित्य संबोधिधर्मसाधकः ।
व्यहरन् सत्त्वहितं कृत्वा चतुर्ब्रह्मविहारिकः ॥
तदाप्यस्य जगच्छास्तुर्लोकेशस्य महत्तरम् ।
गुणप्रभावमाख्यातं विश्वभुवा श्रुतं मया ॥
तद्यथासौ जगच्छास्ता विश्वर्भूभगवान् जिनः ।
तद्वनोपाश्रमे रम्ये विजहार ससांघिकः ॥
तदा स भगवांस्तत्र सर्वलोकसभाश्रितः ।
सद्धर्मं समुपादिश्य सत्त्वान् बोधौ व्यनोदयन् ॥
यदैकसमये तत्र भगवान् स मुनीश्वरः ।
आर्यधर्ममुपादेष्टुं सभासने समाश्रयत् ॥
तदा तत्र महान् रश्मिरवभास्य समन्ततः ।
सर्वत्र मंगलं कृत्वाह्लादयन्ती समासरत् ॥
तद्रश्मिसंपरिस्पृष्टाः सर्वसत्त्वाः सुखान्विताः ।
तदद्भुतं समालोक्य विस्मयं समुपाययुः ॥
तदा गगनगंजाख्यो बोधिसत्त्वो महामतिः ।
सर्वांस्तान् विस्मयापन्नान् लोकान् पश्यन् समुत्थितः ॥
उद्वहन्नुत्तरासंगं सांजलिः पुरतो ऽग्रतः ।
विश्वभुवं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥
भगवन् पुण्यप्रभाकान्तिः कस्य हेयं समागता ।
यया स्पृष्टा इमे लोका महत्सुखसमन्विताः ॥
विस्मितास्तत्समालोक्य भगवन्तं मुनीश्वरम् ।
तद्धेतुं श्रोतुमिच्छन्तः सर्वे तस्थुः समाहिताः ॥
तेदषां हदयान्तःस्थं महदद्भुतकौतुकम् ।
विनोदितुमिमं हेतुं कस्येति तदुपादिश ॥
इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः ।
विलोक्य तं महासत्त्वं गगनगंजमब्रवीत् ॥
शृणु त्वं कुलपुत्रात्र यदिदं कान्तिरागता ।
तदहं संप्रवक्ष्यामि श्रुत्वेदमनुमोदत ॥
या कांचनमयीः भूमिर्जम्बुद्विपे ऽत्र विद्यते ।
तस्यामधोमुखाः सत्वा निवसन्त्यप्रमोयिकाः ॥
तान् सर्वान् पापिनो दुष्टान् पश्यन् स सुगतात्मजः ।
लोकेश्वरः समद्धर्त्तुं सुखावत्या इहागतः ॥
तेषां पापविशोधार्थं पुण्यरश्मिं समुत्सृजन् ।
भासयन् स जगल्लोकांस्तत्र याति कृपानिधिः ॥
तत्प्रभापरिसंस्पृष्टाः सर्वे ते सत्सुखान्विताः ।
किमेतदिति संविक्ष्य तिष्ठन्ति विस्मिताशयाः ॥
तदा तत्र स लोकेश ऋषिरुपेण भासयन् ।
सर्वानधोमुखान् सत्त्वानुपैति तान् विलोकयन् ।
तमृषिं संप्रभासन्तं समायातं विलोक्य ते ॥
सर्वे ऽप्यधोमुखाः सत्त्वाः समुपायान्ति संमुखम् ।
तत्र सर्वे ऽपि ते सत्त्वाः प्रणत्वा तं मुनिं मुदा ॥
श्रद्धासने प्रतिष्ठाप्य प्रार्थयन्त्येवमादरात् ।
महर्षे यदिहायासि तदस्मद्भाग्ययोगतः ॥
तद्भवान् कृपयास्माकं दैवमाख्यातुमर्हति ।
किं कर्म पातकं घोरमस्माभिः प्रकृतं पुरा ॥
येनास्मो ऽधोमुखा सर्वे वयं जाता इहेदृशाः ॥
इति तैः प्रार्थितं श्रुत्वा स महर्षिर्विलोक्य तान् ।
