गुणकारण्डव्यूहसूत्र · भाग 121140
किमिदं सत्यमेवं स्यादिति तं पर्यपृच्छत ॥
सत्यमेव प्रदिपेयं राक्षसी यन्न मानुषी ।
कथं भवान् विजानासि सत्यमेतत् समादिश ॥
इति संप्रार्थिते तेन स प्रदीपः पुनर्हसन् ।
सिंहलं सार्थवाहं तं समामन्त्र्यैवमादिशत् ॥
सत्यमेतन्मयख्यातं यदि न त्वं प्रतीच्छसि ।
दक्षिणस्यां महारण्ये गत्वा पश्य त्वमात्मना ॥
तत्रारण्ये महद्दुर्गे आयसकोट्ट उच्चके ।
वणिक्शतसहस्त्राणि प्रक्षिप्य स्थापितानि हि ॥
केचिज्जीवन्ति केचिच्च मृताः केचिच्च भक्षिताः ।
अस्थीनि चावकीर्णान्निप्रतिणि समन्ततः ॥
तत्र गत्वा समालोक्य सर्वमेतन्मयोदितम् ।
सत्यं वा यदि वा ऽसत्यं श्रद्दध्या मे वचस्तदा ॥
इत्येवं तदुपाख्यातं श्रुत्वा स परिबोधितः ।
तत्र गत्वा तथा द्रष्टुं सर्वमेतस्तमुत्सुकः ॥
प्रसुप्तां राक्षसीं मोहजालनिद्रावृतेन्द्रियाम् ।
कृत्वा चन्द्रप्रभं खड्गं धृत्वा संप्रस्थितो द्रुतम् ॥
ततो गच्छन् स एकाकी निशीये संविलोकयन् ।
दक्षिणस्यां महारण्ये दुर्गमे समुपाचरत् ॥
तत्रात्युच्चे महकोट्टमयःप्राकारसंवृतम् ।
गवाक्षद्वारे निर्यूहवीहीनं लोकसंस्कृतम् ॥
तं दृष्ट्वा समुपासृत्य परिभ्रमन्समन्ततः ।
लोकविषादवैलाप्यं श्रुत्वा स विस्मयाकुलः ॥
तत्र चम्पकवृक्षाग्रमारेह्य स समाश्रितः ।
महोत्काशरवो नैव नाजुहाव तदाश्रितान् ॥
भवन्तः के कियन्तो ऽत्र प्रक्षिप्ताः केन निश्रिताः ।
किं भुक्त्वा वसथात्रापि तत्सर्वं वक्तुमर्हथ ॥
इति तदुक्तमाकर्ण्य तत्रस्थास्ते वणिग्जनाः ।
वृक्षशाखाग्रमारुढं तमालोक्यैवमब्रुवन् ॥
कस्त्वं भो कथमायासि कस्मादिहागतः कुतः ।
सर्वमेतत् प्रवृत्तान्तं समुपाखातुमर्हति ॥
इति तदुक्तमाकर्ण्य साअर्थवाहः स सिंहलः ।
तत्रस्थांस्तान् जनान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥
सिंहलः सार्थवाहो ऽहं जम्बूद्वीपादिहागतः ।
गन्तुं रत्नाकरे ऽम्भोधौ वणिक्पंचशतैः सह ॥
अब्धिमध्ये महावातैर्हता नौका विखण्डिता ।
उदके पतितास्सर्वे वयुमुत्तीर्य बाहुभिः ॥
तीरमासाद्य वृक्षस्य छायायां समुपाश्रिताः ।
स्वदेशमनुशोचन्तो न्यषीदाम विषादिताः ॥
तत्रातिसुन्दरीकान्ताः कुमारिका मनोहराः ।
ताः सर्वाः पुरतो ऽस्माकं समाश्रित्यैवमब्रुवन् ॥
मा भैष्ट किं विषादं वा धैर्यमालम्ब्य तिष्ठत ।
सर्वासामपि ह्यस्माकं कश्चित् स्वामी न विद्यते ॥
तद्यूयं स्वामिनो ऽस्माकं भूत्वा भुक्त्वा यथेप्सितम् ।
यथाकामं रमित्वेह संचरध्वं सदा सुखम् ॥
इत्यस्मानालोक्य सर्वास्तान् सर्वानस्मान् विमोहितान् ।
एकैकं स्वामिनं धृत्वा स्वास्वालयं न्यवेशयन् ॥
तत्रास्मान् यथाकामं भोजयित्वात्यमोदयन् ।
यथेच्छया रमित्वापि चारयन्ति सदा सुखम् ॥
इत्येवं महदाश्चर्यं सुखं भुक्त्वातिविस्मितः ।
किमत्र विषये वृत्तमिति द्रष्टुमिहाव्रजे ॥
इति तेन समाख्यातं श्रुत्वा ते ऽपि वणिग्जनाः ।
सर्वे स्वकं प्रवृत्तान्तं कथित्वा तं व्यनोदयन् ॥
यत्खलु सार्थवाहो ऽसि जानीहि ताभि राक्षसीः ।
तदत्र रतिसंरक्ता मा तिष्ठाशु व्रज स्वं पुरम् ॥
वयमप्येवमम्भोधौ पतिता व्यसनितास्तथा ।
राक्षसीभिः समुत्तार्त्य स्वस्वगृहे निवेशिताः ॥
भोजयित्वा यथाकामं रमित्वापि यथेच्छया ।
विनोद्य स्ववशे स्थाप्य संचारिताः सुखे सदा ॥
यदा यूयमिह प्राप्तास्तद ताभिर्वयं द्रुतम् ।
कोटे ऽत्र सर्व आनीय प्रक्षिप्ता बन्धनालये ॥
गृहीत्वामीभिरस्स्माकं राक्षसीभिर्दिवानिशम् ।
खादित्वा पुरुषान् नित्यं संचर्यन्ते यथेच्छया ॥
यूयमपि तथामीभी राक्षसीभिर्यथेच्छया ।
गृहीत्वात्र प्रतिक्षिप्ता भक्षिष्यध्वे न संशयः ॥
इत्यवश्यं भवेदेवं विज्ञाय सहसा भवान् ।
सर्वान् सार्थान् समाहूय स्वदेशं द्रुतम् ॥
यदीतः सहसा यूयं सर्वे गच्छत सांप्रतम् ।
कुशलं वा भवेन्नैवं यदि सर्वे विनक्ष्यथ ॥
इति तदुक्तमाकर्ण्य सिंहलं स प्रबोधितः ।
अवतीर्य द्रुतं वृक्षात् सहसा स्वालयं ययौ ॥
तत्र रतिकरं दीपमुद्दीप्तं तं समीक्ष्य सः ।
सांजलिः प्रणतिं कृत्वा पुरतः समुपाश्रयत् ॥
तं पुरस्थं समालोक्य प्रदीपः स समुज्ज्वलन् ।
साधो सत्यं त्वया दृष्टमित्येवं समपृच्छत ॥
इति दीपोदितं श्रुत्वा पुनराह स विस्मितः ।
सर्वं सत्यं मया दृष्टमादिष्टं भवता यथा ॥
किमुपायमिहाप्यस्ति येनेतः सहसा पुनः ।
जम्बूद्वीपं गमिष्याम तत्समादेष्टुमर्हति ॥
इति संप्रार्थिते तेन स प्रदीपः समुज्ज्वलन् ।
प्रहसंस्तं समाश्वस्य पुनरेवमुपादिशत् ॥
तदुपायमिहाप्यस्ति येनेतः सहसा व्रजेः ।
जम्बूद्वीपं पुनर्गन्तुं यदीच्छसि शृणुष्व तत् ॥
अत्र तीरे महाम्भोधेः सुवर्णबालुकास्थले ।
बालाहो ऽश्वो महा..त्रो विद्यते करुणात्मकः ॥
स श्वेता औषधीर्भुक्त्वा प्रावर्त्य परिवर्त्य च ।
समुत्थाय स्वमात्मानं प्रच्छोडित्वैवमालपेत् ॥
क इतो ऽब्धिं समुत्तिर्य गन्तुमिच्छन्ति ये पुनः ।
स्वदेशं मे समारुह्य पृष्ठे तिष्ठन्तु ते दृढम् ॥
यदि गन्तुं तवेच्छास्ति जम्बूद्वीपमितः पुनः ।
तत्र गत्वाश्वराजं तं नत्वा संप्रार्थयादरात् ॥
वयमिच्छामहे गन्तुं जम्बूद्विपमितः पुनः ।
तदस्मान् कृपया सर्वान् संप्रापयिमर्हति ॥
ततः सो ऽश्वो महाभिज्ञः सर्वान् युष्मानितो द्रुतम् ।
स्वपृष्ठेन समावाह्य पारे ऽब्धेः प्रापयिष्यति ॥
इत्येवं समुपादिश्य स दीपो ऽन्तर्हितो ऽभवत् ।
सो ऽपि शयनमारुह्य राक्षस्या शयितो ऽभवत् ॥
तदंगशीतत्वं स्पृष्टा विबुद्धा सा निशाचरी ।
कथं ते शीतलं देहमित्येवं पर्यपृच्छत ॥
तच्छ्रुत्वा सार्थवाहो ऽसौ सिंहलो भीतमानसः ।
तां कान्तां प्रमदामेवं प्रबोधयितुमब्रवीत् ॥
कान्ते ऽहं निर्गतो गेहाम्मुलमूत्रं विसृज्य च ।
आगम्य शयितस्तेन शीतलिता तनु मम ॥
इति तां मिथ्यया कान्तां बोधियित्वापि शंकितः ।
सिंहलः स विषण्णात्मा तस्थौ निद्रापराङ्मुखः ॥
ततः स प्रातरुत्थाय सर्वांस्तान् वणिजः सत्त्वान् ।
समाहूय बहिर्देशे गत्वा यानमुपाश्रयत् ।
तथा ते वणिजश्चापि सर्वे तत्र समाश्रिताः ।
परस्परं समाभाष्य संतस्थिरे ऽभिनन्दिताः ॥
तत्र तान् वणिजः सर्वान् निर्विशंकाभिनन्दितान् ।
सिंहलः स समालोक्य समामन्त्र्यैवमब्रवीत् ॥
भवन्तः प्रष्टुमिच्छामि सत्यं भाषन्तु नान्यथा ।
किदृक्स्नेहोपचारैर्वः कान्ताः संमानयन्ति हि ॥
इति तदुक्तमाकर्ण्य तत्रओको ऽतिप्रगल्भितः ।
सिंहलं तं समालोक्य सहर्षमेवमब्रवीत् ॥
धन्यो ऽस्मि सार्थवाहात्र भाग्येन प्रेरितः खलु ।
ईदृग्भोग्यमहत्सौख्यं मन्ये स्वर्गे ऽपि दुर्लभम् ॥
यन्मे कान्ता सुभद्रांगी सुस्नेहोपचारिणी ।
यथेच्छा सुरसैर्भोग्यैर्मानयन्ति दिवानिशम् ॥
तथान्यः प्रावदत्तत्र महर्सौख्यमिहाप्तवान् ।
भाग्येन प्रेरितो ऽत्राहमीदृक्सौख्यं कुहापि न ॥
यन्मे कान्ता वरैर्भोग्यैस्तोषयित्वा दिवानिशम् ।
रमयन्ती यथाकामं मानयन्ती समादरात् ॥
तथापरो वणिक्प्राह धन्यो ऽहमतीभाग्यवान् ।
ईदृक्सम्पन्महत्सौख्यं लप्स्ये कुत्र कथं कदा ।
ईदृक् महत्तरं सौख्यं मन्ये स्वर्गे ऽपि दुर्लभम् ॥
यन्मे स्नेहवती भार्या दिव्यवस्त्रादिभूषणैः ।
मण्डयित्वा यथाकामं रमयित्वा दिवानिशम् ॥
यथाभिलषितैर्भोग्यैस्सन्तर्प्य प्रतिपाति माम् ।
तथान्यो ऽपि वणिक्प्राह भाग्येनेहाहमाप्तवान् ॥
यदीदृक् महदैश्वर्यं संपत्तिर्लप्स्यते कुतः ॥
स्वर्गे ऽपि दुर्लभं मन्ये कुत्रात्र पृथिवीतले ।
यन्मे भार्या मनोरम्या कान्ता दिव्यातिसुन्दरी ॥
विविधदिन्यसौरभ्यगन्धद्रव्यैर्दिवाशम् ।
अनुलिप्य यथाकामं क्रिडयति समादरात् ॥
भोजनैर्विविधास्वादैः पानैर्दिव्यामृतात्तमैः ।
वस्त्रैश्च विविधैः काम्यैर्भूषणैर्विविधैरपि ॥
मण्डयित्वा यथाकामं भोजयित्वा दिवानिशम् ।
यथाभिलषितैः सौख्यैः रमयन्त्यभिपाति माम् ॥
एवं ते वणिज्यः सर्वे स्वस्वभार्याकृतादरम् ।
स्नेहोपचारसत्सौख्यं निवेधैवं बभाषिरे ॥
अहो भाग्यं तदस्माकं यदिह प्रेषिता वयम् ।
ईदृक्संपन्महत्सौख्यं स्वर्गे ऽपि दुर्लभं खलु ॥
तदिहैव सदा भुक्त्वा यथाकामं चरेमहि ।
जम्बूद्वीपे पुनर्गन्तुं नोत्सहेम कदाचन ॥
किमीदृक्सुखसंपत्तिर्हित्वा यास्यामहे वयम् ।
स्वदेशे ऽपि पुर्नगत्वा किं किं भोक्ष्यामहे सुखम् ॥
कुत्रेदृग्गुणसंपन्ना दिव्यकान्ता मनोरमाः ।
सर्वविद्याकलाभिज्ञा लभ्यन्ते दुर्लभा भुवि ॥
एताः कान्ताः सुभद्रांगाः स्वामिस्नेहो ऽनुचारिकाः ।
हित्वा गत्चा स्वदेशे ऽपि किं स्थित्वा स्वजनैः सह ॥
धन्यास्ते पुरुषा मर्त्याः कान्ताभिर्ये सदा रताः ।
यथाकामं सुखं भुक्त्वा संचरन्ते यथेच्छया ॥
एवं श्रीगुणसंपन्ना दिव्यकान्तासहारताः ।
यावज्जीवं सुखं भुक्त्वा संतिष्ठेमहि सर्वदा ॥
जम्बूद्विपे पुनर्गन्तुं नाभीच्छामः कदापि हि ।
किं लप्स्यामह एतादृक् महत्सौख्यं कदा कथम् ॥
इत्येवं तैः समाख्यातं सर्वैरपि निशम्य सः ।
सिंहलस्तान् समालोक्य निष्श्वसन्नेवमब्रवीत् ॥
भवन्तः श्रूयतां वाक्यं यन्मया सत्यमुच्यते ।
यदि भद्रे ऽस्ति वांछा वः तत्कुरुध्वं यथोदितम् ॥
इति तेनोदितं श्रुत्वा सर्वे ते विस्मताशयाः ।
सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥
किं वाक्यं समुपाख्याहि यदि भद्रे समीहसि ।
भवता यत्समादिष्टं करिष्यामस्तथा वयम् ॥
इति तैः कथितं सर्वैः श्रुत्वा स सिंहलः सुधीः ।
सर्वांस्तान् वणिजः सार्थान् संपश्यन्नेवमब्रवीत् ॥
सर्वैः सत्य समाधाय समयं धास्यते यदि ।
तदाहमुपदेक्ष्यामि सत्यमेतद्यथाश्रुतम् ॥
इति तेनोदितं श्रुत्वा सर्वे ऽपि ते ऽतिविस्मिताः ।
किं समयं धरिष्यामस्तदादिशेति चाब्रुवन् ॥
एतत्तैः कथिते सर्वैः सार्थवाहः स सिंहलः ।
सर्वांस्तान् वणिजः संघान् समालोक्यैवमब्रवीत् ॥
भवन्तः श्रूयतां सर्वैः समयमुदितं मया ।
नैतत्केनापि वक्तव्यं भार्यायाः पुरतो ऽपि वः ॥
कश्चिद्भाषेत भार्यायाः पुरा यदि प्रमादतः ।
तदा सर्वे वयं ह्यत्र व्रजेम निधनं खलु ॥
इति सत्यं समाधाय समयं धातुमर्हथ ।
यदि संधार्यते सत्यं सर्वेषामपि भद्रता ॥
इति तदुक्तमाकर्ण्य सर्वे ऽपि ते वणिग्जनाः ।
सत्यमेतद्धरिष्यामः समादिशेति चाब्रुवन् ॥
इति सर्वै समाख्यातं श्रुत्वा स सिंहलः सुधीः ।
सर्वांस्तान् वणिजः संघान् संपश्यन्नेवमब्रवीत् ॥
शृणुध्वं धैर्यमालम्ब्य तिष्ठत मा विषीदत ।
इमा हि प्रमदाः सर्वा राक्षस्यो नैव मानुषाः ॥
इति सत्यं मयाख्यातं श्रुत्वा सर्वे ऽपि बोधिताः ।
कश्चिदपि स्वभार्यायाः पुरतो वक्तुमर्हति ॥
इति तेन समाख्यातं श्रुत्वा सर्वे वणिग्जनाः ।
भीतिसंत्रसितात्मानः क्षणं तस्थुर्विमोहिताः ॥
ततस्ते वणीजः सर्वे संत्रासाभिहताशयाः ।
सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥
सार्थवाह कथं ज्ञातं कुत्र दृष्टं श्रुतं त्वया ।
एताः कान्ता न मानुष्यो राक्षस्य इति तद्वद ॥
यद्येता नैव मानुष्यो राक्षस्य एव तत्कथम् ।
अस्माकं क इह त्राता गतिर्वा स्यात्परायणः ॥
यद्येतत्सत्यमेवेह तिष्ठेमहि कथं वयम् ।
पलायेमहि कुत्रेतस्तदुपायमुपादिश ॥
इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः ।
सर्वान्स्तान् वणिजः संघान् समाश्वास्यैवमब्रनीत् ॥
सत्यमेव मृषा नैव तथापि मा विषीदत ।
