भाषा

ENहिગુ
ग्रंथ पाठ

गुणकारण्डव्यूहसूत्र · भाग 2140

ततश्चासौ महासत्त्वो दृष्ट्वा तान् जलतोषितान् ।
भूयो ऽपि करुणात्मा तैस्तोषयितुं समीहते ॥
तत्र स करुणासिन्धुर्मेघानुत्थाप्य सर्वतः ।
प्रणीतसुरसाहारा संप्रवर्षयते ऽनिशम् ॥
तान् दिव्यसुरसाहारान् प्रवर्षितान् समन्ततः ।
दृष्ट्वा ते प्रेतिकाः सर्वे सविस्मयप्रमोदिताः ॥
समीक्ष्य स्वेछयादाय यथाकामं प्रभुंजते ।
ततः सर्वे ऽपि ते सत्त्वा तदाहाराभितोषिताः ॥
ततस्ते सर्वे आहारैः पानैश्चाप्यमृतोपमैः ।
सन्तर्पिता महानन्दसुखोत्साहसमन्विताः ॥
तदा ते सुखिताः सन्तः सद्धर्मगुणभाषिणः ।
परिशुद्धाशयाः सर्वे संचिन्त्यैवं वदन्त्यपि ॥
अहो ते सुखिनो लोका ये जाम्बुद्वीपिका नराः ।
आश्रित्य शीतलां छायां ध्यात्वा तिष्ठन्ति सद्गुरोः ॥
सुखितास्ते मनुष्या ये मातापित्रोर्यथासुखम् ।
परिचर्यां सदा कृत्वा भजन्ति समुपस्थिताः ॥
सुखितास्ते मनुष्या ये सन्मित्रं समुपस्थिताः ।
सुभाषितं सदा श्रुत्वा चरन्ति सर्वदा शुभे ॥
सुखिनस्ते महासत्त्वा ये संबोधिव्रतचारिणः ।
सर्वसत्त्वहितं कृत्वा संचरन्ति सदा शुभे ॥
सुखितास्ते महाभागा ये सुशीलाः शुभार्थिनः ।
स्वपरात्महितार्थेन चरन्ति पोषधं व्रतम् ॥
सत्पुरुषाः महाभागास्ते ये संघसमुपस्थिकाः ।
धर्मगण्डीं यथाकालमाकोटयन्ति सर्वदा ॥
ये विहारं प्रतिष्ठाप्य त्रिरत्नशरणं गताः ।
उपासकव्रतं धृत्वा चरन्ति ते ऽपि भागिनः ॥
सुखितास्ते महासत्त्वा ये विहारं विशीर्णितम् ।
संस्कृत्य संप्रतिष्ठाप्य कुर्वन्ति संप्रशोभितम् ।
ये पूर्वस्तूपबिम्बानि विशिर्णस्फुटितानि च ।
संस्कृत्य प्रतिसंस्थाप्य भजन्ति ते सुभागिनः ॥
सद्धर्मभाणकान् ये च संमान्य समुपस्थिताः ।
सुभाषितानि शृण्वन्ति ते सुभाग्याः सुखान्विताः ॥
बुद्धानां प्रातिहार्याणि पश्यन्ति विविधानि ये ।
चंक्रमाणि च पश्यन्ति ये ते सर्वे ऽपि भागिनः ॥
ये च प्रत्येकबुद्धानां विविधर्द्धिविकुर्वितम् ।
चंक्रमाणि च पश्यन्ति ते ऽपि सर्वे सुभागिनः ॥
ये ऽर्हतां प्रातिहार्याणि पश्यन्ति चंक्रमाणि च ।
ते ऽपि धन्या सुखापन्नाः संसारधर्मचारिणः ॥
ये चापि बोधिसत्त्वानां पश्यन्ति चंक्रमाण्यपि ।
प्रातिहार्याणि ये चापि ते ऽपि धन्याः सुभागिनः ॥

ये बुद्धशरणं गत्वा स्मृत्वा भजन्ति सर्वदा ।
ते एव सुभगा धन्याः सद्धर्म्मगुणलाभिनः ॥
ये च शृण्वन्ति सद्धर्मं भजन्ति श्रावयन्त्यपि ।
ते ऽपि सर्वे महाभागाः संबोधिधर्मभागिनः ॥
ये संघान् च शरणं गत्वा भजन्ति समुपस्थिताः ।
ते सर्वे सुभगा धन्याः संबोधिप्रतिलाभिनः ॥
ये च दत्वा प्रदानानि पालयन्तः परिग्रहान् ।
कृत्वा सत्वहितर्थानि चरन्ते ते सुभागिनः ॥
पापतो विरता ये च परिशुद्धत्रिमण्डलाः ।
चरन्ति व्रतमष्टांगं भद्रिकास्ते सुभाविनः ॥
ये च क्षान्तिव्रतं धृत्वाअ सुप्रसन्नाशयाः सदा ।
सर्वसत्त्वहितार्थेषु चरन्ति ते सुभाविनः ॥
ये च सद्धर्मरत्नानि साधयन्तो जगद्धिते ।
सदा लोकहितार्थानि कुर्वंते ते महाजनाः ॥
ये च तत महासत्त्वा सर्वविद्यान्तपारगाः ।
कृत्वा सत्त्वशुभार्थानि चरन्ते ते सुभागिनः ॥
ये चापि शासने बौद्धे श्रद्धया शरणं गताः ।
प्रवज्यासंवरं धृत्वा चरन्ते ते सुनिर्मलाः ॥
ये च बौद्धाश्रमे नित्यं शोधयन्ति समाहिताः ।
ते सुश्रीईमत्सुभद्रांगाः सद्धर्मसुखसंयुताः ॥
ये चापि सततं स्निग्धा हितं कृत्वा परस्परम् ।
साधयन्ति यशोधर्मं ते सभाग्या सुभाविनः ॥
ये चरन्ति सदा भद्रे विरम्य दशपापतः ।
ते धन्या विमलात्मानः सद्गुणसुखलाभिनः ॥
ये चरन्ति तपो ऽरण्ये त्यक्त्वा सर्वान् परिग्रहान् ।
ते सुभद्राः शुभात्मानः सदा सद्गतिचारिणः ॥
बोधिचर्याव्रतं धृत्वा ये चरन्ति जगद्धिते ।
ते पुमांसो महासत्त्वाः संबुद्धपदलाभिनः ॥
इत्येवं ते समाभाष्य सर्वसंपरिनन्दिताः ।
महासत्त्वं तमानम्य प्रार्थयन्त्येमादरात् ॥
साधो भवान् हि नो नाथयाता स्वामी सुहृत्प्रभुः ।
नैवान्यो विद्यते कश्चिदेवं रक्ष्यहितार्थभृत् ॥
यद् भवान् स्वयमालोक्य पापिनो ऽस्मान् सुदुःखितान् ।
समागत्यामृतैर्भोग्यैस्तोषयन्नभिरक्षति ॥
तद्वयं भवतामेव सर्वदा शरणं गताः ।
सत्कारैस्समुपस्थानं कर्तुच्छामहे ऽधुना ॥
तद् भवान्नो हिताधाने संयोजयितुमर्हति ।
भवता यत्समादिष्टं तत्करिष्यामहे ध्रुवन् ॥
इति तै प्रार्थितं सर्वै लोकेश्वरो निशम्य सः ।
कृपादृष्ट्या समालोक्य समादिशति तान् पुनः ॥

