भाषा

ENहिગુ
ग्रंथ पाठ

गुणकारण्डव्यूहसूत्र · भाग 6180

प्रमातुं शक्यते सर्वैर्मुनीश्वरैर्मयापि च ॥
सर्वेषामुदधीनां च नदीनां च जलान्यपि ।
बिन्दुसंख्याप्रमाणेन गणितुं शक्यते मया ॥
मेरुप्रमाणभूर्जेषु संपूर्णमक्षरं लिखेत् ।
तदक्षराणि सर्वाणि संख्यातुं शक्यते मया ॥
सर्वेस्वपि समुद्रेषु सर्वास्वपि नदीषु च ।
यावत्यो वालुकास्तासां संख्यातुं शक्यते मया ॥
सर्वेषामपि जन्तूनां चतुर्द्विपनिवासिनाम् ।
देहजानि च लोमानि संख्यातुं शक्यते मया ॥
सर्वेषामपि वृक्षाणां चतुर्द्वीपमहीरुहाम् ।
शस्यानामपि पत्राणि संख्यातुं शक्यते मया ॥
प्रवर्षज्जलधराणां वर्षैकस्य निरन्तरम् ।
तद्बिन्दुपरिसंख्याभिः प्रमातुं शक्यते मया ॥
नतु त्रिरत्नसत्कारपिण्डपात्रादिदानजम् ।
पुण्यस्कन्धमसंख्येयं प्रमातुम् शक्यते मया ॥
यदि सर्वे ऽपि सत्त्वाश्च दशभूमिप्रतिष्ठिताः ।
बोधिसत्त्वा महासत्वा भवेयुर्ब्रह्मचारिणः ॥
यावत्तेषां महत्पुण्यं संबोधिġयानसाधनम् ।
ततो ऽपि हि महत्पुण्यं त्रिरत्नं संप्रादानजम् ॥
किमेवं बहुना प्रोक्ता सर्वेरपि मुनीश्वरैः ।
यत्संख्यातुं प्रमातुं च शक्यते न कदाचन ॥
तत्कथमहमेको ऽत्र संख्यातुं शक्नुयामपि ॥
अप्रेमेयमसंख्येयमित्येवं परिबुध्यताम् ॥
एतदेव महत्पुण्यं न क्षिणोति कदाचन ।
सर्वसत्त्वहिताधानसद्धर्मगुणसाधनम् ॥
भद्रश्रीसुखसंपत्तिसंस्थितिसंप्रदायकम् ।
सर्वक्लेशाग्निसंतापहरं संबोधिसाधनम् ॥
एवं महत्fअलं मत्वा त्रिरत्नं सर्वदा स्मरन् ।
ध्यात्वा स्तुत्वा प्रणत्वापि भज नित्यं समाहितः ॥
ये त्रिरत्नं सदा नित्यं श्रद्धया समुपाश्रिताः ।
स्मृत्वा ध्यात्वापि तुष्टाश्च प्रणत्वापि भजन्त्यदि ॥
सर्वे ते विमालात्मानः परिशुद्धेन्द्रियाशयाः ।
निःक्लेशाः सद्गुणाधाराश्चतुर्ब्रह्मविहारिणः ॥
धर्मश्रीगुणसंपत्तिशुभोत्साहसुखारताः ।
बोधिसत्त्वा महासत्त्वा भविष्यन्ति जिनात्मजाः ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् ।
जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः ॥
अर्हन्तः त्रिजगत्पूज्या महाभिज्ञा विनायकाः ।
त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ।

मत्वा तस्मात्त्रिरत्नस्य भज बोधिं यदीच्छसि ॥
इति तेन जगच्छास्ता समादिष्टं निशम्य सः ।
बलिर्दैत्याधिपः पश्यन् विस्मयं समुपाययौ ॥
अथासौ चितयन् यज्ञदानादिप्रकृतं स्वकम् ।
गलदश्रुमुखः पश्यंल्लोकेश्वरं तमब्रवीत् ॥
भगवन् कीदृशं कर्म मूढेन प्रकृतं मया ।
येनेहापि मया प्राप्तं बन्धनं स्वजनैः सह ॥
हा मया कुधिया यज्ञं तीर्थिकसंमतं कृतम् ।
यत्fअलेनाहमत्रैवं बन्धितः सजनो ऽधसि ॥
अहो बौद्धेषु यद्दानं प्रकृतं तत्फलं शुभम् ।
येनेह भद्रसंपत्तीर्भुक्त्वान्ते याति निर्वृतिम् ॥
हा मूढेन कृत तीर्थिकशासने मया ।
येनेहैवं महद्दुःखं प्राप्तं स्वजनैः सह ॥
यदा मया जगन्नाथ समारभ्य महन्महम् ।
सर्वार्थिभ्यः ससत्कारं दानं दत्तं यथेप्सितम् ॥
तदा वामन आगत्य ब्रह्मचारी ममाग्रतः ।
द्विपदमात्रसंस्थानं पृथिव्यां समयाचयत् ॥
तच्छ्रुत्वा दानरक्तेतन मया मानातिमानिना ।
तृतीये पदसंस्थानं दत्तं तस्मै महीतले ॥
मया प्रदत्तमादाय स्वस्तिवाक्यमुदीरयन् ।
वामनः स महन्मूर्त्तिं धृत्वातिष्ठत् पुरो मम ॥
स त्रिपादो महद्भूतो भीमरुपो महर्द्धिमान् ।
धृत्वा त्रैविक्रमीं मूर्त्तिं पश्यन् मामेवमब्रवीत् ॥
देहि मे यत्त्वया दत्तं तृतीयस्य पदस्य मे ।
स्थानं न विद्यते कुत्र स्थापयेयमिदं वद ॥
एकं न्यस्तं मयाकाशे द्वितीयं च महीतले ॥
तृतीयं मे पदं कुत्र स्थापयेथा त्दं वद ॥
इति तेनोदितं श्रुत्वा लज्जितो प्रविषर्णधिः ।
किंचिद्वक्तुशक्तो ऽहमतिष्ठं मूढमानसः ॥
तदा स विष्णुरालोक्य मामवमवदत्पुनः ।
यत्राहं स्थापयिष्यामि तत्र संस्थापयेद् ध्रुवम् ॥
इति तदुक्तमाकर्ण्य तदाहमवदंस्तथा ॥
त्वया संस्थाप्यते यत्र तत्र संस्थापयाम्यहम् ॥
इति सत्यं मया प्रोक्तं श्रुत्वा स संप्रहर्षितः ।
मूर्धनि मे तृतीयेन पादेनाक्रम्य विक्रमी ॥
मामिहाधसि पाताले सान्तःपुरजनान्वितम् ।
सबन्धुसानुगं चापि बन्धने स्थापयत्यसौ ॥
यन्महादारुणं पापं निर्दयेन मया कृतम् ।
तेनात्र बन्धनं प्राप्तं सान्तःपुरजनैः सह ॥
दत्वार्थिभ्यो ऽपि सर्वेभ्यः सर्वोपकरणान्यपि ।

यथाभिवांछितं द्रव्यं गजाश्वरथवाहनम् ॥
कुक्षत्रे यत्कृतं दानमेतत्फलमिहाश्यते ।
हा मया किं कृतं श्रुत्वा तीर्थिकशासनम् ॥
एवं भद्रfअलं पुण्यं त्रिरत्नभजोनोद्भवम् ।
मया न श्रूयते क्वापि ज्ञायते नैवमुत्तमम् ॥
हाहं तीर्थिकैर्दुष्टैवशीकृत्वाभिवांछितः ।
प्रतारितो ऽप्यसद्धर्मे प्रापितो ऽत्रापि बन्धने ॥
ईदृशं सत्fअलं पुण्यं भद्रश्रीबोधिसाधने ।
सुक्षत्रे दानसंभूतं नश्रुतं न मतं मया ॥
यदीदृशं महत्पुण्यं भद्रश्रीबोधिसंप्रदम् ।
न ज्ञातं तत्त्रिरत्नानां प्राभजिष्यन् सदा भवे ॥
तन्मया भगवन् ज्ञातं श्रुत्वेदं भवतोदितम् ।
तत्सदैव त्रिरत्नानां शरणस्थो भजाम्यहम् ॥
तद्भवान् समुपाख्यातु त्रिरत्नभजने विधिम् ।
अद्यारभ्य सदाप्येवं चरिष्याम्यहमाभवम् ।
तथाहं भगवन् बुद्धरत्नस्य शरणे स्थितः ।
यथाविधि समभ्यर्च्य भजानि सर्वदाभवम् ॥
तथा च धर्मरत्नानां शरणे समुपस्थितः ।
सत्कृत्य श्रद्धया गौण्यं श्रुत्वा भजानि सर्वदा ॥
तथा य संघरत्नानां शरणे सर्वदा स्थितः ।
तथार्हभोजनैश्चापि सत्कृत्य प्रभजाम्यहम् ॥
यथात्र भवतादिष्टं संचरिष्ये तथा खलु ।
संबोधिसाधनं धर्मं समुपादेष्टुमर्हति ॥
इति तदुक्तमाकर्ण्य लोकेश्वरः स सर्ववित् ।
प्रबोधितं तमालोक्य दैत्येन्द्रमेवमादिशत् ॥
साधो बले ऽसुरेन्द्रो ऽसि तच्छ्रिणुष्व समाहितः ।
हितार्थं ते प्रवक्ष्यामि यदि सद्धर्ममिच्छसि ॥
आदौ विरम्य पापेभ्यो दुष्टमित्राद्दूरगतः ॥
सन्मित्रं समुपाश्रित्य चर भद्र समाहितः ॥
ततः श्रद्धाशयो धीरश्चतुर्ब्रह्मविहारिकः ।
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥
सौगतेभ्यस्तथार्थिभ्यः श्रद्धया मानयन् मुदा ।
संबोधिप्रणिधानेन कुरुष्व दानमीप्सितम् ॥
संबोधिप्रणिधानेन यद्धानं श्रद्धया कृतम् ।
तत्fअलं हि महत्सिद्धं संबुद्धपदसाधनम् ॥
ततो ऽन्यत्प्रणिधानेन यद्दानं प्रकृतं मुदा ।
तत्कलं श्रीमहत्सौख्यं दद्यान् नैव तु सौगतम् ॥
तत्त्रिरत्नमनुस्मृत्वा संबोधिनिहिताशयः ।
ददस्व श्रद्धया दानं बौद्धं पदं यदीच्छसि ॥
एवं दत्वा सदा दानं बोधिचित्तो जितेन्द्रियः ।

शुचिशीलसमाचारश्चरस्व पोषधं व्रतम् ॥
व्रतं विना न शुध्येत त्रिकायं महतामपि ।
तद्बोधिप्रणिधानेन चरष्व सौगतं व्रतम् ॥
एवं व्रतं सदा धृत्वा चतुर्ब्रह्मविहारधृक् ।
संबोधिप्रणिधानेन क्षान्तिव्रतं समाचर ॥
कृत कल्पसहस्त्रैर्यद्दानं त्रिरत्नसाधनम् ।
क्लेशोत्थितो जगद्दुष्टः क्रधो हन्ति क्षणेन तत् ॥
तत्क्लेशारीन् जगद्दुष्टान् क्रोधमूलान् विनिर्जयन् ।
संबोधिप्रणिधानेन सत्त्वे क्षमाव्रतं चर ॥
केवलं क्षमया नैव सद्धर्मगुणसाधनम् ।
विना वीर्यसमुत्साहम् सिध्यते बोधिसंवरम् ॥
तत्कौधीद्यं समुत्सृज्य संबोधिनिहिताशयः ।
धृत्वा वीर्यसमुत्साहं चर भद्रार्थसाधने ॥
न हि वीर्यं विनाकार्यं सिध्यते सुधियामपि ।
तस्माद्वीर्यं समाधाय संबोधिकृतनिश्चयः ॥
स्वपरामहिताधानं सद्धर्मरत्नमर्जय ।
दुर्बुद्धेर्हि महोत्साहं वीर्यं न साधयेच्छुभम् ॥
स्वपरात्महितोत्पातमेव कुर्यात् सदारिवत् ।
तद्धैर्यसुमतिं धृत्वा संबोधिध्याननिष्ठितः ॥
सर्वसत्त्वहिताधानं सद्धर्मरत्नमर्जय ।
प्रज्ञाविरहितो नैव ध्यानाहितो ऽपि सिध्यते ।
तत्सत्प्रज्ञामहारत्नमर्जय त्रिजगद्धिते ॥
एतद्धि परमोपायं संबोधिज्ञानसाधने ।
विज्ञाय त्वं सदा सत्त्वहितार्थे चर सद्व्रतम् ॥
तदा त्वं बोधिसत्त्व स्याः सर्वसत्त्वहितार्थभृत् ।
भद्रचारी महाअभिज्ञो महासत्त्वो जिनात्मजः ॥
इति बौद्धपदं प्राप्तुं यदीच्छसि जगद्धिते ।
बोधिचित्तं महारत्नं प्राप्तुं रत्नत्रयं भज ॥
त्रिरत्नभजनोत्पत्रपुण्यरत्नानुभावतः ।
बोधिचित्तं महारत्नं प्राप्स्यते जगद्धिते ॥
इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः ।
बलिः प्रबोधितो बोधिचर्याव्रतं समैच्छत ॥
ततः स बलिरालोक्य तं लोकेशं जिनात्जम् ।
सांजलिः प्रणतिं कृत्वा प्रार्थयच्चैवमादरात् ॥
भगवंस्त्रिजगन्नाथो भवानेव जगद्गुरुः ।
समुद्धर्ता सुहृन्मित्रं कश्चिन्नैवापरो मम ॥
तदाज्ञां भवतां धृत्वा शिरसाहं समाहितः ।
त्रिरत्नभजनं कॄत्वा संचरिष्ये सुसंवरम् ॥
तच्चित्तरत्नसंप्राप्त्यै सर्वान् बुद्धान् मुनीश्वरान् ।
धर्मरत्नं च संघांश्च शरणं गच्छामि सर्वदा ॥

तेषां पूजां करिष्यामि श्रद्धया समुपस्थितः ।
धर्में श्रुत्वा च संघानां दास्ये यथार्हं भोजनम् ॥
अद्यारभ्य सदा तेषां मुनीन्द्राणामुपासकः ।
यथाविधि व्रतं धृत्वा चरिष्यामि जगद्धिते ॥
सच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानाम् ।
सद्धर्मरत्नस्य च निर्मलास्य बुद्धात्मजानां च गुणाकराणाम् ॥
यावन्ति पुष्पाणि fअलानि चौवं भैषज्यजातानि च यानिओ सन्ति ।
रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥
महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः ।
लताः सुपुष्पाभरणोज्ज्वलाश्च दुमाश्च ये सत्fअलनम्रशाखाः ॥
देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः ।
सरांसि चाम्भोरुहभूषनानि हंसस्वनात्यन्तमनोहराणि ॥
अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि ।
आकाशधातिप्रसरावधीनि सर्वान्यपीमान्यपरिग्रहानि ॥
आदाय बुद्धया मुनीपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः ।
गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥
अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् ।
अतो ममार्थय परार्थचिन्ता गृणन्तु नाथा इदमात्मशक्त्या ॥
ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः ।
परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या ॥
परिग्रणास्मि भवत्कृतेन निभीर्भवे सत्त्वहितं करोमि ।
पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥
सबुद्धधर्मसंघेषु चैत्येषु प्रतिमासु च ।
पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम् ॥
बोधिसत्त्वा महासत्त्वाः पूजयन्ति यथा जिनान् ।
तथा सर्वान् मुनीन्द्रांस्तान् सपुत्रान् पूजयाम्यहम् ॥
स्वरांगसागरैः स्त्रोत्रैः स्तौमि चाहं गुणोदधीन् ।
स्तुतिसंगीतिमेघाश्च संभवन्त्येष्वनन्यथा ॥
सर्वक्षत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम् ।
सर्वांस्त्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान् ॥
सर्वचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयानपि ।
नमस्करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा ॥
बुद्धं गच्छामि शरणं यावदाबोधिमण्दतः ।
धर्मं गच्छामि शरणं बोधिसत्त्वगणांस्तथा ॥
विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् ।
महाकारुणिकांश्चापि बोधिसत्त्वान् कृतांजलिः ॥
अनादिगतिसंसारे जन्मन्यत्रैव वा पुनः ।
यन्मया पशुना पापं कृतं कारितमेव वा ॥
यच्चानुमोदितं किंचिदात्मघाताय मोहिनः ।
तदत्ययं देशयाम्यत्र पश्चात्तापेन तापितः ॥

रत्नत्रये ऽपकारो यो मातापितृषु वा मया ।
गुरुष्वन्येषु वा क्षोपात्कायवाग्बुद्धिभिः कृतः ॥
अनेकदोषदुष्टेन मया पापेन मोहना ।
यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥
कथं च निःसराम्यस्मात् नित्योद्विग्नो ऽस्मि साम्प्रतम् ॥
मा भून्मे मृत्युरचिरादक्षीणे पापसंचये ॥
कृताकृतोपरीक्षो ऽयं मृत्युर्विश्रम्भघातकः ।
स्वस्थास्वस्थैरविश्वास्य आहस्मिकमहाशनिः ॥
प्रियाप्रियनिमित्तेन पापं कृतमनेनेकधा ।
सर्वमुत्सृज्य गन्तव्यं मया न ज्ञातमीदृशम् ॥
अप्रिया न भविष्यन्ति भविष्यन्ति न मे प्रियाः ।
अहं च न भविष्यामि सर्वं च न भविष्यति ॥
तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते ।
स्वप्नानूभूतवत् सर्वें गतं न पुनरीक्ष्यते ॥
इहैव तिष्ठतस्तावद्गतानेकप्रियाप्रियाः ।
तन्निमित्तं कृतं पापं मे पुरःस्थितम् ॥
एवमागन्तुको ऽमीती मया नैव समीक्ष्यते ।
मोहनुनयाविद्वेअषैः कृतं पापमनेकशः ॥
रात्रिंदिवमविश्राममायुषो वर्धते व्ययः ।
आयस्यज्यागमो मास्ति न मरिष्याम्यहं कथम् ॥
इह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता ।
मयैवैकेन सोढव्या मर्मछेदादिवेदना ॥
यमदूतैर्गृहीतस्य कुतो बन्धुसुहृत्सखाः ।
पुण्यमेकं तदा त्राणं मया तत्रैव संचितम् ॥
अनित्यजीवीतासंगादित्थं भयमजानता ।
प्रमत्तेन मदान्धेन बहुपापं मयार्जितम् ॥
अंगछेदार्थमप्यन्यो नीयमानो विशुष्यति ।
पिपसितो दीनदृष्टिरन्यदेवेक्षते जगत् ॥
किं दुष्टैर्भैरवाकारैर्यमदूतैरधिष्ठितः ।
महात्रासंकरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥
कातरैर्नत्रविक्षोपैस्त्राणान्वेषी चतुर्दिशम् ।
को मे महाभयादस्मात् साधुस्त्राता भवेदिह ॥
त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः ।
तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये ॥
अधैव शरणं यामि जगन्नाथान् महाबलान् ।
जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान् ॥
तैश्चाधिगतं धर्मं संसारभयनाशनम् ।
शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥
समन्तभद्रायात्मानं ददामि भयविह्वलः ।
विरौम्यार्तरवं भीतो भयं नाशयते द्रुतम् ॥

तत्र सर्वज्ञनाथस्य सर्वपापापहारिणः ।
वाक्यमुल्लंघयामीति धिग्मामत्यन्तमोहितम् ॥
तिष्ठाम्यत्यप्रमत्तो ऽहं प्रयातेष्वितरेष्वपि ।
किमु योजनसाहस्रे प्रपाते दीर्घकालिके ॥
अद्यैव मरणं नैति न युक्त मे सुखासिका ।
अवश्यं न भविष्यामि कस्मान्मे सुस्थिनं मनः ॥
पूर्वानुभूते नष्टेभ्यः किं मे सारमवस्थितम् ।
येषु मे ऽभिनिविष्टेन गुरुणां लंघिनं वचः ॥
जीवलोकमिमं त्यक्त्वा बन्धून् परिचितानपि ।
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥
इयमेव तु मे चिन्ता युक्ता रात्रंदिवं सदा ।
अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥
मया दुष्टेन मूढेन यत्पापं प्रकृतं पुरा ।
प्रकृत्या देशयाम्येष नाथानामग्रतो ऽधुना ।
कृतांजलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥
अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः ।
अभद्रकं पुनर्नाथा न करिष्यामि सर्वदा ॥
अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुमम् ।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥
संसारे दुःखवैमोक्षमनुमोदे शरीरिनाम् ।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् ॥
चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् ।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् ॥
सर्वदिक्संस्थितान् बुद्धन् प्रार्थयामि कृतांजलिः ।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥
जिनान् निर्वातुकामांश्च याचयामि समादरात् ।
कल्पो ऽननल्पान्स्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥
इत्युक्ते बलिना तेन लोकेश्वरो निशम्य निशम्य सः ।
साधु साध्विति संराध्य तं बलिं चैवमब्रवीत् ॥
क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥
रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम् ।
बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिःक्षणं स्यात् ॥
तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् ।
तज्जीयते ऽयेन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥
कल्पाननल्पान् प्रतिचिंतयद्भिर्दृष्टं मुनीन्द्रैः हितमेतदेव ।
यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यमितान् जनौघान् ॥
भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानिओ हर्तुकामैः ।
बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम् ॥
भवचारकबन्धनो वरो कः सुगतानां सुत उच्यते क्षणेन ।

सनरामरलोकवन्दनीयो भवति स्यादित एव बोधिचित्ते ॥
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् ।
रसजातमतीव वेधनीयं सुदृढं गृह्णीष्व बोधिचित्तरत्नम् ॥
सुपरीक्षितमप्रमेयधीभीर्बहुमूल्यं जगदेकसार्थवाहैः ।
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णन्तु बोधिचित्तरत्नम् ॥
कदलीव fअलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव ।
सततं fअलति क्षयं न याति प्रसवत्येव हि बोधिचित्तवृक्षः ॥
कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन ।
शूराश्रयेणैव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥
युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन ।
यस्यानुशंसानमितान् उवाच मैत्रेयनाथः सुधनाय धीमान् ॥
तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः ।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥
गन्तुकामश्च गन्तुश्च यथाभेदः प्रतीयते ।
तद्वद् भेदा ऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥
बोधिप्रणिधिचित्तस्य सम्सारे ऽपि महत्fअलम् ।
न त्वविच्छिन्नपुण्यत्वं यथाप्रस्थानचेतसः ॥
यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे ।
समाददाति तच्चित्तमनिवर्तेन चेतसा ॥
ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः ।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥
जगदानन्दबीजस्य जगद्दुःखौषधस्य च ।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयते ॥
हिताशंसनमात्रेन बुद्धपूजा विशिष्यते ।
किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥
दुःखमेवाभिधावन्ति दुःखनिःसरणाशयाः ।
सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् ॥
यस्तेषां सुखरंकाणां पीडितानामनेकशः ।
तृप्तं सर्वसुखैः कुर्यात् सर्वाः पीडाश्छिनत्ति च ॥
नाशयत्यपि संमोहं साधुस्तेन समः कुतः ।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥
कृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते ।
अव्यापारितः साधुस्तु बोधिसत्त्वः किमुच्यते ॥
इति मन्त्रयतौ जिनस्य पुत्रे कलुषं स्वहृदये करोति यः ।
कलुषोदयसंख्यया सकल्पान्नरकेष्वासतीति नाथ आह ॥
अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं fअलम् ॥
तस्माद् गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः ।
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥
त्वयापि च यथाशक्तिस्तत्र किं परिलम्ब्यते ।
नाद्य चेत् क्रियते यत्नं तलेनापि तलं व्रजेः ॥

यदि चैवं प्रतिज्ञाय साधयेनैव कर्मणा ।
एअतान् सर्वान् विसंवाद्य का गतिस्ते भविष्यति ॥
मनसा चिन्तयित्वा तु यो न दद्यात् पुनर्नरः ।
स प्रेतो भगवतीत्युक्तमल्पमात्रे ऽपि वस्तुनि ॥
किमुतानुत्तरं सौख्यमुच्चैरुद्घुष्य भावतः ।
यस्मादापद्यमानो ऽसौ सर्वसत्त्वार्थहानिकृत् ॥
यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति ।
तस्य दुर्गतिपर्यन्तं नास्ति सत्त्वार्थघातिनः ॥
एकस्यापि हि सत्त्वस्य हितं हित्वा हतो भवेत् ।
अशोषाकाशपर्यन्तवासिनां किमु देहिनाम् ॥
अप्रेमेयागता बुद्धाः सर्वसत्त्वगवेषकाः ।
त्वमेषां न स्वदोषेण चिकित्साअगोचरं गतः ॥
न हीदृशैस्त्वच्चरित्रैः सद्गुतिर्लभ्यते पुनः ।
सद्गतावलभ्यमानायां पापमेव कुतः शुभम् ॥
यदा कुशलयोग्यो ऽपि कुशलं त्वं करोषि न ।
अपायादुःखसंमूढ किं करिष्यसि तदा शुभम् ॥
अकुर्वतश्च कौशल्यं पापमेवोपचिन्नतः ।
हतः सुगतिशब्दो ऽपि कल्पकोटिशतैरपि ॥
एके क्षणकृतात् पापादवीचौ कल्पमास्यते ॥
अनादिकालोपचितात् पापात् का सुगतौ कथा ॥
यदीदृशं क्षणं प्राप्य पुनः सीदसि मोहितः ।
शोचिष्यसि चिरं भूयो यमदूतैः प्रचोदितः ॥
चिरं धक्ष्यति ते कायम् नारकाग्नि सुदुःसहः ।
पश्चात्तापानलचित्तं चिरं धक्ष्यत्यशिक्षितम् ॥
हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः ।
न शुरा नैव ते प्राज्ञाः कथं दासीकृतो ऽसि तैः ॥
त्वच्चितावस्थित्ता एव घ्नन्ति त्वामेव सुस्थिताः ।
अत्र ते चेतना नास्ति मन्त्रैरिव विमोहितः ॥
सर्वे देवा मनुष्याश्च यदि स्युस्तव शत्रवः ।
ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥
सर्वे हिताय कल्प्यन्ते स्वानुकूल्येन सेविताः ।
सेव्यमानस्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥
भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः ।
मतिवेश्मनि लोभयन् जले यदि तिष्ठन्ति कुत सुखं तव ॥
अकारणेनापि रिपुक्षतानि गात्रेष्वलंकारदुद्वहन्ति ।
महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मात्तव बाधकानि ॥
स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः ।
शीतातपादिव्यसनं सहन्ते जगद्धितार्थम् सहसे कथं न ॥
दुर्गापुत्रककर्णाढ्या दाहछेदादिवेदनाम् ।
मुधा सहन्ते मुक्त्यर्थं कस्मात्त्वमसि कातरः ॥

मुक्त्यर्थिनश्च यक्तं ते लोभसत्कारबन्धनम् ।
ये मोचयन्ति बन्धात्त्वां द्वेषस्तेषु कथम् तव ॥
स्पृष्त उष्नोदकेनापि सुकुमारः प्रतप्यसे ।
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥
न किंचिदस्ति तद्वस्तु तदभ्यासस्य दुष्करम् ।
तस्माअमृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा ॥
दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते ।
स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥
मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् ।
रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥
स्पृष्ट उष्णोदकेनापि सुकुमारः प्रतप्यसे ।
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥
न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् ।
तस्माअमृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा ॥
दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते ।
स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥
मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् ।
रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥
बोधिच्छन्दवियोगेन पौर्वकेन तवाधुना ।
विपत्तिरीदृशी जाता तस्माद्बोधिं प्रसाधय ॥
मिथ्या कल्पनया चित्ते पापात् काये व्यथा यतः ।
तस्मात् कार्यं शुभे छन्दं भावयित्वैवमादरात् ॥
न प्राप्तं भगवन्पूजामहोत्साहसुखं त्वया ।
न कृता शासने कारा दरिद्राशा न पूरिता ॥
भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः ।
केवलस्वात्मसौख्यार्थं यज्ञदानं कृतं त्वया ॥
अभिलाषविघाताश्च जायन्ते पापकारिणाम् ।
दुःखानि दौर्मनस्यानि भयानि विविधान्यपि ॥
पापकारी सुखेच्छश्च यत्र यत्राभिगच्छति ।
तत्र तत्रैव तत्पापैर्दुःखशस्त्रैअहन्यते ॥
मनोरथं शुभकृतां यत्र यत्रैव गच्छति ।
तत्र तत्रापि तत्पुण्यैः फलार्घ्येनाभिपूज्यते ॥
विपुलसुगन्धिशीतलसरोरुहगर्भगताः ।
मधुरजिनस्वराशनकृतोपचितद्युतयः ॥
मुनिकरबोधितां व्रज विनिर्गतसद्वपुषः ।
सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥
यमपुषापनीतसकलछविरार्तरवो
हुतवहतापविद्रुतकताम्रनिषिक्ततनुः ।
ज्वलदसिशक्तिघातशतशातितमांसदलः
पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥

जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं वर्धते ।
अन्यच्च कार्यं कालं च हीनं तत्तनसाधितम् ॥
आपदा बाधते ऽल्पापि मनस्ते यदि दुर्बलम् ।
विषादकृतनिश्चेष्ट आपदः सुकरा ननु ॥
व्युत्थितश्चेष्तमानस्तु महतामपि दुर्जयः ।
तदेष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥
ये भोग्यमानविजिता वराकास्ते न मानिनः ।
मानि शत्रुं वशं नेति मानशत्रुवशास्तु ते ॥
मानेन दुर्गतिं नीता मूर्खा दुर्दर्शनाः कृशाः ।
हताशाः परिभूताश्च मानुष्ये ऽपि हतोत्सवाः ॥
ते मानिनो विजयिनश्च त एव शूराः ये मानशत्रुविजयाय वहन्ति मानम् ।
ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयfअलं प्रतिपादयन्ति ॥
कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः ।
पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः ॥
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥
अवश्यं न धृतिं याति समाधौ न च तिष्ठति ।
नच तृप्यति दृष्ट्वापि पूर्वद् बाध्यते तृषा ॥
न पश्यति यथाभूतं संवेगादवहीयते ।
दद्यते तेन शोकेन प्रियसंगमकांक्षया ॥
तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः ।
अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥
बालैः स भागचरितो नियतं याति दुर्गतिम् ।
नेष्यते विसभागश्च किं प्राप्तं बलसंगमात् ॥
क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् ।
तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥
हितमुक्ताः प्रकुप्यन्ति वारयन्ति च ते हितात् ।
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥
ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनात्मानः स्तुतेर्मदः ।
अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥
आत्मोत्कर्षः परावर्णः संसाररतिसंकथा ।
इत्याद्यवश्यमशुभं सर्वथा बालसंगमात् ॥
तस्मात् प्राज्ञो न तामिच्छेदिच्छातो जायते भयम् ।
नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः ॥
बहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः ।
सहलाभयशोभिस्तेन ज्ञाताः क्व गता इति ॥
कामा ह्यनर्थजनका इहलोके परत्र च ।
इह बन्धवधछन्दैर्नारकादौ परत्र च ॥
यदर्थं दूतदूतीइनां कृतों ऽजलिरनेकधा ।
न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥

प्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम् ।
यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः ॥
तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च ।
प्रकामं संपरिष्वज्य किं न गच्छति निर्वृतिम् ॥
एकस्मादशनादासां लालामेध्यं च जायते ।
तत्रामेध्यमनिष्ठं ते लालापानं कथं प्रियम् ॥
यदि न ते ऽशुचौ रागः कस्मादालिंगसे परम् ।
मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपंजरम् ॥
अमेध्यभवमल्पत्वान्न वांछस्यशुचिं कृमिम् ।
बह्वमेध्यमयं कायममेध्यजमपीच्छसि ॥
श्मशाने परितान् घोरान् कायाम् पश्यापरानपि ।
कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥
मानार्थं दासतां यान्ति मुढाः कामविदम्बिताः ।
दह्यन्ते छिद्यमानाश्च हन्यमानाश्च शक्तिभिः ॥
अर्जनरक्षणेनाथ विषादैरर्थमनन्तमवेहि ।
व्यग्रतया धनसत्तमतीनां नावसरो भवदुःखविमुक्त्यै ॥
मायया निर्मितं सर्वं हेतुभिर्यच्च निर्मितम् ।
आयाति तत्कुतः कुत्र याति चेति निरुप्यताम् ॥
स्वप्नोपमास्तु गत्यो विचारे कदलीसमाः ।
निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥
एवं शून्येषु भावेषु किं लब्धं किं हृतं भवेत् ।
सत्कृतः परिभूतो वा केन कः संभविष्यति ॥
कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् ।
का तृष्णा कुत्र सा तृष्णा मृग्यमाना स्वभावतः ॥
विचारे जीवलोके हि को नामात्र मरिष्यते ।
को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥
सर्वमाकाशसंकाशं परिगृह्णीष्व तत्तथा ।
प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥
शोकायासौविषादैश्च मिथश्छेदनभेदनैः ।
यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥
मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च ।
आगत्त्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥
भवे बहुप्रपातश्च तत्र वा तत्त्वमीदृशम् ।
तत्रान्योन्यविरोधश्च न बह्वेत्तत्त्वमीदृशम् ॥
तत्र चानुपमास्तीव्रा अनन्ता दुःखासागराः ।
तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥
तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः ।
निद्रयोपद्रवैर्बालैः सत्संगैनिष्fअलैस्तथा ॥
वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः ।
तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः ॥

तत्रापि यतते मारो महापायप्रपातने ।
तत्रासन्मार्गबाहुल्यं विचिकित्सा च दुर्जया ॥
पुनश्च क्षणदौर्बल्यं बुद्धोत्पादो ऽतिर्लभः ।
क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा ॥
अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् ।
येनेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःखिताः ॥
स्नात्वा स्नात्वा यथा कश्चिद्विशेद् वह्निं मुहुर्मुहुः ।
स्वसौस्थित्यं न मन्यन्त एवमप्यतिदुःस्थिताः ॥
अजरामरशीलानामेवं विहरतां सताम् ।
आयास्यन्त्यापदो घोरा कृत्वा मरणमग्रतः ॥
एवं दुःखातप्तानां शान्त्यै बोधिव्रतं चर ।
बोधिव्रतं महत्पुण्यं संबोधिज्ञानसाधनम् ॥
पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः ।
सदोपलम्भदृष्टिभ्यो बुद्धादेशय शून्यताम् ॥
संवृत्यानुपलम्भेन पुण्यसंभारमाचर ।
तस्माद्यथार्त्तिशोकादेरात्मानं गोप्तुमिच्छसि ॥
रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा ।
दुष्करान् मा निवर्तस्व तस्मासभ्यासशक्तितः ।
यस्यैव श्रवणात् त्रासस्तैरेव न विना रतिः ॥
आत्मानं च परांश्चैव यः शीघ्र त्रातुमिच्छति ।
स चरेत् परमं गुह्यं परात्मसमवर्तनम् ॥
यस्मिनात्मन्यतिस्नेहादल्पासपि भयाद्भयम् ।
न द्विषेत् कस्तमात्मानं शत्रुवद्यो भयावहः ॥
यो मान्यक्षुप्तिपासादिप्रतीकारचिकीर्षया ।
पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥
यो लाभसत्क्रियाहतोः पितरावपि मारयेत् ।
रत्नत्र्यस्वमादद्याद्येनावीचिन्धनो भवेत् ॥
कः पण्डितस्तमात्मानमिच्छेद्रक्षेत् प्रपूजयेत् ।
न पश्येच्छत्रुवच्चैनं कश्चैवं प्रतिमानयेत् ॥
यदि दास्यामि किं भोज्ये इत्यात्मार्थे पिशाचता ।
भोक्ष्ये चेत्किं ददामीति परार्थे देवराजता ॥
आत्मार्थं पीडयित्वान्यन्नरकादिषु पच्यते ।
आत्मानं पीडयित्वा तु परार्थे सर्वसंपदः ॥
दुर्गतिर्नीचता सौख्यं ययेवात्मोन्नतीच्छया ।
तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥
आत्मार्थं परमाज्ञाप्य दासत्वाद्यनुभूयते ।
परार्थं स्वयमाज्ञाप्य स्वामित्वाद्यनुभूयते ॥
ये केचिद्दुġखिता लोके सर्वे ते स्वसुखेच्छया ।
य केचित्सुखिता लोके सर्वे ते ऽन्यसुखेच्छया ॥
बहुनात्र किमुक्तेन दृश्यतामिदमन्तरम् ।

स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥
न नामसाध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम् ।
स्वसुखस्यान्यदुःखेन परिवर्त्तमकुर्वतः ॥
आस्ताम् तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति ।
भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् ॥
त्यक्त्वान्योन्यसुखोत्पादं दृष्ट्वादृष्टसुखोत्सवम् ।
अन्योन्यदूषणाद् घोरं दुःखं गृह्णन्ति मोहिताः ॥
उपद्रवा ये च भवन्ति लोके यावन्ति दुःखानि भयानि चैव ।
सर्वाणि तान्यात्मपरिग्रहेण तत्किं तव स्वात्मपरिग्रहेण ॥
आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते ।
यथाग्निमपरित्यज्य दाहस्त्यक्तुं न शक्यते ॥
तस्मात् स्वदुख शान्त्यर्थं परदुःखशमाय च ।
ददस्वान्येभ्य आत्मानं परान् गृह्णीष्व चात्मवत् ॥
अन्यसंबन्धितो ऽस्मीति निश्चयं कुरु संमते ।
सर्वं सत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥
सर्वमेतत् सुचरितं दानं सुगतपूजनम् ।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥
मनः शमं न गृह्णाति न प्रीतिसुखमश्रूते ।
न निद्रां न धृतिं द्वेसशल्ये हृदि स्थिते ॥
पूजयत्यर्थमानैर्यान्ये ऽपि चैनं समाश्रिताः ।
ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥
सुहृदो ऽप्युद्विजन्ते ऽस्माद्ददाति चेन्न सेव्यते ।
संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥
न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः ।
मारिते क्रोधचित्ते तु नश्यन्ते सर्वशत्रवः ॥
विकल्पेधनदिप्तेन जन्तुः क्रोधाग्निना किल ।
दहत्यात्मानमेवादौ परं धक्ष्यति वा न वा ॥
जरा रुपवतां क्रोधः तमश्चक्षुष्मतामपि ।
वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत् ॥
अनिष्टकरणाज्जातमिष्टस्य च विघातनात् ।
कोधं यो हन्ति निर्बन्धात् स सुखीह परत्र च ॥
अत्यनिष्ठागमेनापि न क्षोभ्या मुदिता त्वया ।
दौर्ममनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते ॥
यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् ।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥
गुणो ऽपरश्च दुःखस्य यत्सम्वेगान्मदच्युतिः ।
संसारिषु च कारुण्यं पापाद्भीतीर्जिने स्पृहा ॥
ये केचिदपराधास्तु पापानि विविधानि च ।

तत्सर्वं प्रत्ययबलात् स्वतन्त्रस्तु न विद्यते ॥
तस्मान्मित्रममित्रं वा दृष्ट्वाप्यन्यायकारिणं ।
ईदृशाः प्रयया अस्येत्येवं मत्वा सुखी भव ॥
त्वत्कर्मचोदिता एव जातास्त्वय्यपकारिणः ।
येन यास्यन्ति नरकान् त्वयैव ते हता ननु ॥
एतानाश्रित्य ते पापं क्षीयते क्षमता बहु ।
त्वामाश्रिय तु यान्त्येते नरकान् दीर्घवेदनान् ॥
त्वमेवास्यपकार्येषां तवैते चापकारिणः ।
मोहादिके पराध्यन्ते कुप्यन्त्यन्ये ऽपि मोहिताः ॥
एवं बुध्वा तु सत्त्वेषु क्षान्तिं धृत्वा शुभे चर ।
येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥
स्तुतियशो ऽर्थसत्कारा न पुण्या यतर्चषुष्वे ।
न बलार्थं न चारोग्येन च कायसुखाय ते ।
स्तुत्यादयश्च ते क्षेमं संवेगं नाशयन्त्यपि ।
गुणवत्स्वपि मात्सर्यं सम्पत्कोपं च कुर्वते ॥
तस्मात् स्तुत्यादिघाताय ये तव प्रत्युपस्थिताः ।
अपायपातरक्षार्थं प्रवृत्तास्तद्विषस्तव ॥
दुःखप्रवेष्टुकामस्य ये कपाटत्वमागताः ।
बुद्धाधिष्ठानत जाता इव द्वेषस्तेषु कथम् ॥
पुण्ये विघ्नः कृतो ऽनेनेत्यत्र को यो न युज्यते ।
क्षान्त्या समं तपो नास्ति न त्वेतत्तदुपस्थितम् ॥
अथ त्वमात्मदोषेण न करोषि क्षमामिह ।
त्वयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥
न कालोपपन्नेन दानविघ्नः कृतो ऽथिना ।
न च प्राव्राजके प्राप्ते प्रव्रज्य बिघ्न उच्यते ॥
सुलभा याचका लोके दुर्लभास्त्वपकारिणः ।
यतस्ते ऽनपराद्धस्य न कश्चिदपराध्यति ॥
अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः ॥
बोधिचर्यासहायत्वात् स्पृहणीयस्सदा रिपुः ।
अपकाराशयो ऽसे ऽतिशत्रुर्यदि न पूज्यते ॥
अन्यथा ते कथं क्षान्तिर्भिषग्जीवहितोद्यते ।
तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा ।
स एवातः क्षमाहेतुः पूज्यस्स धर्मवत्सदा ॥
सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् ।
एतानाराध्य बहवः सम्पत्पारं यतो गताः ॥
सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे ।
जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः ॥
मैत्र्याशयस्तु यत्पूज्यः सत्त्वमाहात्म्यमेव तत् ।
बुद्धप्रसादाद्यत्पुत्यं बुद्धमाहात्ममेव तत् ॥
बुद्धधर्मागमांशेन तस्मात् सत्त्वा जिनैः समाः ।

न तु बुद्धैः समाः केचिदनन्तांशैर्गणार्णवैः ॥
गुणसारैकराशीनां गुणो ऽणुरपि चेत् क्वचित् ।
दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥
बुद्धधर्मोदयांशश्च श्रेष्ठः सत्त्वेषु विद्यते ।
एतदंशानुरुपेण बुद्धपूजा कृता भवेत् ॥
किं च निश्च्छद्मबन्धूनामप्रमेयोपकारिणाम् ।
सत्त्वाराधनमुत्सृज्य निष्कृतिः कापरा भवेत् ॥
येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां च प्रविशन्ति मन्युम् ।
तत्तोषणात् सर्वमुनीन्द्रतुष्टिस्तत्रापकारेष्वकृतं मुनीनाम् ॥
आदीप्तकायस्य यथासमन्तान्न सर्वकामैरपि सौमनस्यम् ।
सत्त्वव्यथायामपि तद्वेदेवमप्रीत्युपायो ऽस्ति दयामयानाम् ॥
आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति ।
दृश्यन्ते एते ननु सत्त्वरुपास्त एव नाथाः किमनादरो ऽत्र ॥
तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव ।
लोकस्य दुःखापहमेतदेव तस्मात्तवास्तु व्रतमेतदेव ॥
आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसम्भवम् ।
इहैव सौभाग्ययशः सौस्थित्यं किन्न पश्यसि ॥
प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् ।
चक्रवर्त्तिसुखं स्fईतं क्षमी प्राप्नोति संसरन् ॥
एवं क्षमो भजेद्वीर्यं वीर्यं बोधिर्यतः स्थिता ।
न हि वीर्यं विना पुण्यं यथा वायुं विन गतिः ॥
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन ।
नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नाप्नुयाद्यदिह वीर्यरथाधिरुढः ॥
युद्धेषु यकरितुरंगपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु ।
हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विष्णुर्जितं तदह वीर्यमहाहटस्य ॥
अम्भोनिधीन् मकरवृन्दविघट्टिताबुतुंगाकुलाकुलतंरगविभंगभीमान् ।
विर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥
रागादीनूरगानिवोग्रवपुषो विष्टभ्य धैर्यान्विताः ।
शीलं सज्जनचित्तनिर्मलतरं सम्यक्तमादापयेत् ॥
मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विताः ।
मोदन्ते सुरसुन्दरीभुजलतापाशोपगुढाश्चिरम् ॥
यद्देवो वियति विमान्बवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् ।
अत्यन्तं विपुलfअलप्रसूतिहेतो वीर्यस्थिरविहितस्य सा विभूतिः ॥
क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदमाप्नुवन्ति ।
बोध्यंगदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥
जन्मप्रबन्धकरणैकनिमित्तभूतान् राजादिदोषनिचयान् विदार्य सर्वान् ।
आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥
प्रज्ञाधनेन विकलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः ।
बुद्धयान्वितस्य fअलमिष्टमुदेति वीर्याद्वीर्यन्तु बुद्धिरहितं स्ववधायशत्रुः ॥
यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् ।

ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् ॥
आदेष्ट्य चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः ।
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमत्कीर्तयन्ति ॥
कार्यार्णवे वापि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूता ॥
तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् ।
न प्रज्ञा विकला विभान्ति पुरुषाः प्राताःप्रदीपा इव ॥
स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणाम् ।
ज्ञात्वा भवस्व हितसाधनतत्परस्त्वं कुर्या अतः सततमेव शुभे प्रयत्नम् ॥
सद्धर्मसाधनं कायमितरार्थं न पीडयेः ।
एवं बुध्वा हि सत्त्वानामाशामाशु प्रपूरयेः ॥
आचारो बोधिसत्त्वानामप्रमेय उदाहृतः ।
चित्तशोधनमाचारं नियतं तावदाचर ॥
या अवस्थाः प्रपद्यन्ते स्वयं परवशो ऽपि वा ।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥
न ही तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ।
न तदस्ति न यत्पुण्यमेवं विहरतः सतः ॥
पारम्पर्येण साक्षाद्वा सत्त्वार्थात्मान् सदा चर ।
सत्त्वानामेव चार्थाय सर्वं बोधाय नामय ॥
सदाकल्याणमित्रं च जीवितार्थे ऽपि मा त्यज ।
बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥
इत्येवं लोकनाथेन समादिष्टं निशम्य सः ।
बलिरश्रुविरुक्षास्यो रुदित्वा चैवमबव्रीत् ॥
आकृतं किं मया नाथ यज्ञं तीर्थिकसम्मतम् ।
यस्येह fअलं भुंजानो वसाम्यत्र जनैः सह ॥
त्राहि मां भगवन्नथ पापिनं मूढमानसम् ।
सजनो ऽहं सदा शास्तर्भवतां शरणं व्रजे ॥
नमो ऽस्तु बोधिसत्त्वाय शुभपद्मधराय ते ।
पद्मश्रीभूषितांगाय जटामकुटधारिणे ॥
जिनराजशिरस्काय सत्त्वाश्वासप्रदाय च ।
हीनदीनानुकम्पाय दिनकृद्वरचक्षुषे ॥
पृथिवीवरनेत्राय भैषज्यराजकाय च ।
सुशुद्धसत्त्वनाथाय परमयोगधारिणे ॥
मोक्षप्रवरधर्माय मोक्षमार्गोपदर्शिने ।
चिन्तामणिप्रभासाय धर्मगंजाभिपालिने ॥
षण्णां पारमितानां च निर्देशनकराय च ।
बोधिमार्गोपदिष्टाय सुचेतनकराय च ॥
एवं स्तुत्वा स दैत्येन्द्रो लोकनाथं तमीश्वरम् ।
सांजलिर्मुदितो नत्वा पुनरेवमभाषत ॥
रक्ष मां दुर्मतिं नाथ समुद्धर भवोदधेः ।

बोधिमार्गे प्रतिष्ठाप्य नियोजय शुभे वृषे ॥
अद्यारभ्य सदा नाथ त्रिरत्नशरणं गतः ।
बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते ॥
सर्वदिक्षु स्थितान् नाथान् संबुद्धांश्च मुनीश्वरान् ।
कृतांजलिः सदा स्मृत्वा नमामि शरणे स्थितः ॥
यच्च धर्मं जिनैः सर्वैः समादिष्टं जगद्धिते ।
तत्सद्धर्ममहं धृत्वा संचरिष्ये सदा शुभे ॥
सर्वाल्लोकधिपान् नाथान् बोधिसत्त्वान् जिनात्मजान् ।
तानप्यहं सदा स्मृत्वा भजानि शरणे स्थितः ॥
एवं तद्भजनं कृत्वा यन्मया साधितं शुभम् ।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥
ग्लानानामस्मि भैअज्यं भवेयं वैद्य एव च ।
तदुपस्थायकश्चापि यावद्रोगी पुनर्भवे ॥
क्षुत्पिपाअसाव्यथां हन्यामन्नपानप्रवर्षणैः ।
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥
दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः ।
नानोपकरणाकारैरुपतिष्ठेयमग्रतः ॥
आत्मभावांस्तथा भोगन् सर्वं त्र्यध्वगतं शुभम् ।
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥
सर्वत्यागश्च निर्वाणं निर्वानार्थि च मे मनः ।
त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयते ॥
यथासुखीकृतश्चात्मा कर्तव्यो जयतां मया ।
घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांशुभिः ॥
क्रीडन्तु मम कायेन हसन्तु विलसन्तु च ।
दत्तस्तेभ्यो मया कायश्चिन्तया किं ममान्यथा ॥
कारयन्तु च कर्माणि यानि तेषां सुखावहे ।
अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन ॥
येषां क्रुद्धा प्रसन्ना वा मामालम्ब्य मतिर्भवेत् ।
स एव तेषां हेतुः स्यान्नित्यं सर्वार्थसिद्धये ॥
अत्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः ।
उत्प्रासकास्तथान्ये वा सर्वे स्युर्बोधिभागिनः ॥
अनाथानामहं नाथः सार्थर्वाहश्च जायिनाम् ।
पारेप्सुनां च नौभूतः सेतुः संक्रम एव च ॥
दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् ।
दासार्थिनामहं दासो भवेयं सर्वदेहिनाम् ॥
चिन्तामणिर्भद्रधटः सिद्धविद्यामहौषधिः ।
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम् ॥
पृथिव्यादीइनि भूतानि निःशेषाकाशवासिनाम् ।
सत्त्वानामप्रमेयाणां यथाभोओग्यन्यनेकधा ॥
एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा ।

भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः ॥
यथा गृहितं सुगतैर्बोधिचित्तं पुरातनैः ।
ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथास्थिताः ॥
तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते ।
तद्वदेव च ताः शिक्षाः शिक्षिस्यामि यथाक्रमम् ॥
अद्य मे सfअलं जन्म सुलब्धाः सारसंपदः ।
अद्य बुद्धकुले जातो बुद्धपत्रो ऽस्मि साम्प्रतम् ॥
तथाधुना मया कार्यं स्वकुलोचितकारिणा ।
निर्मलस्य कुले ऽस्यास्य कलंको न भवेद्यथा ॥
अन्धः सत्कालकूटेभ्यो यथाअ रत्नमवाप्नुयात् ।
तथा कंखचिदप्येतद्बोधिचित्तं ममोदितम् ॥
जगन्मृत्युविनाशाय जातमेतद्रसायनम् ।
जगद्दारिद्रयशमनं निधानमिदमक्षयम् ॥
जगद् व्याधिप्रशमनं भैषज्यमिदमुत्तमम् ।
भवाब्धभ्रमणश्रान्तजगद्विश्रामपादपः ॥
दुर्गत्युत्तरणे सेतुः सामान्यः सर्वपापिनाम् ।
जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥
जगदज्ञानतिमिरप्रोत्सारणमहारबिः ।
सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम् ॥
सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाब्धचारिणः ।
सुखस्त्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम् ॥
जगदद्य मया निमन्त्रितं सुगतत्वेन सुखेन चान्तरा ।
पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः ॥
तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपानाम् ।
तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥
आराधना याद्य तथागतानां सर्वात्मन दासमुपैमि लोके ।
कुर्वन्तु मे मूर्ध्नि पदं जनौघा निघ्नन्तु वा तुष्यतु लोकनाथः ॥
त्वामेवाहमृषिं व्रजामि शरणं प्राणैरपि प्राणिनाम्
एकं बान्धवमेकेव सुहदं शास्तारमेकं गुरुम् ।
त्रानं त्रैभुवार्त्तिगह्वरदरीव्यावर्त्तिनां प्राणिनाम्
आचार्यं परमर्थतत्त्वविषये भूतार्थनाथं विभुम् ॥
मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः
पुण्यम्भोभिरखण्डमण्डलशशिज्योत्स्नावली निर्मलैः ।
को वा त्वं प्रणिपत्य सान्द्रकरुणां प्रह्लादिताध्याशयं
तीव्रापायवतीं विषादनकरीं तीर्णां न दुःखापगाम् ॥
स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे
वस्तुं भीमभयानके लोकेश्वरालंकृते ।
न त्वेवैकपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य्
उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे ॥
तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिव्रतविवृते प्रमादकूपे

सर्वज्ञप्रवचनभास्करे गते ऽस्तं तत्तावद्वचनरसायनैर्निषेव्यम् ।
पापाभ्यासकलंकितान्यपि यतः कल्याणमित्राश्रयात्
तोयानीव घनात्यये विमलतां चेतांसि गच्छन्त्यतः ।
सम्यक् मित्रसमागमोत्सवसुखान्याश्रित्य तस्मात्सदा
सेव्याः सत्पुरुषा निरत्ययगुणश्रीसम्पदं वांछता ।
एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः
वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥
इति तेनासुरेन्द्रेण समाख्यातं निशम्य सः ।
लोकेश्वरः समालोक्य तं बलिं चैवमब्रवीत् ॥
साधु साधु महाराज यद्येवं व्रतमिच्छसि ।
तावच्चित्तं समाधाय शिक्षां रक्ष प्रयत्नतः ॥
शिक्षां रक्षितुकामेन चित्त रक्षयं प्रयत्नतः ।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥
अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् ।
करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥
बद्धश्चेच्चित्तमातंगः स्मृतिरज्ज्वा समन्ततः ।
भयमस्तं गतं सर्वं सर्वं कल्याणमागतम् ॥
व्याघ्राः सिहां गजा ऋक्षाः सर्पाः सर्वे च शत्रवः ।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् ।
चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यपि ॥
यस्माद्भयानि सर्वाणि दुःखानि विविधान्यपि ।
चित्तादेव भवन्तीति प्रोक्तं सर्वमुनीश्वरैः ॥
तस्माच्चित्तं समाधाय स्मृत्वा रक्षन् प्रयत्नतः ।
चित्तादेव हि सर्वत्र भयं भद्रं च जायते ॥
शस्त्राणि नरके केन घट्टितानि प्रयत्नतः ।
तप्तायःकुट्टिमं केन कुतो जाताश्च ता स्त्रियः ॥
पापचित्तसमुद्भूतं तं तु सर्वं जगुर्जिनाः ।
तस्मात्कश्चिन्न त्रैलोक्ये चित्तादन्यो भयानकः ॥
अद्ररिद्रं जगत्कृता दानपारमिता यदि ।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥
फलेन सह सर्वस्वत्यागचित्ते जने ऽखिले ।
दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव हि ॥
मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो नतान् ।
लब्धे विरतिचित्ते तु शीलपारमिता मता ॥
कियतो मारयिष्यामि दुर्जनान् गगनोपमान् ।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥
भूमिं छादयितुं सर्वां कुतः चर्म भविष्यति ।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥
बाह्या भावास्तथा सर्वा न शक्या वारयितुं क्वचित् ।

मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc