गुणकारण्डव्यूहसूत्र · भाग 141160
तदाप्येवं स लोकेशो बोधिसत्त्वो विलोक्य माम् ।
अश्वो भूत्वा समुत्तार्याप्यब्धेरेवं महद्भयात् ॥
एवं स त्रिजगन्नाथो बोधिसत्त्वः सदा स्वयम् ।
विलोक्य सकलान् सत्त्वान् समुत्तार्य भयादवत् ॥
तेनास्य सदृशो धर्मो नास्ति कस्यापि कुत्रचित् ।
बुद्धानामपि नास्त्येव कुतो ऽन्येषाअं त्रिधातुषु ॥
इत्थमयं महासत्त्वः सर्वलोकाधिपेश्वरः ।
सर्वधर्माधिपः शास्ता महाभिज्ञा ऽधिराजते ॥
तेन लोकाधिपाः सर्वे त्रैधातुकाधिपा अपि ।
अस्य शरणमाश्रित्य प्रभजन्ति सदादरात् ॥
ये ऽप्यस्य शरणं कृत्वा भजन्ति सर्वदादरात् ।
दुर्गतिं ते न गच्छन्ति संप्रयान्ति सुखावतीम् ॥
तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिताः ।
सदा धर्मामृतम् पीत्वा प्रचरन्ति जगद्धिते ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
निःक्लेशा बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इति विज्ञाय ये सत्त्वाः समीच्छन्ति जिनास्पदम् ।
तस्य लोकाधिनाथस्य भजन्तु शरणाश्रिताः ॥
इति शास्त्रा समादिष्टं श्रुत्वा सर्वे सभाश्रिताः ।
लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति सिंहलसार्थवाहोद्धारणप्रकरणं समाप्तम् ॥
17. सर्वसत्त्वोद्धारण संबोधिमार्ग स्थापन महेश्वरोमादेवी संबोधिव्याकरणोपदेश प्रकरणम्
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
सांजलिर्भगवन्तं तं पुनर्नत्वैवमब्रवीत् ॥
भगवंस्त्रिजगद्धर्तुस्ते लोकाधिपतेः प्रभोः ।
काये धर्माः कियन्तो ऽपि विद्यन्ते तान् समादिश ॥
इति संप्रार्थितं तेन विष्कम्भिना निशम्य सः ।
भगवांस्तं महासत्त्वं समलोक्यैवमादिशत् ॥
कुलपुत्रास्य नाथस्य त्रैधातुकनिवासिनाम् ।
काये सर्वे ऽपि सद्धर्माः संविद्यन्ते व्यवस्थिताः ॥
तद्यथास्य तनौ लोम्नां विवरेषु सन्ति ये वृषाः ।
तान् संक्षेपेण वक्ष्यामि शृणुध्वं यूयमादरात् ॥
तद्यथैकविले लोम्नः सुवर्णानि बहून्यपि ।
गन्धर्वाणाम् सहस्त्राणि निवसन्ति महासुखम् ॥
बाध्यन्ते न च ते क्लेशैर्दुःखैः संसारिकैरपि ।
विरक्ता दुरिताचारोपविशुद्धेन्द्रियोत्तमाः ॥
सद्धर्माचारसंरक्ताश्चतुर्ब्रह्मविहारिणः ।
शुद्धशीलाः सदाष्टांगपोषधव्रतधारिणः ॥
तत्र श्रीमन्महारत्नं चिन्तामणिसमुज्ज्वलः ।
सर्वसत्त्वहितार्थाय स्वयमुत्पद्य संस्थितः ॥
यदा ते मणीमभ्यर्च्य गन्धर्वास्ते समीप्सितम् ।
प्रार्थयन्ति तदा तेषां सर्वं संसिध्यते तथा ॥
एवं भद्रसुखं भुक्त्वा गन्धर्वास्ते प्रमोदिताः ।
त्रिरत्नभजनं कृत्वा प्रचरन्तः शुभे स्थिताः ॥
एतदपि महद्धर्ममस्य लोमविले स्थितम् ।
तेनासौ त्रिजगन्नाथो धर्मकायो विराजते ॥
ततो ऽन्यस्मिंश्च कृष्णाख्ये लोमविले जगत्प्रभोः ।
शतकोटिसहस्राणि महर्षीणां वसन्त्यपि ॥
एको ऽभिज्ञा द्वयभिज्ञाश्च त्र्यभिज्ञाश्चापि केचन ।
केचिच्चतुरभिज्ञाश्च पंचाभिज्ञाश्च केचन ।
सर्वे ते ऋषयो धीराः स्वस्वकुलव्रतंधराः ।
सुवर्णमयशैलानां पार्श्वेषु कुट्टिमाश्रिताः ॥
केचिद्रूपमयानां च पार्श्वेषु भूभृतां स्थिताअः ।
पद्मरागमयानां च केचित्पार्श्र्वेषु भूभृताम् ॥
केचिन्नीलमयानां च पार्श्वेषु कुट्टिमाश्रिताः ।
केचिद्वज्रमये पार्श्वे केचिन्मणिमये स्थिताः ॥
वैडूर्यकुट्टिमे केचिदश्मगर्भमये ऽपरे ।
केचिद्भीष्ममये पार्श्वे सप्तरत्नमयेष्वपि ॥
सर्वेषामपि रत्नानां पार्श्वेषु सरसीष्वपि ।
उद्यानेषु तथा केचिदारामेषु वनेषु च ॥
सर्वेर्तुfअलपुष्पाद्यैर्वृक्षैः संशोभितेष्वपि ।
केचिच्चन्दनवृक्षाणां केचिदगुरुर्भूरुहाम् ॥
केचित्तमालवृक्षाणां केचिच्चम्पकभूरुहाम् ।
अश्वत्थानां वटाणां च तथान्येषां च भूरुहाम् ॥
तथान्ये कल्पवृक्षाणां वांछितार्थप्रदायिनाम् ।
तलेषूटजमाश्रित्य संतिष्ठन्ते समाहिताः ॥
केचिदष्टांगशुद्धाम्बुसम्पूर्णेषु सरस्स्वपि ।
दिव्यपद्मोत्पलाद्येषु समाश्रित्य समाहिताः ॥
शुद्धशीला विशुद्धांगाः शुद्धाशय जितेन्द्रियाः ।