शृणुध्वं तन्मयाख्यातं युष्माकं हितसाधनम् ।
संचरध्वं तथा नित्यं सदा भद्रं यदीच्छथ ॥
तद्यथादौ त्रिरत्नानां प्रयात शरणं मुदा ।
सर्वदा मनसा स्मृत्वा भजध्वं च समादरात् ॥
नमो बुद्धाय धर्माय संघाय च नमो नमः ।
इति त्रिभ्यो नमस्कारं कृत्वा चरत सर्वतः ॥
एतत्पुण्यानुभावेन सर्वत्रापि शुभं भवेत् ।
निरुत्पातं महोत्साहं सर्वदा च भवे ध्रिवम् ॥
ततो यूयं क्रमेणापि परिशुद्धत्रिमण्डलाः ।
बोधिचित्तं समासाध्य व्रतं चरितुमैक्ष्यथ ॥
तदेतत्पुण्यभावेन सर्वे यूयमितश्च्युताः ।
त्रिरत्नस्मृतिमाधाय सुखावतीं प्रयास्यथ ॥
तत्रामिताभनाथस्य शरणे समुपस्थिताः ।
सर्वदा भजनं कृत्वा चरिष्यथ महासुखम् ॥
तदा यूयं समदाय पोषधं व्रतमुत्तमम् ।
विधिवत्संचरित्वैत्पुण्यैर्लप्स्यथ सन्मतिम् ॥
ततो ऽपि विमलात्मानः सर्वसत्त्वहितोत्सुकाः ।
बोधिचर्याव्रतं धृत्वा चरिष्यथ जगद्धिते ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् ।
दुष्टान् मारगणान् सर्वान् जित्वार्हन्तो भविष्यथ ॥
ततः संसारसंचारनिस्पृहा विजितेन्द्रियाः ।
त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्स्यथ ॥
एवं सत्त्वास् त्रिरत्नानां गच्छन्तः शरणं सदा ।
स्मृत्वा नाम् समुच्च्चार्य नत्वा भजध्वं नाभवम् ॥
इति लोकेश्वरेणैवं समादिष्टं निशम्य ते ।
सर्वे तथेति विज्ञाप्य प्रतिमोदन्ति नन्दिताः ॥
ततो लोकेश्वरो मत्वा तेषां मनो ऽभिशुद्धितम् ।
निश्चारयति कारण्डव्यूहसूत्रसूभाषितम् ॥
तत्सुभाषितमाकर्ण्य सर्वे ते संप्रमोदिताः ।
त्रिरत्नभजनोत्साहसौख्यं वांछन्ति साधितुम् ॥
ततस्ते मुदिताः सर्वे त्रिरत्नशरणं गताः ।
नमो बुद्धाय धर्माय संघायेति वदन्ति ते ॥
ततः सर्वे ऽपि ते सत्वायिरत्नस्मृतिसंरताः ।
संसारविरतोत्साहा भवन्ति धर्मलालसाः ॥
ततो ज्ञानासिना भित्त्वा सत्कायदृष्टिपर्वतम् ।
त्यक्त्वा देहं ततः सर्वे ते ऽभियान्ति सुखावतीम् ॥
तत्रामिताभनाथस्य शरणे समुपस्थिताः ।
निर्देशं शिरसा धृत्वा प्रचरन्ति शुभे मुदा ॥
ततः सर्वे भवेयुस्ते चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वा आकांक्षितमुखाभिधाः ॥

इत्येवं स महासत्त्वो लोकेश्वरो जिनात्मजः ।
सर्वान् प्रेतान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
एवं त्रैलोक्यनाथो ऽसौ महाकारुणिकः कृती ।
कृपया स्वयमालोक्य संरक्ष्याभ्यवते जगत् ॥
ये ये सत्त्वाः सदा तस्य लोकेशस्य महात्मनः ।
स्मृत्वा नाम समुच्चार्य भजन्ते शरणं गताः ॥
ते ते सर्वे ऽपि निष्पापाः श्रीमन्तः सद्गुणाकराः ।
सर्वसत्त्वहितं कृत्वा प्रचरन्तः शुभे सदा ॥
बोधिचर्याव्रतं धृत्वा भुक्त्वा धर्मयशःसुखम् ।
त्रिरत्नभजनोत्साहं धृत्वा यायुः सुखावतीम् ॥
न ते सर्वे ऽपि गच्छन्ति दुर्गतिं च कदाचन ।
सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ॥
परिशुद्धेन्द्रिया धीरा बोधिचर्याव्रतंधराः ।
स्वपरात्महितं कृत्वा यायुरन्ते जिनालये ॥
इत्येवं स महासत्त्वः सर्वसत्त्वहितार्थभृत् ।
कृपाकारुण्यसद्धर्मगुणमाहात्म्यसागरः ॥
असंख्यं पुण्यमाहात्म्यं तस्य लोकेश्वरस्य हि ।
सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
सुधीः सर्वनीवरणविष्कम्भी चैवमब्रवीत् ॥
भगवन् स महासत्त्वो नागच्छति कदा व्रजत् ।
तस्याहं दर्शनं कर्तुमिच्छामि त्रिजगत्प्रभोः ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विकम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
एवं तान् कुलपुत्रासौ लोकेश्वरः प्रबोधयन् ।
प्रेषयित्वा सुखावत्यां ततो निष्क्रम्य गच्छति ॥
अन्यत्रापि समुद्धर्तुं पापिनो नरकाश्रितान् ।
करुणासुदृशा पश्यंश्चरंस्ते संप्रभासयन् ॥
दिने दिने स आगत्य सर्वेषु नरकेष्वपि ।
निमग्नान् पापिनो दुष्टान् समालोक्य प्रभासयन् ॥
स्वयमुद्धृत्य सर्वान्स्तान् सुखीकृत्वा प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम् ॥
॥ इति श्रीगुणकारण्डव्यूहे सूचीमुखोदरपर्वतप्रेतोद्धारनप्रकरणम् ॥
4. श्रीमहेश्वरादि देव समुत्पादन प्रकरणम्
श्रीभगवानुवाच ।
एवमसौ महासत्त्वो लोकेश्वरो जिनात्मजः ।
भवाब्धेः स्वयमुद्धृत्य पालयति सदा जगत् ।
प्रदुष्टानपि पापिष्टान् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेज्जिनालये ॥
नास्तीदृग्गुणसंपन्नः सत्त्वयैधातुकेष्वपि ।

कस्यापि विद्यते नैव प्रतिभानं हि तादृशम् ॥
मुनीन्द्राणां च सर्वेषां नास्तीदृग्द्रुतिभानता ।
तेन लोकेश्वरो नाम बोधिसत्त्वस्स उच्यते ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
भगवन् हेतुना केन सर्वलोकाधिपेश्वरः ।
लोकेश्वरः स आख्यात एतत् सम्यक् समादिश ॥
तस्येव प्रतिभासत्वं कस्यचिन्नैव विद्यते ।
मुनीन्द्राणामपि सर्वेषां नास्तीति तत्कथं खलु ॥
एतत् सम्यक् समाख्याहि श्रोतुमिच्छामि सर्ववित् ।
इमे सर्वे सभासीनास्तद्गुणश्रोतुमानसाः ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं महाविज्ञं तमालोक्यैवमादिशत् ॥
शृणु त्वं कुलपुत्रास्य लोकेशस्य प्रभावताम् ।
संप्रवक्ष्यामि ते प्रीत्या सर्वसत्त्वानुबोधने ॥
तध्ययाभूत् पुरा शास्ता तथागतो मुनीश्वरः ।
विपश्यी नाम संबुद्धः सर्वविद्याधिपो जिनः ।
सर्वज्ञो ऽर्हन्महाभिज्ञो धर्मराजो विनायकः ।
भगवांयिजगन्नाथः सर्वसत्त्वहितार्थभृत् ॥
तदाहं कुलपुत्रासम् सुगन्धसुखसंज्ञकः ।
वणिक्सुतो वृषोत्साही संबुद्धगुणलालसः ॥
तस्य विपश्यिनः शास्तुः संबुद्धस्य जगद्गुरोः ।
शरणे समुपाश्रित्य प्राचरन् बोधिसंवरम् ॥
तदा तेन मुनीन्द्रेण सर्वज्ञेन विपश्यिना ।
लोकेशगुणमाहात्यं समाअख्यातं श्रुतं मया ॥
तद्यथासौ जगच्छास्ता विपश्यी भगवान् जिनः ।
सद्धर्मं समुपादेष्टुं सभामध्ये समाअश्रितः ॥
तदासौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वान् सत्त्वान् समुद्धर्तुं संपश्यन् करुणान्वितः ॥
पुण्यरश्मिं समुत्सृज्य प्रभासयन् समन्ततः ।
दुःखिनो नरकासीनान् सर्वान् सत्त्वान् विलोकयन् ॥
समुद्धृत्य प्रयत्नेन बोधयित्वानुमोदयन् ।
त्रिरत्नशरणे स्थाप्य चारयित्वा शुभे वृषे ॥
बोधिमार्गे प्रतिष्ठाप्य श्रावयित्वा सुभाषितान् ।
संबोधिसाधने धर्मे संनियोज्य विनोदयन् ॥
सर्वत्र मंगलं कृत्वा निरुपातं महोत्सवम् ।
त्रिरत्नगुणमाहात्म्यं प्रकाशयन् समाचरत् ॥
तदा तद्रश्मिसंस्पृष्टा सर्वा भुमिः प्रशोभिता ।
विशुद्धमंगलोत्साहसुखसमाकुलाभवत् ॥
तदद्भुतं महानन्दं महोत्साहं समन्ततः ।

समालोक्य महासत्त्वो महामतिर्जिनात्मजः ॥
विस्मयसमुपाघ्रात त्वन्त एवं व्यचिन्तयन् ॥
अहो कस्य प्रभाकान्तिरियमिह समागता ।
अवभास्य जगत्सर्वं संशोधयति शोभितम् ॥
इति चिन्ताकुलात्मा स बोधिसत्त्वो महामतिः ।
समुत्थायोत्तरासंगमुद्वहन् पुरतो गतः ॥
जाअनुभ्यां भूतके धृत्वा कृतांजलिपुतो मुदा ।
विपश्यिनं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥
भगवन् कस्य प्रभावो ऽयं यदियं भासमागता ।
अवभास्य जगत्सर्वं शोधयन्ति प्रशोभितम् ॥
यदिदं महदाश्चर्यं दृष्ट्वा सर्वे ऽतिविस्मिताः ।
श्रोतुमिच्छन्ति सर्वज्ञ तत्समादेष्टुमर्हति ॥
इति तेनोदितं श्रुत्वा विपश्यी स मुनीश्वरः ।
महामतिं महासत्त्वं तमालोक्यैवमादिशत् ॥
महामते शृणुष्वेदमद्भुतं यत्समुद्भवम् ।
तत्पुण्यप्रभावत्वं कथयिष्यामि सांप्रतम् ॥
ययैलोकाधिपो नाथो बोधिसत्त्वो जिनात्मजः ।
सर्वधर्माधिपः श्रीमानार्यावलोकितेश्वरः ॥
स सत्त्वान् पापिनो दुष्टान् दुःखिनो नरकाश्रितान् ।
समालोक्य कृपादृस्ट्या महाकारुण्यचोदितः ॥
तान् सर्वान् हि समुद्दृत्य बोधियित्वानुमोदयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयितुं जिनालये ॥
संप्रस्थितः सुखावत्याः पुण्यरश्मीन् समुत्सृजन् ।
अवभास्य जगल्लोकमिहागन्तुं समागतः ॥
तस्य पुण्यप्रभाकान्तिरियं पापविशोधनी ।
अवभास्य जगत्सर्वं शोधयन्ती प्रसारिता ।
एवं स सर्वलोकानामधिपतिर्हितार्थभृत् ।
स्वयमालोक्य सर्वत्र याति सर्वान् समुद्धरन् ॥
पापिनो ऽपि समालोक्य सर्वत्र नरकेष्वपि ।
निमग्नानतिदुःखांस्तान् पुण्यरश्मीन् समुत्सृजन् ॥
अवभास्य सुखापन्नान् समुद्धृत्य प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतिम् ॥
एवं स श्रीगुणाधारः सद्धर्मसुखदारयकः ।
दिने दिने ऽप्यप्रेमेयान् सत्त्वानुद्धृत्य बोधयन् ॥
बोधिमार्गे प्रतिष्ठाप्य श्रावयित्या सुभाषितम् ।
कृत्वा शुद्धाशयान् सर्वान् प्रेषयति सुखावतीम् ॥
एवं तस्य महत्पुण्यं सर्वलोकाधिकं बहु ।
अप्रमेयमसंख्येयं संबोधिपदसाधनम् ॥
सर्वैरपि मुनीन्द्रैस्तत्पुण्यं महद्बहूत्तमम् ।
प्रमातुं परिसंख्यातुं शक्यते न कदाचन ॥

सर्वेषामपि बुद्धानामीदृक्पुण्यं महोत्तमम् ।
अप्रमेयसंख्येयं विद्यते न कदाचन ॥
कस्यापि दृश्यते नैवमीदृक्पुण्यं महत्तरम् ।
तेनासौ त्रिगजगन्नाथो विराजते समन्ततः ॥
एवं तस्य महत्पुण्यप्रमेयं बहुत्तमम् ।
सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं शक्यते न हि ॥
तस्मादसौ जगन्नाथो जगच्छास्ता जगत्पतिः ।
सर्वलोकाधिपः श्रीमानार्यावलोकितेश्वरः ॥
आदिबुद्धात्मसंभूतो जगदीशो महेश्वरः ।
विश्वसृक्त्रिजगद्भर्त्ता संबोधिज्ञानभास्करः ॥
सर्वैः लोकाधिपैर्देवैः सासुरयक्षकिन्नरैः ।
राक्षसैर्गरुडैर्नागैः पूजितो वन्दितः सदा ॥
ग्रहैस्तारागणैः सर्वैर्विद्याधरैर्महर्द्धिकैः ।
सिद्धैः साध्यैश्च रुद्रैश्च कुम्भाण्डैश्च महोरगैः ॥
सर्वैर्भूताधिपैश्चापि सवह्निर्यममारुतैः ।
सर्वैश्चाप्यप्सरःसर्वैर्दैवादिकन्यकागणैः ॥
एवं दानवनागेन्द्रयक्षादिकन्यकागणैः ।
सदा ध्यात्वाप्यनुस्मृत्वा स्तुत्वा नत्वाभिपूजितः ॥
भैरवैश्च तथा सर्वैर्महाकालगणैरपि ।
मातृकाश्भिश्च सर्वाभिः संस्तुतो वन्दितो ऽर्चितः ॥
सर्वैश्च डाकिनीसंघैः सर्वैर्भूतैः पिशाचकैः ।
सर्वैर्विघ्नाधिपैचापि सप्रेतकठपूतकैः ॥
सर्वैर्मारगणैश्चापि त्रैधातुकनिवासिभिः ।
सदा नित्यमनुस्मृत्वा प्रणमितः प्रशंसितः ॥
एवं महर्षिभिः सर्वैर्योगिभिश्च तपस्विभिः ।
यतिभिस्तीर्थिकैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥
श्रावकैर्भिक्षुभिः सर्वैरर्हद्भिर्ब्रह्मचारिभिः ।
सदानुस्मरणं कृत्वा ध्यात्वा वन्दितार्चितः ॥
तथा सर्वैर्महासत्त्वैर्बोधिसत्त्वैश्व सर्वदा ।
तद्गुणानुस्मृतिं धृत्वा स प्रशंस्यो ऽभिवन्ध्यते ॥
तथा प्रत्येकबुद्धैश्च श्रुत्वा दृष्ट्वा च तद्गुणान् ।
सदानुमोदनां कृत्वा प्रणत्वा संप्रशंस्यते ॥
एवं सर्वैर्मुनीन्द्रैश्च संबुद्धैरपि सर्वदा ।
तत्पुण्यगुणमाहात्म्यं संप्रशंस्यानुमोद्यते ॥
एवं स सर्वलोकेशः सर्वधर्माधिपेश्वरः ।
विश्वरस्त्रष्टा जगद्भर्ता त्रैधातुकाधिपेश्वरः ॥
महाबुद्धात्मसंभूतः सद्धर्मगुणभास्करः ।
सर्वसंघाधिराजेन्द्रो बोधिसत्त्वो जगत्प्रभुः ॥
इति सर्वैर्महाभिज्ञैः संबुद्धैः सर्वदर्शिभिः ।
मुनीश्वरैः समाख्यातं पुरा मया श्रुतं किल ॥