सर्वानधोमुखान् सत्त्वान् समादिशति बोधयन् ॥
शृणुश्वं यत्पुरा कर्म युष्माभिः प्रकृतं यथा ।
तत्समुपदिशाम्यत्र श्रुत्वा तत्परिबुध्यताम् ॥
यत्त्रिरन्तं प्रतिक्षिप्य मदेर्ष्यामानगर्विताः ।
अदृश्यमिति भाषन्तो चरन्नधोमुखाः पुरा ॥
तेनैतद्दैवयोगेन यूयं सर्वे ऽप्यधोमुखाः ।
दुःखानि विविधान्यत्र भुक्त्वा वसथ साम्प्रतम् ॥
तदत्र श्रद्धया यूयं त्रिरत्नशरणं गताः ।
ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजतादरात् ॥
पोषधं च व्रतं धृत्वा चतुर्ब्रह्मविहारिणः ।
स्वपरात्महितं कृत्वा संचरध्वं सदा शुभे ॥
ततः संबोधिचित्तेन धृत्वा बोधिव्रतं सदा ।
त्रिरत्नभजनोत्साहैः संचरध्वं जगद्धिते ॥
ततो यूयं विकल्मषाः परिशुद्धत्रिमण्डलाः ।
निःक्लेशा बोधिमासाद्य निर्वृतिसुखमाप्स्यथ ॥
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते मुदा ।
तस्य पादौ पुनर्नत्वा पुरःस्थित्वैवमब्रुवन् ॥
नाथो ऽसि त्वं जगल्लोके सद्धर्मसुखसंभरः ।
आश्वासय तदस्माकमन्धानां पापचारिणाम् ॥
तमो ऽभिभूतदृष्टीनां प्रणष्टपथचारिणम् ।
अनाथानाममित्राणां दीनानां मूढचेतसाम् ॥
त्राणशरण्यशून्यानां मन्दानां दुःखभागिनाम् ।
धर्मदीपं समुज्ज्वाल्य दर्शय निर्वृतेः पथः ॥
दत्वा सत्सुखसम्पत्तिर्न्नाथो भव शुभार्थभृत् ।
दत्वा पुण्यार्जनोपायं सन्मित्रो भव सन्मतिः ॥
दुर्गतितरणोपायं प्रदत्वा भवसद्गतिः ।
सद्गतिगमनोपायं दत्वा शास्त्वा गुरुर्भव ॥
निर्वार्य पापसंगेभ्यस्त्राता क्लेशापहो भव ।
दुर्वृत्तिक्लेशसंतापं हत्वा भवशरण्यकः ॥
सद्धर्मसाधनोत्साहं दत्वा भव विनायकः ।
सद्गुणसुखसंपत्तीर्दत्वा भव सुहत्प्रभुः ॥
सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे ।
विमुक्तिसाधनोपायं दत्वा प्रेषय निर्वृतिम् ॥
धन्यास्ते सुखिता येते सततं शरणे स्थित्वा ।
स्मृत्वा नाम समुच्चार्य ध्यात्वा भजन्ति सर्वदा ॥
ईदृग्दुःखं न ते क्वापि यास्यन्ति भवचारणे ।
यादृग्वयमिदं दुःखमनुभावामहे सदा ॥
ते सद्भाग्या महासत्त्वा ये सदा ते उपस्थिताः ।
आदिमध्यान्तकल्याणं धर्मं श्रुत्वा चरन्ति वै ॥
वयमपि तथा सर्वे सदा ते शरणे स्थिताः ।
धर्मं श्रुत्वा सुकल्याणमिच्छामश्चरितुं व्रतम् ॥
तत्प्रसीद महर्षे त्वमस्माकं सद्गुरुर्भव ।
सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे ॥
इति तैः प्रार्थितं श्रुत्वा स महर्षिः प्रसादितान् ।
तान् सर्वान समुपामन्त्र्य समालोक्यैवमादिशत् ॥