नानातपोव्रतं धृत्वा संतिष्ठन्ते समाहिताः ॥
अनेककल्पवृक्षाअश्च सुवर्णरुप्यपत्रकाः ।
सन्ति लोहितदण्डाश्च सर्वालंकारलम्बिताः ॥
तत्रेदृक्कल्पवृक्षाणामेकैकस्य तले स्थितम् ।
गन्धर्वाणां शतं स्मृत्वा त्रिरत्नं भजने सदा ॥
यदा ते भवसंचारदुखानि विविधान्यपि ।
विचिन्त्य खेदितात्मानः एवमुदीरयन्त्यपि ॥
अहो जन्मजराव्याधिक्लेशव्याकुलदुःखता ।
सर्वेषामपि जन्तूनाम् संसारभ्रमतां सदा ॥
जाम्बूद्वीपमनुष्यास्ते क्लेशाग्निनितापिताशयाः ।
दुःखानि विविधान्येव भुक्त्वा चरन्तिं दुर्वृतौ ॥
कथं ते मानवा दृष्ट्वा जीवीतं भंगुरोपमम् ।
त्रिरत्नभजनं कृत्वा न चरन्ति जगद्धिते ॥
त्रिरत्नभजनं कृत्वा ये चरन्ति जगद्धिते ॥
तेषां सर्वमभिप्रायमिहापि सिध्यते खलु ॥
परत्र ते सुखावत्यां लोकधातौ समीरिताः ।
जिनेन्द्रस्यामिताभस्य शरणे समुपस्थिताः ॥
सर्वदा भजनं कृत्वा पीत्वा धर्मामृतं मुदा ।
बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥
ततस्ते विमलात्मानो बोधिसत्त्वा जिनात्मजाः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्येवं तैः समाख्यातं श्रुत्वा पक्षिमृगादयः ।
पशवो ऽपि समुद्विग्ना मनसैवं व्यचिन्तयन् ॥
अहो दुःखं मनुष्याणां अपि संसारचारिनाम् ।
तिरश्चां पशुजातीनामस्माकं किं कथ्यते ॥
कदा वयमिमं पापकायम् त्यक्त्वा पुनर्भवे ।
मानुष्यजन्म आसाद्य चरेमहि सदा वृषे ॥
धन्यास्ते मनुजा लोके त्रिरत्नशरणं गताः ।
स्मृत्वा ध्यात्वा भजन्तो ऽयं संचरन्ते जगद्धिते ॥
इत्येवं ते ऽनुसंचिन्त्य सर्वे पक्षिमृगादयः ।
त्रिरत्नमनुसंस्मृत्वा ध्यात्वा भजन्त आदरात् ॥
तदा तेषामभिप्रायं सर्वेषामपि सिध्यते ।
दिव्यभोग्यादिवस्तूनि सर्वाण्यपि भवन्ति च ॥
तद् दृष्ट्वा सुप्रसन्नास्ते सर्वे पक्षिमृगादयः ।
त्रिरत्नभजनं कृत्वा भजन्तः प्रचरन्त्यपि ॥
एवं ते ऋषिगन्धर्वाः पक्षिमृगादिजन्तवः ।
अपि सर्वे शुभोत्साहैः संतिष्ठन्ते प्रमोदिताः ॥
एवं कृष्णाभिधे लोमे विवरे काये जगत्प्रभोः ।
ऋष्यादयो महासत्वाः महर्द्धिधर्मचारिणः ॥
एवं तस्य जगद्धर्तुः काये सर्वे वृषाः स्थिताः ।
तेनायं त्रिजगन्नाथः सर्वधर्माधिपः प्रभुः ॥
इति मत्वास्य सर्वे ऽपि श्रद्धया शरणं गताः ।
नामाप्युच्चार्य स्मृत्वापि भजन्तु वोधिवांछिनः ॥
ये ऽप्यस्य शरणे स्थित्वा नामाप्युच्चार्य सर्वदा ।
ध्यात्वा स्मृत्वापि सद्भक्त्वा भजन्ति संप्रसादिताः ॥
दुर्गतिं ते न गच्छन्ति संयास्यन्ति सुखावतीम् ।
तत्रामिताभनाथस्य शरणे समुपस्थिताः ॥
सदा धर्मामृतं पीत्वा परिशुद्धत्रिमण्डलाः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥
ततः स भगवांस्तं च विष्कम्भिनं जिनात्मजम् ।
सादरं समुपामन्त्र्य संपश्यन्नेवमादरात् ॥
कुलपुत्र ततो ऽन्यत्र तस्य त्रैधातुकप्रभोः ।
लोकेशस्य तनौ लोमविवरे रत्नकुण्डले ॥
तत्रानेकानि गन्धर्वकन्यानां नियुतानि च ।
शतकोटिसहस्राणि निवसन्ति सदा मुदा ॥
ताः सर्वा देवकन्याभा दिव्यारुपा मनोहराः ।
सौम्यातिसुन्दराः कान्ता भद्रपोष्टेन्द्रियाशयाः ॥
बाध्यन्ते नैव ताः क्लेशैः दुःखैर्मानुष्यकैरपि ।
सद्धर्मश्रीगुणसंपत्तिसुखासंपन्ननन्दिताः ॥
तास्सर्वास्तस्य नाथस्य चतुःसंध्यं समाहिताः ।
ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सादरम् ॥
तासां सर्वाणि वस्तूनि द्रव्याणि भूषणानि च ।
प्रादुर्भूतानि सिध्यन्ते यथाभिवांछितान्यपि ॥
एवं ताः सुखसंपन्नाश्चतुर्ब्रह्मविहारिणः ।
बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते ॥
त्रिरत्नभजनं कृत्वा संबोधिनिहिताशयाः ।
सत्यधर्मानुसंरक्तास्तिष्ठन्ति संप्रमोदिताः ॥
एवं तस्य जगन्नाथशरीरं सुकृतालयम् ।
तेनासौ त्रिजगन्नाथो धर्मराजो विराजते ।
ततो ऽन्यस्मिन् विले लोम्नस्तस्य च त्रिजगत्प्रभोः ।
कोटिशतसहस्राणि निवसन्त्यमृतान्धसाम् ॥
ते सर्वे ऽप्यमरा धीराः संबोधिनिहिताशयाः ।
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः ॥