तद्यथादौ महाशून्यं पंचभूते ऽप्यनुद्भवे ।
ज्योतिरुसमुद्भूत आदिबुद्धो निरंजनः ।
त्रिगुणांशमहामूर्त्तिर्विश्वरुपः समुत्थितः ।
स स्वयंभुर्महाबुद्ध आदिनाथो महेश्वरः ।
लोकसंसर्जनं नाम समाधिं विदधे स्वयम् ॥
ततस्तस्यात्मसंभूतो दिव्यारुपः शुभांशभृत् ।
भद्रमूत्तिर्विशुद्धांगः सुलक्षणाभिमण्डितः ॥
पुण्यकान्तिविरोचिष्कः सर्वलोकाधिपेश्वरः ।
सो ऽपि लोकोद्भवं नाम समाधिं विदधे स्वयम् ॥
तदा तस्यादिनाथस्य चक्षुभ्यां चन्द्रभास्करौ ।
समुत्पन्नौ ललाटाच्च समुत्पन्नो महेश्वरः ॥
स्कन्धाभ्यां संप्रजातो ऽभूदब्रह्मा सौम्यश्चतुर्मुखः ।
हदयाच्च समुद्भूतो नारायणो ऽतिसुन्दरः ॥
उभाभ्यां दन्तपंक्तिभ्यां समुत्पुन्ना सरस्वती ।
वायुवो मुखतो जाताः पृथ्वी जाता च पादतः ॥
वरुणश्चोदराज्जातः वह्निश्च नाभिमण्डलात् ।
वामजानूद्भवा लक्ष्मीः श्रीदो दक्षिणजानुतः ॥
एवमन्ये ऽपि देवाश्च सर्वलोकाधिपा अपि ।
तस्य महात्मनो देहात् समुद्भूता जगद्धिओते ॥
यदैते लोकनाथस्य जाता लोकाधिपास्तनोः ।
तस्य सर्वे प्रसन्नास्याः पश्यन्तः समुपस्थिताः ॥
तदा महेश्वरो देवः स्त्रष्टारं तं जगद्गुरुम् ।
प्रणत्वा सांजलिः पश्यन् प्रार्थयदेवमादरात् ॥
भगवन् यदिमे सर्वे भवता निर्मिता वयम् ।
तदर्थे ऽस्मानिमान् सर्वान् व्याकरोतु यथाविधि ॥
इति संप्रार्थिते तेन महेश्वरेण सर्ववित् ।
लोकेश्वरः समालोक्य सर्वांन्स्तानेवमादिशत् ॥
आरुप्यलोक्धात्वीशो भविष्यसि महेश्वर ।
त्राता योगाधिपः शास्ता संसारमुक्तिसौख्यदिक् ॥
कलियुगे समुत्पुन्ने सत्त्वधातौ कषायिने ।
तदा स्रष्टा विभर्त्ता च संहर्त्ता च भविष्यसि ॥
सर्वसत्त्वा दुराचारा मारचर्यासमारताः ।
मिथ्याधर्मगता दुष्टा सद्धर्मगुणनिन्दकाः ॥
विहीनबोधिचर्यांगास्तामसधर्मसाधिनः ।
तीर्थिकधर्मसंरक्ता भविष्यन्ति कलौ यदा ॥
तदा पृथग्जनाः सर्वे मोहेर्ष्यामदमानिकाः ।
सर्वे ते शरणं गत्वा भजिष्यन्ति सदादरात् ॥
आकाशं लिंगमित्याहुः पृथिवी तस्य पीठिका ।
आलयः सर्वभूतानां लीयनाल्लिंगमुच्यते ॥
इति सर्वे तदा लोकाः प्रभाषन्तः प्रमादतः ।

सर्वान् देवान् प्रतिक्षिप्य चरिष्यन्ति विमोहिताः ॥
तान् सर्वान् समालोक्य बोधयित्वा प्रयत्नतः ।
मुक्तिमार्गे प्रतिष्ठाप्य व्रतं शैवं प्रचारय ॥
एवं कृत्वा महैशानं पदं प्राप्य महेश्वरः ।
त्रैलोक्याधिपतिर्नाथो भविष्यसि कलौ युगे ॥
इत्येवं तत्समादिष्टं निशम्य स महेश्वरः ।
तथेति प्रतिनन्दित्वा तत्रैव समुपाश्रयत् ॥
अथासौ सर्वविच्छास्ता लोकेश्वरो जिनात्मजः ।
ब्रह्मानं समुपामन्त्र्य संपश्यन्नैमब्रवीत् ॥
ब्रह्मन्स्त्वं रुपधात्निशश्वतुर्वेदांगशायभृत् ।
सृष्टिकर्ता जगच्छास्ता चतुर्ब्रम्हविहारिकः ॥
शान्तचर्यासमाचारः सात्त्विकधर्मनायकः ।
परमार्थयोगविद्विद्वान् शुभार्थभृद् भविष्यति ॥
युगे कलौ समुत्पन्ने तव चर्या विनक्ष्यति ।
म्लेछधर्मसमाक्रान्ते सद्वृत्तिः परिहास्यते ।
तदापि त्वं प्रयत्नेन नानारुपेण बोधयन् ।
धर्ममार्गे प्रतिष्ठाप्य प्रापयस्व सुनिर्वृतिम् ॥
एवं ब्रह्मन्स्त्वमालोक्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व जगद्धिते ॥
एवं कृत्वा महत्क्लेशभवोदधिं समुत्तरेत् ।
अर्हन्संबोधिमासाद्य संबुद्धो ऽपि भविष्यसि ॥
इत्येवं तत्समादिष्टं समाकर्ण्य प्रबोधितः ।
ब्रह्मा तथेति संश्रुत्य प्राभ्यनन्दत् प्रसादितः ॥
ततो ऽसौ च महासत्त्वो लोकेश्वरो जिनात्मभूः ।
नारायणं समालोक्य समामन्त्र्यैवमादिशत् ॥
विष्णो त्वं कामधात्वीशः सर्वलोकाधिपः प्रभुः ।
रजोधर्माधिपः शास्ता सर्वसत्त्वहितार्थभृत् ॥
महाभिज्ञो महावीरः सर्वदुष्टप्रमर्दकः ।
संसारसुखसंभर्ता मायाधर्मविचक्षणः ॥
कलौ क्लेशाकुलान् सत्त्वान् नानारुपेण बोधयन् ।
त्रासयित्वापि यन्नेन सर्वान् धर्मे नियोजय ॥
एवं कृत्वा महासत्त्वो महत्पुण्यगुणान्वितः ।
राजा विश्वम्भरो नाथो लक्ष्मीपतिर्महर्द्धितः ॥
सर्वान् सत्त्वान् सुखीकृत्य सर्वान् दुष्टान् विनिर्जयन् ।
संवृतिविरतात्मान्ते निर्वृतिपदमाप्स्यसि ॥
इत्येवं तत्समादिष्टं निशम्य स प्रबोधितः ।
विष्णुस्तथेति विज्ञप्य प्राभ्यनन्दत् प्रसादितः ॥
ततश्चासौ महासत्त्वो लोकेश्वरो जिनांशजः ।
सरस्वतीं समालोक्य समामंत्र्यैवमादिशत् ॥
सरस्वती महादेवी सर्वविद्यागुणाकरी ।

महामायाधरी सर्वशायविज्ञा सुभाषिणी ॥
सद्धर्मगुणसंभर्त्री संबोधिप्रतिपालिनी ।
ऋद्धिसिद्धिप्रदात्री त्वं वागिश्वरी भविष्यसि ॥
सर्वान् मूर्खान् दुराचारानपि सत्त्वान् प्रयत्नतः ।
बोधयित्वा शुभे धर्मे योजयन्त्यभिपालय ॥
ये ऽपि ते शरणं गत्वा भजेयुर्भक्तिमानसाः ।
पण्डितास्ते महाभिज्ञा भवेयु श्रीगुणाश्रयाः ॥
एवं सत्त्वहितं कृत्वा मह्त्पुण्यगुणान्विता ।
प्रान्ते बोधिं समासाद्य संप्राप्स्यसि जिनास्पदम् ॥
इत्येवं तत्समादिष्टं निशम्य सा सरस्वती ।
तथेति प्रतिनन्दित्वा तत्रैकान्ते समाश्रयत् ॥
ततश्चासौ महासत्त्वो लोकेश्वरो जिनात्मजः ।
विरोचनं समालोक्य समामंत्र्यैवमादिशत् ॥
सूर्य त्वं सुमहद्दीप्तिप्रभाकरो ग्रहाधिपः ।
दिवाकरो जगल्लोकतमो ऽन्तको भविष्यसि ॥
अवभास्य जगल्लोकं प्रकाशयन् विशोधयन् ।
चारयित्वा शुभे धर्मे पालयस्व सदा भ्रमन् ॥
ततो ऽसौ च महासत्त्वो लोकनाथो जगत्प्रभुः ।
चन्द्रमसं समालोक्य समामंत्र्यैवमादिशत् ॥
चंद्रमस्वं महाकान्तिः शीतरश्मिः सुधाकरः ।
ताराधिपो जगत्क्लेशसन्तापहृद्भविष्यति ॥
अवभास्य जगल्लोकं प्रवर्षयन् सदामृतम् ।
औषधीव्रीहिशस्यानां रसवीर्यं प्रवर्धयन् ॥
प्रह्लाद्सुखसंपन्नान् कृत्वा रात्रौ प्रबोधयन् ।
सर्वान् सत्त्वान् शुभे धर्मे चारयित्वाभिपालय ॥
ततो वायुं समालोक्य लोकेश्वरः स सर्ववित् ।
सर्वांस्तान् समुपामंत्र्य पुर एवमुपादिशत् ॥
यूयं समीरणाः सर्वे जगत्प्राणाः सुखावहाः ।
सर्वधर्मसुखोत्साहप्रकर्तारो भविष्यथ ॥
प्रचरन्तः सदा यूयं पुयगण्धसुखवहाः ।
प्रेरयित्वा जगद्धर्मे संपालयध्वमाभवम् ॥
ततः पृथ्वीं महादेवीं समालोक्य सर्वदृक् ।
जिनात्मजो लोकनाथो समामंत्र्यैवमादिशत् ॥
पृथिवि त्वं जगद्भर्त्री सर्वलोकसमाश्रया ।
वसुंधरा जगद्भर्ती विश्वमाता भविष्यसि ॥
सर्वधातून् सुरत्नानि व्रीहिशस्यमहौषधीः ।
दत्वा संस्थाप्य सद्धर्मे पालयस्व जगत्सदा ॥
ततो वरुमालोक्य स लोकेशो जिनात्मभूः ।
पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥
वरुण त्वमपां नाथः सर्वसत्त्वामृतपदः ।

सर्वरत्नाकराधीशो नागराजो भविष्यसि ॥
सदामृतप्रदानेन पोषयित्वा प्रबोधयन् ।
दत्वा रत्नानि सद्धर्मे चारयस्व जगत्सदा ॥
ततो वह्निं समालोक्य चित्रभानुं प्रभास्वरम् ।
सर्वलोकाधिपः शास्ता समामंत्र्यैवमादिशत् ॥
वह्ने त्वं सर्वदेवानां मुखीभूतो हुतांशभुक् ।
पाचकः सर्ववस्तूनां दहनः पावको ऽप्यसि ॥
तस्मात् सर्वप्रयत्नेन सर्वालोकान् प्रहर्षयन् ।
सदा लोके सुखं दत्त्वा संपालय जगद्धिते ॥
ततो लक्ष्मीं महादेविं लोकेश्वरः स सन्मतिः ।
पुरतः समुपामंत्र्य समालोक्यैवमादिशत् ॥
लक्ष्मि त्वं श्री महादेवी माहेश्वरी वसुन्धरा ।
सर्वसंपत्सुखोत्साहप्रदायिनी भविष्यसि ॥
सधातुद्रव्यरन्तादिमहान्सम्पत्सुखान्यपि ।
दत्वा धर्मे प्रतिष्ठाप्य पालयस्व जगत्सदा ॥
ततः श्रीदं समालोक्य स लोकेशो जगत्प्रभुः ।
पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥
कुबेर त्वं महाभागः सर्वद्रव्याधिपः प्रभुः ।
श्रीसंपत्सद्गुणाधारो राजराजो भविष्यसि ॥
दत्वा श्रीगुणसंपत्तीः प्रदत्वा संप्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदा जगत् ॥
एवं स त्रिजगत्न्नाथो लोकेश्वरो जिनात्मजः ।
सर्वांस्तान् स्वाअत्मजान् देवान् समामंत्र्यैवमादिशत् ॥
यूयं सर्वे महासत्त्वाः संबोधिव्रतचारिणः ।
सर्वसत्त्वहितं कृत्वा प्रचरध्वं सदा शुभे ॥
एवं कृत्वा महत्पुण्यं श्रीसमृद्धिसमन्विताः ।
अन्ते संबोधिमासाद्य संबुद्धपदमाप्स्यथ ॥
इत्येवं तत्समादिष्टं श्रुत्वा सर्वे प्रबोधिताः ।
ते देवाः प्रतिनन्दन्तस्तथेति प्रतिशुश्रुवुः ॥
एवं ते सकला देवाः धृत्वा तस्यानुशासनम् ।
बोधिचर्यां समाधाय संप्रचेरुजगद्धिते ॥
तदनुशासनादेव सर्वलोकाधिपा अपि ।
बोधिचर्याव्रतं धृत्वा संचरिरे जगद्धिते ॥
एवं स त्रिजगच्छास्ता लोकेश्वरो जिनात्मजः ।
बोधिसत्त्वमहाभिज्ञः सर्वलोकाधिपेश्वरः ॥
ये तस्य त्रिजगच्छास्तुः श्रद्धया शरणं गताः ।
सर्वे ते विमलात्मनो नैव गच्छन्ति दुर्गतिम् ॥
सदा सद्गतिसंजाताः सद्धर्मश्रीसुखान्विताः ।
निःक्लेशा बोधिमासाध्य संबुद्धपदमाप्नुयुः ॥
सर्वे ऽपि सुगतास्तस्य श्रद्धया शरणं गताः ।

ध्यात्वानुस्मृतिमाध्याय प्रचरन्तो जगद्धिते ॥
एअतत्पुण्यानुभावेन निःक्लेशा विमलाशयाः ।
जित्वा मारगणान् बोधिं प्राप्य गताः सुनिर्वृतिम् ॥
अतीता अपि संबुद्धा वर्तमाना अनागताः ।
सर्वे ऽपि ते जगच्छास्तुः श्रद्धया शरणं गताः ॥
ध्यात्वानुस्मृतिमाधाय प्रचरन्तो जगद्धिते ।
बोधिचर्याव्रतं धृत्वा कृत्वा सर्वजगद्धितम् ॥
क्रमेण बोधिसंभारं पूरयित्वा यथाविधि ।
जित्वा मारगणान् सर्वान् बोधिं प्राप्याभवन् जिनाः ॥
भवन्ति च भविष्यन्ति धर्मराजा मुनीश्वराः ।
अर्हन्तः सुगता नाथाः सर्वज्ञास्त्रिविनायकाः ॥
एवं स त्रिजगन्नाथो लोकेश्वरो महर्द्धिमान् ।
बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥
सर्वसत्त्वहितार्थेन बोधिचर्याव्रतं चरन् ।
सर्वान् सत्त्वान् स्वयं पश्यन्नवभास्य समुद्धरन् ॥
बोधिमार्गे प्रतिष्ठाप्य चारयित्वा शुभे वृषे ।
बोधयन् सुप्रसन्नांस्तान् प्रेषयति सुखावतीम् ॥
एवम् स जगदादीशो लोकेश्वरो जिनात्मजः ।
बोधिसत्त्वो महासत्त्वः सर्वधर्महितार्थभृत् ॥
नास्ति तस्य समं कश्चित् सद्धर्मगुणपुण्यवान् ।
कुतो ऽधिको भवेत्तेन लोकेश्वरो जगत्प्रभुः ॥
इत्येवं सुगतैः सर्वैः संबुद्धैः सर्वदर्शिभिः ।
लोकेशगुणमाहात्म्यं समादिष्टं श्रुतं मया ॥
ईदृक्पुण्यगुणोद्भावं लोकेशस्य विपश्विनः ।
मिनीन्द्रेण समादिष्टं पुरा मयाभिसंश्रुतम् ॥
तस्माल्लोकेशवरः सर्वसंघाधिपो जगद्गुरुः ।
सेवनीयः प्रयत्नेन सद्धर्मगुणवांछिभिः ॥
ये ह्यस्य शरणं गत्वा भजन्ति श्रद्धया मुदा ।
दुर्गतिं ते न गच्छन्ति सर्वत्रापि कदाचन ॥
सदा सद्गतिसंजाता धर्मश्रीसुखभागिनः ।
शुभोत्साहं प्रभुंजन्ते प्रान्ते यान्ति सुखावतीम् ॥
इत्येवं हि समादिष्टं शाक्यसिंहेन तायिना ।
श्रुत्वा सर्वे सभालोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति श्रीमहेश्वरादिदेवसमुत्पादनप्रकरणम् ॥
5. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण
अथ सर्वनीवरणविष्कम्भी सुगतात्मजः ।
सांजलिर्भगवन्तं तं प्रणत्वा चैवमब्रवीत् ॥
भगवन्स महासत्त्वो लोकेश्वर जगत्प्रभुः ।
कदेह समुपागछेद् द्रष्टुमिच्छामि तं प्रभुम् ॥
इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ।

विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥
विष्कम्भिन् स महासत्त्वो नागच्छेदिह सांप्रतम् ।
अन्यत्र नरके सत्त्वानुद्धर्तुमभिगच्छति ॥
सर्वत्रापि स्वयं गत्वा संपश्यन्नरकाश्रितान् ।
सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
एवं स सर्वदा सत्त्वान् स्वयं पश्यन् दिने दिने ।
असंख्येयान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
एवं कुर्वन् स लोकेशो बोधिचर्याव्रतं चरन् ।
असंख्यपुण्यरत्नाद्यश्रीसमृद्धो विराजते ॥
तस्य पुण्यमसंख्येयमप्रमेयं बहूत्तमम् ।
सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥
इत्येवं सुगतैः सर्वैः पुराख्यातं मया श्रुतम् ।
तदत्राहं प्रवक्ष्यामि शृणुध्यं यूयमादरात् ॥
तद्यथाभूत् पुरा शास्ता शिखि नाम तथागतः ।
सर्वज्ञो ऽर्हन्महाभिज्ञोः धर्मराजो मुनीश्वरः ॥
सर्वविद्याधिराजेन्द्रः संबुद्धः सुगतो जिनः ।
मारजित् सर्वलोकेन्द्रस्त्रैधातुकविनायकः ॥
तदासं बोधिसत्त्वो ऽहं दानशूरो ऽभिधो गृही ।
सदादानरतो धीरः सर्वसत्त्वहितार्थभृत् ॥
सदा स शिखिनस्तस्य मुनीन्द्रस्य जगद्गुरोः ।
सत्कृत्य श्रद्धया नित्यं प्राभजन् समुपस्थितः ॥
तदा तेन मुनीन्द्रेण समाख्यातं मया श्रुतम् ।
लोकेश्वरस्य सद्धर्मसाधनोद्भवकौशलम् ॥
इति तेन मुनीन्द्रेण समाअख्यातं निशम्य सः ।
बोधिसत्त्वो महासत्त्वो विष्कम्भी चैवमब्रवीत् ॥
भगवन् किदृशं तस्य लोकेशस्य महात्मनः ।
सद्धर्मसाधनोद्भूतं कौशलं भवता श्रुतम् ॥
भगवन्स्तत्समाख्याय सर्वानस्मान् प्रबोधय ।
सर्वलोका इमे श्रुत्वा भवेयुस्तद्गुणारताः ॥
इति संप्रार्थितं तेन श्रुत्वासौ भगवान् जिनः ।
सर्वांल्लोकान् सभासीनान् समालोक्यैवमादिशत् ॥
यदा स भगवांच्छास्ता शिखी तथागतो जिनः ।
सर्वलोकसभामध्ये ससांघिकः समाश्रितः ॥
आदिमध्यान्तकल्याणं संबोधिगुणसाधनम् ।
सद्धर्मं समुपादेष्टुं समारभेज्जगद्धिते ॥
तदा तस्य मुखद्वारान्नानावर्णाः सुरश्मयः ।
विनिर्गता जगत्सर्वमवभास्य प्रचेरिरे ॥
कृत्वा सर्वत्र लोकेषु सुभद्राणि समन्ततः ।
पुनरागत्य सा कान्तिस्तदाश्रम उपागताः ॥
शिखिनं तं महाभिज्ञं धर्मराजं मुनीश्वरम् ।

त्रिधा प्रदक्षिणीकृत्य तन्मुखाज्ये समाविशत् ॥
तत्सत्पुण्यप्रभां दृट्वा लोकेश्वरः स विस्मितः ।
अमिताभं जिनं नत्वा पप्रच्छैवं समादरात् ॥
भगवन् कस्य सत्पुण्यकान्तिरियं समागता ।
तद्भवान् समुपादिश्य संबोधयतु नो गुरो ॥
इति तदुक्तमाकर्ण्य भगवान् सो ऽमितप्रभः ।
लोकेश्वरं महासत्त्वं तमालोक्यैवमादिशत् ॥
कुलपुत्र शिखी नाम संबुद्धो ऽर्हन्मुनीश्वरः ।
सर्वज्ञस्त्रिगच्छास्ता धर्मराजस्तथागतः ॥
विहारे जेतकोद्याने समाश्रितः ससांघिकः ॥
सर्वलोकसभामध्ये समासीनः प्रभासयन् ।
सद्धर्मं समुपादेष्टुं प्रारम्भं कुरुते ऽधुना ॥
तस्येयं सुप्रभाकान्तिर्मुखद्वाराद्विनिर्गता ।
सर्वत्र भुवनेष्वेवमवभास्य प्रचर्यते ॥
इहापि समुपायाता भासयन्ती प्रचारिता ।
परावृत्य मुनेस्तस्य मुखे प्राविशते ऽधुना ॥
इत्यादिष्टं मुनीन्द्रेण लोकेश्वरः प्रसादितः ।
अमिताभं मुनीन्द्रं तं प्रणत्वैवमभाषत ॥
भगवन् धर्मराजं तं द्रष्टुमिच्छामि सांप्रतम् ।
तत्तत्राहं गतिष्यामि तदाज्ञां दातुमर्हति ॥
इति संप्रार्थितं तेन लोकेशेन निशम्य सः ।
अमिताभो मुनीन्द्रस्तं लोकेशमेवमबव्रीत् ॥
कुलपुत्र मुनीन्द्रंस्तं यदि द्रष्टुं त्वमिच्छसि ।
गच्छ मद्वचनेनापि कौशल्यं स्प्रष्टुमर्हसि ॥
पद्मं समुपसंस्थाप्य तस्य पश्यन् सभामपि ।
समुपाश्रित्य सद्धर्मं श्रुत्वा गच्छानुमोदितः ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा लोकेश्वरो मुदा ।
सांजलिस्तं जिनं नत्वा संभासयंस्ततो ऽचरत् ॥
यदा ततः सुखावत्यां संप्रस्थितः स भासयन् ।
तदा सर्वा मही साब्धिः सागाधा च प्रकम्पिता ॥
प्रवर्षाद्वियतो हेमरत्नमयं महोत्पलम् ।
निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥
तदाश्रममहोद्याने कल्पवृक्षाः समुत्थिताः ।
दिव्यवस्त्रसुवर्णादिरत्नालंकारलम्बिताः ॥
नानाकुसुमवृक्षाश्च सुगंधिपुष्पशोभिताः ।
अनेकfअलवृक्षाश्च दिव्यरसfअलानताः ॥
अष्टांगुणसंपन्नजलपूर्णाः सरोवराः ।
नानापुष्पाभिसंकीर्णाः प्रादुर्भूता मनोरमाः ॥
विविधपुष्पवर्णाणि द्रव्याणि विविधान्यपि ।
हेमादिधातुरत्नानि वस्त्राणि भूषणानि च ॥

सुवर्णसुरसास्वादसंपन्नभोजनान्यपि ।
धान्यादिव्रीहिजातानि प्रवर्षन्त तदाश्रमे ॥
तत्र च सप्तरत्नानि संजातानि जिनाश्रमे ।
सर्वा भूमिश्च सौवर्णा निर्भासा संबभौ तदा ॥
तदा लोकेश्वर पद्मं सहस्त्रपत्रं सुवर्णिकम् ।
सप्तरत्नमयो ज्वालं समादाय ततश्चरन् ॥
एवं तत्र सुभद्राणां निमित्तं संप्रकाशयन् ।
अवभास्य जगल्लोकं समालोक्य समन्ततः ॥
प्राणिनो दुःखिनः सर्वान् समुद्धृत्य प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयन् सुखावतीम् ॥
सुधारश्मिं समुत्सृज्य संभासयन् समन्ततः ।
संबुद्धं शिखिनं तद्विहारमुपाचरत् ॥
तानि भद्रनिमित्तानि विलोक्य तत्सभाश्रितः ।
रत्नपाणिर्महासत्त्व बोद्धिसत्त्वो ऽभिलोकयन् ॥
विस्मितः सहसोत्थाय पुस्तः समुपाचरत् ।
उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥
भगवन्तं मुनीन्द्रं तं संबुद्धशिखिनं मुदा ।
कृतांजलिपुटो नत्वा पप्रच्छैवं समादरात् ॥
भगवन् कस्य प्रभाकान्तिरियमिह समागता ।
महद्भद्रनिमित्तानि दृश्यन्ते प्रोद्भवानि च ॥
भगवन्स्तत्समादिश्य सर्वानिमान् सभाश्रितान् ।
विस्मयाकुलचित्तान्तः प्रबोधयितुमर्हति ॥
इति संप्रार्थितं तेन श्रुत्वा शिखी तथागतः ।
रत्नपाणिं महासत्त्वं तं पश्यन्नेवमादिशत् ॥
रत्नपाणे महासत्त्व दृश्यन्ते यदिहाधुना ।
महद्भद्रनिमित्तानि संजातानि समन्ततः ॥
तद्धेतुं संप्रवक्ष्यामि शृणुध्वमिदमादरात् ।
यूयं सर्वे प्रसीदन्तः प्रतिबुध्यानुमोदत ॥
यः श्रीमांजगन्नाथो बोधिसत्त्वो जिनात्मजः ।
सर्वसंघाधिपः शास्त सर्वलोकाधिपेश्वरः ।
समन्तभद्रकारी स आर्यावलोकितेश्वरः ।
सत्त्वान् पश्यन् समुद्धर्तुं सुखावत्यां विनिश्चरन् ॥
पुण्यरश्मिं समुत्सृज्य संभासयन् समन्ततः ।
शोधयंस्त्रिजगल्लोकं कृत्वा भद्रं समन्ततः ॥
पापिनो ऽपि दुराचारान् सर्वत्र नरकेष्वपि ।
निमग्नांस्तान् समालोक्य समुद्धृत्य समन्तत ॥
बोधयित्वा प्रयत्नेन कृत्वा सद्धर्मलालसान् ।
ममेह दर्शनं कर्तुं समुपागच्छपि सांप्रतम् ।
तस्येयं सुप्रभा कान्तिर्भासयन्ती समागता ॥
ईदृग्द्रनिमित्तानि संजातानि समंततः ।

भद्रहेतुरयं तस्य लोकेशस्यागतः खलु ॥
इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः ।
संबुद्धं तं सभां तां च समालोक्यैवमब्रवीत् ॥
भगवन् स महासत्त्वो लोकेश्वरो जगत्प्रभुः ।
नागच्छति कदागत्च्छेद् द्रष्टुमिच्छामि तं प्रभुम् ॥
इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः ।
रत्नपाणिं तमालोक्य सभां चाप्येवमादिशत् ॥
आगच्छेत् स महासत्त्वो लोकेश्वरः सुदुःखितः ।
सत्त्वान् सर्वान् समुद्धृत्य प्रेषयित्वा सुखावतीम् ॥
प्रथममिह मां द्रष्टुमागच्छेत् स कृपानिधिः ।
तदा तं त्रिजगन्नाथं पश्च भज समादरात् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स रत्नभृन्मुदा ।
सह सर्वसभालोकैस्तस्थौ तद्दर्शनोत्सुकः ॥
तदासौ त्रिजगन्नाथो लोकेश्वरः प्रभासयन् ।
दूरात्तं सुगतं पश्यन् विहारे समुपाविशत् ॥
तं लोकेशं समायातं समीक्ष्य सुगतात्मजम् ।
सर्वे लोकाः सभासीनाः समुत्थाय प्रणेमिरे ॥
रत्नपाणिस्तमायातं संपश्यन् सहसोत्थितः ।
सांजलिः समुपागम्य ववन्दे तत्पदाम्बुजे ॥
एवं स वन्द्यमानस्तैः सर्वलोकैः प्रभासयन् ।
शिखिनं तं समालोक्य पुरतः समुपाचरत् ॥
तं समायातमालोक्य भगवान् स शिखी मुदा ।
स्वागतं ते महासत्त्व कौशलमित्यपृच्छत ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
कौशलं मे सदा शास्तरिति वदन्नुपाचरत् ॥
तत्रासौ त्रिजगन्नाथः शिखिनं तं मुनीश्वरम् ।
वन्दित्वा तं महापद्ममुपस्थाप्यैवब्रवीत् ॥
भगवन्नमिताभेन शास्त्रेमं प्रहितं कजम् ।
कुशलं चापि सर्वत्र पृच्छत ते समन्ततः ॥
इति तदुक्तमाकर्ण्य भगवान् स शिखी मुदा ।
गृहीत्वा तं महापद्मं वामे स्थाप्यैवमब्रवीत् ॥
सर्वत्र कौशलमत्र क्वचित्तस्यापि कौशलम् ।
इति पृष्ट्वा मुनीन्द्रैश्च तनेवं पर्यपृच्छत ॥
कुलपुत्र त्वया सत्त्वाः कियन्तो नरकाश्रिताः ।
समुद्धृत्य शुभे स्थाप्य प्रेषितास्ते सुखावतीम् ॥
इति पृष्टे मुनीन्द्रेण लोकेश्वरो विलोक्य सः ।
संबुद्धं तं सभां चापि समालोक्यैवमब्रवीत् ॥
भगवन् बहवो ऽसंख्येयाः सत्त्वा नरकाश्रिताः ।
ते सर्वे ऽपि प्रयत्नेन मयालोक्य समुद्धृताः ॥
तद्यथा ये महादुष्टा अवीचौ कर्मभोगिनः ।

रौरवे कालसूत्रे च हाहवतपने ऽपि च ॥
तापने ऽग्निधटे ये च शाल्मलिके च पापिनः ।
संघाअते चान्धकारे च शीतोदके ऽसिपत्रके ॥
एवमन्यषु सर्वेषु नरकेषु समन्ततः ।
स्वकृतकर्मभुंजानां तिष्ठन्तो दुःखभोगिनः ॥
तीव्रदुःखाग्निसन्तप्ता मूढा विलुप्तचेतनाः ।
ते सर्वे ऽपि मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥
भूताः प्रेताः पिशाचाश्च क्षुप्तिपासाग्निदाहिताअः ।
सूचिमुखादयो दुष्टा विण्मूत्रामेध्यभोगिनः ॥
पशवो ऽपि च ये दुष्टाः पक्षिणो ऽपि दुरारताः ।
कृमिकीटादयश्चापि स्वकर्मfअलभोगिनः ॥
ते ऽपि सर्वे मयालोक्य मोचयित्वा स्वकर्मतः ।
समुद्धृत्य प्रयत्नेने संप्रेषिताः सुखावतीम् ॥
एवमन्ये ऽपि सत्त्वा ये मर्त्या दैत्याःसुरा अपि ।
अधर्माभिरता दुष्टा भ्रष्टा नरकगामिनः ॥
ते ऽपि सर्वे मयाअलोक्य बोधियित्वा प्रयत्नतः ।
सधर्मे संप्रतिष्ठाप्य संप्रेषिता जिनालये ॥
एवं नित्यं मयालोक्य प्राणिनो दुरितो ऽर्द्धताः ।
सर्वे ऽपि नरकासीनास्तीव्रदुःखाग्नितापिताः ॥
दिने दिने ऽप्यसंख्येया समुद्धृत्य प्रयत्नतः ।
बोधियित्वा शुभे स्थाप्य चारयित्वा सुसंवरे ।
बोधिमार्गे नियुज्यैवं संप्रेषिता जिनालये ॥
यथा मया प्रतिज्ञातं तथा कर्त्तव्यमेव तत् ।
इति नित्यं समालोक्य सत्त्वा धर्मे ऽभियोजिताः ॥
यावन्तः प्राणिनः सर्वे यावन्न बोधिभागिनः ।
तावदहं न संबोधिं संप्राप्नुयां जगद्धिते ॥
इति दृढा प्रतिज्ञा मे यावन्न परिपूरिता ।
तावत् सत्त्वान् समालोक्य समुद्धृत्य प्रयत्नतः ॥
बोधयित्वापि कृत्वा च चतुर्ब्रह्मविहारिणः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयेयं सुखावतीम् ॥
इत्येवं भगवंच्छास्ते बोधिचर्यां समाचरन् ।
सर्वसत्त्वहितं कृत्वा चरे त्रिधातुकेष्वपि ॥
एवं नित्यं जगल्लोकिअ कृत्वा भद्रसुखोत्सवम् ।
प्रचरं प्रचराम्येवं चरिष्यामि सदा भवे ॥
इत्युक्त्वा स महासत्त्वो लोकेश्वरो जिनात्मजः ।
भूयस्तं शिखिनं नत्वा समनुज्ञामयाचत ॥
भगवन् गन्तुमिच्छामि सत्त्वानुद्धर्तुमन्यतः ।
तदनुज्ञां प्रदत्वा मे प्रसीदतु जगद्धिते ॥
इति तदुक्तमाकर्ण्य स शिखी भगवान् मुदा ।
लोकेश्वरं महाभिज्ञं तमालोक्याइवमब्रवीत् ॥

सिध्यतु ते महासत्त्व कार्यं संबोधिसाधनम् ।
गच्छ लोके हितं कुर्वन् संचरस्व सुखं सदा ॥
इत्यादिष्टं मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः ।
शिखिनं धर्मराजं तं प्रणत्वा प्राचरत्ततः ॥
प्रक्रमित्त्वा ततः सो ऽग्निपिण्ड इव समुज्ज्वलन् ।
आकाशे ऽन्तर्हितो ऽन्यत्र भुवेने भासयन् ययौ ॥
तमेवं खे गतं दृष्ट्वा रत्नपाणिः स विस्मितः ।
शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥
भगवंस्त्रिजगद्भर्तुर्लोकेअश्स्य महान्मनः ।
कियत्सुकृतसंभारं विद्यते तत्समादिश ॥
इति संप्रार्थितं तेन श्रुत्वा स भगवांछिखी ।
रत्नपाणिस्तमालोक्य समामंत्र्यैवमादिशत् ॥
कुलपुत्र शृणु चास्य लोकेशस्य जगत्प्रभोः ।
पुण्यस्कन्धं प्रवक्ष्यामि सत्त्वानां भद्रकारणे ॥
तद्यथैके महासत्त्वाः सर्वेषामपि देहिनाम् ।
सर्वदा सर्वसत्कारैर्भजन्ति समुपस्थिताः ॥
तेषां पुण्यानि यावन्ति तानि सर्वाणि सद्गुरोः ।
लोकेश्स्यैकवालाग्रे इति सर्वे जिना जगुः ॥
तद्यथापि चतुर्द्वीपे मेघा वर्षन्ति सर्वदा ।
तत्सर्वजलबिन्दूनां संख्यातुं शक्यते मया ॥
न तु लोकेश्वरस्यास्य बोधिसत्त्वस्य सत्प्रभोः ।
पुण्यस्कन्धप्रमाणानि कर्तुं केनापि शक्यते ॥
सर्वषामपि चाब्धीणां सर्वेषामपि चाम्भसाम् ।
एकैकबिन्धुसंख्यानि कर्तुं शक्नोम्यहं ध्रुवम् ॥
न तु लोकेश्वरस्यास्य संबोधिव्रतचारिणः ।
पुण्यसंभारसंख्यानि कर्तुं शक्नोम्यहं खलु ॥
सर्वेषामपि जन्तूनां चतुर्द्वीपनिवासिनाम् ।
एकैकरोमसंख्याभिः प्रमाणं शक्यते किल ॥
न तु लोकेश्वरस्यास्य सद्धर्मसद्गुणाम्बुधेः ।
बोधिसंभारपुण्यानां प्रमातुं शक्यते मया ॥
हेमरत्नमयान् स्तूपान् परमाणुरजोपमान् ।
विधाय सर्वदाभ्यर्च्य प्रभजेत् समुपस्थितः ॥
संबुद्धप्रतिमांश्चैवं परमाणुरजोपमान् ।
हेमरत्नमयान् स्थाप्य सर्वे लोका महोत्सवैः ॥
सधातुरत्नपूजांगैर्भजेयुः सर्वदा मुदा ।
एतत्पुण्यप्रमाणानि कर्तुं शक्नोम्यहं ध्रुवम् ॥
नैव लोकेश्वरस्यास्य चतुर्ब्रह्मविहारिणः ।
पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वथा ॥
सर्वेषामपि वृक्षाणां चतुर्द्विपमहीरुहाम् ।
पत्रसंख्याप्रमाणानि कर्तुं शक्नोम्यहं खलु ॥

नैव लोकेश्वरस्यास्य सत्त्वहितार्थदायिनः ।
पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वदा ॥
सर्वे स्त्रीपुरुषा मर्याश्चतुर्द्वीपनिवासिनः ।
श्रोतापत्तिfअले स्थाप्य चारयेयुः सुसंवरम् ॥
तेषां पुण्यप्रमाणानि कर्तुं शक्नोम्यहं खलु ।
न तु लोकेशपुण्यानां प्रमातुं शक्नुयामहम् ॥
एतान् सर्वान्नरांश्चापि बोधयित्वा प्रयत्नतः ।
सकृदागामिनः कृत्वा चारयेयुः शुभे सदा ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते खलु ।
नैव लोकेशपुण्यानां प्रमातुं शक्यते क्वचित् ॥
तथा च मानवान् सर्वान् बोधयित्वानुमोदयन् ।
अनागामीfअले स्थाप्य चारयेयुः सुसंबरे ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते किल ।
नैव लोकेश्वरस्यास्य प्रमातुं शक्यते क्वचित् ॥
तथैतान् सकलान् मर्त्यान् बोधयित्वा प्रयत्नतः ।
अर्हत्वे संप्रतिस्थाप्य चारयेयुः सुनिर्वृतौ ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते मया ।
न तु लोकएश्वरस्यास्य शक्यते सुगतैरपि ॥
तथा प्रत्येकबोधौ च सर्वान् एतान् नरानपि ।
बोधयित्वा नियुज्येव चारयेयुः सुनिर्वृतौ ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते मया ।
न तु लोकेश्वरस्यास्य सर्वैरपि मुनीश्वरैः ॥
एतेषामपि सर्वेषां पुण्यानां प्रवरं महत् ।
पुण्यं लोकेश्वरस्यास्य बह्वमेयमुत्तमम् ॥
किं मयैकेन तत्पुण्यं प्रमातुं इह शक्यते ।
सर्वैरपि मुनीन्द्रैर्ही शक्यते न कदाचन ॥
एवमसौ महत्पुण्यसंभारश्रीसमृद्धिमान् ।
लोकश्वरो महासत्त्वो बोधिसत्त्वो जिनात्मजः ॥
नास्तीदृक्पुण्यसंभारसद्गुणश्रीसमृद्धिमान् ।
तदन्यो हि महासत्वः कुतस्त्रैधातुकेष्वपि ॥
इत्येवं तन्महत्पुण्यं श्रुत्वा यूयं प्रमोदिताः ।
तमीशं शरणं गत्वा भजध्वं सर्वदा भवे ॥
ये तस्य त्रिजगद्भर्तुर्लोकेशस्य जगत्प्रभोः ।
ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सर्वदा ॥
ते भवक्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः ।
धर्मश्रीगुणसंपन्नाः संप्रयायुः सुखावतीम् ॥
तत्रामिताभनाथस्य गत्वा ते शरणं मुदा ।
सद्धर्मामृतमास्वाद्य रमेयुर्बोधिसाधिनः ॥
भूयस्ते भगसंक्लेशैर्बाधिष्यन्ते कदाचन ।
गर्भवासमहददुखं लभेयुर्न पुनर्भवे ॥

तस्यामेव सुखावत्यां पद्मे रत्नमेये वरे ।
संजाता सततं ध्यात्वा तिष्ठेयुस्तं मुनिश्वरम् ॥
तावत्तत्र सुखावत्यां तिष्ठेयुस्ते सुखान्विताः ।
यावन्नास्य जगच्छास्तुः प्रतिज्ञा परिपूरिता ॥
क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते ।
त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इत्येवं सुगतैः सर्वेः समादिष्टं मया श्रुतम् ।
तदस्य लोकनाथस्य भजन्तु बोधिवांछिनः ॥
इत्यादिष्टं मुनीन्द्रेण रत्नपाणीर्निशम्य सः ।
शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥
भगवन्नस्य प्रतिज्ञा या सुदृढातिमहत्यसौ ।
कियता खलु कालेन संपूरिता भविष्यते ॥
कथमेकात्मना तेन सर्वे त्रैधातुकाश्रिताः ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषिताः सुखावतीम् ॥
कथमसौ महासत्त्वः सत्त्वान्नाधिमुक्तिकान् ।
एकः प्रबोधयन् सर्वान् बोधिमार्गे ऽभियोजयेत् ॥
सत्त्वाः षड्गतिसंजाता नानाकर्मानुचारिणः ।
एतान् सर्वान् कथमेको बोधयन् परिपाचयेत् ॥
इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः ।
रत्नपाणिं महासत्त्वं तमालोक्यैवमब्रवीत् ॥
एको ऽप्यसौ महासत्त्वो महाभिज्ञो जिनांशजः ।
नानारुपेण सत्त्वानां सद्धर्म समुपादिशत् ॥
बोधयन् प्राणिनः सर्वान् दत्त्वा द्रव्यं यथेप्सितम् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति जिनालयम् ॥
बोद्धान् सुबुद्धरुपेण बुद्धधर्मे नियोजयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥
प्रत्येकबुद्धरुपेण प्रत्येकबोधिवांछिनः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुनिर्वृतिम् ॥
अर्हद्धर्मानुसंरक्तानर्हद्रूपेण बोधयन् ।
अर्हद्धर्मे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥
बोधिचर्येषिणो बोधिसत्त्वरुपेण बोधयन् ।
बोधिचर्याव्रते स्थाप्य चारयति जगत्द्धिते ॥
तथोपासकरुपेण प्रबोधयनूपासकन् ॥
बोधिमार्गे प्रतिष्ठाप्य चारयति सुसंवरम् ॥
तथा च शिवरुपेण शैवान् सर्वान् प्रबोधयन् ।
बोधिमार्गे नियुज्यासौ चारयति जगद्धिते ॥
एवं स वैष्णवान् सर्वान् विष्णुरुपेण बोध्यन् ।
बोधिमार्गे नियुज्यापि चारयति जगद्धिते ॥
तथा च ब्राह्मणान् सर्वान् ब्रह्मरुपेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयन्ति जगद्धिते ॥

मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc