गुणकारण्डव्यूहसूत्र · भाग 120
गुणकारण्डव्यूह सूत्र
1. श्रीत्रिरत्न भजनानुशंसावदानम्
ओम् नमः श्रीरत्नत्रयायः नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥
यं श्रीघनो महाबुद्धः सर्वलोकाधिपो जिनः ।
तं नाथं शरणं गत्वा वक्ष्ये लोकेशसत्कथाम् ॥
या श्री भगवती देवी सर्वधर्माधिपेश्वरी ।
तस्या भक्तिप्रसादेन वक्ष्यामि बोधिसाधनम् ॥
येन संपालितं सर्वं त्रैधातुकमिदं जगत् ।
तस्य लोकेश्वरस्याहं वक्ष्ये सर्वार्थसाधनम् ।
तद्यथाभून्महासत्त्वो जिनश्रीराज आत्मवित् ।
त्रिरत्नशरणं गत्वा यतिरर्हन् जिनात्मजः ॥
एकस्मिन् समये सो ऽर्हद् बोधिमण्डे जिनाश्रमे ।
बोधिचर्याव्रतम् धृत्वा जगद्धित्वे समाश्रयत् ॥
तदा तत्र महाभिज्ञो जयश्रीर्यतिरात्मवित् ।
सद्धर्मं समुपादेष्टुं सभासने समाश्रयत् ॥
तं दृष्ट्वा श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः ।
तत्सद्धर्मामृतं पातुमुपेत्य समुपाश्रयन् ॥
तथान्ये बोधिसत्त्वाश्च संबोधिव्रतसाधिनः ।
सुभाषितामृतं पातुं तत्सभां समुपाश्रयन् ॥
भिक्षुण्यश्चेलकाश्चैवमुपासका उपासिकाः ।
व्रतिनो ऽपि महासत्त्वाः सम्बुद्धभक्तिचारिकाः ॥
ब्राह्मणाः क्षत्रियाश्चापि राजानो मन्त्रिणो जनाः ।
अमात्याः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥
तथा जानपदा ग्राम्याः पार्वतिकाश्च नैर्गमाः ।
तथान्ये दैशिका लोकाः सद्धर्मगुणवांछिनः ॥
सर्वे ते समुपागत्य तमर्हन्तं जयश्रियम् ।
यथाक्रमं समभ्यर्च्य प्रणत्वा समुपाश्रिताः ॥
तत्सद्धर्मामृतं पातुं कृतांजलिपुटा मुदा ।
शास्तारं तं समालोक्य परिवृत्य निषेदिरे ॥
तदा सो ऽर्हन्महासत्त्वो बोधिसत्त्वो जिनात्मजः ।
जिनश्रीराजन्नालोक्य सर्वांल्लोकान् सभाश्रीतान् ॥
त्रिरत्नगुणमाहात्म्यं श्रोतुं समभिलाषिणः ।
समुत्थायासनात्तस्य जयश्रियः पुरो ऽग्रतः ॥
उद्वहन्नुत्तरासंगं जानुभूमितलाश्रितः ।
पादाब्जं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥
भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् ।
तद्भगवान् समुपादिश्य सम्बोधयतु मां गुरो ॥
इति संप्रार्थिते तेन जिनश्रीगुणसंभृता ।
जयश्रीः सुमतिः शास्ता सभा वीक्ष्यैवमादिशत् ॥
साधु शृणु समाधाय जिनश्रीराज सन्मते ।
त्रिरत्नस्य समुत्पत्तिसत्कथागुणविस्तरम् ॥
यथा मे गुरुणादिष्टं जिनकल्पेन योगिना ।
उपगुप्तेन लोकानां हितार्थे वक्ष्यते मया ॥
तद्यथाभून्महाराजश्चक्रवर्तीं नराधिपः ।
अशोको नाम राजेन्द्रः सर्वलोकहितार्थभृत् ॥
एकदा स महाराजः सद्धर्मगुणलालसः ।
त्रिरत्नगुणमाहात्म्यं श्रोतुमैच्छज्जगद्धिते ॥
ततः स भूपती राजा समन्त्रिजनपौरिकः ।
पूजोपहारमादाय स संवाद्य महोत्सवैः ॥
विहारे कुक्कुटारामे प्रययौ संप्रमोदितः ।
ततः प्राप्तः स राजेन्द्र प्रविश्य संप्रसादितः ॥
उपगुप्तं महाभिज्ञं संददर्श ससांघिकम् ।
तमर्हन्तं समालोक्य नत्वा स सांजलिर्मुदा ॥
सहसा समुपागत्य यथाविधि समर्चयेत् ।
ततः प्रदक्षिणीकृत्वा प्रवत्वा चरणाम्बुजे ॥
सांजलिस्तस्य सद्धर्म श्रोतुं पुरः समाश्रयत् ।
ततः सर्वे ऽपि लोगकाश्च यथाक्रममुपागताः ॥
तमर्हन्तं यतिं नत्वा परिवृत्य समाश्रयन् ।
तदाशोकः स राजेन्द्रो दृष्ट्वा सभाश्रितान् जनान् ॥
उत्थाय स्वासनाच्छास्तुः पुरतः समुपाश्रितः ।
उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥
सांजलिस्तं यतिं नत्वा प्रार्थयेदेवमादरात् ।
भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् ॥
किं त्रिरत्नमिति ख्यातम् तत्समादेष्टुमर्हसि ।
इति संप्रार्थिते राज्ञा सो ऽर्हन् जिनात्मजः सुधीः ॥
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥
साधु शृणु महाराज समाधाय जगद्धिते ॥
यथा मे गुरुणादिष्टं तथा ते वक्ष्यते मया ।
तद्यथादिसमुद्भूतो धर्मधातुस्वरुपकः ॥
पंचबुद्धांशसंजातो जगदीशस्तथागतः ।
महाबुद्धो जगन्नाथो जगच्छास्ता महेश्वरः ॥
धर्मराजो मुनीन्द्रो ऽर्हन्वैरोचनसमाधिधृक् ।
सर्वज्ञः सद्गुणाधारः सर्वविद्याधिपो जिनः ॥
समन्तभद्ररुपांगः सुगतः श्रीसुखाकरः ।
षडभिज्ञो महावीरो वज्रसत्त्वविनायकः ॥
मारदर्पतमोहन्ता संबोधिज्ञानभास्करः ।
एष स भगवांल्लोके बुद्धरत्न इति स्मृतः ॥
ये चैतच्छरणं गत्वा बोद्धिसत्त्वा जगद्धिते ।
बोधिचर्याव्रतं धृत्वा चरन्तो भद्रचारिकान् ॥
जित्वा मारगणान् सर्वानर्हन्तो निर्मलाशयाः ।
सम्यक्संबोधिमासाद्य संबुद्धपदमागताः ॥
ते ऽपि सर्वे जगन्नाथास्तथागता मुनीश्वराः ।
भगवन्तो महाभिज्ञा बुद्धरत्ना इति स्मृताः ।
या श्री भगवती देवी प्रज्ञा सर्वगुणाश्रया ।
जननी सर्वबुद्धानां संबोधिज्ञानभास्करी ॥
मारदर्पतमोहन्त्री सद्धर्मगुणदायिनी ।
सर्वविद्याधरी लक्ष्मी सर्वसत्त्वशुभंकरी ॥
एषः सद्धर्मसम्भर्ता धर्मरत्न इति स्मृतः ॥
ये चान्ये ऽपि महायानसूत्रादयः सुभाषिताः ।
देशिताः सुगतैस्ते ऽपि धर्मरत्न इति स्मृतः ।
यश्च सद्धर्मसंभिर्ता बोधिसत्त्वो जगत्प्रभुः ।
महासत्त्वो जगन्नाथः सर्वधर्माधिपेश्वरः ॥
दुष्टक्लेशतमोहन्ता संबोधिगिणभास्करः ।
विश्वरुपो महाभिज्ञः सर्वसत्त्वहितार्थभृत् ॥
सर्वलोकाधिपः श्रीमान् धर्मराजो जिनात्मजः ।
एष लोकेश्वरः शास्ता संघरत्न इति स्मृतः ॥
ये चान्ये ऽपि महासत्त्वा बोधिसत्त्वा जितेन्द्रियाः ।
अर्हन्तो निर्मलात्मानः संबोधिज्ञानसाधिनः ॥
भद्रचर्यासमाचाराश्चतुर्ब्रह्मविहारिणः ।
संबुद्धसांघिकास्ते ऽपि संघरत्नाः स्मृता जिनैः ॥
ये तेषां शरणं गत्वा भक्तिश्रद्धासमाहिताः ।
भजन्ति सर्वदा नित्यं स्मृत्वापि च दिवानिशम् ॥
ते भवन्ति महासत्त्वा बोधिसत्त्वा गुणाकराः ।
सच्छ्रीसंपत्समापन्नाः सर्वसत्त्वहितोत्सवाः ॥
बोधिचर्याव्रतं दृत्वा कृत्वा लोके शुभं सदा ।
सुखान्येव सदाअ भुक्त्वाअ प्रान्ते याअन्ति सुखावतीम् ॥
इत्येवं संघरत्नस्य भजनं पुण्यमुत्तमम् ।
मत्वा तच्छरणं गत्वा भजन्त्येतद्गुणार्थिनः ॥
एतत्पुण्यविशुद्धात्मा कदाप्येति न दुर्गतिम् ।
सर्वदा सद्गतिष्वेव जातो धर्माधिपो भवेत् ॥
ये चापि धर्मरत्नस्य प्रगत्वा शरणं सदा ।
भजन्ति श्रद्धया भक्त्या श्रुत्वाप्येतत्सुभाषितम् ॥
ते ऽपि सन्तो महासत्त्वा बोधिसत्त्वा गुणाश्रयाः ।
संबोधिश्रीसुखाधाराः सर्वसत्त्वशुभारताः ॥
संबोधिचारिकां धृत्वा कृत्वा सत्त्वहितं सदा ।
सत्सुखान्येव भुक्त्वान्ते संयान्ति सुगतालयम् ॥
इत्येवं धर्मरत्नस्य भजनार्थं वरं वृषम् ।
विज्ञाय शरणं गत्वा भजन्त्वेतच्छुभार्थिनः ॥
एतद्धर्मविशुद्धात्मा दुर्गतिं नैव याति सः ।
सद्गतिष्वेव संजातो प्राओन्ते याति जिनालयम् ॥
इति विज्ञाय ये मर्त्याः सद्धर्मसुखवांछिनः ।
त्रिरत्नशरणं गत्वा भजन्तु ते सदा भवे ॥
एतत्पुण्यानुभावेन परिशुद्धाशया नराः ।
संबोधिचित्तमासाद्य चरन्ति बोधिसंवरम् ॥
बोधिचर्यां चरन्तस्ते पूर्य पारमिताः क्रमात् ॥
चतुर्मारान् विनिर्जित्य निःक्लेशा विमलाशयाः ।
अर्हन्तं प्राप्य संबोधिं संबुद्धपदमाप्नुयुः ॥
इति विज्ञाय यो मर्त्यः संबुद्धपदमिच्छति ।
स आदौ शरणं गत्वा सद्गुरोः समुपाश्रयेत् ॥
आराध्य सद्गुरुं भक्त्या सन्तोष्य संप्रसादयन् ।
तदुपदेशमासाद्य तीर्थ स्नात्वा व्रतं चरेत् ॥
व्रतानां पोषधं श्रेष्ठं समाख्यातं मुनीश्वरैः ।
एतत्पुण्यानुभावेन संप्राप्नोति बोधिमुत्तमाम् ॥
अतीता अपि संबुद्धा एतत्पुण्यानुभावतः ।
जित्वा मारान् समासाद्य संबोधिमभवन् जिनाः ।
ये चैतर्हि स्थिताः सर्वे ते ऽप्येतत्पुण्यभावतः ।
अर्हन्तं प्राप्य संबोधिं भवन्ति सुगताः खलु ॥
ये चाप्यनागताः सर्वे बोधिसत्त्वा व्रतोपमाः ।
ते ऽप्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥
एवमन्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥
एवमन्ये ऽपि सत्त्वाश्च ये ये ऽप्येतद्व्रतंचराः ।
ते ते सर्वे महासत्त्वा भवेयुर्बोधिभागिनः ॥
श्रीमन्तः सद्गुणाधारा निःक्लेशा विजितेन्द्रियाः ।
सर्वसत्त्वहितोद्युक्ताश्चतुर्ब्रह्मविहारिणः ॥
दुर्गतिं ते न गच्छन्ति कदापि हि भवालये ॥
सदापि सद्गतावेव संजाताः सत्सुखान्विताः ।
बोधिसत्त्वाः सुधीमन्तःसद्धर्मगुणसाधिनः ॥
क्रमेण बोधिसंभारं पूरयित्वा समाहिताः ।
त्रिविधां बोधिमासाध निर्वृतिपदमाप्नुयुः ॥
इति विज्ञान ये मर्त्या निर्वृतिपदकांक्षिणः ।
ते एतद् व्रतमाधाय संचरन्तो यथाविथि ॥
एतत्पुण्यविशुद्धा हि नैव गच्छन्ति दुर्गतिम् ।
सदा सद्गतिसंजाताः प्रान्ते ययुः सुनिर्वृतिम् ॥
एवं मे गुरुणादिष्टं मुनीन्द्रैदेशितं यथा ।
तथाहं ते मया राजन् गदितं संप्रध्यताम् ॥
त्वमप्येवं सदा राजन् दुर्गतिं न यदीच्छसि ॥
सदा सद्गतिसंजातो निर्वृतिं हि यदीच्छसि ॥
चरस्वैतद्व्रतं राजन् पोषधाख्यं यथाविधि ।
एतत्पुण्यविशुद्धात्मा नूनं यायाः सुनिर्वृतिम् ॥
इति तेनार्हता शाया समादिष्टं निशम्य सः ।
अशोको नृपती राजा तद्व्रतं धर्तुमैच्छत ॥
ततः स नृपती राजा कृतांजलिरुपाश्रितः ।
उपगुप्तं तमर्हन्तं नत्वैवं प्रार्थयन्मुदा ॥
भवन्ते भवतादिष्टं श्रुत्वा मे रोचते मनः ।
तथाहं संचरिष्येदं पोषधं व्रतमुत्तमम् ॥
तद्विधानं समाख्याहि तत्फलं च विशेषतः ।
त्रिरत्नभजनोत्पन्नं पुण्यfअलं च विस्तरम् ॥
इति संप्रार्थिते राज्ञा स शास्तार्हन्यतिः सुधिः ।
अशोकं तं महाराजं समालोक्यैवमादिशत् ॥
साधु शृणु महाराज यदिच्छसि समाहितः ।
यथा मे गुरुणाख्यातं तथा ते संप्रवक्ष्यते ॥
तद्याथायं प्रसन्नात्मा व्रतं चरितुमिच्छति ।
स आदौ प्रातरुत्थाय तीर्थ स्नात्वा यथाविधि ॥
शुद्धक्यावृतः शुद्धचित्तो ब्रह्मविहारिकः ।
अष्टांगविधिसंयुक्तं पोषधं व्रतमादधत् ॥
श्रीमदमोपाशस्य लोकेश्वरस्य मण्डलम् ।
सगणं वर्तयेद्रंगैः पंचभिः परिशोभितम् ॥
यथाविधि प्रतिष्ठाप्य शुचिशीलः समाहितः ।
तथैव मद्यमांसाद्या रसुनाद्या विवर्जयेत् ॥
आदौ गुरुं समभ्यर्च्य यथाविधि प्रणामयेत् ।
ततयिरत्नमभ्यर्च्य प्रणमेच्छरणं गतः ॥
ततश्चामोघपाशाख्यं लोकेश्वरं जगत्प्रभुम् ॥
निध्याय मनसावाह्य दत्वा पाद्यार्घमादरात् ॥
संस्थाप्य मण्डले तत्र सगणं संप्रमोदितः ।
यथाविथि समाराध्य श्रद्धाभक्तिसमन्वितः ॥
धूपैर्गन्धैः सुपुष्पैश्च दीपैः पंचामृताशनैः ।
सर्वैर्द्रव्यैः सरत्नैश्च समभ्यर्च्याभितोषयेत् ॥
जपस्तोत्रादिभिः स्तुत्वा कृत्वा नैकप्रदक्षिणाम् ।
अष्टांगैः सांजलिर्नत्वा प्रार्थयेद्भद्रसंवरम् ॥
ततश्च सांजलिः स्थित्वा कुर्यात् स्वपापदेशनाम् ।
पुण्यानुमोदनां चापि सुचिरं चापि संस्थितिम् ।
एवं स सुप्रसन्नात्मा संप्रार्थ्य बोधिसंवरम् ।
ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् ॥
ततो ऽह्नेः तृतीये यामे पंचामृतादिभोजनम् ।
निरामिषं यथाकामं भुक्त्वा चरेत् समाहितः ॥
एवं तद्व्रतसंपूर्णं कृत्वा संपालयन् मुदा ।
सर्वसत्त्वहितं कृत्वा चरेत्संबोधिमानसः ॥
एअतत्पुण्यविशुद्धात्मा निःक्लेशः स जितेन्द्रियः ।
बोधिसत्त्वो महासत्त्वः स्वपरात्महितार्थभृत् ॥
श्रीमान् सद्गुणसंवासो बोधिचर्याव्रतं दधत् ।
सदा सद्गतिसंजातो भुक्त्वा भोयं यथेप्सितम् ॥
त्रिविधां बोधिमासाद्य प्रान्ते यायात् सुनिर्वृतिम् ॥
एवमेवद्व्रतोद्भूतं पुण्यfअलं महत्तरम् ।
प्रमातुं शक्यते नैव सर्वैरपि मुनीश्वरैः ॥
तत्पूजाकृतपुण्यानां विशेषं फलमुच्यते ।
तच्छृणुष्व महाराज समाधाय सुचेतसा ॥
ये पुण्यकामा मनुजायिरत्नं समीक्ष्य हर्षाच्छरणं प्रयान्ति ।
ते धर्मरक्ताः शुभलक्ष्मीमन्तः सम्बोधिचर्याभिरता भवन्ति ॥
पंचामृतैः पंचसुगन्धितोयैर्ये स्नापयन्ति प्रमुदा त्रिरत्नम् ।
मन्दाकिनीदिव्यसुगन्धितोये स्नात्वा सुखं ते दिवि संरमन्ते ॥
ये च त्रिरत्नेषु सुगन्धिधूपं प्रधुपयन्ति प्रतिमोदयन्तः ।
ते शुद्धचिताः शुचिगन्धितांगा रत्नोपमाः श्रीईगुणिता भवन्ति ॥
ये पंचगन्धैरनुपयन्ति त्रिरत्नदेहे परिशुद्धचित्ताः ।
ते रत्नवन्तः क्षितिपाधिराजा भवन्ति सर्वार्थहितार्थकामाः ॥
ये दूष्यपट्टादिवराम्बराणि त्रिरत्ननथाय मुदार्पयन्ति ।
कौशेयरत्नाभरणावृतांगा धर्माधिपास्ते सुधियो भवन्ति ॥
ये च त्रिरत्नम् स्थलजैः सुपुष्पैर्जलोद्भवैश्चापि समर्चयन्ति ।
ते दिव्यलक्ष्मीसुखभोग्यवन्तः श्रीसिद्धिमन्तः सुभगा भवन्ति ॥
त्रिरत्नबिम्बवरे पुष्पमाला ये धर्मकामा अवलम्बयन्ति ।
ते देवराजा वरलक्ष्मीमन्तः संबोधिकामाः सुभगा भवन्ति ॥
सर्वाणि पुष्पाणि सुगन्धिमन्ति त्रिरत्नबिम्बे प्रकिरन्ति ये च ।
देवाधिपाः स्वर्गगता भवन्ति महीगतास्ते क्षितिपाधिराजाः ॥
ये दीपमालां रचयन्ति ये च रत्नत्रयाग्रे हतमोहजालाः ।
ते कान्तरुपा गुणरत्नवन्तो भवन्ति भूपार्चितपादपद्माः ॥
प्रकुर्वते ये च प्रदीपदानं रत्नत्रयाग्रे घृततैलदीप्तम् ।
ते शुद्धनेत्राः प्रबला गुणाढ्या देवाधिराजाः क्षितिपाधिपाश्च ॥
भोज्यं प्रणीतं सुरसं सुवर्णं रत्नत्रयाय प्रतिपादयन्ति ।
ये भक्तियुक्ता दिवि ते भवन्ति सुराधिपा भूतपयश्च धीराः ॥
पानं नरा ये ऽमृतसद्गुणाढ्यं रत्नत्रयाय प्रतिपादयन्ति ।
ते भूराजा नीरुजो बलिष्ठा भवन्ति स्वर्गे त्रिदिशाधिपाश्च ॥
शाकानि मूलानि fअलानि ये च रत्नत्रयाय प्रतिपादयन्ति ।
यथेष्टभोग्यं सततं प्रभुक्त्वा गच्छन्ति तत्ते सुगतालये च ॥
ये च त्रिरत्नाय समर्पयन्ति सुपथ्यभैषज्यगणानि भक्त्या ।
श्रीईसमृद्धाः क्षितिपाधिनाथा भुक्त्वा सुखं यान्ति जिनालयं ते ॥
ताम्बूलपूगादिरसायनानि ये च त्रिरत्नाय समर्पयन्ति ।
दिव्यांगसौन्दर्यगुनाभिरामा भवन्ति ते श्रीगुणिनः सुराश्च ॥
वितानमुच्चैर्वितनोति यश्च रत्नत्रये सर्वनृपाभिवन्द्यः ।
विशालवंशो गुणवान् सुधीरो महानुभावप्रथितो भवेत् सः ॥
ध्वजान् विचित्रानवरोपयन्ति ये च त्रिरत्नालय उत्सवार्थम् ।
ते श्रीसमृद्धाः सुगुणाभिरामा भवन्ति नाथा दिवि भूतले च ॥
श्रीमत्पताका अवलम्बयन्ति रत्नत्रये ये रसाभियुक्ताः ।
लक्ष्मीश्वरास्ते जितदुष्टसंघा भवन्त्यधीशा दिवि भूतले च ॥
छत्राणि सौवर्णमयानि ये च कौशेयदूष्टै रचितानि वा च ।
सुशुद्धरंगैर्मयनैश्च पुष्पै रत्नत्रये ये ऽभ्यवरोपयन्ति ॥
ते भूपराजा वरसिद्धिमन्तो लक्ष्मीश्वराः सर्वहितार्थकायाः ।
सद्धर्मकामा गुणरत्नपूर्ना वन्द्या भवन्ति प्रवरर्द्धिमन्तः ॥
संगीतिवाद्यैर्मुरुजादिभिश्च मुकुंदढक्काप्रानवानकैश्च ।
मड् मृदंगपटहादिभिश्च मनोज्ञघोषैः श्रोतिचित्तरम्यैः ॥
स दुन्दुभिडिण्डमझर्झरैश्च प्रणादिभिर्मर्दनवादनैश्च ।
तथान्यकैर्मंगलशब्दवाद्यै रत्नत्रये ये रचयन्ति पूजाम् ॥
तथा च वीणादिमनोज्ञनादैर्वशैः सुरावैरपि काहरैश्च ।
भेरीभिरुच्चैः परिवादिनीभि रत्नत्रयं येसुरसा भजन्ति ॥
तौर्यत्रिकैर्भद्रसुघोषशंखैः शृंगादिभिश्चापि मनोज्ञनादैः ।
नृत्यादिभिश्चापि प्रमोदयन्तो रत्नत्रयं ये सुरसा भजन्ति ॥
ते दिव्यश्रोत्राः सुमनोज्ञशब्दाः सर्वार्थसम्पत्यपरिपूर्णकोशाः ।
सद्धर्म्मपुण्यानुगुणाभिरक्ताः सुखानि भुक्त्वा प्रचरन्ति स्वर्गे ॥
क्षिपन्ति लाजाक्षतपुष्पकाणि रत्नत्रये ये परिहर्षमाणाः ।
न दुर्गतिं ते सततं व्रजन्ति स्वर्गे प्रयाताः सुभगा रमन्ते ॥
सुधातुरत्नानि सदक्षिणानि रत्नत्रये ये च समर्पयन्ति ।
सुलब्धकामार्थसुखाभिरामाः पूर्णेन्द्रियास्ते सुधियो भवन्ति ॥
प्रदक्षिणानि प्रविधाय भक्त्या भजन्ति ये चापि मुदा त्रिरत्नम् ।
ते शुद्धकायाः प्रतिलब्धसौख्या भवन्ति देवा मनुजाधिपाश्च ॥
ये च त्रिरत्नम् स्तुतिभिर्भजन्ति गद्यत्मिकैः पद्यमयैश्च शुद्धैः ।
वागीश्वरास्ते सुसमृद्धकोषा भवन्ति नाथा दिवि भूतले च ॥
ये च त्रिरत्नं शरणं प्रयाता अष्टाभिरगैः प्रनमन्ति भ्क्त्या ।
भवन्ति ते श्रीगुणवर्णपूर्णाः सद्धर्मकामाः नृपतीश्वराश्च ॥
ये चापि नित्यं मनसा विचित्य भजन्ति भक्त्या शरणं प्रयाताः ।
ते पापनिर्मुक्तविशुद्धकायाः सद्धर्मकामाः दुर्गतिं व्रजन्ति ॥
ये च त्रिरत्नं मनसा विचिन्त्य तन्नाम नित्यं समुदीरयन्ति ।
ते शुद्धचित्ता विमलात्मकाश्च संबुद्धधर्माभिरता भवन्ति ॥
ये च त्रिरत्नानि सुदूरतो ऽपि दृट्वा प्रसन्नाः प्रणमन्ति भक्त्या ।
ते चापि सद्धर्मगुणाभिलाषाः शुद्धत्रिकायाः सुभगा भवन्ति ॥
इत्येतदादीनि महत्तराणि पुण्याअनि श्रीसद्गुणासाधनानि ।
त्रिरत्नपूजाभजनोद्भवानि मत्वा भजन्तु त्रिगुणात्मकं तम् ॥
आख्यातमेतत्सुगतैश्च सर्वेः त्रिरत्नसेवाभजनोद्भवं तत् ।
पुण्यं महत्तस्य समं क्वचिन्न सर्वत्र लोकेष्वपि सत्येमेव ॥
एवम् महत्पुण्यमुदारमग्रम् बद्धप्रमेयं गणनानभिज्ञम् ।
मत्वा त्रिरत्नं शरणं प्रयातो राजन् यदि बोद्धिमिच्छसि ॥
ये ये त्रिरत्नं शरणं प्रयाता भजन्ति सत्कृत्य सदा प्रसन्नाः ।
ते सर्व एवं त्रिगुणाभिरामा सद्धर्मकामाः सुगतात्मजाः स्युः ॥
दत्वा सदार्थिभ्य उदारदानं संबोधिकामाः सुवृषे चरेयुः ।
क्रमेण सम्बोधिव्रतं चरन्तो बोधिं समासाद्य जिना भवेयुः ।
ततः ससंघायिजगद्धितार्थं विज्ञाय सुधर्ममुपादिशन्तः ।
समाप्य सर्वं त्रिषु बौद्धकार्यं संययुरन्ते परिनिर्वृतिं ते ॥
एवम् हि विज्ञाय यदीच्छसि त्वं निर्वृतिसौख्यमधिगन्तुमेवम् ।
सदा त्रिरत्नं शरणं प्रयातः श्रद्धाप्रसन्नः सततं भजस्व ॥
मा निन्द राजन्नवमन्यमोहो त्रैधातुनाथं शुभदं त्रिरत्नम् ।
अनिन्दनीयं हि जगत्प्रधानं सद्धर्मराजं भजनीयमेव ॥
ये चाप्यधिक्षिप्य मदाभिमाना दुष्ट कुलेष्वेप्रि विहतात्मधैर्याः ।
आलोक्य निन्दन्ति सदा प्रसन्नाः त्रिलोकभद्रार्थप्रदं त्रिरत्नम् ॥
ते सर्व एनो ऽभिरताः प्रमत्ताः सद्धर्मनिन्दाभिरताः प्रदुष्टाः ।
नष्टाः परद्रोहमदाभिमानाः सत्त्वविघाताभिरता भवेयुः ॥
ततश्च ते तदुरिताभिषक्ता महत्सु पापेष्वपि निर्विशंकाः ।
सर्वाणि धर्मार्थसुभाषितानि श्रुत्वा प्रसन्नाः परिभाषयेयुः ॥
एवं सुघोराणि बहूनि कृत्वा पापानि नित्यं समुदाचरन्तः ।
भूयो ऽतिपापेष्वपि ते चरन्तो दुःखानि भुक्त्वा निरये व्रजेयुः ॥
गत्वापि ते ऽपायनिमग्नदेहाः क्षुधाग्निसन्दग्धविमोहिताश्च ।
भुक्त्वाप्यमेध्यानि तृषाभितप्ताः पीत्वापि मूत्राणि च नैव तुष्टाः ॥
जिघत्सितास्ते ऽतिपिपासिताश्च क्लेशाग्निसंतप्तविमोहिताश्च ।
तीव्रातिदुःखार्ताविलुप्तधैर्या भ्रमन्त एनो ऽभिरता वसेयुः ॥
नैवापि तस्यापि विमुक्तिमार्गं लभेयुरेनो ऽभिनिबन्ध्यमानाः ।
सदापि तत्रैव वसेयुरेवं तीव्रव्यथाक्रान्तविमोतास्ते ॥
ये चापि लोभेन बलेन चापि द्रव्यं त्रिरत्नस्य धनाशनादि ।
हत्वा मुषित्वाप्यपहत्य वापि प्रभुंजते क्लेशविलुतधैर्याः ॥
ते दुष्टसत्त्वा दुरताभिरक्ता कृत्वैव घोराण्यपि पातकानि ।
प्रभुंजमानाः सुचिरं सुदुःखं कृच्छ्रेण मृत्वा नरकं व्रजेतुः ॥
तत्रापि ते क्लेशविलुप्तधैर्याः क्षुधातितृष्णाग्निप्रतापितांगाः ।
पुरीषमूत्रादिप्रभुंजमाना भ्रमन्त एवं निरये वसेयुः ॥
कालान्तरे ते प्रतिलब्धधैर्याः स्वदुष्कृतं कर्म विभावयन्तः ।
स्मृत्वा त्रिरत्नं मनसानुतप्ता ध्यात्वा प्रसन्नाः प्रणतिं विदध्युः ॥
ततस्तदेनःपरिमुक्तदेहाः समुत्थितान्नरकात् कदाचित् ।
मानुष्यजातिं समाप्नुवन्तो दीना दरिद्रा कृपणा भवेयुः ॥
तत्रापि ते दुष्टजानुसक्ताआः सद्धर्मनिन्दादुरितानुरक्ताः ।
भूयो ऽपि पापानि महान्ति कृत्वा व्रजेयुरेवं नरकेषु भूयः ॥
भ्रमन्त एवं बहुधा भवे ते दुःखानि भुक्त्वा सचिरं रुजार्ताः ।
किंचित्सुखं नैव लभेयुरेनोनिबन्धचिता नरके वसन्ते ॥
एवं त्रिरत्नेष्वपकारजातं पापं सुघोरं कथितं मुनीन्द्रैः ।
मत्वेति राजन्नपकारमत्र रत्नत्रये मा विदधातु किंचित् ॥
भक्त्वा प्रसन्नः शरणं प्रयातयिरत्नमेव सततं भजस्व ।
एतद्विपाकेन सदा शुभानि कृत्वा प्रयायाः सुगतालयं ते ॥
इत्येवं तत्समादिष्टं श्रुत्वाशोकः स भूपतिः ।
तमर्हन्तं गुरुं नत्वा सांजलिरेवमब्रवीत् ॥
भदन्त भवतादिष्टं श्रुत्वा मे रोचते मनः ।
तथा तच्छरणं गत्वा भजामि सर्वदाप्यहम् ॥
सदाप्यस्य त्रिरत्नस्य व्रतं चापि समादरात् ।
धर्तुमिच्छाम्यहं शास्तस्तत्समादेष्टुमर्हति ॥
कस्मिन् मासे चरेदेतद् व्रतं कस्मिन्स्तिथावपि ।
एतत् सम्यक्तमादिश्य प्रबोधयतु मां भवान् ॥
इति बिज्ञापितं राज्ञा श्रुत्वा सो ऽर्हन्महामतिः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥
साधु शृणु महाराज यद्येतद् व्रतमिच्छसि ।
तथाहं ते प्रवक्ष्यामि यथा मे गुरुणोदितम् ॥
तद्यथा सर्वमासेषु चरेत् पंचसु पर्वसु ।
शुक्लाष्टम्यां विशेषेन पूर्णमास्यां जगुर्जिनाः ॥
मासेषु श्रोवणे श्रेष्ठं कार्तिके च विशेषतः ।
कृतकर्मैविपाकत्वं बद्धसंख्यं महत्तरम् ॥
इति मत्वा महाराज यावज्जीवं समाहितः ।
त्रिरत्नं शरणं गत्वा व्रतमेतत्सदा चर ॥
एतत्पुण्यमहोदारं संबोधिज्ञानदायकम् ।
अक्षयं ह्यनुपमं चेति सर्वबुद्धैर्निगद्यते ॥
इति तेनार्हतादिष्टं श्रुत्वा राजा स मोदितः ।
तदुपदेशमासाध्य तद् व्रतं कर्तुमैच्छत ॥
ततं स नृपति राजा सभर्यात्मजबान्धवः ।
यथाविधि समाधाय चचारैतद् व्रतं सदा ॥
तन्नृपादेशमाधाय सर्वे मन्त्रिजना अपि ।
भृत्याः सैन्यगणाश्चापि पौरा ग्राम्या द्विजादयः ॥
सर्वलोकास्तथा भक्त्या त्रिरत्नशरणं गताः ।
सत्कारैः श्रद्धयाभ्यर्च्य प्राभजन् सर्वदा मुदा ॥
तदा तत्र सदाभद्रः महोत्साहं समन्ततः ।
प्रावर्तत निरुपातमेतद्धर्मानभावतः ॥
एवं मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
अनुमोद्य भवन्तो ऽपि चरतैतद् व्रतं सदा ॥
एतत्पुण्यविशुद्धा हि परिशुद्धत्रिमण्डलाः ।
अर्हन्तो निर्मलात्मानः संबोधिं समवाप्नुयुः ॥
इति तेएन समाख्यातं जयश्रिया सुधीमता ।
श्रुत्वा ते श्रावकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥
तदारभ्य प्रसन्नात्मा जिनश्रीराज उन्मनाः ।
त्रिरत्नशरणं गत्वा चचारैतद् व्रतं सदा ॥
तत्संघा यतयश्चापि चतुर्ब्रह्मविहारिणः ।
त्रिरत्नभजनं कृत्वा व्रतमेतत् सदाचरन् ॥
ततस्ते व्रतिनः सर्वे परिशुद्धत्रिमण्डलाः ।
अर्हन्तो निर्मलात्मानो बभूवुर्बोधिभागिनः ॥
ये चापीदं त्रिरत्नं प्रथितगुणगणं श्रावयन्तीह लोकान् ।
श्रद्धाभक्तिप्रसन्नाः प्रमुदितमनसा ये च शृण्वन्ति मर्त्याः ॥
ते सर्वे बोधिसत्त्वा सकलगुणभृतः श्रीसमृद्धाः सुधिराः ।
भक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥
भुक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥
॥ इति श्रीत्रिरत्नभजनानुशंसावदानं प्रथमो ऽद्यायः ॥
2. अवीचि संशोषण श्रीधर्मराजाभिबोधन प्रकरणम्
अथ धीमान् महासत्त्वो जिनश्रीराज आत्मवित् ।
जयश्रियं यतिं नत्वा सांजलिरेवमब्रवीत् ।
भदन्त श्रोतुमिछामि संघरत्नस्य सन्मतेः ।
श्रीमतो लोकनाथस्य माहात्म्यगुणमुत्तमम् ॥
तच्छ्रीमद्बोधिसत्त्वस्य त्रैलोक्याधितेः प्रभोः ।
गुणमाहात्म्यमाख्यातुमर्हसि त्वं जगद्धिते ॥
इति संप्रार्थ्यमानो ऽसौ जयश्रीर्मतिमान् यतिः ।
जिनश्रीराजमालोक्य तं यदिमेवमब्रवीत् ॥
साधु शृणु महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते समासेन प्रवक्ष्यामि जगद्धिते ॥
तद्यथासौ महाराजा भूयो ऽशोको नराधिपः ।
विहारे कुक्कुटारामे धर्मं श्रोतुदाचरत् ॥
तत्र स समुपाविश्य समन्त्रिनपौरिकाः ।
उपगुप्तं तमर्हन्तं प्रणत्वा समुपाश्रयत् ॥
तत्र स समुपागम्य तमर्हन्तं यतिं मुदा ।
अभ्यर्च्य सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥
भदन्त श्रोतुमिच्छामि लोकेशस्य जगत्प्रभोः ।
सद्धर्मगुणमाहात्म्यं तत्समादेष्तुमर्हसि ॥
एवं तेन महीन्द्रेण प्रार्थ्यमानः स सन्मतिः ।
उपगुप्तो महीपालं तमालोक्यैवमादिशत् ॥
साधु शृणु महाराज यथा शृतं मया गुरोः ।
तथाहं ते प्रवक्ष्यामि माहात्म्यं त्रिजगप्रभोः ॥
तद्यथासौ महाबुद्धः शाक्यमुनिर्जगद्गुरुः ।
धर्मराजो महाभिज्ञः सर्वज्ञो ऽर्हन् मुनीश्वरः ॥
भगवांछ्रीघनः शास्ता तथागतो विनायकः ।
मारजित्सुगतो नाथयैधातुकाधिपो जिनः ॥
श्रीमतो ऽनाथनाथस्य गृहस्थस्य महामतेः ।
विहारे जेतकोध्याने विजहार ससांघिकः ॥
तदा तत्र महासत्त्वा बोधिओसत्त्वा जिनात्मजाः ।
मैत्रेयप्रमुखास्सर्वे सद्धर्मं श्रोतुमागताः ॥
तत्र तं श्रीघनं दृष्ट्वा सुप्रसन्नाशया मुदा ।
तत्पादाब्जं प्रणत्वा तत्सभायां समुपाश्रयन् ॥
सर्वे प्रत्येकबुद्धाश्च अर्हन्तः समुपागताः ।
भगवन्तं तमानम्य तत्रैकान्ते समाश्रयन् ॥
श्रावका भिक्षवश्चापि यतयो ब्रह्मचारिणः ।
शास्तारं तं प्रणत्वा तत्सभायां समुपाश्रयन् ॥
ऋषयो ऽपि महासत्त्वाः सर्वे सद्धर्मवांछिनः ।
दुरात्तं श्रीघनं दृष्ट्वा प्रणम्य समुपागताः ॥
ब्रह्मादयो महाभिज्ञा भासयन्तः समन्ततः ।
दूरात्तं सुगतं दृट्वा प्रणमन्तः समागताः ॥
इन्द्रादयः सुराः सर्वे धर्मामृतलालसाः ।
पश्यन्तो दूरतो नत्वा शास्तारं तं समागताः ॥
तथाग्निप्रमुखाः सर्वे लोकपालाः प्रमोदिताः ।
भगवन्तं समालोक्य दूरन्नत्वा समागताः ॥
तथा सर्वे च गन्धर्वा धृतराष्ट्रादयो ऽपि ते ।
सुदूरात् सनिरीक्षान्ता नमन्तः सहसागताः ॥
विरुढकादयः सर्वे कुम्भाण्डाश्च प्रमोदिताः ।
ते ऽपि सुदूरतो दृष्ट्वा नमन्तः सहसागताः ॥
विरुपाक्षादयश्चापि सर्वनागाधिपास्तथा ।
ते ऽपि दृष्ट्वा सुदूरात्तं जिनण् समागताः ॥
वैश्रवणादयश्चापि यक्षाः सर्वप्रमोदिताः ।
पश्यन्तो दूरतो नत्वा तं मुनिं समुपागताः ॥
एतं सूर्यादयः सर्वे ग्रहाधिपाः समागताः ।
सर्वास्तारागणाश्चापि सर्वे विधाधरा अपि ॥
सिद्धाः साध्याश्च रुद्राश्च वायवश्च महेश्वराः ।
कामधात्वीश्वराः सर्वे श्रीपतिप्रमुखा अपि ॥
गरुडेन्द्राश्च सर्वे ऽपि किओन्नरेन्द्रा द्रुमादयः ।
वेमचित्रादयः सर्वे दैत्येन्द्रा राक्षसा अपि ॥
महोरगाश्च नागाश्च सर्वे ऽपि जलचारिणः ।
सर्वे ऽपि देवपुत्राश्च सर्वे षोषप्सरोगणाः ॥
सर्वा गन्धर्वकन्याश्च सर्वाः किन्नरकन्यकाः ।
नाजकन्याश्च दिव्यांगा रक्षोकन्याश्च भद्रिकाः ॥
यक्षकन्या असंख्येया तथा च दैत्यकन्यकाः ।
असंख्येयास्तथा विधाधरकन्या मनोहराः ॥
सिद्धकन्यास्तथा साध्यकन्याश्चातिमनोहराः ।
देवकन्यादयश्चान्यकन्याः सर्वाः प्रमोदिताः ॥
समीक्ष्य संप्रभासन्तमुपतस्थुः सभान्तिके ॥
तथा च ब्रह्मचारिणो भिक्षुण्यश्चैलका अपि ।
व्रतिन उपासकाश्चापि तथा चोपासिका अपि ॥
ऋषिकन्यास्तथा चान्याः सद्धर्मं श्रोतुमागताः ।
तथा च ब्राह्मणा विज्ञास्तीर्थिकाश्च तपस्विनः ॥
राजानः क्षत्रियाश्चापि सर्वे राजकुमारकाः ।
अमात्या मन्त्रिणश्चापि श्रेष्ठिनश्च महाजनाः ॥
सैन्या योधृगणाश्चापि भृत्याः परिजना अपि ।
गृहस्था धनिनः सार्थवाहादयो वणिग्गणाः ॥
शिल्पिनं कॄषिणश्चापि सर्वे कुटुम्बिनो ऽपि च ।
सर्वे वैश्याश्च शूद्राश्च तथान्ये सर्वजातिकाः ॥
नागराः पौरिकाश्चापि जानपदाश्च नैगमाः ।
ग्राम्याः प्रत्यन्तदेशस्थाः कार्पटिकाश्च पार्वताः ॥
एवं सर्वे ऽपि लोकाश्च संबुद्धभत्तिमानसाः ।
त्रिरत्नगुणमाहात्यं पीयुषं पातुमागताः ॥
तत्र सर्वे ऽपि ते लोका ब्रह्माअदय उपागताः ।
तं मुनीन्द्रं समालोक्य प्रणमन्तः पुरोगताः ॥
यथाविधि समभ्यर्च्य प्रणत्वा च यथाक्रमम् ।
तिस्त्रः प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा ॥
तत्सद्धर्मामृतं पातुं परिवृत्य समन्ततः ।
पुरस्कृत्य समाधाय पश्यन्तः समुपाश्रयन् ॥
तत्र स भगवांस्तान् दृष्ट्वा सर्वान् समाश्रितान् ।
सर्वसंशोधनं नाम समाधिं विदधे तदा ॥
तस्मिन्नवसरे तत्र रश्मयः संप्रभास्वराः ।
अवभास्य दिशः सर्वा भासयन्तः समागताः ॥
तदा तद्रश्मिसंस्पृष्टे विहारे तत्र सर्वतः ।
हेमरत्नमया आसन् स्तम्भाः सर्वे प्रशोभिताः ॥
कूटागाराश्च सर्वे ऽपि सुवर्णरत्नशोभिताः ।
द्वाराणि तत्र सर्वाणि हेमरुप्यमयानि च ॥
सोपानान्यपि सर्वाणि स्वर्णरुप्यमयानि च ।
वातायनानि सर्वाणि हेमरत्नमयानि च ॥
कपाटाअनि च सर्वाणि रुप्यरत्नमयाण्यपि ।
भित्तयो ऽपि तथा सर्वाः स्वर्णरत्नमया बभुः ॥
पटलानि सुवर्णानि रत्नाभिमण्डितानि च ।
वेदिकास्तत्र सर्वाश्च सुवर्णरत्नमण्डिताः ॥
तोरणान्यपि सर्वाणि स्वर्णरत्नमयानि च ।
एवं सर्वे ऽपि प्रासादाः सुवर्णरत्नमण्डिताः ॥
भूतलान्यपि सर्वाणि वैडूर्यसंनिभानि च ।
समतलानि शुद्धानि कोमलानि विरेजिरे ॥
एवं तज्जातकारामे विहारं परिशोभितम् ।
दिव्यसुवर्णरत्नश्रीमण्डितं समरोचत ॥
बहिश्च जेतकारामे विहारस्य समन्ततः ।
कल्पवृक्षाः समुद्भूताः सर्वार्थिसुखदायिनः ॥
सुवर्णस्कन्धशाखाढ्या रुप्यपत्राभिच्छादिताः ।
दिव्यचीवरक्यादिलम्बिता परिशोभिताः ॥
समुज्ज्वलदुदारश्रीरत्नमालाप्रलम्बिताः ।
सर्वालंकारमुक्तादिरत्नहारप्रलम्बिताः ॥
अनेका पुष्पवृक्षाश्व समुद्भूताः समन्ततः ।
दिव्यसौरभ्यागन्धाद्यप्रच्छन्नपुष्पभारिणः ॥
अनेकफलवृक्षाश्च समुद्भूताः समन्ततः ।
दिव्यमृतरसस्वादसुपथ्यfअलभारिणः ॥
सर्वा औषधयश्चापि रसवीर्यगुणान्विताः ।
सर्वा रोगनिहन्तारः प्रादुरासन् समन्ततः ॥
अनेकाः पुष्करिण्यश्च शुद्धाम्बुपरिपूरिताः ।
पद्मोत्पलादिपुष्पाढ्याः प्रादुरासन् मनोरमाः ॥
एवं सर्वाणि वस्तूनि भद्राभिशोभितानि च ।
श्रीसमृद्धप्रसन्नानि बभूवुस्तत्र सर्वतः ॥
एवं तदा महानन्दसुखधर्मगुणान्वितम् ।
सर्वसत्त्वमनोह्लादि महोत्साहं प्रवर्तते ॥
एतन्महाद्भूतं दॄष्ट्वा सर्वे लोकाः सुरादयः ।
विस्मयाक्रान्तचित्तास्ते पश्यन् तस्तस्थुरुन्मुखाः ॥
अथ सर्वनीवरणविष्कम्भी नाम सन्मतिः ।
बोधिसत्त्वो महासत्त्वस्तान् पश्यन् विस्मयान्वितः ॥
दृष्ट्वा सर्वान् सभासीनान् विस्मयोद्धतमानसान् ।
तं मुनीन्द्रं समालोक्य तस्थौ तद्धेतुं चिन्तयन् ॥
तदा स भगवांच्छास्ता लोकान् सर्वासुरानपि ।
तदद्भुतं महद्धेतुं परिज्ञातुं समाहितः ॥
गत्वा पश्यन् समाधाय तत्समाधेः समुत्थितः ।
तदद्भुतमहाहेतुं समुपादेष्टुमैच्छत ॥
तदालोक्य सुधीमान् स बोधिसत्त्वो जिनात्मजः ।
कृती सर्वनीवरणविष्कम्भी संविलोकयन् ॥
समुत्थायोपसंगच्छन् जानुभूमितलाश्रितः ।
उद्वहन्नुत्तरासंगं कृतांजलिपुटो मुदा ॥
संपश्यंस्तं जगन्नाथं शास्तारं त्रिजगद्गुरुम् ।
सर्वज्ञं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥
भगवन् परमाश्चर्यप्राप्तो ऽस्मीदं विलोकयन् ।
कुत इते सुपुण्याभा रश्मयो ऽत्र समागताः ॥
कस्य पुण्यात्मनश्चायं सद्धर्मविषयो महान् ।
प्रभाव इदृशो ऽस्माभिर्दृश्यति न कदाचन ॥
तद्भवांस्त्रिगजच्छास्ता सर्वज्ञो भगवान् जिनः ।
तदेतन्नः समादिश्य प्रबोधयितुमर्हति ॥
इति संप्रार्थ्यमानो ऽसौ भगवान् धर्माधिपो जिनः ।
दृओष्ट्वाआ सर्वनीवरणविष्कम्भिनं तमब्रवीत् ॥
यः श्रीमान्महाभिज्ञ आर्यावलोकितेश्वरः ।
बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥
स जिनस्यामिताभस्य धृताज्ञः करुणामयः ।
लोकधातोः सुखावत्याः सत्त्वानुद्धर्तुमागतः ॥
सांप्रतं नरके ऽवीचौ सत्त्वान् तेनाभिपाचितान् ।
प्रसमीक्ष्य समुद्धर्तुं प्रसारयन् करानागतः ॥
तत्प्रभा नरके तत्र स्पृष्ट्वा सर्वान् सुखान्वितान् ।
कृत्वा ततः समुद्धत्य समवभास्य सर्वतः ॥
इहागता इमास्तस्य लोकेशस्यात्मजाः प्रभाः ॥
एवमसौ महासत्त्वो महत्पुण्यसमृद्धिमान् ।
इहापि पापिनः सत्त्वान् समुद्धर्तुं समागतः ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
धिमान् सर्वनीवरणविष्कम्भी विस्मयान्वितः ॥
भगवन्तं मुनीन्द्रं तं समालोक्य सकौतुकः ।
लोकेशपुण्यमाहात्म्यं प्रष्टुमेवमभाषत ॥
भगवन्नके ऽवीचौ महानग्निः सदोज्वलः ।
वीचिर्न ज्ञायते तस्य ज्वाला या महदर्च्चिषः ॥
तत्कथं स महासत्त्वो लोकेश्वरः कृपान्वितः ।
तत्र सत्त्वान् समुद्धर्तुं प्रविशति जगद्गुरुः ॥
यत्र प्राकारपर्यन्तमयोमयं महीतलम् ।
महदग्निखदा तत्र प्रोज्वलाग्निशिखाकुला ॥
तस्यां संस्थापिता कुम्भी महती तैलपूरिता ।
तस्यां सत्त्वा दुरात्मानः पापिष्ठा दुरितारताः ।
अप्रमेया असंख्येयाः क्वाथमाना दिवानिशम् ।
खिद्यत्यह्ने विशीर्णांगास्तिष्ठिन्ते प्राणिनः खराः ॥
एवं ते प्राणिनो दुष्टा असह्यवेदनातुराः ।
स्वदुष्कृतान् अभिभुंजन्तस्तिष्ठिन्ति पारितापिताः ॥
तत्राप्यसौ महासत्त्वो लोकेनाथो जिनात्मजः ।
प्रविष्टः कथमुद्धत्य संप्रेषयेच्च तान् कुह ॥
भगवन् सर्वविच्छास्तरेतत्सर्वं सुविस्तरम् ।
समादिश्य भवानस्मान् प्रबोधयितुमर्हसि ॥
इति संप्रार्थिते तेन बोधिसत्त्वेन धीमता ।
भगवान्स्तं महासत्त्वं समालोक्यैवमादिशत् ॥
साधु शृणु महासत्त्व समाधाय यदीच्छसि ।
लोकेश्वरर्द्धिमाहात्म्यं प्रवक्ष्यामि जगद्धिते ॥
तद्यथा भूपती राजा चक्रवर्ती नृपाधिपः ।
महद्राज्यर्द्धिसंपन्नमहोत्साहैः समन्वितः ॥
वसन्तसमये रन्तुं सर्वत्र पुष्पमण्डिते ।
महोद्याने मनोरम्ये प्रविशति प्रमोदितः ॥
तथा स त्रिजगन्नाथ पुण्यर्द्धिश्रीसमन्वितः ।
तत्रावीचौ समालोक्य प्रविशति प्रभासयन् ॥
तस्य काये ऽन्यथाभावं भवति नैव किंचन ।
सुखमेव महानन्दमहोत्साप्रमोदनम् ॥
यदा स त्रिजगन्नाथः स्वदेहरश्मिमुत्सृजन् ।
तदवीचिमुक्रान्तश्चरते संप्रभासयन् ॥
तदादौ निरयो ऽवीचिर्महदग्निशिखाकुलः ।
शीतीभूतो महानन्दं सुखांगो भवति क्षणात् ॥
यमपालास्तदाअलोक्य संवेगोद्विग्नमानसाः ।
किमत्राशुभनैमित्तं जातमिति विषादिताः ॥
को देवो ऽत्र महावीरो दैत्यो वा समुपागतः ।
इत्युक्त्वा ते च तद्द्रष्टुं प्रचरन्ते समन्ततः ॥
तत्र तं समुपासीनं दिव्यरुपं महत्प्रभम् ।
सौम्यरुपं सुभद्रांगं दिव्यालंकारमण्डितम् ॥
महच्छ्रीमणिसंयुक्तं जटामकुटशोभितम् ।
पश्यन्ते ते समालोक्य तिष्ठन्ते विस्मयान्विताः ॥
ततो ऽसौ सर्वपालेन्द्रो लोकेश्वरो जिनात्मजः ।
संभासयन् विशुद्धाभैः प्रविशते विलोकयन् ॥
यदा तत्र प्रविष्टो ऽसौ बोधिसत्त्वजगत्प्रभुः ।
तदा तत्र महापद्मं प्रादुर्भूतं प्रभास्वरम् ॥
सप्तरत्नमयं तत्र समाश्रित्य स तिष्ठति ।
तदा विस्फोटिता कुम्भी सा सो ऽपि प्रशमितो ऽनलः ॥
तत्रानलखदामध्ये प्रादुर्भूतं सरोवरम् ।
तदा ते पापिनः सत्त्वास्तद्रश्मिस्पर्शताश्रयाः ॥
निर्गतवेदनादुःखा महत्सौख्यसमन्विताः ।
विस्मिताः सुप्रसन्नात्माः संपश्यन्ते तमीश्वरम् ॥
समीक्ष्य सहसोपेत्य कृतांजलिपुटा मुदा ।
तत्पादाब्जे प्रणत्वा ते स्तुत्वा भजन्त आदरात् ॥
ततः सर्वे ऽपि ते सत्त्वा निःशेषत्यक्तपातकाः ।
शुद्धांगा विमलात्मानः संप्रयान्ति सुखावतीम् ॥
सुखावत्यां च ते सर्वे संगताः संप्रमोदिताः ।
मुनीन्द्रस्यामिताभस्य सर्वदा शरणं गताः ।
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ॥
तदा नरकपारास्ते सर्व उद्विग्नमानसाः ।
विलोक्य तं महाश्चर्यं सविस्मयभयाकुलाः ।
प्रगृह्य स्वस्वशयाणि पलायन्ते ततो द्रुतम् ॥
ततस्ते सहसा गत्वा यमराजस्य सन्निधौ ।
प्रणत्वेतत्प्रवृतान्तं निवेदयन्ति विस्तरम् ॥
तैर्निवेदितमाकर्ण्य यमराजो ऽतिविस्मितः ।
पुरतः समुपामन्त्र्य पृच्छते तान् समादरात् ॥
किमेवं यूयमायाताः सर्वे ऽप्युद्विग्नमानसा ।
कुतो भयं समायातं केत युयं प्रखेटिताः ॥
सर्वमेतत्प्रवृत्तान्तं युयं मे यदि भक्तिकाः ।
विस्तरेण समाअख्यातुमर्हथ मे पुनः पुनः ॥
इत्युक्ते यमराजेन सर्वे ते यमकिंकराः ।
प्रणत्वा यमराजं च निवेदयन्ति विस्तरात् ॥
यत्खलु देव जानीयाद्भवानेव जगत्प्रभुः ।
तत्रावीचौ महोत्पातं जायेते तन्निगद्यते ॥
प्रथमं तस्मिन् सुगन्धश्चरते शीतलो ऽनिलः ।
ततः प्रह्लादिनी कान्तिर्भासयन्ति समागताः ॥
तत्प्रभास्पर्शितः सो ऽग्निरवीचिरपि शाम्यते ।
ततो विस्फोटिता कुम्भी खण्डीभूता विचूर्णिता ॥
तत्राप्यग्निखदामध्ये प्रादुर्भूतं सरोवरम् ।
ततस्तत्र महासत्त्वः कामरुपो ऽतिसुन्दरः ॥
भद्रमूर्त्तिर्विशुद्धात्मा जटामकुटशोभितः ।
श्रीमान् महर्द्धिको धीरो दिव्यालंकारमण्डितः ॥
दयाकारुण्यभद्रांशः शीतरश्मिप्रभास्वरः ।
समीक्षन् पापिनस्सत्त्वान् प्रविशते प्रभासयन् ॥
तदा तत्र महापद्मं सप्तरत्नसमुज्ज्वलम् ।
प्रादुर्भूतं तदाश्रित्य तिष्ठते स प्रभासयन् ॥
तमासीनं समालोक्य पापिनस्ते सविस्मयाः ।
उपेत्य शरणं गत्वा सम्भजन्ते समादरात् ॥
ततस्ते प्राणिनः सर्वे शुधकायाः प्रमोदिताः ।
तत्पादाब्जे प्रणतिं कृत्वा सर्वे यान्ति ततश्च्युताः ॥
इत्यसौ नरको ऽवीचिर्निःशेषं प्रलयं गतः ।
तदत्र देव संवीक्ष्य विचारयितुमर्हति ॥
इति तैर्निवेदितं श्रूत्वा यमराजः स विस्मितः ।
किमेतदद्भुतं जातमित्युक्त्वैवं विचिन्तते ॥
को ऽसौ देवः समायात ईदृग्रूपो महर्द्धिकः ।
महेश्वरो ऽथवा विष्णुर्ब्रह्माथ त्रिदशाधिपः ॥
वाडवो वा महानग्निरुत्थितः प्रलये यथा ।
गन्धर्वो वा सुरेन्द्रो वा किन्नरो वाथ राक्षसः ॥
किमुत्थितो महावायुरतिवीर्यपराक्रमः ।
यक्षो वाथ महासत्त्वो वज्रपाणिः स गुह्यराट् ॥
राक्षसेन्द्रो महावीरो रावणो मम स्पर्धी च ।
यक्षाधिपो महावीरो राजराजो ऽथवान्यतः ॥
किं वा भूतेश्वरो रुद्र ईशानः प्रमथाधिपः ।
को ऽस्ति लोकाधिप वीर ईदृग्बलसमृद्धिमान् ॥
एतेषामपि सर्वेषां महद्वीर्यानुभाविनी ॥
ईदृग्विर्यप्राअभावो हि कस्यचिन्नैव दृश्यते ॥
अथवा तापसः कश्चिदृषिर्वापि नराधिप ।
तपःसिद्धिबलाधानमहद्वीर्यमृद्धिमान् ॥
कस्य देवस्य देव्या वा कस्या वा भक्तिमान् कृती ।
साधको वरमासाद्य मामपि जेतुमागतः ॥
कस्तदन्यो महावीर्यः पुरुषो विद्यते कुह ।
यो ऽवीचिं वहिनमुज्ज्वालं शमयितुं प्रशक्नुयात् ॥
ईदृक्सत्त्वो महेशाख्यो महत्पुण्यसमृद्धिमान् ।
नैवात्र दृश्यते क्वापि त्रैधातुभुवनेष्वपि ॥
एवं विचिन्त्य सन्त्रस्तो यमराट् सो ऽतिविस्मितः ।
अवीचौ नरके तत्र पश्चते दिव्यचक्षुषा ॥
तत्र रत्नयोदारपद्मासनसमाश्रितम् ।
दिव्यातिसुन्दरं कान्तं दिव्यालंकारभूषितम् ॥
समन्तभद्ररुपांगं जटामणिकिरीटिनम् ।
सौम्यकान्तिप्रभासन्तं सौम्यं पुण्यगुणाश्रयम् ॥
तं श्रीमन्तं समालोक्य लोकेश्वरं जिनात्मजम् ।
बोधिसत्त्वं महासत्त्वं विदित्वा स प्रमोदितः ॥
यमराट् सहसोत्थाय त्वरंस्तत्र समागतः ।
उमेत्य सांजलिर्नत्वा स्तौत्येवं तं जिनात्मजम् ॥
नमस्ते बोधिसत्त्वाय महासत्त्वाय तायिने ।
आर्याअवलोकितेशाय महेश्वराय सुश्रीये ॥
पद्मश्रीभूषितांगाय सद्धर्मवरदाय ते ।
नमो वंशकराय भुवरदृष्टिकराय ते ॥
सर्वदा जगदाश्वासवरदानप्रदाय च ।
शतसहस्त्रहस्ताय कोटीलक्षणाय च ॥
असंख्यानन्तरुपाय विश्वरुपाय ते नमः ।
सर्वभूतात्मरुपाय आदिनाथाय ते नमः ॥
वडवामुखपर्यन्तशशिदिगाननाय च ।
सर्वधर्मानुरुपाय धर्मप्रियाय सिद्धये ॥
सर्वसत्त्वमहदुःखसंमोक्षणकराय च ।
मत्स्याद्यम्बुजजन्तूनामाश्वासनकराय च ।
ज्ञानराश्युत्तमांगाय धर्मार्थप्रियदायेने ।
रत्नश्रीभूषितांगाय सद्गुणश्रीप्रदाय च ॥
सर्वनरकभूमीनां संशोषणकराय च ।
ज्ञानश्रीसंप्रभासाय ज्ञानलक्ष्मीप्रदाय च ॥
सामरैः सासुरेन्द्रैश्च लोकैः संपूजिताय च ।
नमस्कृताय सभक्त्या वन्दिताय नमस्सदा ॥
अभयदानदत्ताय पारमितोपदेशिने ॥
सूर्यरोचनदीप्ताय धर्मदीपंकराय च ॥
कामरुपाय गन्धर्वसुरुपाय सुरुपिणे ।
हेमनगाधिरुढाय परमार्थयोगं बिभ्रते ॥
अब्धिगम्भीरधर्माय संमुखदर्शनाय च ।
सर्वसमाधिप्राप्ताय स्वभिरतिकराय च ॥
संविच्छुरितगात्राय मुनिपुंगवरुपिणे ।
वध्यबन्धनबद्धानां संमोक्षणकराय च ॥
सर्वभावस्नुरुपाय समुपचितकारणे ।
बहुपरिजनाढ्याय चिन्तामणिसरुपिणे ॥
निर्वाणमार्गसंचारसंदर्शनप्रदाय च ।
भूतप्रेतपिशाचादिनिलयोच्छोषकारिणे ॥
छत्रीभूताय लोकानां त्रैधातुकनिवासिनाम् ।
सर्वाधिव्याधियुक्तानां परिमोचनकारिणे ॥
नन्दोपनन्दनागेन्द्रनागेयज्ञोपवीतबिभ्रते ॥
श्रीमतो ऽमोघपाशस्य रुपसन्दर्शनाय च ।
सर्वमन्त्रगुणाभिज्ञप्राप्ताय सद्गुणाय च ॥
वज्रपाणिमहायक्षविद्रापणकराय च ।
त्रैलोक्यदुष्टसत्त्वानां भीषणमूर्तिधारिणे ॥
भूतवेताडकुम्भाण्डरक्षोयक्षादिभीददे ।
नीलोत्पलसुनेत्राय गम्भीरधीरबुद्धये ॥
सर्वविद्याधिनाथाय सर्वक्लेशापहारिणे ।
विविधधर्मसंबोधिमार्गोपचिताय च ॥
मोक्षमार्गाभिरुढाय प्रबलधर्मबिभ्रते ।
प्राप्तसंबोधिसच्चित्तसन्मार्गोपचिताय च ॥
प्रेतादिदुर्गतिक्लेशपरिमोक्षणकराय च ।
परमाणुरजोसंख्यं समाधिं दधते नमः ॥
नमस्ते लोकनाथाय बोधिसत्वाय ते सदा ।
महासत्त्वाय सद्धर्मगुणसंपत्तिदायिने ॥
नमामि ते जगच्छास्तः सदाहं शरणं व्रजन् ।
भजानि सततं भक्त्या तत्प्रसीद जगत्प्रभो ॥
क्षन्तव्यं मे ऽपराधत्वं यन्मयापकृतं भवेत् ।
अद्यारभ्य सदा शास्तर्भवे त्वच्छरणाश्रीतः ॥
भवदाज्ञां शिरो धृत्वा चरिष्यामि जगद्धिते ।
तथात्राहं करिष्यामि भवता दिश्यते यथा ॥
तद् भवान् मे सदालोक्य प्रसीदतु जगत्प्रभो ।
भवदभिमतं कार्यं तस्करिष्याम्यहं भवे ॥
इत्येवं धर्मराजो ऽसौ स्तुत्वा संप्रार्थयन् मुदा ।
तं पुनः सांजलिर्नत्वा समुपतिष्ठते पुनः ॥
ततो लोकेश्वरो ऽसौ तं धर्मराजं विलोकयन् ।
समादिशति संबोधिमार्गे नियोक्तुमादरत् ॥
यम त्वं धर्मराजो ऽसि सर्वलोकानुशासकः ।
तत्सम्पद्भिर्गयित्वैव सत्त्वान् धर्मे ऽनुशासय ॥
ये चापि प्राणिनो दुष्टाः पापिष्ठा अपि दुर्धियः ।
ते ऽपि धर्मे प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥
ये चापि श्रद्धया भक्त्या त्रिरत्नं शरणं गताः ।
भजन्ति सर्वदा नित्यं संबोधिधर्मवांछिनः ॥
ते सर्वे ऽपि समालोक्य पालनीयास्त्वया सदा ॥
बोधयित्वा समालोक्य पालनीयास्त्वाय्र सदा ॥
बोधयित्वा च ते सर्वे चारयित्वा शुभे व्रते ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
ये चापि पापिनो दुष्टास्तानपि त्वं प्रयत्नतः ।
प्रबोधय समालोक्य चारयस्व शुभे सदा ॥
इत्येवं मे वचनं श्रुत्वा संबोधिं यदि वांछसि ।
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥
यद्येवं कुरुषे लोके दयाधर्मं समाचरन् ।
धर्मराजाभिधानं ते यथार्थ्यसफलं व्रजेत् ॥
इत्येवं समुपादिष्टं तेन लोकेश्वरेण सः ।
धर्मराजः समाकर्ण्य तथेति परिबुध्यते ॥
ततः स धर्मराजस्तं लोकेश्वर जिनात्मजम् ।
समीक्ष्य सांजलिर्नत्वा संप्रयाति स्वमालयम् ॥
ततो ऽसौ लोकनाथो ऽपि संप्रस्थिति कृपाकुलः ।
अन्यत्रापि समुद्धर्तुं सत्त्वान् संचरते पुनः ॥
॥ इत्यवीचिसंशोषणधर्मराजाभिबोधनप्रकरणम् ॥
3. सूचीमुखोदर पर्वत प्रेतोद्धारण प्रकरण
अथ सर्वनीवरणविष्कम्भी सुगतात्मजः ।
बोधिसत्त्वो मुनीन्द्रं तं संपश्यंचैवमब्रवीत् ॥
कदासौ भगवंछास्तर् लोकेश्वरो जिनात्मजः ।
बोधिसत्त्व इहागच्छेत्तत्समादेष्टुमर्हति ॥
इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ।
बोधिसत्त्वं तमालोक्य पुनरेवं समादिशत् ॥
असौ श्रीमान् महासत्त्वः कुलपुत्र ततश्चरन् ।
प्रेतलोकान् समुद्धर्तुं प्रेतालये ऽभिगच्छति ॥
तत्र प्रेतालये गत्वा प्रेतान् पश्यन् स दूरतः ।
शीतरश्मि समुत्सृज्य प्रविवेश प्रभासयन् ॥
तद्रश्मीः संप्रभासन्तीः समवभास्य सर्वतः ।
तत्प्रेतभुवनं सर्वं करोति शीततान्वितम् ॥
तदा ते प्रेतिकाः सर्वे शीतरश्मिसमन्विताः ।
किमेतदिति संचिन्त्य तिष्ठन्ति विस्मयान्विताः ॥
यदा तत्र प्रविष्टो ऽसौ लोकेश्वरः प्रभासयन् ।
तदा वज्राशनिर्भूमि उपशान्ता समन्ततः ॥
तदद्भुतं समाअलोक्य द्वारपालः स विस्मितः ।
किमतेतदिति संचिन्त्य लोहिताक्षो विलोकयन् ॥
उत्थाय सहसादाय कालकूटमहाविषम् ।
भिण्डिपालं धनुर्बाणं धृत्वा संत्रसते रुषा ॥
तत्र तं रत्नपद्मस्थं शीतरश्मिप्रभास्वरम् ।
विलोक्यासौ महारौद्रचित्तो ऽपि विस्मयान्वितः ॥
तद्रश्मिसंपरिस्पृष्टः कारुण्यचित्तमाप्तवान् ।
स्वपापसाधनं कर्म संभाव्यैवं विचिन्तते ॥
धिग्मां यदीदृशे पापसाधने दुष्टकर्मणि ।
संरक्तो द्वारपालो ऽत्र भूत्वा करोमि पापकान् ॥
नैव मे ईदृशं कर्म पालयतः शुभं भवेत् ।
नूनमेतन्महत्पापfअलं तुह्यां भवे सदा ॥
किमीदृग्कर्म साधव्यं केवलदुःखसाधनम् ।
तदहं नात्र तिष्ठेयं ह्युक्त्वा गेहं व्रजान्यपि ॥
इति विचिन्त्य स द्वारपालो ऽतिकरुणान्वितः ।
पुरतस्तं महासत्त्वं प्रणत्वा चरते ततः ॥
तत्र तं समुपायातं सुधांशुसंप्रभासितम् ।
समीक्ष्य प्रेतिकाः सर्वे धावन्ति पुरतो द्रुतम् ॥
तस्य ते पुर आगत्य क्षुत्पिपासाग्नितापिताः ।
पानीयमभियाचन्तस्तिष्ठन्ति परिवृत्य वै ॥
तान् दृष्ट्वा स महासत्त्वः सूचीमुखानगोदरान् ।
दग्धस्थूणाश्रयानस्थियन्त्रवदतिमूर्च्छितान् ॥
स्वकेशरोमसंच्छन्नाः कृशांगान् विकृताननान् ।
क्षुप्तिपासाग्निसन्दग्धान् विण्मूत्रश्लेष्मभोजिनः ॥
ईदृशान् पापिनो दुष्टान् प्रेतान् सर्वान् विलोकयन् ।
तेभ्यो ऽतिकरुणार्तात्मा दादत्यब्जाद्भवं जलम् ॥
तदम्बु ते निपीयापि प्रेतास्सर्वे न तृप्तिताः ।
भूयो ऽपि पातुमिच्छन्त उपतिष्ठिन्त तत्पुरः ॥
तानतृप्तान् समालोक्य लोकेशो ऽतिदयाकुलः ।
दशभ्यः स्वांगुलीभ्यो ऽपि निश्चारयति निम्नगाः ॥
तच्छ्रवन्तीः समालोक्य सर्वे ते प्रेतिका मुदा ।
यथेच्छा संपिबन्तो ऽपि नैव तृप्तिसमागताः ॥
भूयो ऽपि पातुमिच्छन्तः सर्वे ते समुपाश्रिताः ।
तमेवं समुपालोक्य विभ्रमन्ते तृषातुराः ॥
भ्रमतस्तान् विलोक्यासौ लोकेशो ऽतिदयान्वितः ।
दशपादांगुलीभ्यो ऽपि निश्यारयति चापराः ॥
ताश्च महानदीर्दृष्ट्वा प्रेतास्सर्वे ऽपि ते मुदा ।
समुपेत्य पिबन्तो ऽपि नैव तृप्तिं समागताः ॥
तानतृतान् विलोक्यासौ लोकेशो ऽतिकृपान्वितः ।
सर्वेभ्यो रोमकूपेभ्यो निश्चारयति चापगाः ॥
तांश्चापि ते समालोक्य सर्वाप्रेताः तृइषार्दिताः ।
सहसा समुपाश्रीत्य प्रपिबन्ते यथेप्सितम् ॥
यदा तेअ प्रेतिकाः सर्वे तदुदकं सुधानिभम् ।
अष्टांगगुणसंपन्नं पिबन्त्यास्वाध्यमोदिताः ॥
तदा सर्वे ऽपि ते पूर्णगात्रा विपुलकण्ठकाः ।
परिपुष्टेन्द्रियास्तृप्ता भवन्ति संप्रमोदिताः ॥
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0