उपायं विद्यते ऽत्रापि तच्छृणुध्वं मयोदितम् ॥
यो ऽश्वाजो ऽत्र बालाहो नाम तीरे महोदधेः ।
स्थितः सत्त्वानुकम्पार्थं स नः त्राता गतिर्भवेत् ॥
स तिष्ठेदुधेस्तीरे सुवर्णबालुकास्थले ।
आवर्त्य परिवर्त्तापि भुक्त्वा श्वेता महोषधीः ॥
तत्र गत्वा वयं सर्व उपसरेम वन्दितुम् ।
संपश्येत्करुणात्मा स सर्वानस्मानुपासृतान् ॥
दृष्ट्वास्मान् स समुत्थाय प्रच्छादयेत् स्वमाश्रयम् ।
को ऽत्र पारमितो गन्तुं इच्छन्तीति वदेत् त्रिधा ॥
तदा सर्वे वयं नत्वा तमेवं प्रार्थयेमहि ।
इच्छामहे इतो गन्तुं पारं तत्सहसा नय ॥
इत्यस्मत्प्रार्थित श्रुत्वा सर्वानस्मान् स्वपृष्ठके ।
आरोप्य समसोत्तीर्य नयेत् पारं महोदधेः ॥
स एवास्माकमिह त्राता गतिर्नान्यो हि विद्यते ।
तद्वयमश्वराजं तं नत्वैवं प्रार्थयेमहि ॥
एतदुपायमत्रापि विद्यते ऽस्मत्परायणे ।
कश्चिदेतत्स्वभार्याया वक्तुं नैवार्हति ध्रुवम् ॥
प्रमोदाद्यदि भार्यायाः स्नेहात् कश्चिद्वदेत्पुरः ।
राक्षस्यो ऽस्मान्स्तद सर्वान् भक्षिष्यन्ते न संशयः ॥
इति स्नेहो ऽस्ति जीवे वो धृत्वैतत्समयं दृढम् ।
कस्याश्चित्पुरतः किंचिद्वक्तव्यं नैव केनचित् ॥
इति तेनोदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः ।
मृत्युत्रासाहतात्मानः सिःहलमेवमब्रुवन् ॥
सार्थवाह भवन्नाथस्त्राता मित्रं सुहृद्गतिः ।
अस्माकं नापरः कश्चित्तदन्वाहर्तुमर्हति ॥
कस्मिन्दिने गमिष्याम इतस्तीरे महोदधेः ।
यत्र तिष्ठेदश्वराज इति सत्यं समादिश ॥
इत्युक्तं तैर्निशम्यासौ सार्थवाहो निरीक्ष्य तान् ।
इतो ऽहिन तृतीये ऽवश्यं गच्छेमहीति चाब्रवीत् ॥
न कस्याश्चित्पुरः कश्चत्सत्यमेतद्वदेन्न हि ।
गोपनीयं प्रयत्नेन त्रिधेति सो ऽब्रवीत् पुनः ॥
इति संमतमाधाय सर्वे ऽपि ते वणिग्जनाः ।
तत्पुरे पुनरागत्य स्वस्वालयं समाविशत् ॥
तत्र ताः प्रमदाः कान्ता दृष्ट्वा तान् स्वगृहागतान् ।
स्वं स्वं स्वामितनमालोक्य पप्रच्छुरेवमादरात् ॥
कुत्र भवान् प्रयातो ऽत्र समायातो ऽसि साम्प्रतम् ।
सत्यमेतत् समाख्याहि यदि स्नेहो ऽस्ति ते मयि ॥
इति भार्योदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः ।
देशाद्बहिर्वयं गत्वागताः स्म इति चाब्रुवन् ॥
एतच्छ्रुत्वा च ताः कान्ताः सर्वाः स्वं स्वं प्रियं मुदा ।
समीक्ष्य समुपासीनाः पप्रच्छुरेवमादरात् ॥
दृष्टं किं महदुद्यानं दृष्टं वापि सरोवरम् ।
fअलपुष्पाभिनम्राश्च दृष्टाः किं पादपा अपि ॥
इति भार्योदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः ।
किंचिन्न दृश्यते ऽस्माभिरिति प्रत्युत्तरं ददुः ॥
तच्छ्रुत्वा प्रमदाः सर्वाः समीक्ष्य ता स्वकं प्रियम् ।
संप्रहासं कुर्वन्त्यः पुनरेवं बभाषिरे ॥
कथं न दृश्यते ऽत्रास्ति महोद्यानं सरोवरम् ।
विविधास्तरवः सन्ति fअलपुष्पभरानताः ॥
अहो यूयं गताः कुत्र दृश्यन्ते न कथं खलु ।
एतत्सत्यं समाख्याहि यदि प्रियास्म्यहं तव ॥
एतच्छ्रुत्वापि ते सर्वे वणिजः स्वस्वप्रियां प्रति ।
प्रहसन् संनिरीक्ष्यापि पुनरेवं बभाषिरे ॥
इतो ऽह्नि तृतीये ऽवश्यं तदुद्यानं सरोवरम् ।
सर्वानपि तरुन् द्र्ष्टुं गमिष्यामो वयं प्रिये ॥
तानि सर्वाणि संवीक्ष्य गृहीत्वापि fअलानि च ।
पुष्पाण्यपि समाहृत्य समायास्यामहे द्रुतम् ॥
तच्छ्रुत्वा तास्तथेत्युक्त्वा सर्वाः स्वं स्वं प्त्रियं मुदा ।
यथाभिलषिताइर्भोग्यैः सादरं समतोषयन् ॥
भुक्त्वा ते ऽपि यथाकामं सर्वैः संतोषिता अपिओ ।
दिर्घोच्छ्वासं समुत्सृज्य तस्थुः क्षणं विषादिताः ॥
तदृष्ट्वा प्रमदास्ताश्च सर्वाः स्वस्वप्रभुं प्रति ।
किमुच्छ्वासं समुत्सृष्टं वदेति प्रावदत् पुनः ॥
स्वदेशविषयं स्मृत्वा समुच्छ्वासं समुत्थितम् ।
इति स्वस्वप्रियास्ते सर्वे ऽपि पुरतो ऽवदन् ॥
तच्छ्रुत्वा प्रमदास्ताश्च सर्वाः स्वस्वपतेः पुनः ।
उपासीना विहसन्त्यः संनिरीक्ष्यैवमब्रुवन् ॥
किं स्वदेशस्मृतिं कृत्वा सुखं भुक्त्वेह तिष्ठत ।
संरमित्वा यथाकामं संचरध्वं यथेच्छया ॥
द्रव्याण्यपि च सर्वाणि भोग्यानि विविधानि च ।
सर्वोपकरणवस्तूनि वस्त्राणि भूषणान्यपि ॥
उद्यानानि सुरम्यानि पुष्करिण्यो मनोरमाः ।
fअलपुष्पाभिनम्राश्च पादपा विविधा अपि ॥
प्रासादाश्च मनोरम्या गृहाश्चाट्टाभिशोभिताः ।
मण्डपाश्च मठाश्चापि रथा अश्वाश्च हस्तिनः ॥
गावश्च महिषाश्चापि सर्वे ऽपि पशुजातिकाः ।
विद्यते सकलो ऽन्यत्र किं नास्तीह निरीक्ष्यताम् ॥
तदेतान्यपि सर्वाणि त्वदधीनानि सर्वदा ।
यथेच्छया समादाय भुक्त्वा रमन्सुखं चर ॥
नात्र किंचिद्विषादत्वं भयं चापि न किंचन ॥
यथाकामं प्रभुक्त्वैव रम चरन् सुखं वस ॥
इति ताभिः समाख्यातं सर्वे ऽपि ते वणिग्जनाः ।
तथेति प्रभाषित्वा तस्थुः विनोदिता इव ॥
ततस्ताः प्रमदाः सर्वा रात्रो स्वस्वप्रियैः सह ।
यथाकामं रमित्वापि सुषेयुः शयनाश्रिताः ॥
ते ऽप्येवं वणिजः सर्वे रमित्वा शयनाश्रिताः ।
मृत्युशंकाहतात्मानस्तस्थुर्निद्रापराङ्मुखाः ॥
ततः प्रातः समुत्थाय सर्वे ऽपि ते वणिग्जनाः ।
स्वां स्वां भार्यां समामन्त्र्य समालोक्यैवमब्रुवन् ॥
वयं यास्यामहे द्रष्टुं तडागोद्यानपादपान् ।
सज्जीकृत्य तदाहारं संस्थापयत संवरम् ।
तच्छ्रुत्वा प्रमदाः सर्वास्तास्तथेति प्रबोधिताः ।
सज्जीकृत्योपसंस्थाप्य स्वस्वप्रियं व्यनोदयन् ॥
तस्मिंश्च दिवसे ऽप्येवं सर्वे ऽपि ते वणिग्जनाः ।
भुक्त्वा भोग्यं रमित्वापि तस्थुर्जागर्तिका निशि ॥
ततः प्रातः समुत्थाय सर्वे ते सिंहलादयः ।
स्वां स्वां भार्यां समामन्त्र्य गृहीत्वा स्वस्वसंवरम् ॥
संमील्य सहसा सर्वे देशाद्बहिर्विनिर्गताः ।
गत्वा दूरमनोद्यनसमीपं समुपाश्रयन् ॥
तत्र स सिंहलः सर्वान् वणीजस्तान् विलोकयन् ।
समामन्त्र्य क्रियाकाअरं कर्तुमेवमभाषत ॥
भवन्तः श्रूयतां वाक्यं यन्त्रयात्र निगद्यते ।
तत्सर्वे सत्यमाधाय कर्तुमर्हन्ति नान्यथा ॥
यदि स्नेहः स्वजिवो ऽस्ति ज्ञातिबन्धुसुहृत्स्वपि ।
युष्माभिर्मद्वचः श्रुत्वा सत्यं धर्तव्यमत्र हि ॥
शृणुध्वं तत्क्रियाबन्धं क्रियते यन्मया हिते ।
त्रिरत्नशरणं धृत्वा चरितव्यं समाहितैः ॥
केनापि स्मरणीया न भर्या कान्ता प्रिया अपि ।
पश्चान्नैवाभिलोक्यं च यावत्पारं न गम्यते ॥
इति कृत्वा क्रियाबन्धं सर्वे ते सिंहलादयः ।
ततः संप्रस्थिताः शीघ्रं तीरं प्राप्तो महोदधेः ॥
तत्र तमश्वमद्राक्षुः सवर्णवालुकास्थले ।
आवर्त्यपरिवर्तित्वा भुक्त्वौषधीः समाश्रितम् ॥
तत्र तान् समुपयातान् दृष्ट्वा सो ऽश्वः समुत्थितः ।
प्रच्छाडित्वा त्रिधा को ऽतः पारगामीति प्रावदत् ॥
तदा ते वणिज्यः सर्वे सांजलयस्तमादरात् ।
त्रिधा प्रदक्षिणीकृत्य प्रणत्वैवं बभाषिरे ॥
देव सर्वे वयं पारं गन्तुमिच्छामहे खलु ।
तद्भवान्नो द्रुतं पारं संप्रापयितुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा सो ऽश्वराजो दयानिधिः ।
सर्वांस्तान् वणिजः पश्यन् पुनरेवमभाषत ॥
यदि पारमितो गन्तुं यूयं सर्वे समिच्छथ ।
मत्पृष्ठं दृढमारुह्य संतिष्ठध्वं समाश्रिताः ॥
यावत्र छोदितं कायं मया तावत्र केनचित् ।
कर्तव्यो दृष्टिविक्षेपो यदि जीवितमिच्छथ ॥
इति तेन समादिष्टं श्रुत्वा स सिंहलाग्रतः ।
नत्वा तत्पृष्टमारुह्य संश्रितः समतिष्ठत ॥
ततस्ते वणिज्यः सर्वे नत्वा तं सहसा क्रमात् ।
रुह्यते पृष्ठमाश्रित्य संश्लेषिता निषेदिरे ॥
ततः सो ऽश्वो महावेगी संवहन्स्तान् वणिग्जनान् ।
संक्रमन् सहसाम्भोधेर्मध्ये द्वीपमुपाययौ ॥
तदाश्वेनाहूतान् सर्वान् राक्षस्यस्तान् वणिग्जनान् ।
दृष्टवा ताः सकलास्तत्र सहसा खादुपाचरन् ॥
हा कान्ता प्रियभर्तासि मां विहायाधुना कथम् ।
निःस्नेहो मयि कुत्रैक एव गन्तुं त्वमिच्छसि ॥
अहमपि त्वया सार्धं गन्तुमिहाव्रजामि हि ।
तन्मां पश्यन्भवाकान्त समत्वहर्तुमर्हति ॥
हा कान्त कथमेकान्ते त्यक्त्वा मां भक्तिचारिणीइम् ।
निःस्नेहो रतिसंभोगो क्व प्रयातुं त्वमिच्छसि ॥
कथं मत्स्नेहसंभोगरतिसौख्यमहोत्सवम् ।
विस्मृतं भवता कान्त तत्स्मृत्वा पश्येमां प्रियाम् ॥
हा प्राणसमकान्तो ऽसि नैवास्ति मे सुहत्प्रियः ।
तवाप्यस्मि प्रिया भार्या तत्कथं नौ वियोगता ॥
सुदुष्यकोमलैवस्त्रैः प्रावृतो ऽसि मयेप्सितैः ।
तत्स्नेहतिमुत्सृज्य कुत्र गन्तुं त्वमिच्छसि ॥
यथाभिलषितैर्भोग्यैः पानैश्च परितोषितः ।
विस्मृत्य कथमेकान्ते मां त्यक्त्वा गन्तुमिच्छसि ॥
विविधसुरभिद्रव्यैस्त्वं लिप्त्वा मोदितो मया ।
सौगन्धिद्रव्यमुज्झित्वा कुत्र गन्तुं त्वमिच्छसि ॥
मुक्ताहाराद्यलंकारैर्भूषितो ऽसि यथेप्सितैः ।
तत्ते सर्वमलंकारं त्यक्त्वा गन्तुं कुहेच्छसि ॥
भुक्त्वा भोग्यं यथाकामं रमित्वापि दिवानिशम् ।
तद्भोग्यरतिसत्सौख्यं हित्वा गन्तुं कुहेच्छसि ॥
हा कान्त मम नाथो ऽसि कृत्वनाथामिमां सतीम् ।
निर्दयो मां परित्यज्य कथं गन्तुं कुहेच्छसि ॥
हा कान्त पस्य मां भार्यां भवद्धर्मानुचारिणीम् ।
देहि मे दर्शनं स्वामि मा त्यजेमां प्रियंवदाम् ॥
यदि मे दर्शनं कान्त न ददासीह किंचन ।
भवन्नाम समुच्चार्य मरिष्ये श्वो निराशिता ॥
तदा भवानपि मां स्मृत्वा भोग्यक्रीडासुखान्यपि ।
कियत्कालं धरेत् प्राणं यास्यसि मरणं ध्रुवम् ॥
इति स्नेहो ऽस्ति ते भर्तः स्वजिवे मयि वा यदि ।
एकधापीह मां स्मृत्वा भवान् संद्रष्टुमर्हति ॥
इत्येवं विलपन्त्यस्ता राक्षस्यः सकला अपि ।
स्वस्वभर्तारमालोक्य रुदन्त्यो ऽनुययुर्द्रुतम् ॥
तत्कारुण्यविलापं ते श्रुत्वा सर्वे वणिग्जनाः ॥
स्नेहरतिसुखोत्साहं स्मृत्वा ता द्रष्टुमिच्छिरे ॥
तत्र ये ये ऽतिस्तेनेहार्द्राषु कारुण्याधैर्यमोहिताः ।
तान् द्रष्टुं पृष्टमद्राक्षुस्ते ते ऽश्वान्न्यपतन् जले ॥
ये ये ऽश्वान्निपततन्तो ऽब्धौ तान्स्तानालोक्य ता द्रुतम् ।
राक्षस्यः सहसोद्धृत्य प्रादनत्स्वस्वपतिं मुदा ॥
एवं ते वणिजः सर्वे निपतन्तो महाम्बुधौ ।
सहसोद्धृत्य सर्वाभी राक्षसीभिः प्रभक्षिताः ॥
सिंहल एक एवाश्वपृष्ठे संश्लिष्य संश्रितः ।
त्रिरत्नस्मरणं धृत्वा संतस्थौ निश्चलेन्द्रियः ॥
तमेवैकं महासत्त्वमुहित्वा सो ऽश्वराट्लघुः ।
सहसा संक्रमत्पारमब्धेरस्तीरं समाययौ ॥
तत्र स तीरमासाद्य प्रच्छोडित्वा स्वमाश्रयम् ।
अवतार्य स्वपृष्ठात्तं सिंहलमेवमब्रवीत् ॥
साधो व्रज समाधाय संपश्यन् पथि सर्वतः ।
सर्वत्र ते शुभं भूयाद्रमस्व बन्धुभिः सुखम् ॥
इति तेन समादिष्टं श्रुत्वा स सिंहलः कृती ।
तमश्वं सांजलिर्नत्वा संपश्यन्नेमवमब्रवीत् ॥
धन्यो ऽसि त्वं महासत्व यन्मां मृत्युमुखगतम् ।
आदाय सहसोत्तार्य रक्षसि स्वयमागतः ॥
तन्मे नाथो ऽसि शास्ता पिण्डानुत्राता सुहृद्गतिः ।
यावज्जीवं भवत्पादं स्मृत्वा भजेय सर्वदा ॥
मन्ये भवन्तमीशांशनिर्मितं त्रिजगत्प्रभुम् ।
बोधिसत्त्वं महासत्वं सर्वसत्त्वानुपालकम् ॥
इत्थं मां सर्वदालोक्य भवान् सर्वत्र संकटे ।
बोधयित्या प्रयत्नेन कृपया त्रातुमर्हति ॥
इति संप्रार्थ्य तं नाथमश्वराजं स सिंहलः ।
त्रिधा प्रदक्षिणीइकृत्य ननाम तत्पदान् पुनः ॥
ततः सो ऽश्वस्तमालोक्य किंचिद्दूरे चरन् स्वयम् ।
अन्तर्हितो ज्वलद्वह्निरिवाकाशे ययौ द्रुतम् ॥
तमेवं खे गतं दृष्ट्वा सिंहलः सो ऽतिविस्मितः ।
यावद्दृष्टिपथं पश्यंस्तस्थौ नत्वा कृतांजलिः ॥
ततः स सिंहलो धीरः पश्यन् न्मार्गे सहाहितः ।
एकाकी संक्रमन् जम्बूद्वीपारण्यमुपाययौ ॥
तदा या राक्षसी भार्या सिंहलस्य वणिक्पतेः ।
राक्षस्यः सकलास्तास्तां परिवृत्यैवमब्रुवन् ॥
अस्माभिर्भक्षिताः सर्वस्वामिनो ऽपि स्वकस्वकाः ।
भक्षितो न त्वयैवैकः स्वामी निर्वाहितः कथम् ॥
यदि तावत्तमानीय भक्षसे न त्वमात्मना ।
त्वां विहत्य वयं सर्वा भक्षिष्याम इति ध्रुवम् ॥
इत्येवं कथितं ताभिः सर्वाभिस्तन्निशम्य सा ।
संत्रस्ता पुरतस्तासां विषण्णास्यैवब्रवीत् ॥
भगिन्यो यदि युष्माकं निर्बन्ध एष निश्चयः ।
सर्वथाहं तमानीय भक्षेयमिति निश्चितम् ॥
इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि ।
एवं चेत्ते भवेद्भद्रं नोचेन्नेति हि चाब्रुवन् ॥
ततः सा राक्षसी धृत्वा परमभीषणाकृतिम् ।
आकाशात् सहसा गत्वा सिंहलस्य पुरो ऽसरत् ॥
दृष्ट्वा तां राक्षसीं भीमां पुरतः समुपासृताम् ।
सिंहलो ऽसिं समुत्थाप्य संत्रासयितुमुद्ययौ ॥
सिंहलं तमसिं धृत्वा निहन्तुं संमुखागतम् ।
दृष्ट्वा सा राक्षसी त्रस्ता प्रदुद्राव वनान्तरे ॥
तदा तत्र वणिक्सार्थो मध्यदेशात् समाययौ ।
तं दृष्ट्वा सा सुन्दरीरुपं धृत्वा पुर उपासरत् ॥
तां कान्तां सुन्दरीं रम्यां पुरतः समुपासृताम् ।
सार्थवाहः समालोक्य पप्रच्छैवं समादरात् ॥
भगिनि को भवन्तीह कान्तारे तु मिताश्रया ।
एकाकी कुत आयासि तत्सत्यं वक्तुमर्हसि ॥
इति सार्थभृता पृष्टे रुदन्ती सा कृतांजलिः ।
तस्य सार्थपतेः पादौ प्रणत्वैवं न्यवेदयत् ॥
अहं सार्थपते राज्ञस्ताम्रद्विपपतेः सुता ।
सिंहलस्यास्य भार्यार्थं दत्त तेन महीभुजा ॥
अनेन सार्थवाहेन परिनीयाहमात्मना ।
दत्वा विश्रम्भमानीता स्वदेशगमनं प्रति ॥
अब्धितीरोसंप्राप्ता नौकायादौ विभग्निता ।
अमंगलेति कृत्वाहं छोरितानेन जंगले ॥
तद्भवान् बोधयित्वैनं सार्थवाहं मम प्रियम् ।
मयि स्नेहभिसम्बन्धे संयोजयितुमर्हति ॥
तयेति प्रार्थितं श्रुत्वा सार्थवाहस्तथेति सः ।
प्रतिश्रुय तस्य सार्थवाहस्य समुपासरत् ॥
तं दृष्ट्वा समुपायातं सिंहलः स प्रसादितः ।
आसने संप्रतिष्ठाप्य समालोक्यैवमब्रवीत् ॥
वयस्य कौशलं कश्चिद्देहे सर्वत्र चापि ते ।
इत्येवं संकथालापं कृत्वा तस्थौ विनोदयन् ॥
तथा स सार्थवाहस्तं सिंहलं कौशलं मुदा ।
पृष्ट्वा संमोदयन् वीक्ष्य पुनरेवमभाषत ॥
वयस्यासौ राजपुत्री परिणीता त्वया स्वयम् ।
अस्थाने मा परित्याज्या क्षमस्वास्या विरोधताम् ॥
इति तेनोदितं श्रुत्वा सिंहलः स महामतिः ।
सार्थवाहं तमालोक्य पुनरेवं न्यवेदयत् ॥
सुखेन राजपुत्रीयं परिणीतापि ना मया ।
राक्षसीयमिहायाता ताम्रद्वीपनिवासिनी ॥
इति तेनोदितं श्रुत्वा सार्थवाहः स विस्मितः ।
सिंहलं सुहृदं तं च समालोक्यैवमब्रवीत् ॥
वयस्य राक्षसीयं कि कथमेवमिहागता ।
ज्ञातापि च त्वया केन तत्सत्यं वक्तुमर्हसि ॥
इति तेनोदिते सर्ववृत्तान्तं विस्तरेण सः ।
सिंहलस्य मित्रस्य पुरतः संन्यवेदयत् ॥
तदुक्तं सर्वृत्तान्तं श्रुत्वा स सार्थभृत् सुधीः ।
सत्यमिति परिज्ञाय बभुव त्रसिताशयः ॥
ततः स सिंहलस्तस्मात् संप्रस्थितः समाहितः ।
संपश्यन् पथि सर्तत्र संचरन् स्वपुरं ययौ ॥
तत्र स स्वगृहे गत्वा मातापित्रोः पुरो गतः ।
तत्पादान् सहसा नत्वा कौशल्यं समपृच्छत ॥
त्वन्मुखदर्शनादेव कौशल्यं नौ सदा भवेत् ।
तवापि कौशलं कच्चिदिति तौ पर्यपृच्छताम् ॥
तच्छ्रुत्वा सिंहलश्चासौ स्वप्रवृत्तिमनुस्मरन् ।
गलदश्रुविलिप्तास्यो पित्रोरेवं न्यवेदयत् ॥
किं ताताविह वक्षामि दैवेन प्रेरितो ऽस्मि हि ।
एक एवाहमायातः सर्वे नष्टाः सहायकाः ॥
कथमिति पुनः पृष्टः पितृभ्यां सिंहलः सुतः ।
सर्वमेतत् स वृत्तान्तं विस्तरेण न्यवेदयत् ॥
तदुक्तं सर्वमाकर्ण्य पितरौ प्रहताशयौ ।
चिरं निःश्वस्य तं पुत्रं पश्यन् तावेवमूचतुः ।
हा पुत्र भाग्यतो नौ त्वं जीवन्निह समागतः ।
मा शुचस्तद्धनं नष्टं धैर्यं धृत्वा सुखं चर ॥
किमेव बहुभिर्द्रव्यैर्विना पुत्रेण नौ गृहे ।
पुत्र एव महारत्नं धर्मार्थवंशसाधनम् ॥
बहुरत्नानि नः सन्ति यदि त्वमिह नागतः ।
एतान्यपि हि सर्वाणि व्यर्थं क्षिणुयुरावयोः ॥
द्रव्ये नष्टे पुनर्द्रव्यं साधययं प्रयत्नतः ।
त्वयि पुत्रे विनष्टे ऽहं साधयेयं कथं परम् ॥
किं करिष्यन्ति रत्नानि विना पुत्रेण साधुना ।
निर्धनो ऽपि वरं साधुः पुत्रो धर्मार्थसाधनः ॥
मृते रत्नानि किं कुर्युर्विना पुत्रेण साधुना ।
सत्पुत्रः पिण्डदानादीन् कृत्वा स्वर्गे ऽपि प्रेर्स्येत् ॥
सत्पुत्र एवं सद्रत्नमिह धर्मार्थसद्गुणान् ।
साधयेद्यत्परत्रापि संस्कृत्य प्रेरयोद्दिवि ॥
तत्त्वमेवावयो रत्नमिह धर्मार्थसौख्यदम् ।
संस्कारपिण्डदानैश्च परत्र प्रेरयेद्दिवि ॥
इत्यावयोर्हि संसारे त्वन्मुखाम्भोजदर्शनात् ।
जन्मजीवितसम्पत्तिसाधनं सfअलं भवेत् ॥
इति विज्ञाय सत्पुत्र त्वमावाभ्यां सहान्वितः ।
सद्धर्मसाधनं कृत्वा भुक्त्वा कामं समाचर ॥
धृत्वा स्वकुलसंवृत्तिं त्रिरत्नशरणं गतः ।
दत्वार्थिभ्यो यथाकामं संरमस्व गृहाश्रितः ॥
तस्मिन्नवसरे तत्र राक्षसी सातिसुन्दरी ।
भूत्वा सिंहलसंकाशं पुत्रं धृत्वा समाययौ ॥
तत्र तं बालकं पुत्रमंक आरोप्य सर्वतः ।
पृच्छन्ति सिंहलगेहं बभ्राम सा प्रगल्भिका ॥
तत्र सा प्रेरिता लोकैः सिंहलस्य गृहान्तिके ।
गत्वा समीक्ष्यमाना तद्द्वारमूलमुपाश्रयत् ॥
तत्र लोकाः समालोक्य बालकं तं मनोहरम् ।
सिंहलसदृशाकारं पश्यन्त एवमब्रुवन् ।
भवन्तो ज्ञायतामेष बालकः सिंहलात्मजः ।
यदस्य सिंहलस्येव निर्विशेषं मुखेन्द्रियम् ।
इत्युक्तं जनकायेन निशम्य सा क्षपाचरा ।
भवद्विर्ज्ञाते ऽस्यायं पुत्र इत्येवमब्रवीत् ॥
भगिनि त्वं सुता कस्य कुतः कथमिहागता ।
इति तैश्च जनैः पृष्टा सा पुनरेवमब्रवीत् ॥
भवन्तो ऽहं सुता राज्ञस्ताम्रद्वीपाधिपस्य हि ।
पित्रास्य सार्थवाहस्य दत्ता भार्यार्थमात्मना ॥
अनेन सार्थवाहेन परिणीता सहागता ।
अब्धितीरोपप्राप्ता नौर्भग्ना यादो ऽनिलाहता ॥
अमंगलेति कृत्वाहं छोरितानेन जंगले ।
क्षुद्रं पुत्रमिमं धृत्वा कष्टेनेहाहमागता ॥
अस्यात्मजो ह्ययं बालो भार्याहं धर्मचारिणी ।
इत्येनं स्वामिनं सर्वं संबोधयितुमर्हथ ॥
तयेति प्रार्थितं श्रुत्वा सर्वे लोकास्तथेति ते ।
प्रतिज्ञाय द्रुतं तस्य सिंहलस्य पुरो गताः ॥
सर्वमेतत् प्रवृत्तान्तं यथोदितं तथा तथा ।
विस्तरेण समाख्याय सिंहलमेवमव्रुवन् ॥
सार्थवाह त्वया भार्या क्षुद्रपुत्रा तपस्विनी ।
बालकश्च सुतस्ते ऽसौ त्यक्तावेनावुभौ कथम् ।
तदस्माकं वचः श्रुत्वा भार्यां तां स्वात्मजं च तम् ।
संपश्यन् कृपया साधो समन्वाहर्तुमर्हसि ॥
इति तैः प्रार्थ्यमानो ऽसौ सिंहलस्तान् सुहृज्जनान् ।
सर्वानपि समालोक्य पुर एवमभाषत ॥
भवन्तो न सुता राज्ञो भार्यापीयं न मे खलु ।
राक्षसी हि नराहारा ताम्रद्वीपनिवासिनी ॥
बालो ऽप्ययं न मे पुत्रो निर्मितो माययानया ।
इति सत्यं मया ज्ञात्वा कथ्यते न मृषा खलु ॥
तच्छ्रुत्वा ते जनाः सर्वे तस्य पित्रोः पुरो गताः ।
सर्वमेतत् प्रवृत्तान्तं विस्तरेण न्यवेदयन् ॥
तन्निवेदितमाकर्ण्य पितरौ तौ प्रबोधितौ ।
स्वात्मजं तं समामन्त्र्य पुर एवमभाषताम् ॥
क्षमस्व स्वात्मजस्नेहाद्दुहितुर्नृपतेस्तव ।
भार्यायाः परिणीयात अपराधं सहस्रशः ॥
इति तदुक्तमाकर्ण्य सिंहलः सो ऽभिरोषितः ।
पित्रोरेतत् प्रवृत्तान्तं निवेद्य चैवमब्रवीत् ॥
तात नेयं सुता राज्ञः भार्यापि च न मे खलु ।
दारको ऽयं न मे पुत्रो निर्मितो माययानया ॥
राक्षसीयं नराहारा ताम्रद्वीपनिवासिनी ।
अस्मानपि समाहर्तुं ताम्रद्वीपादिहागता ॥
इति पुत्रोदितं श्रुत्वा तौ मातापितरावपि ।
तमात्मजं समालोक्य पुनरेवमभाषताम् ॥
सर्वा अपि स्त्रियः पुत्र राक्षस्य एव मायिकाः ।
तेनास्या अपराधत्वं क्षन्तुमर्हसि सर्वथा ॥
इत्येतत्कथितं ताभ्यां श्रुत्वा स सिंहलः सुतः ।
तौ मातापितरौ पश्यन् पुनेरेवमभाषत ॥
यद्येषा तात युष्माकमभिप्रेता मनोरमा ।
धारयत गृहे ह्येतां यास्याम्यन्यत्र साम्प्रतम् ॥
इति पुत्रोदितं श्रुत्वा तौ मातापितरौ पुनः ।
आत्मजं तं समालोक्य स्नेहादेवमभाषताम् ॥
धास्यामः सुत तामेनां तवैवार्थे गृहे सदा ।
यदि ते रुचिता नेयं किमस्माकमनयात्मज ॥
इति ताभ्यां कथित्वासौ निष्कासिता बलात्ततः ।
सिंहकेशलिनो राज्ञः सकाशं सहसा ययौ ॥
तत्र सा सुन्दरी कान्ता सपुत्रा द्वारे सन्निधौ ।
समुपासृत्य पश्यन्ती मोहयन्ती समाश्रयत् ॥
तां दृष्ट्वा मन्त्रिणो ऽमात्याः सर्वे कौतूहलान्विताः ।
नृपतेः पुरतो गत्वा समीक्ष्यैवं न्यवेदयन् ॥
देवातिसुन्दरी कान्ता सकान्तबालकात्मजा ।
राजद्वारमुपाश्रित्य संपिष्ठते प्रगल्भिका ॥
इति तैर्निवेदितं श्रुत्वा राजा स सिंहकेशली ।
प्रवेशयात्र पश्येयमिति तान् मन्त्रिणो ऽब्रवीत् ॥
मन्त्रिणस्तथेत्युक्त्वा गच्छन्तः सहसा ततः ।
वनितां तां समाहूय प्रावेशयन्नृपालयम् ॥
दृष्ट्वा तां सुन्दरी कान्तां राजासौ रागमोहितः ।
सुचिरं तां समालोक्य तस्थौ निश्चरितेन्द्रियः ॥
ततः स नृपतिः पश्यन् पृष्ट्वा तां कौशलं मुदा ।
कुतस्त्वमागता कस्य पुत्रीति पर्यपृच्छत ॥
तच्छ्रुत्वा प्रमदा सा तं पश्यन्ती नृपतिं चिरात् ।
गलदश्रुविलिप्तास्या प्रणत्वैवमभाषत ॥
देव जानीहि मां पुत्रीं ताम्रद्वीपमहीपतेः ।
सार्थवाहस्य भार्यार्थं ददौ स नृपतिः स्वयम् ॥
तेनापि सार्थवाहेन परिणीतासमादरात् ।
ततः संप्रस्थितानेन सहेहागन्तुमुत्सुका ॥
अब्धितीरे प्राप्ता नौर्भग्ना यादो ऽनिलाहता ।
कृच्छ्रात्ततः समुत्तीर्य तीरमासद्य प्राचरन् ॥
अमंगलेति कृत्वाहं छोरितानेन जंगले ।
तदात्मजमिमं धृत्वा शनैरिह समागता ॥
पृष्ट्वाहं सार्थवाहस्य गृहं गत्वा समाश्रिता ।
पितृभ्यामपि संत्यक्ता निर्वाहिता गृहाद् बलात् ॥
तद्भवच्छरणे राजन् क्षुद्रपुत्राहमागता ।
तद्भवान्सिंहलं पौरैं क्षमापयितुमर्हति ॥
इति तयोक्तमाकर्ण्य नृपतिः स समीक्ष्य ताम् ।
समाश्वास्य समाहूय मन्त्रिण एवमब्रवीत् ॥
मन्त्रिणः सार्थवाहं तं सिंहलं सिंहनन्दनम् ।
गत्वाहं सहसाहूय समानयत साम्प्रतम् ॥
इति राज्ञा समादिष्टं श्रुत्वा ते मन्त्रिणो द्रुतम् ।
सिंहलं तं समाहूय नृपस्य समुपानयत् ॥
दृष्ट्वा तं समुपायातं सिंहलं स नराधिपः ।
सादरं समुपामन्यिं समीक्ष्यैवं समादिशत् ॥
सिंहलं केन भार्येषा त्वया त्यक्ता नृपात्मजा ।
क्षमस्वैनां गृहे नीत्वा सात्मजामभिपालय ॥
इत्यादिष्टं नरेन्द्रेण श्रुत्वा स सिंहलो वणिक् ।
सांजलिस्तं नृपं नत्वा समालोक्यैवमब्रवीत् ॥
देव नैषा सुता राज्ञो भार्यापि मे सुतो ऽप्ययम् ।
राक्षसीयं नराहारा ताम्रद्वीपादिहागता ॥
तेनैतत्कथितं श्रुत्वा स राजा रागमोहितः ।
सिंहलं तां च समीक्ष्य पुनरेवं समादिशत् ॥
सर्वाः स्त्रियो ऽपि राक्षस्य एव तत्क्षन्तुमर्हति ।
येद्येषा नाभिप्रेता ते त्यक्त्वा मे दीयतां त्वया ॥
एतद्राजोदितं श्रुत्वा सिंहलः स वणिक्सुधीः ।
नृपतिं तं समालोक्य पुनरेवं न्यवेदयत् ॥
राक्षसीयं महाराज न दद्याम् नापि वारये ।
भवान् सम्यग्विचार्यैव करोतु ते हितं यथा ॥
इति तदुक्तमाकर्ण्य राजा स रागमोहितः ।
इत्युक्त्वा सिंहतो धीरः ततः संप्रेस्थितो गृहे ॥
त्रिरत्नस्मृतिमाधाय तस्थौ धैर्यसमाहितः ।
तां कान्तां ससुतां स्वान्तःपुरे प्रावेशयन्मुदा ॥
ततः सा रमणी कान्ता राजानं तं प्रमोहितम् ।
रमयन्ती यथाकामैः सुखैर्हृत्वा वशे ऽनयत् ॥
तयैव सह संरक्तो राजा स कामनन्दितः ।
यथाकामं सुखं भुक्त्वा चचार स्वेच्छया रमन् ॥
एवं सा राक्षसी नित्यं रमयित्वा यथेच्छया ।
नृपतिं तं वशीकृत्य स्वच्छन्दं समचारयत् ॥
ततः सा राक्षसी रात्रो राजकुलाश्रितान् जनान् ।
नृपतिप्रमुखान् सर्वान् संप्रास्वपितान् व्यधात् ॥
कृत्वा सर्वान् प्रसुप्तांस्तान् प्रास्वापनाभिमोहितान् ।
ततः सा सहसाकाशात्ताम्रद्वीपं मुदाचरत् ॥
तत्र सा सहसोपेय ताः सर्वा अपि राक्षसी ।
पुरतः समुपाहूय समालोक्यैवमब्रवीत् ॥
भगिन्यस्तेन युष्माकमेकेन सिंहलेन किम् ।
सिंहकेशरिणो राज्ञः सिंहकल्पाभिधे पुरे ॥
नृपतिप्रमुखाः सर्वे जना अन्तःपुराश्रिताः ।
मया कृताः प्रसुप्तास्ते प्रास्वापनाभिमोहिताः ॥
आगच्छत मया सार्धं सहसा तत्र चरेमहि ।
नृपतिप्रमुखान् सर्वान् भक्षिष्यामो ऽधुना वयम् ॥
इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि ।
आकाशात् सहसा गत्वा सिंहकल्पं मुदाचरन् ॥
तत्र ताः सहसोपेत्य सर्वा राजकुले स्थितान् ।
नृपतिप्रमुखान् सर्वांल्लोकान् मुदा च खादिरे ॥
सर्वे ऽपि भक्षितास्ताभी राक्षसीभिर्नृपादयः ।
जना राजकुलद्वारं नोद्घाटितमुषस्यपि ॥
राजकुलोपरि प्रातः पक्षिणः कुणपाशिनः ।
गृध्रादयो विरावन्तः प्रभ्रमन्तः प्रेचिरिरे ॥
तत्र प्रातः समायाता अमात्या मन्त्रिणो जनाः ।
पक्षिणो भ्रमतो दृष्ट्वा तस्थुः सर्वे ऽपि विस्मिताः ॥
कथं राजकुलं द्वारं नोद्घाटितं च साम्प्रतम् ।
भ्रमन्तः पक्षिणो ऽनेके इत्युक्त्वा तस्थुरुन्मुखाः ॥
तत्प्रवृत्तान्तमाकर्ण्य सिंहलः सहसोत्थितः ।
निशितं खड्गमादाय प्राचरत्तत्र सत्वरः ॥
तत्र तां जनतां पश्यन्सिंहलः स उपाश्रितः ।
गलदश्रुविलिप्तास्यः पुरत एवमब्रवीत् ॥
भवन्तः कुणपाहारा भ्रमन्त्यत्र खगा यतः ।
तद्राजापि जनाः सर्वे राक्षस्या भक्षिता खलु ॥
तदुक्तमिति तच्छ्रुत्वा सर्वे ऽपि मन्त्रिणो जनाः ।
कथमेवं त्वया ज्ञातमित्यप्राक्षुस्तमादरात् ॥
तच्छ्रुत्वा सिंहलश्चासौ सर्वान्स्तान् मन्त्रिणो जनान् ।
समीक्ष्य तत्पुरः स्थित्वा सहसौवमभाषत ॥
भवन्तो दीर्घनिःश्रेणिः सहसानीयतामिह ।
आरुह्योपरि गत्वाहं पश्याम्यत्र समन्ततः ॥
तदुक्तं मन्त्रिणः श्रुत्वा निःश्रेणिं सहसा जनैः ।
आनयित्वाशु प्रासादे प्रान्ते समध्यरोपयन् ॥
तान् दृष्ट्वा सिंहलः खड्गं धृत्वाभिरुह्य संक्रमन् ।
प्रासादोपरि संस्थित्वा त्रासयत्ताः निशाचरीः ॥
सिंहलं खड्गपाणिं तं प्रासादोपरि संस्थितम् ।
राक्षस्यस्ताः समालोक्य सर्वा भीता विबभ्रमुः ॥
तासां काश्चिच्छिरो धृत्वा काश्चित्पादान् भुजान् पराः ।
ताः सर्वा अपि राक्षस्यः पलायितास्ततो द्रुतम् ॥
ततः सिंहल आलोक्य सर्वास्ता निष्पलायिताः ।
प्रासादादवतीर्याशु द्वारं समुदघाटयत् ॥
ततस्ते मन्त्रिणो ऽमात्या जनाः सर्वे ऽपि सैनिकाः ।
गत्व समीक्ष्य राजादीन् सर्वान् भुक्तान् विचुक्रुशुः ॥
सुचिरं विलपित्वा ते सर्वे ऽपि मन्त्रिणो जनाः ।
अमात्याः सैनिकाः पौरा विचेरुः संत्रसिताशयाः ॥
ततः स सिंहलो दृष्ट्वा सर्वांस्तान् मन्त्रिणो जनान् ।
अमात्यान् सैनिकान् पौरान् समामन्त्र्यैवमब्रवीत् ॥
भवन्तो मा विचरन्त्यत्र नास्ति काचिन्निशाचरी ।
तत्सर्वे समुपाविश्य पश्यन्तां सर्वतः पुनः ॥
ततस्ते मन्त्रिणो ऽमात्या जनाः संवीक्ष्य सर्वतः ।
सर्वराजकुलं सान्तर्बहिस्तं समशोधयन् ॥
ततस्ते मन्त्रिणो ऽमात्या ब्रह्मणादीन् महाजनान् ।
सन्निपात्य प्रजाश्चापि समामर्नयैवमब्रुवन् ॥
भवन्तो ऽत्र मृतो राजा वंशस्तस्य न विद्यते ।
तदत्र कं कृत्वा मिमीमहि वदन्त्विदम् ॥
इति तैर्मन्त्रिभिः प्रोक्तं श्रुत्वा ते ब्राह्मणादयः ।
महाजनाः प्रजाश्चापि सर्वे ऽप्येवं न्यवेदयन् ॥
यः प्राज्ञः सात्विको विरो नीतिशास्त्रविचक्षणः ।
दयाकारुण्यभद्रात्मा सर्वधर्महितार्थभृत् ॥
तं विधिनाभिंषिंच्यात्र प्रतिष्ठाप्य नृपासने ।
सर्वराज्याधिपं कृत्वा प्रमाणयन्तु सर्वदा ॥
इति तैः कथितं श्रुत्वा केचिद्विज्ञा महाजनाः ।
सर्वेषां मन्त्रिणां तेषां पुरत एवमब्रुवन् ॥
सिंहलो ऽयं सार्थावाहः सात्विको नीतिवित्कृती ।
दयाकारुण्यभद्रात्मा सर्वसत्त्वहितार्थभृत् ॥
ईदृग्वीरो महाप्राज्ञो दयाकारुण्यसन्मतिः ।
मैत्रीश्रीसद्गुणाधारो नास्ति कश्चिन्महाजनः ॥
तदेनं सिंहलं वीरमभीषिंच्य नृपासने ।
प्रतिष्ठाप्य नृपं कृत्वाभिमतां सकलैः सह ॥
इति तैरुदितं श्रुत्वा ते ऽमात्या मन्त्रिणो जनाः ।
सर्वे ऽप्यनुमतं कृत्वा तथा कर्तुं समारभन् ॥
ततस्ते मन्त्रिणो ऽमात्या ब्राह्मणाश्च महाजनाः ।
सिंहलं तं समामन्यिं पुरत एवमब्रवन् ॥
सिंहलात्र यदस्माकं प्रजानामपि संमतम् ।
तदनुमोद्य राज्यो ऽत्र राजा भवितुर्हसि ॥
इति तैर्मन्त्रिभिः सर्वैरमात्यैः सुजनैर्द्विजैः ।
प्रार्थितं सिंहलः श्रुत्वा तत्पर एवमब्रवीत् ॥
भवन्तो ऽहं वणिग्वृत्तिव्यवहारोपजीविकः ।
तत्कथं राज्यसंभारं संवोढुमभिशक्नुयाम् ॥
तदेतन्मम योग्यं न क्षमन्तु तदशक्यताम् ॥
यद्योग्यं कर्म तत्रैव योजनीयो हि मन्त्रिभिः ॥
इति तेनोदितं श्रुत्वा ते ऽमात्या मन्त्रिणो जनाः ।
सर्वे तं सिंहलं वीक्ष्य समामन्त्र्यैवमब्रुवन् ॥
भवत्सदृशः सद्बुद्धिर्विर्यवान् सदयः कृती ।
सात्विको लोकविख्यातः कश्चिदन्यो न निद्यते ॥
यच्चास्य नृपतेर्वंशे विद्यते ऽपि न कश्चन ।
तदत्रेदं भवान् राज्यमनुशासितुमर्हति ॥
इति तैर्मन्त्रिभिः सर्वैः संप्रार्थितं निशम्य सः ।
सिंहलो मन्त्रिणः सर्वान् समालोक्यैवमब्रवीत् ॥
भवन्तो यदि मां सर्वे राजानं कर्तुमिच्छथ ।
समये नाहमिच्छामि राज्यं समनुशासितुम् ॥
इति तेनोदितं श्रुत्वा सर्वे ते मन्त्रिणो जनाः ।
अमात्यास्तं महाभिज्ञं समलोक्यैवमब्रुवन् ॥
यथा यद्भवताख्यातं समयं तत्तथा खलु ।
सर्वे वयं समाधाय चरिष्यामः समाअहिताः ॥
इति तदुत्तमाकर्ण्य सिंहलः संप्रबोधितः ।
सर्वान्स्तान् मन्त्रिणो ऽमात्यान् समालोक्यैवमब्रवीत् ॥
यद्येतत्सत्यमाधाय सर्वे चरितुमच्छथ ।
तथात्र राज्यसंभारं संवोढुमुत्सहे ऽप्यहम् ॥
तद्भवन्तो ऽत्र मे वाक्यं धृत्वा धर्मानुसाधिनः ।
त्रिरत्नभजनं कृत्वा चरेयुः सर्वेदा शुभे ॥
इत्यनुशासनं धृत्वा मम धर्मासहायीनः ।
सर्वेसत्त्वहिताधारे दह्र्मे चरितुमर्हथ ॥
इति तेनोदितं श्रुत्वा सर्वे मन्त्रिणो जनाः ।
अमात्या द्विजपौराश्च तथेति प्रतिशुश्रुवुः ॥
ततस्ते मन्त्रिणो ऽमात्या जना द्विजा महाजनाः ।
सर्वे ऽपि संमतं कृत्वा तं नृपं कर्तुमारभन् ॥
ततस्ते ऽत्र पुरे सम्यग्छोधयित्वा समन्ततः ।
ध्वजछत्राद्यालंकारैर्मण्डनैः समशोधयन् ॥
ततस्ते परिशुद्धे ऽहिन सिंहलं यथाविधिम् ।
अभिषिंच्य महोत्साहैश्चक्रुः लोकाधिपं नृपम् ॥
नृपासने प्रतिस्ठाप्य सर्वे लोकाः समन्त्रिणः ।
सिंहलं तं महाराजं संसेविरे समादरात् ॥
ततः स सिंहलो राज सर्वांल्लोकाअन् विनोदयन् ।
स्वस्वधर्मे प्रतिष्ठाप्य शशास स्वात्मजानिव ॥
तदनुशासनं धृत्वा सर्वे लोका द्विजादयः ।
त्रिरत्नभजनं कृत्वा संचेविरे शुभे सदा ॥
तदा तस्य प्रभो राज्ये सर्वत्र विषयेष्वपि ।
निरुत्पातं शुभोर्साह प्रावर्त्तत निरन्तरम् ॥
तथा स मन्त्रिभिः सद्भिः नीतिधर्मविचक्षणैः ।
सेव्यमानो महाविज्ञो रराज देवराडिव ॥
तत्र स नृपतिर्जित्वा जन्बूद्वीपे महीभुजः ।
सर्वान्स्तान् मन्त्रिणो ऽमात्यान् समामर्नयैवमादिशत् ॥
सज्जीक्रियतामाश्वत्र चतुरंगबलैः सह ।
ताम्रद्विपे गमिष्यामि जेतुं ता राक्षसीरपि ॥
तदादिष्टं समाकर्ण्य सर्वे मन्त्रिणो जनाः ।
चतुरंगबलान्येवं सहसा समसज्जयन् ॥
ततः सन्नाह्य स भूमीन्द्रश्चतुरंगबलैः सह ।
संप्रस्थितो महोत्साहैस्तीरं प्राप महोदधेः ॥
तत्र स तानि सर्वाणि चतुरंगबलान्यपि ।
आरोप्य वहनेष्वब्धौ संप्रस्थितो चरन् मुदा ॥
तत्र स संतरन् सर्वैश्चतुरंगवलैः सह ।
स्वस्तिना सहसाम्बोधेः पारतीरमुपाययौ ॥
ताम्रद्वीपे तदा तत्र राक्षसीनां महद्ध्वजः ।
रेपित आपणस्थाने कम्पितो ऽसूचयद्भयम् ॥
तं प्रकम्पितमालोक्य राक्षस्यो भयशंकिताः ।
सर्वा एकत्र संमिल्य मिथ एवं समूचिरे ॥
भवन्त्य आपणस्थो ऽथं ध्वजः प्रकम्पितो ऽधुना ।
जाम्बुद्वीपनृपा नूनमस्भिर्योद्धुमागताः ॥
सज्जीकृत्वा तदस्माभिः स्थातव्यमिह साम्प्रतम् ।
इति संभाष्य ता द्रष्टुमब्धितीरमुपाचरन् ॥
तत्रस्थाः सकलास्तास्तान् सिंहलादीन् नराधिपान् ।
तीरोत्तीर्णान् महोत्साहैर्ददृशुर्योद्धुमागतान् ॥
दृष्ट्वा तान् समुपायातान् राक्षस्यस्ता भयान्विताः ।
काश्चित् पलायिता भीताः काश्चद्योद्धं समाश्रिताः ॥
योद्धं प्रत्युद्गताः काश्चित् काश्चित्तस्थुर्निरीक्ष्य खे ॥
तान् प्रत्युद्गतान् दृष्ट्वा सिंहलस्याġयाया द्रुतम् ।
विद्याधरिभिराविष्टा वीरैः शस्त्रैः प्रद्योतिताः ॥
अवशिष्टा अभिस्ताः सिंहलस्य नृपप्रभोः ।
कृतांजलिपुटा नत्वा पादयोरेवमब्रुवन् ॥
क्षमस्व नो महाराज व्रजामः शरणे तव ।
तदस्मान् योषितो बाला हन्तुं नार्हति क्षत्रियः ॥
इति संप्रार्थितं ताभिः श्रुत्वा स सिंहलः प्रभुः ।
समयेन क्षयं व इति ता वीक्ष्याब्रवीत् ॥
तच्छुत्वा सकला तास्तं सिंहलं क्षत्रियाधिपम ।
सांजलयः पुनर्नत्वा समालोक्यैवमब्रवीत् ॥
किं समयं समाख्यातुं भवताभिहितं यथा ।
तथा सर्वे वयं धृत्वा चरिष्यामः सदापि हि ॥
इतिः ताभिः समाख्यातं निशम्य स नृपः सुधीः ।
तां सर्वा राक्षसीः पश्यन् पुनरेवमभाषत ॥
यदीदं नगरं त्यक्त्वा सर्वे ऽन्यत्राधितिष्ठथ ।
मद्विजिते च यद्यत्र नापराध्येथ कस्यचित् ॥
तदा युष्माकमेवाहमपराध्यक्षयमेनहि ।
तदन्यथा कृते युष्मान् सर्वा हन्यां स संशयः ॥
इति तेन समाख्यातं श्रुत्वा ताः सकला अपि ।
सिंहलं तं प्रणत्वा च समालोक्यैवमब्रुवन् ॥
स्वामिंस्तथा करिष्यामो भवानभिहितं यथा ।
तदस्मान् योषिता बालाः संपालयितुमर्हति ॥
इति संप्रार्थ्य सर्वास्ता राक्षस्यः परिबोधिताः ।
त्यक्त्वा तद्विषयं गत्वा वने ऽन्यत्र समाश्रयन् ॥
तत्र स सिंहलो राजा सामात्या मन्त्रिणो जनाः ।
स्थित्वा लोकानधिष्ठाप्य स्वस्वधर्मे ऽन्वशासत ॥
तत्र ते सकला लोका धृत्वा तन्नुपशासनम् ।
त्रिरत्नभजनं कृत्वा स्वस्वर्धं समाचरन् ॥
तदैतद्धर्मभावेन सुभिक्षं निरुपद्रवम् ।
सद्धर्ममंगलोत्साहं प्रावर्तत समन्ततः ॥
सिंहलेन नरेन्द्रेण जित्वा संवासितं स्वयम् ।
तेनासौ सिंहलद्वीप इति प्रख्यापितो ऽभवत् ॥
यो ऽसौ सिंहलो राजा तदाहमभवं खलु ।
यः सिंहकेशरी राजा ज्येष्ठ एव महल्लकः ॥
तदाभूद्राक्षसी या सा वेषा एवानुपमा खलु ।
यो वलाहो ऽश्वराजो ऽभूदेषो ऽवलोकितेश्वरः ॥
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0