शृणुध्वं सादरं यूयं सदा भग्रं यदीच्छथ ।
हितार्थं वः प्रवक्ष्यामि सद्धर्मबोधिसाधनम् ॥
इत्यादिश्य स कारण्डव्यूहसूत्रं सुभाषितम् ।
उच्चार्य श्रावयन् बोधिचर्यायां योजयत्यपि ॥
ततस्ते पुरेषाः सर्वे सद्धर्मसाधनोद्यताः ।
त्रिरत्नभजनं कृत्वा संचरन्ते सुसंवरे ॥
ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः ।
बोधिचर्याव्रतं धॄत्वा संचरन्ते जगद्धिते ॥
सर्वे ऽपि ते महासत्त्वा बोधिसत्त्वा महर्द्धिकाः ।
परमसुखाभर्तारो भवन्त्यप्यनिवर्तिनः ॥
एवं स त्रिजगन्नाथ ऋषिरुपेण बोधयन् ।
सर्वान्स्तान बोधिचर्यायां नियुज्य चारयत्यपि ॥
एवं तान् बोधिमार्गे ऽसौ महर्षिः सर्वान्नियुज्य च ।
ततो ऽन्तर्हित आकाशे याति वह्निरिवोज्ज्वलन् ॥
तमाकाशगतं दृष्ट्वा सर्वे ते ऽप्यतिविस्मिताः ।
प्रणत्वा चानुशंसतः संचरन्ते समादरात् ॥
तस्य लोकेश्वरस्येयं पुण्यकान्तिः शुभा प्रभोः ।
अवभास्य जगल्लोकमिहापि संप्रसारिता ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वसत्त्वहितं कृत्वा प्रचरन्ति समन्ततः ॥
तेन तस्य महत्पुण्यस्कन्धं बहुसमुत्तमम् ।
अप्रमेयमसंख्येयं इत्यादिष्टं मुनीश्वरैः ॥
एवं विज्ञाय सर्वे ऽस्य लोकेशस्य सदादरात् ।
स्मॄत्वा ध्यात्वा समुच्चार्य नामापि भक्तुमर्हथ ॥
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वापि सर्वदा ।
नामापि च समुच्चार्य भजन्ति श्रद्धया मुदा ॥
दुर्गतिं ते न गच्छन्ति संजातास्सद्गतौ सदा ।
धर्मश्रीगुणसंपत्तिर्भुक्त्वा यान्ति सुखावतीम् ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
इत्येवं लोकनाथस्य पुण्यप्रभावमुत्तमम् ।
विश्वभुवा मुनीन्द्रेण समादिष्टं मया श्रुतम् ॥
एवं सुकृतमाहात्म्यं लोकेश्वरस्य सद्गुरोः ।
विज्ञाय शरणं गत्वा भजन्तु बोधिवांछिन ॥
ये तस्य शरणं गत्वा भजन्ति श्रद्धया सदा ।
सद्धर्मगुणसौख्यं भुक्त्वा यायुः सुखावतीम् ॥
तत्र गत्वामिताभस्य सद्धर्मामृतमुत्तमम् ॥
पीत्वा संबोधिमासाद्य प्रान्ते यायुः सुनिर्वृतिम् ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इत्यधोमुखसत्त्वोद्धरप्रकरणम् ॥
8. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम्
अथासौ भगवांश्छास्ता शाक्यमुनिरीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं तमादिशत् ॥
शृणु च कुलपुत्रास्य लोकेश्चरस्य सद्गुरोः ।
सद्धर्मगुणमाहात्म्यं श्रुतं मया तद्च्यते ॥
तदा गगनगंजो ऽसौ भगवन्तं मुनीश्वरम् ।
विश्वभुवं तमानम्य पुनरेवमपृच्छत ॥
भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः ।
पुनः सत्त्वान् समुद्धर्तुं कुत्रान्यत्राभिगत्छति ॥
पुनस्तच्छ्रोमिच्छामि यदन्यत्र स संसरन् ॥
सत्त्वान् पश्यन् समुद्धृत्य धर्मे युनक्ति तदादिश ॥
इति तेनोदितं श्रुत्वा भगवन् स मुनीश्वरः ।
गगनगंजमालोक्य तं पुनरेवमादिशत् ॥
शृणुष्व कुलपुत्रास्य लोकेशस्य जगत्प्रभोः ।
वक्ष्ये सद्गुणमाहात्म्यं श्रोतुं त्वं च यदीच्छसि ॥
तद्यथासौ महासत्त्वो लोकेश्वरो जिनात्मजः ।
ततो रुपमयीं भूमीं गच्छति संप्रभासयन् ॥
तत्र सत्त्वान् मनुष्यान् गांश्चतुष्पादान् विलोक्य सः ।
लोकेश्वरो दिव्यरुपः समुपासृत्य तिष्ठति ॥
तं दिव्यरुपमालोक्य सर्वे ते विस्मयान्विताः ।
पुरतः समुपाश्रित्य नत्वैवं प्रार्थयन् मुदा ॥
अहोभाग्यं तदस्माकं यद्भवानिह दृश्यते ।
तदस्माम् कृपयालोक्य समुद्धर्त्तुमिहार्हति ॥
इति तैः प्रार्थ्यमानो ऽसौ लोकेश्वरः कृपात्मकः ।
तान् सर्वान् समुपामन्त्र्य समालोक्यैवमादिशत् ॥
भगवन्तो ऽत्र समाधाय शृणुध्वं यूयमादरात् ।
वक्ष्यामि यन्महत्सिद्धं धर्मनिर्वृतिसाधनम् ॥
तद्यथा यज्जगच्छ्रेष्ठं त्रिरत्नं भद्रकारकम् ।
तत्स्मृत्वा शरणं गत्वा भजध्वं सर्वदादरात् ॥
ये तेषां शरणं गत्वा न ते गछन्ति दुर्गतिम् ।
सदा सद्गतिसंजाताश्चरन्ति बोधिसंवरे ॥
एतत्पुण्यानुभावेन सर्वे ते पुरुषोत्तमाः ।
बोधिसत्त्वा महासत्त्वाः संचरेवं जगद्धिते ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
सर्वसत्त्वहितं कृत्वा संयास्यन्ति सुखावतीम् ॥
तत्र गत्वामिताभस्य जितेन्द्रस्य सभाश्रिताः ।
सद्धर्मामृतमाभुज्य संरमेयुर्यहोत्सवैः ॥
एवं ते सुचिरं तत्र भुक्त्वा सौख्यं शुभोत्सवम् ।
ततो ऽन्ते त्रिविधां बोधिं प्राप्य यास्यन्ति निर्वृतिम् ॥
एवं मत्वा त्रिरत्नानां श्रद्धया शरणे स्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य्य नामापि भजतादरात् ॥
तदैतत्पुण्यलिप्तांगाः शुद्धाशया जितेन्द्रियाः ।
निःक्लेशा विमलात्मानो बोधिसत्त्वा भविष्यथ ॥
ततः सत्त्वहितार्थेन बोधिचर्याव्रतोद्यताः ।
सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामॄतं सदा ।
सद्धर्ममंगलोत्साहै रमिष्यथ सुसंवरे ॥
एवं तत्र चिरं भुक्त्वा सौख्यं भद्रमहोत्सवम् ।
प्रान्ते संबोधिमासाद्य समाप्स्यथ सुनिर्वृतिम् ॥
एवं मत्वा सदा बुद्धरत्नस्य शरणं गताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भगतदरात् ॥
धर्मरत्नस्य माहात्म्यं श्रुत्वापि शरणे स्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भजतादरात् ॥
एवं च संघरत्नानां सत्कारैः समुपस्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भवताभवम् ॥
एतत्पुण्यं महत्ख्यातमसंख्येयं बहूत्तमम् ।
अप्रमेयं समाख्यातं सर्वैरपि मुनीश्वरैः ॥
एवं मत्वा त्रिरत्नानां शरणे समुपस्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि सेव्यताभवम् ॥
एतत्पुण्यानुभावेन यूयं सर्वे विकल्मषाः ।
निःक्लेशा निर्मलात्मानः संयास्यथ सुखावतीम् ॥
तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिता ।
सदा धर्मामृतं पीत्वा रमिष्यथ शुभोत्सवैः ॥
एवं तत्र चिरं भुक्त्वा महानन्दमयं सुखम् ।
प्रान्ते सम्बोधिमासाद्य संयास्यथ सुनिर्वृतिम् ॥
इति तेनोदितं श्रुत्वा सर्वे ते पुरुषा मुदा ।
तथेति प्रतिसंश्रुत्व वदन्त्येवं च मोदिताः ॥
मार्ष भवति नो ऽन्धानां सन्माअर्गमुपदर्शकः ।
अत्राणानामपि त्राणं शरण्यं शरणार्थिनाम् ॥
अनाथानां पिता माता नाथश्चेष्टः सुहृत्पतिः ।
अगतीनां गतिश्चापि मित्रश्च व्यसनापहृत् ॥
तमःप्रणष्टमार्गाणां महादीपो भवानपि ।
मूर्खानां च प्रमत्तानां शास्ता सद्धर्मदेश्कः ॥
तद्वयं सर्वदा सर्वे भवतां शरणे स्थिताः ।
आज्ञां धृत्वा शुभे धर्मे संचरिष्यामहे ध्रुवम् ॥
सुखितास्ते माहाभागा ये भवच्छरणे स्थिताः ।
त्रिरत्नभजनं कृत्वा संचरन्ते शुभे सदा ॥
न तेषामिदृशं दुःखं भविष्यति कदाचन ।
यादृगिदं महट्कष्टमनुभावमहे भवे ॥
तद्भवान् कृपयास्माकं निर्वृतिसुखसाधनम् ।
सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा बोधिसत्त्वः स सर्ववित् ।
तान् प्रबोधितान् सर्वान् वदत्येवं विलोकयन् ॥
नाहं सदात्र तिष्ठेयं कार्याणि हि बहूनि मे ।
तन्मयात्र यथाख्यातं धृत्वा चरत सर्वदा ॥
इत्युक्त्वा स महाभिज्ञस्तेषां संबोधिसधनम् ।
समादिशति कारण्डव्यूहसूत्रं सुभाषितम् ॥
तत्सर्वेषां महायानसूत्राणां प्रवरोत्तमम् ।
श्रुत्वा ते पुरेषाः सर्वे प्राभिनन्दन्ति बोधिताः ॥
ततस्ते पुरुषाः सर्वे धृत्वा तत्सूत्रमादरात् ।
त्रिरत्नभजनं कृत्वा संचरन्ते शुभे मुदा ॥
एतत्पुण्यानुभावेन सर्वे ते विमलाशयाः ।
बोधिसत्त्वा महासत्त्वा भवन्ति ब्रह्मचारिणः ॥
बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते ।
सद्धर्मचरणे युक्ता भवन्त्यप्यनिवर्तिनः ॥
एवं ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः ।
स्वपरात्महितोत्साहैः संचरन्ते महासुखम् ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वांस्तान् पुरुषान् धर्मे नियोजयति बोधयन् ॥
ततो ऽन्यत्र स लोकेशः सत्त्वानुद्धर्त्तुमुत्सुकः ।
अन्तर्हितो ज्वलदग्निरिवाकाशेन गच्छति ॥
एवं कृत्वा महत्पुण्यस्कन्धं तस्य जगत्प्रभोः ।
अप्रमेयमसंख्येयं समाख्यातं मुनीश्वरैः ॥
इति मत्वा सदा तस्य शरणे समुपस्थिताः ।
स्मृता नामापि चोच्चार्य ध्यात्वापि भजताभवम् ॥
ये तस्य शरणे स्थित्वा श्रद्धया समुपस्थिताः ।
स्मृत्वा ध्यात्वापि नामापि समुच्चाअर्य भजन्ति वै ॥
दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे ।
सदा सद्गतिसंजाता भवन्ति धर्मचारिणः ॥
धर्मश्रीगुणसत्सौख्यं भुक्त्वा यान्ति सुखावतीम् ।
तत्र गत्वामिताभस्य शरणे समुपाश्रिताः ॥
सदा धर्मामृतं पीत्वा स्वपरात्महितोद्यताः ।
महानन्दसुखोत्साहैस्संरमन्ते यथासुखम् ॥
तत्रैव सुचिरं भुक्त्वा प्रचरन्तो जगद्धिते ।
प्रान्ते बोधिं समासाद्य निर्वृतिपदमाप्नुयुः ॥
इति सत्यं परिज्ञाय यूयं बोधिं यदीच्छथ ।
तल्लोकेशं महाभिज्ञं भजध्वं सर्वदा भवे ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः ।
गगनगंज औत्सुक्यं प्राभ्यनन्दत् समार्षदः ॥
इत्येवं समुपादिष्टं विश्वभुवा श्रुतं मया ।
यूयमपि तथा तस्य सर्वदा भजतादरात् ॥
यूयमपि तथा सौख्यं भुक्त्वा सदा शुभारताः ।
बोधिश्रीगुणसंपन्नाः गमिष्यथ जिनालयम् ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वसांघिका लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति रुपमयीभूमिचतुष्पादरुषोद्धारणप्रकरणम् ॥
9. बलि संबोधन बोधिमार्गावतारण प्रकरणम्
अथ सर्वनीवरणविष्कम्भी सो ऽभिनन्दितः ।
भूयस्तं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥
भगवछ्रोतुमिच्छामि भूयो ऽप्यस्य जगत्प्रभोः ।
सद्धर्मगुणमाहात्म्यं तेन श्रुत्वा स भगवान् पुनः ।
विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥
ततो ऽसौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सत्त्वान् पश्यन् समुद्धर्तुं पाताले समुपाचरत् ॥
तत्र चायोमयी भूमी रसतले सुरालया ।
तत्रापि स महाभिज्ञो भासयन् समुपाचरत् ॥
यत्र राजा बलिर्नाम सर्वदैत्याधिपो ऽपि यः ।
बद्धः स वामनः सान्तःपुर जनो ऽधितिष्ठति ॥
दुर्दान्तं तं महावीर्यं त्रैलोकातिभयंकरम् ।
समुद्धर्तुं समालोक्य तत्राविशत् स भासयन् ॥
तत्र स रश्मिमुत्सृज्य सर्वत्र संप्रभासयन् ।
शनैश्चरन् समालोक्य बलेः सद उपाचरत् ॥
तत्र तं समुपायातं सुवर्णबिम्बमिवोज्ज्वलम् ।
दुरतः स बलिर्दृष्ट्वा निधायैवं व्यचिन्तयत् ॥
को ऽयमत्र समायातो दिव्यकान्तिः प्रभसयन् ।
महेश्वरो ऽथवा सूर्यश्चन्द्रो वापि हुताशनः ॥
को ऽन्य ईदृक्प्रभाश्रीमान् देवो वा दानवो ऽपि वा ।
गन्धर्वो किन्नरो वापि नागो वा गरुडो ऽपि वा ॥
ईदृग्महर्द्धिकः श्रीमान्नास्ति त्रैधातुकेष्वपि ॥
बोधिसत्त्वो ऽथवार्हन् वा मुनीन्द्रो वा समागतः ॥
इत्येवं चिन्तयन् द्रष्टुं स वामनासुरैः सह ।
सर्वपरिजनैश्चासौ बलिस्तं समुपाचरत् ॥
पश्यन्तं स बली राजा समीक्ष्यैनं जिनात्मजम् ।
लोकेश्वरं महासत्त्वं विज्ञाय संप्रमोदितः ॥
सहसा समुपासृत्य कृतांजलिपुटो मुदा ।
तस्य पादाम्बुजे नत्वा संपश्यन्नेवमब्रवीत् ॥
अद्य मे सfअलं जन्म भवत्संदर्शनोद्भोवे ।
अधुना प्रणिधानं च संसिध्यते मनोरथम् ॥
अस्य मे शुध्यते ऽप्यात्मा मुच्यते सर्वपापतः ।
मुक्तो ऽस्मि बन्धनादद्य प्राप्तवान् सुगतेः पथः ॥
यद्भवान् स्वयमालोक्य मामुद्धर्तुमिहागतः ।
संदृश्यते मय ह्यद्य तन्मे पुण्यविपाकतः ॥
भवन्तं ये ऽपि पश्यन्ति पुण्यवन्तो नरा हि ते ।
भवन्ति श्रीसुखापन्नाः सर्वक्लेशविवर्जिताः ।
ते सत्त्वाः सुखिनो लोके परिशुद्ध विकल्मषाः ॥
भवचारणमुक्ता ये दृश्यन्ते भवतो भवे ।
भवतां दर्शनेनैवं मुक्तो ऽस्मि भवबन्धनात् ।
क्लेशादयः पलायन्ते गरुडस्येव पन्नगाः ।
भवानेव जगन्नाथः शास्ता सद्धर्मदेशकः ।
त्राता भर्ता शरण्ये ऽपि नास्त्यन्यो मे सुहृद्गतिः ॥
तद्भवान् कृपयालोक्य मामुद्धृत्य भवोदधेः ।
सन्मार्गे संप्रतिस्थाप्य संपालयितुमर्हति ॥
इति संप्रार्थ्य दैत्येन्द्रः स बलिः सांजलिः पुनः ।
प्रणत्वा तं जगन्नाथं सादरात् स्वपुरे ऽनयत् ॥
तत्र तं स्वपुरे नीत्वा महोत्सवैः प्रमोदनैः ।
अन्तःपुरे सुभास्वर्णरत्नपीठे न्यवेशयत् ॥
तत्र तं संप्रतिष्ठाप्य राजा संमोदितो बलिः ।
सान्तःपुरजनैः सार्धं यथाविधि समर्चर्यत् ॥
महद्राअजर्द्धिसत्कारैः सत्कृत्य प्रभजन् मुदा ।
पादाब्जे प्रणतिं कृत्वा प्रार्थयदेवमादरात् ॥
भगवंस्त्रैधातुनाथो ऽसि यदत्र स्वयमागतः ।
तदस्मान् कृत्पयालोक्य सर्वान् संत्रातुमर्हसि ॥
त्राता न विद्यते ऽस्माकं दशाकुलचारिणाम् ।
जरामरणभीतानां क्लेशाग्निदहितात्मनाम् ॥
भवाब्धश्रमखिन्नानां नित्यमुद्विग्नचेतसाम् ।
अनाथानामबन्धूनां भव माता पिता सुहृत् ॥
एषां बन्धनबद्धानां जात्यन्धानां दुरात्मनाम् ।
मूढानां च शुचित्तानां भव क्लेशापहो गतिः ॥
नाथो भव जगन्नाथः शास्ता सद्धर्मदेशकः ।
शरण्यं सद्गुरुर्मित्रं त्राता भर्ता हितार्थभृत् ॥
यथा भवान् जगल्लोकं निवार्य पापमार्गतः ।
धर्ममार्गे प्रतिष्ठाप्य पालयति विलोकयन् ॥
तथास्मानपि पापिष्ठान्निवार्य पापपद्धतेः ।
नियुज्य सहसे पश्यन् पालयितुं सदार्हसि ॥
कृपयास्मान् दुरासक्तान् समुद्दृत्य भवोदधेः ।
संबोधिसाधने धर्मे नियोजयतु बोधयन् ॥
इति संप्रार्थितं तेन बलिना भद्रवांछिना ।
श्रुत्वा लोकेश्वरश्चैनं बलिं दृष्ट्वैवमादिशत् ॥
साधु शृणु समाधाय दैत्याधिप समादरात् ।
हितार्थं ते प्रवक्ष्यामि यद्धर्मं बोधिसाधनम् ॥
संसारे सर्वदा भद्रं सौख्यं भोक्तुं यदीच्छसि ।
त्रिरत्नस्मरणं कृत्वा भज नित्यं समाहितः ॥
त्रिरत्नशरणं कृत्वा ये भजन्ति सदा भवे ।
दुर्गतिपरिमुक्तास्ते गछन्ति सद्गतिं सदा ॥
सद्गतावेव संजाताः सद्धर्मसाधनोद्यताः ।
पुण्यश्रीगुणसत्सौख्यं भुक्त्वा यान्ति जिनालयम् ॥
त्रिरत्नभजनोत्पन्नं पुण्यfअलं महद्बहु ।
अप्रमेयसंख्येयं संबोधिज्ञानसाधनम् ॥
एवं विज्ञाय दैत्येन्द्र संबोधिं यदि वांछसि ।
धर्मधातुं समभ्यत्च्य भज नित्यं समाहितः ॥
धर्मधातुं समभ्यर्च्य ये भजन्ति सदादरात् ।
विमुक्तपातकाः सर्वे गच्छन्ति ते जिनालयम् ॥
सद्धर्मान् च सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् ।
अभ्यर्च्य शरणं कृत्वा भज नित्यं समाहितः ॥
सद्धर्मं ये सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् ।
गत्वा शरणमभ्यर्च्य भजन्ति संप्रमोदिताः ॥
ते सर्वे क्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः ।
बोधिसत्त्वा महाभिज्ञाः संयान्ति सुगतालयम् ॥
संघरत्नानि ये ऽभ्यर्च्य श्रद्धया शरणं गताः ।
सत्कारैः समुपस्थाय भजन्ति सर्वदा मुदा ॥
ते ऽपि क्लेशविनिर्मुक्ताः शुद्धाशयाः शुभोद्यताः ।
महासत्त्वाः शुभोत्साहं भुक्त्वा यान्ति सुखावतीम् ॥
श्रद्धया यो ऽर्हते पिण्षपात्रामेकं प्रयच्छति ।
तस्य पुण्यमसंख्येयमप्रमेयं जगुर्जिनाः ॥
सर्वेषामपि पुण्यानां शक्यते मया ।
एतत्पुण्यप्रमानं तु शक्यते न जिनैरपी ॥
सर्वत्रैधातुकोत्पन्नाः सत्त्वाश्चेत्सुगतात्मजाः ।
ते ऽप्येतत्पुण्यसंख्यानां प्रमातुं नैव शक्नुयुः ॥
प्रागेवाहमिहैको ऽस्मिन् तत्कथं शक्नुयामिदम् ।
पुण्यस्कन्धं समाख्यातुं यन्न शक्यं जिनैरपि ॥
चूर्णीकृत्य महीं सर्वां कृत्वा चानुरजोमयम् ।
तत्सर्वं गणितुं शक्यं सर्वैबुद्धर्मयापि च ।
नतु त्रिरत्नसत्कारे पुण्यस्कन्धं कदाचन ।
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0