एकभूमिस्थितः केचित् केचिद्द्वितीयभूमिकाः ।
तृतीयभूमिकाः केचित् केचिच्चतुर्थभूमिकाः ॥
पंचमभूमिकाः केचित् केचिच्च षष्ठभूमिकाः ।
सप्तमभूमिकाः केचित् केचिदष्टमभूमिकाः ॥
नवमभूमिकाः केचित् केचिद्दशमभूमिकाः ॥
सर्वे सत्त्वहिताधानसंबोधिव्रतचारिणः ।
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
तस्मिंश्च विवरे सन्ति हेमरुप्यमया नगाः ।
षष्टियोजनसाहस्रसमुच्छ्रिता महत्तराः ॥
सर्वे ऽपि शतशृंगास्ते सप्तरत्नमयोज्ज्वलाः ।
तेषां पार्श्वेषु सर्वेषु ते एकभूमिकादयः ।
बोद्धिसत्वा महासत्वा ध्यात्वा तिष्ठन्ति योगिनः ।
गन्धर्वाणां च साहस्रकोटिलक्षशतान्यपि ॥
रत्नमयविमानेषु संरमन्ते महोत्सवैः ।
संगीतितूर्यसंवाद्यैर्महायानव्रतोत्सवैः ॥
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
ततो विश्रम्य सर्वे ते विमानेषु समाश्रिताः ।
कृत्वा सद्धर्मसांकथ्यं संवसन्ते प्रमोदिताः ॥
ततस्ते चंक्रमस्थाने पुष्करिण्यो वै शुभाम्बुभिः ।
अष्टांगगुणसम्पन्नैः पूर्णायाश्च सरोरुहैः ॥
पद्मोत्पलादिपुष्पैश्च छन्नायास्तटमन्दिरे ।
मण्डितहेमरुप्यादिरत्नालंकारभूषणैः ॥
भूषिते कल्पवृक्षैश्च सुवर्णरुप्यपत्रकैः ।
प्रवाललोहितस्तम्बैः सर्वालंकारलम्वितैः ।
चंक्रम्य तत्र ते रात्रो सर्वे ध्यात्वा समाहिताः ।
षड्गतिभवसंचारनिःस्पृहा निर्वृतीच्छिकाः ॥
निःक्लेशा विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
महायानव्रतोत्साहः सुखं भुक्त्वा समाश्रिताः ।
एवं ते सकला नित्यं चतुस्संध्यं समाहिताः ॥
त्रिरत्नाराधनं कृत्वा भजन्तो निवसन्त्यपि ॥
एवमस्य जगद्भर्तुः कायो धर्मगुणाश्रयः ।
ततो ऽसौ त्रिजगन्नाथो धर्मकायो विराजते ॥
ततो ऽन्यत्र विले लोम्ना वज्रमुखाभिधे पुनः ।
अनेके पर्वताः सन्ति लक्षकोटीसहस्रकाः ॥
केचिद्धेममया केचिद्रौप्यवज्रमया अपि ।
केचिन्नीलमयाः केचित्पद्मरागमया अपि ॥
केचिन्मणिन्मयाः केचिदश्मगर्भमयास्तथा ।
वैडूर्याः स्fआटिकाश्चापि सप्तरत्नमया अपि ॥
तेषु सर्वेषु भूभृत्सु कल्पवृक्षा महोच्छ्रयाः ।
विद्रुमपादपाश्चापि चन्दनतरवो ऽपि च ॥
सर्वे सौगन्धिवृक्षाश्च सर्वे पुष्पमहीरुहाः ।
सर्वर्तुfअलवृक्षाश्च विद्यते परिशोभिताः ॥
पुष्करिणीसहस्रानि दिव्यामृतभराण्यपि ।
पद्मोत्पलादिसौगन्धिपुष्पपूर्णानि सन्ति च ॥
विमानान्यपि चानेकसाहस्राणि हि सन्त्यपि ।
सुवर्णरुप्यदिव्यादिरत्नमयानि सन्ति च ॥
तेषु दिव्यविमानेषु किन्नराणां सुधर्मिणाम् ।
लक्षशतसहस्राणि वसन्ति सुरसोत्सवैः ॥
ते सर्वे किन्नरा दिव्यारत्नलंकारभूषिताः ।
भवचारभयोद्विग्नाश्चतुर्ब्रह्मविहारिणः ॥
प्रदातारः शुभाचाराः दयात्मनो महाशयाः ।
योगधानसमाधानाः शुद्धप्रज्ञाविचक्षणाः ॥
सर्वे तेषु विमानेषु विश्रान्ता विजितेन्द्रियाः ।
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
ततः सर्वे ऽपि ते तेषु विमानेषु समाश्रिताः ।
सर्वपारमिताधर्मसांकथ्यं संप्रकुर्वते ॥
ततस्ते चंक्रमस्थाने कूटागारमनोरमे ।
अधस्तात् कल्पवृक्षाणां हेमरुप्यपलाशिनाम् ॥
प्रवाररक्षदण्डानां सर्वालंकारलम्बिनाम् ।
चंक्रम्य तत्र ते सर्वे विश्रम्य समुपाश्रिताः ॥
षड्गतिभवसंचारनानादुःखानुभाविनः ।
भवचारनिरुत्साहाः सद्धर्माभिरताशयाः ॥
त्रिरत्नस्मृतिमाधाय संतिष्ठन्तेइ समाहिताः ।
तद तेषां च सर्वेषां प्रादुर्भूतानि सर्वतः ॥
सरत्नद्रव्यभोग्यानि सर्वोपकरणान्यपि ॥
एवं ते किन्नराः सर्वे सद्धर्मश्रीसुखान्विताः ।
त्रिरत्नभजनं कृत्वा तिष्ठन्ते बोधिमानसाः ॥
एवं तस्य जगद्भर्तुः कायो महद्वॄषाश्रयः ।
तेनासौ त्रिजगन्नाथो धर्मकाये ऽभिराजते ॥
ततो ऽन्यस्मिन् विले लोम्नः सूर्यप्रभात्किधे पुनः ।
कनकपर्वताः सन्ति द्वादशशतलक्षकाः ॥
तदैकैकस्य शृंगानि दशशतशतानि च ॥
तत्रैकैकस्य पार्श्वानि दशलक्षशतानि च ।
तत्रैकैकत्र पार्श्वाणि सप्तरत्नमयोज्ज्वलः ॥
उद्यानानि विचित्राणि मण्डितानि सुरद्रुमैः ॥
पुष्करिण्यो ऽप्यनेकाश्च स्वष्टांगगुणसंयुतैः ।
जलैः पद्मादिपुष्पैश्च परिपूर्णाः सुगन्धिभिः ॥
कूटागाराणि लक्षाणि हेमरत्नमयानि च ।
विचित्रदिव्यरत्नादिमण्डनालंकृताअन्यपि ॥
तेषां मध्ये महारत्नं सारदकोसिधो महान् ।
चिन्तामणिर्जगद्भद्रवांच्चितार्थाभिपूरकः ॥
तेषु सर्वेष्वसंख्येया बोधिसत्त्वा समाश्रिताः ।
त्रिरत्नभजनं कृत्वा निवसन्ति समाहिताः ॥
यदा ते बोधिसत्त्वास्तं चिन्तामणिमुपस्थिताः ।
सम्भ्यर्च्य यथाकामं प्रार्थयन्ति जगद्धिते ॥
तदा तेषां स सर्वार्थं पूरयति यथेप्सितम् ॥
एवं श्रीसुखसंपन्नाः संतिष्ठन्ते जिनात्मजाः ॥
यदा तत्र प्रतिष्ठास्ते बोधिसत्त्वाः शुभाशयाः ।
प्रजल्पन्ते महाविद्यामनुस्मृत्वा षडक्षरीम् ॥
तदा पश्यन्ति ते सर्वे सुखावत्यां समाश्रितम् ।
अमिताभं जिनं तं च सर्वलोकाधिपं प्रभुम् ॥
सर्वान् बुद्धांश्च पश्यन्ति सर्वक्षत्रसमाअश्रितान् ।
बोधिसत्त्वान् समासत्त्वान् सर्वांश्च सद्गुणाकरान् ॥
एवं सर्वान् जिनान् तृप्तान् बोधिसत्वांश्च ते मुदा ।
सर्वे तेनापि निष्क्रम्य चंक्रमन्ते यथेप्सिते ॥
केचिद्रत्नमयोद्याने पुष्करिणीतटेष्वपि ।
केचित्पर्वतपार्श्वेषु कल्पवृक्षतलेष्वपि ॥
तत्र पर्यंकमाभुज्य परिशुद्धत्रिमण्डलाः ।
ऋजुकायाः स्मृतिमन्तो ध्यात्वा तिष्ठन्ति योगिनः ॥
एवं तस्य जगद्भर्तुः काय सर्ववृषाश्रयः ।
तेनायं त्रिजगन्नाथो धर्मकायो विराजते ॥ 211
ततो ऽन्यस्मिन् विले लोम्न इन्द्रराजाभिधे पुनः ।
नगाशीतिसहस्राणि हेमरत्नमयानि च ॥
तेष्ववैवर्त्तिका धीर बोधिसत्त्वाः समाश्रिताः ॥
महासत्त्वा महाभिज्ञा कोटिलक्षसहस्रकाः ॥
तत्र मध्ये समुद्भूतं चिन्तामणिं महत्तरम् ।
तं ते सर्वे समभ्यर्च्य प्रार्थयन्ति प्रार्थयन्ति यदेप्सितम् ॥
तदा तेषामभिप्रायं सर्वेषामपि वांछितम् ।
असौ चिन्तामणिः सर्वं संपूरयति सर्वदा ॥
तेषां न विद्यते किंचिद्दुःखं कदापि भाविकम् ।
बाध्यन्ते नापि ते सर्वे क्लेशै रोगादिभिः सदा ॥
सदापि ते महासत्त्वाश्चतुर्ब्रह्मविहारिणः ।
त्रिरत्नाराधनं कृत्वा संचरन्ते जगद्धिते ॥
एवं तत्र महाभिज्ञाः बोधिचर्याविवर्तिकाः ।
संबोधिनिहितात्मानः संतिष्ठन्ते समाहिताः ॥
ततो ऽन्यस्मिन् विले लोम्नो महौषध्यभिधे च पुनः ।
नवनवेतिसाहस्रपर्वतास्तत्र सन्त्यपि ॥
केचिद्धेममया रुप्यमया वज्रमया अपि ।
इन्द्रनीलमयाश्चापि पद्मरागमया अपि ॥
मरकतमयाश्चापि केचिच्च स्fअटिका अपि ।
सर्वरत्नमयाश्चापि विद्यम्ते तत्र भूधराः ॥
तत्रानेकसहास्राणि प्रथमबोधिचारिणाम् ।
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
ते सर्वे ऽपि न बाध्यन्ते क्लेशैर्दुःखैः कदाचन ।
भद्रश्रीगुणसंपत्तिसमन्विता निराधयः ॥
सुशीला विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
संबोधिप्रणिधिं कृत्वा संचरन्ते सुसंवरे ॥
तेषु पर्वतशृंगेषु पार्श्वेषु च समन्ततः ।
गन्धर्वाणां सहस्राणि निवसन्ति बहूनि च ॥
सर्वे ऽपि ते महायानचर्याव्रतसमाहिअताः ।
परिशुद्धाशया धीराः संबोधिनिहिताशयाः ॥
सततं धर्मसंगीतिसंप्रवृत्तिमहोत्सवैः ।
लोकेशस्मृतिमाधाय प्रवर्तन्ते सदा शुभे ॥
एतद्धर्ममहोत्साहं सर्वे ते बोधिचारिणः ।
त्रिविधमोक्षाणि संचिन्त्य भावयन्ति सुनिर्वृतिम् ॥
ततस्ते भवसंचारे सुखदुःखादिभाविनः ।
संबोधिप्रणिधिं कृत्वा संतिष्ठन्ते समाधिषु ॥
ततो ऽन्यस्मिन् विले लोम्नश्चित्रराजो ऽभिधे पुनः ।
प्रत्येकबुद्धकोटीनां नियुतानि शतानि च ॥
सप्तरत्नमयोगानां पार्श्वेषु गह्वरेष्वपि ।
ध्यात्वा स्मृतिमुपस्थाप्य संतिष्ठन्ते समाधिषु ॥
सर्वे ऽपि ते महाभिज्ञा महर्द्धिका विचक्षणाः ।
विविधप्रातिहार्याणि दर्शयन्ति वियद्गताः ॥
ततस्ते सप्तरत्नांगसानुषु समुपाश्रिताः ।
विविधधर्मसांकथ्यं कृत्वा तिष्ठन्ति मोदिताः ॥
ततस्ते कल्पवृक्षाणां छायासु समुपाश्रिताः ।
समाधिनिहितात्माअनः संतिष्ठन्ते समाहिताः ॥
ततस्ते कल्पवृक्षेभ्यः प्रार्थयित्वा समादरात् ।
सरत्नद्रव्यभोग्यानि भुक्त्वार्थिभ्यो ददन्ति च ॥
एवं तत्र महाभिज्ञाः प्रत्येकसुगताः स्थिताः ॥
ध्यात्वा सत्त्वहितं कृत्वा संचरन्ते समन्ततः ॥
एवमन्येषु सर्वेषु लोम्नां च विवरेष्वपि ।
ब्रह्मादयो मुनीन्द्राश्च शक्रादयो ऽपि चामराः ॥
गन्धर्वाः किन्नराः सिद्धाः साध्या रुद्रा गणाधिपाः ।
भैरवा मातृकाः सर्वा महाकालगणा अपि ॥
भूताः प्रेताः पिशाचाश्च कुम्भाण्डा राक्षसादयः ।
नागाश्च गरुडा दैत्याः स्वस्वधर्मानुचारिणः ॥
ब्रह्मणा वैष्णवाः शैवा योगिनो ब्रह्मचारिणः ।
निर्ग्रन्थाअस्तीर्थिकाश्चापि यतयश्च तपस्विनः ॥
राजानः क्षत्रिया वैश्याः शूद्राः सर्वे च मानवाः ।
एवं च प्राणिनः सर्वे यावन्तो भवचारिणः ॥
स्वस्वकुलव्रताचारसंरता धर्मचारिणः ।
सर्वे तस्य जगद्भर्तुः सर्वलोमविलाश्रिताः ॥
यदा ते तं जगन्नाथं ध्यात्वा स्मृत्वा समादरत् ।
त्रिरत्नं प्रणयन्तो ऽपि संभजन्ते समाहिताः ॥
तदा तेषामभिप्रायधर्मश्रीगुणसाधनम् ।
सर्वेषामपि तत्सर्वं संसिध्यते यथेप्सितम् ॥
एवं तस्य जगच्छास्तुः कायस्सर्ववृषालयः ।
तेनासौ त्रिजगन्नाथो धर्मराजो विरजते ॥
तदग्रे विवरे लोम्नां ध्वजाग्रे सर्वेपश्चिमे ।
अशीत्यगसहस्राणि सन्ति रत्नमयान्यपि ॥
विद्यन्ते कल्पवृक्षाणां कोटिलक्षशतानि च ।
चन्दनागुरुसौगन्धिपुष्पfअलद्रुमा अपि ॥
सर्वा वज्रमयी भूमीश्चन्द्रकान्तिप्रभासमाः ।
कूटागारसहस्रानां कोटीनियुतशतानि च ॥
तेषु सर्वेषु सौवर्णसप्तरत्नमयेषु च ।
सोपानादीनि सौवर्णसप्तरत्नमयान्यपि ॥
कूटागारेषु सर्वेषु तेषु तथागताः स्थिताः ।
संबोधिसाधनं धर्मं निर्दिशन्ति जगद्धिते ॥
एवं ते सुगताः सर्वे जम्बूद्वीपे नृइणामपि ।
सर्वाः पारमिताश्चापि निर्दिशन्ति सदापि च ॥
एवं ते सर्वदा काले विविधां धर्मदेशनाम् ।
कृत्वा सत्त्वहितार्थेन संतिष्ठन्ते समाहिताः ॥
एवं तस्य जगच्छास्तुः कायः सर्ववृषाश्रयः ।
तेनासौ त्रिजगच्छास्ता धर्मकायो विराजते ॥
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ।
भगवन् पुनरन्यानि लोमविवराणि सन्त्यपि ।
तानि सर्वाणि मे शास्तः समुपदेष्टुमर्हसि ॥
इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ॥
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र न विद्यन्ते ततो ऽतिक्रम्य दक्षिणे ।
पादांगुष्ठे जगद्भर्तुर्भ्रमन्ति चतुरब्धयः ॥
तदंगुष्ठाद्विनिष्क्रम्य यदा पतति वाडवे ।
तदा तदुदकं सर्वं भस्मत्वमधियास्यति ॥
एवं तस्य जगद्भर्तुः सर्वधर्मालया तनुः ।
तेनायं त्रिजगद्भर्ता धर्माराजो ऽभिराजते ॥
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥
भगवन् भगतादिष्टं महात्म्यं त्रिजगत्प्रभोः ।
श्रुत्वाहं परमाश्चर्यं प्राप्तो ऽस्मि खलु साम्प्रतम् ॥
तच्छ्रुत्वा भगवांच्छास्ता शाक्यसिंहो जगद्गुरुः ।
विष्कम्भिनं तमालोक्य पप्रच्छैवं समादरात् ॥
कुलपुत्र किमर्थं त्वम् परमाश्चर्यं प्राप्तवान् ।
एतत्सत्यं ममाग्रे ऽत्र वक्तुमर्हति सर्वथा ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं समालोक्यैवमब्रवीत् ॥
यदसौ भगवान्नाथः सर्वधर्मसमाश्रयः ।
त्रैधातुको ऽधिपालेन्द्रो धर्मराजो ऽभिराजते ॥
यदस्य शरणं गत्वा श्रद्धया समुपस्थिताः ।
ध्यात्वा स्मृत्वापि नामापि समुच्चार्य भजन्ति ये ॥
तदा तेषामभिप्रायं सद्धर्मगुणसाधने ।
भद्रश्रीसुखसंपत्तिरपि सर्वैव सिध्यते ॥
धन्यास्ते सुखिताः सर्वे यस्य त्रैधतुकप्रभोः ।
सद्धर्मगुणासांकथ्यं शृण्वन्ति श्रद्धया मुदा ॥
ये चाप्यस्य गुणाशंसाकारण्डव्यूहसूत्रकम् ।
लिखेल्लिखापयेद्वापि पठेच्च पाठयेदपि ॥
श्रुत्वा च मनसा नित्यं भावयेत् सर्वदादरात् ।
विस्तरेण तदर्थं च परेभ्यः समुपादिशेत् ॥
सो ऽपि धन्यो महासत्त्वो बोधिसत्त्वः गुणाशयः ।
निष्पापः परिशुद्धात्मा परिशुद्धेन्द्रियो भवेत् ॥
नापि स बाध्यते क्लेशैर्दुःखैश्च भवचारिकैः ।
न वापि जायते हीनकुलेषु दुर्गतिष्वपि ॥
तस्य काये ज्वराश्चाष्टौ रोगाः कुष्ठादयो ऽपि च ।
विविधा व्याधयः सर्वे जायेरन्न कदाचन ॥
न च हीनेन्द्रियश्चासौ नापि दुःस्थो दुराशयः ।
बलवान् परिपुष्टांगः शुद्धेन्द्रियः सुखी सुधीः ॥
सद्धर्मसाधनोत्साही संबुद्धगुणलालसः ।
त्रिरत्नभजनं कृत्वा संचरेत जगद्धिते ॥
एतत्पुण्यविशुद्धात्मा परिशुद्धेन्द्रियः कृती ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इति तेन समाख्यातं श्रुत्वा स भगवान् मुदा ।
विषम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
साधु साधु महासत्त्व त्वमीदृक्प्रतीभानवान् ।
यल्लोकेशगुणोद्भावमाहात्यमनुभाषसे ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
प्रमोदितो मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥
भगवन् यदहं भाषे लोकेशगुणसत्कथाम् ।
एतल्लोकसभामध्ये तद्भवतो ऽनुभावतः ॥
यदाहं भगवन्नत्र लोकेशसुकृतोत्कथाम् ।
भाषामीमे तदा सर्वे लोकाः श्रद्धार्पिताशयाः ॥
तदनुशंसनं श्रुत्वा सर्बे ऽपीमे सभाश्रिताः ।
ब्रह्मेन्द्रासुरनागेन्द्रप्रमुखा अनुमोदिताः ॥
अस्य त्रैलोकनाथस्य सदा शरण आस्थिताः ।
ध्यात्वाप्याराधितुं नित्यं समभीच्छन्ति साम्प्रतम् ॥
इति तेन समाख्याते भगवान् स मुनीश्वरः ।
विष्कम्भिनं तं समालोक्य पुनरेव समादिशत् ॥
साधु साधु सुधिओइरो ऽसि यत्त्वमत्र पुनः पुनः ।
प्रोत्साहयन्निमांल्लोकान् सर्वान् करोषि बोधितान् ॥
तदहं ते प्रसन्नो ऽस्मि यत्स्वयं मे सभाश्रिताः ।
सर्वे ऽस्य त्रिजगद्भर्तुः धर्मं प्रोत्साह्य नन्दिताः ॥
इत्यादिष्टं मुनीन्द्रेण विष्कम्भी सो ऽभिनन्दितः ।
भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥
भगवंस्त्रिजगद्भर्तुस्तानि लोमविलान्म्यहम् ।
द्रष्टुमिच्छमि तच्छास्तः सन्दर्शयितुमर्हति ॥
इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् ।
भगवांस्तं महासत्त्वं समालोक्यैवमादिशत् ॥
अग्राह्या कुलपुत्रस्त्रे लोमविला जगत्प्रभोः ।
असंस्पृश्या असंदृश्या यथाकाशस्तथा किल ॥
तेषु समन्तभद्राद्या बोधिसत्त्वा जिनात्मजाः ।
सर्वे द्वादश वर्षाणि संभ्रमन्ते समन्ततः ॥
सर्वं तेनैव दृष्टानि तानि लोमविलानि हि ।
बुद्धैरपि न दृश्यन्ते तेष्वेव संस्थितैरपि ॥
किमन्यैर्बोधिसत्त्वैस्तौइरर्हद्भिर्ब्रह्मचारिभिः ।
योगिभिरृषिभिश्चापि दृश्यन्ते नैव केनचित् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
ये च समन्तभद्रेण दृश्यन्ते भ्रमतापि न ।
यानि बुद्धैर्न दृश्यन्ते तत्रैव संस्थितैरपि ॥
भगवंस्तानि संद्रष्टुं शक्नुयां कथमेव हि ।
हा मे जन्म निःसारं यन्न दृष्टो स जगत्प्रभुः ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
मयापि कुलपुत्रास्य लोमविलानि यत्नतः ।
चिरात् संवीक्षमाणेन दृश्यन्ते तानि सर्वतः ॥
कुलपुत्र स लोकेशो मायावी सूक्ष्मरुपकः ।
अरुप्यदृश्यमाण्ये ऽपि निराकारो निरंजनः ॥
अथ रुपी महरुपो विश्वरुपो महाकृतिः ।
एकादशशिरस्कंश्च शतसहस्रहस्तकः ॥
कोटिशतसहस्राक्षो दिव्यरुपः सुरुपकः ।
महायोगी महाप्राज्ञः परमार्थयोगपालकः ॥
सुचेतनो महाभिज्ञो बोधिसत्त्वो जगत्प्रभुः ।
कुलीनस्त्रिजगद्भर्ता सर्वधर्माधिपेश्वरः ॥
सर्वसत्त्वसमुद्धर्ता संसारोदधितारकः ।
महासत्त्वो महायानधर्मशास्ता जगद्गुरुः ॥
त्रैधातुकजगन्नाथो धर्मधातुस्वरुपद्धृक् ।
सर्वज्ञस्त्रिगुनाधारो निःक्लेशो विमलेन्द्रियः ॥
अर्हन् संबोधिमार्गस्थः सर्वसत्त्वहितार्थभृत् ॥
सर्वेषु भद्रधर्मेषु छायाभूतो निराकुलः ।
संबोधिधर्मसंभारपूरकः श्रीगुणाकरः ॥
ब्रह्मचारी विशुद्धात्मा सर्वलोकशुभंकरः ।
सर्वपारमिताधर्ता सर्वसंघाधिपेश्चरः ॥
एवं श्रीमान्महासत्त्व आर्यावलोकितेश्वरः ।
बोधिसत्त्व महाभिज्ञः सर्वसमाधिभृद्वरः ॥
केनापि दृश्यते नासौ सर्वधर्ममयाश्रयः ।
अचिन्त्यो ह्यसमीक्षो ऽपि सर्वनिर्माणरुपधृक् ॥
सर्वसत्त्वान् समालोक्य दुर्गतितः प्रयत्नतः ।
समुद्धृत्य शुभे धर्मे योजयति प्रबोधयन् ॥
दुर्दान्तानपि संपश्यन् प्रातिहार्याणि दर्शयन् ।
बोधयित्वा प्रयत्नेन योजयति सुसंवरे ॥
बोधिसत्त्वान् महासत्त्वांश्च परिपाचयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयत्यात्मजानिव ॥
एवं स त्रिजगन्नाथो जगत्सर्वं प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संप्रयायात् सुखावतीम् ॥
सुखावत्यां मुनीन्द्रस्य शरणे समुपस्थितः ।
सदानुशासनम् धृत्वाअ संचरन्ते जगद्धिते ॥
तस्यामिताभनाअथस्य पीत्पा धर्मामृतं सदा ।
सर्वसत्त्वहिताधानं व्रतं धृत्वाधितिष्ठति ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं च समालोकयैवमब्रवीत् ॥
भगवंस्तं जगन्नाथमार्यावलोकितेश्वरम् ।
केनोपायेन पश्येयमहं कुत्र कदा कथम् ॥
भगवन् स जगन्नाथो येनोपायेन दीक्ष्यते ।
तदुपायं समादेष्टुमर्हति मे भवान् गुरुः ॥
इति संप्रार्थिते तेन भगवान् सर्वविज्जिनः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र स लोकेशः सत्त्वानुद्धृत्य सर्वतः ।
प्रथममत्र समागच्छेत सभायां मम दर्शने ॥
इति शास्त्रा समादिष्टं श्रुत्वा स सुगतात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवब्रवीत् ॥
अनुजानाअम्यहं शास्त यत्स नाथ इहाव्रजेत् ।
कदेहासौ जगन्नाथ आगच्छेत्तत समादिश ॥
इति तदुक्तमाकर्ण्य भगवांस्तं जिनात्मजम् ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र यदा सर्वसत्त्वो बोधिपथास्थितः ।
भवति स महासत्त्वः प्रथममासरेदिह ॥
इति शास्त्रोदितं श्रुत्वा विष्कम्भी स विषादितः ।
कपोलं स्वकले धृत्वा मनसैवं व्यचिन्तयत् ॥
हा मया किं कृतं पापं यदस्य त्रिभवप्रभोः ।
सर्वधर्माधिनाथस्य दर्शनं प्राप्स्यते न हि ॥
किं ममानेन कायेन सुचिरं जीवितेन च ।
विना सन्दर्शनेनात्र लोकेश्स्य जगद्गुरोः ॥
कदाहं तस्य नाथस्य दृष्ट्वा मुखसुधाकरम् ॥
क्लेशतापहतं लप्स्ये प्रह्लादनं महत्सुखम् ॥
कदास्य चरणाम्भोजे शरणे समुपस्थितः ।
प्रणत्वा श्रीगुणं लप्स्ये सर्वसत्त्वहितार्थदम् ॥
कदास्य भजनं कृत्वा पीत्वा धर्मामृतं सदा ।
महानन्दसुखोत्साहैः संचरेयं जगद्धिते ॥
कदास्य शासनं धृत्वा कृत्वा सर्वहितं सदा ।
संबोधिश्रीसुखं प्राप्तुं संगच्छेयं सुखावतीम् ॥
कदा गत्वा सुखावत्याममिताभं मुनीश्वरम् ।
समीक्ष्य समुपाश्रित्य भजेयं सर्वदा मुदा ॥
तत्सद्धर्मामृतं पीत्वा कृत्वा धर्ममयं जगत् ।
संबुद्धपदमासाद्य यास्यामि निर्वृतिं कदा ॥
इत्येवं मनसा ध्यात्वा विष्कम्भी स पुरो गतः ।
भगवन्तं पुनर्नत्वा प्रार्थयदेवामादरात् ॥
भगवन् स जगद्भर्ता कदेह समुपासरेत् ।
द्रष्टुमिच्छामि तं नाथं सर्वथाहं कुहापि हि ॥
येनोपायेन नाथो ऽसौ यथा संद्रक्ष्यते मया ।
तदुपायं तथा मह्यं समुपादेष्टुमर्हत्ति ॥
इति तत्प्रार्थितं श्रुत्वा भगवान् विहसन्नपि ।
विष्कम्भिनं समालोक्य पुनरेव समादिशत् ॥
कुलपुत्रागतः कालो लोकेशस्य न साम्प्रतम् ।
समये ऽसौ महाभिज्ञो ह्यवश्यमाचरेदिह ॥
दुर्लभं कुलपुत्रास्य दर्शनं त्रिभवे प्रभोः ।
कदाचित्केनचित्काले कथंचिल्लभते खलु ॥
यदसौ सर्वलोकेशः सार्वधर्माधिपः प्रभुः ।
सद्धर्मगुणसंभर्ताभद्रश्रिसंपदाश्रयः ॥
सर्वेषामपि सत्त्वानां षड्गतिभवचारिणाम् ।
त्राता भर्ता पिता माता सन्मित्रं सद्गुरुर्गतिः ॥
शरण्यं परायणं द्वीपः सुहृद्बन्धुर्हितार्थदः ।
भवोदधिसमुद्धर्ता क्लेशाग्निशमनामृतः ॥
सर्वमारनिहन्तापि सर्वदुष्टभयापहा ।
संबोधिमार्गसंदेष्टा निर्वृतिपददेशकः ॥
एवमसौ महेशाख्यः सर्वलोओकाधिपेश्वरः ।
बोधिसत्त्वाधिपः शास्ता सर्वसंघविनायकः ॥
संसारे तस्य सद्धर्मश्रवणं चापि दुर्लभम् ।
नामापि ग्रहणं चापि स्मरणं चापि दुर्लभम् ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा ।
अभिधानं समुच्चार्य संभजन्ते समाहिताः ॥
एतत्पुण्यानुभोवेन सर्वे ते विमलेन्द्रियाः ।
निःक्लेशा विमलात्मानो भवन्ति बोधिचारिणः ॥
ततस्ते भद्रिताचाराश्चतुर्ह्मविहारिणः ।
पोषधं संवरं धृत्वा संचरम समाहिताः ॥
एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः ।
त्रिरत्नभजनोत्साहैः संचरेरन् जगद्धिते ॥
ततस्ते स्युर्महासत्त्वा बोधिसत्त्वा जिनात्मजाः ।
षडक्षरीं महाविद्यां विद्याराज्ञीं समाप्नुयुः ॥
यदा षडक्षरी विद्यां संप्राप्य ये जिनात्मजाः ।
ध्यात्वा स्मृत्वा समुच्चार्य जपन्ति श्रद्धया सदा ॥
तदा तस्य जगद्भर्तुः सर्वधर्ममयाश्रये ।
लोमविलेषु जायेरन् सर्वे ते सुगतात्मजाः ॥
ततस्तेनैव संसाअरे संसरेयुः कदाचन ।
तस्यैव लोमरन्ध्रेषु जाता भ्रमेयुराभवम् ॥
तत्रैव संभवन्तस्ते संबोधिज्ञानसाधनम् ।
बोधिचर्याव्रतं धृत्वा संतिष्ठेरन् समाहिताः ॥
तत्रैव संस्थिताते ऽपि विना दुष्करचर्यया ।
सुखेन प्राप्य संबोधिं निर्वृतिपदमाप्नुयुः ॥
इति शास्त्र समादिष्टं श्रुत्वा स सुगतात्मजः ।
विष्कम्भी मुनीराजं तं समालोक्यैवमब्रवीत् ॥
भगवन् प्राप्तुमिच्छामि विद्यां षडक्षरीम् ।
तद्भवान् म इमां विद्यqअं समर्चयितुमर्हति ॥
इति तत्प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
दुर्लभां कुलपुत्रेमां विद्याराज्ञीं षडक्षरीम् ।
बुद्धा अपि न जानन्ति प्रागेवान्ये जिनात्मजाः ॥
इत्यादिष्टं मुनीन्द्रेण विष्कम्भी स विषादितः ।
भगवन्तं समालोक्य पुनरेवं न्यवेदयत् ॥
यद्भगवन्न जानन्ति सर्वे बुद्धा जिनात्मजाः ।
तत्कुतो ऽहमिमां विद्यां प्राप्स्यामि तदुपादिश ॥
इति तदुक्तमाकर्ण्य भगवान् सर्वविज्जिनः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
विद्येयं कुलपुत्रास्य लोकेशस्य जगत्प्रभोः ।
परमहृदयं हीति सर्वबुद्धैर्निगद्यते ॥
तदियं दुर्लभा विद्या सर्वविद्याविनायकाः ।
जानाति य इमां विद्यां परमार्थं स वेत्ति हि ॥
इत्यादिष्टे मुनीन्द्रेण विष्कम्भी च जिनात्मजः ।
भगवन्तं समालोक्य पप्रच्छैवं समादरात् ॥
भगवन् स महासत्त्वो विद्यते ऽपि भवालये ।
जानीत य इमां विद्यां तं दर्शयितुमर्हति ॥
इति संप्रार्थिते तेन भगवांस्तं महामतिम् ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
जानीते कुलपुत्रात्र कश्चित्तेषां षडक्षरीम् ।
महाविद्यां महेशाख्यां सर्वत्रैधातुकेष्वपि ॥
एषा महत्तरी विद्या सर्वयोगास्तमोधला ।
यन्नापि ज्ञायते बुद्धैः सर्वैरपि जिनात्मजैः ॥
एनां विद्यां समिच्छन्तः सर्वबुद्धा जिना अपि ।
भ्रमन्ति बोधिसत्त्वाश्च दशदिक्षु समन्ततः ॥
कुतश्चिल्लभ्यते नैव बुद्धैस्तैस्तु गतैरपि ।
बोधिसत्त्वैश्च तैः सर्वैरेवमेषा सुदुर्लभा ॥
केनचिल्लभ्यते ऽप्येषा भ्रमता सुचिरादिह ।
बहुपुण्यानुभावेन लोकेश्वरप्रसादतः ॥
धन्यास्ते बहुपुण्योघा बोधिश्रीगुणलाभिनः ।
सततं ये जपन्त्येनं लोकेशहृदयं मुदा ॥
जपति यो यदा यत्र विद्यामेनां षडक्षरीम् ।
तदा तस्यान्तिके बुद्धाः सर्वे ऽप्युरुपाश्रिताः ॥
बोधिसत्त्वाश्च सर्वे ऽपि महासत्त्वा महर्द्धिकाः ।
रक्षेयुस्तं महासत्त्वं समेत्य समुपस्थिताः ॥
षड्वपारमिताः सर्वाः तस्य द्वारसमाश्रिताः ।
संबोधिसाधनोपायसिद्धिं दद्युर्जगद्धिते ॥
द्वात्रिंशदेव पुत्राश्च सर्वे सपरिवारकाः ।
जल्पकं तं समालोक्य रक्षेयुर्विपदाश्रिताः ॥
चत्वारश्च महाराजाः ससैन्यसचिवानुताः ।
तस्य रक्षां प्रकुर्युस्ते दशदिक्षु व्यवस्थिताः ॥
सर्वे नागाधिपाश्चापि धरणीसमुपाश्रिताः ।
तस्य रक्षाविधानार्थं दृष्ट्वा दद्युर्महामणिम् ॥
भौमा यक्षाश्च सर्वे ऽपि आश्रिताः संप्रसादिताः ।
तस्य रक्षा प्रकुर्वन्ति संचरेरन् समन्ततः ॥
बुद्धाश्च बहवस्तस्य कायलोमविलाश्रिताः ।
साधुकारं प्रदत्वैवं वर्णयेयुः प्रसादिताः ॥
धन्यस्त्वं कुलपुत्रासि यदीदृग्च्छ्रीगुणाकरम् ।
चिन्तामणिअं महारत्नं प्राप्तवान् साधु सन्मते ॥
सप्तवंशाश्च ते सर्वे परिशुद्धत्रिमण्डलाः ।
निःक्लेशा विमलात्मानो लभेयुर्निर्वृतेः पदम् ॥
तव कुक्षि स्थिताश्चापि सर्वे प्राणिगणाः खलु ।
बोधिसत्त्वा महासत्वा भवेयुश्च निर्वर्तिकाः ॥
एवं तस्याः षडक्षर्या विद्यायाः पुण्यमुत्तमम् ।
अप्रमेयमसंख्येयमिति प्राहुर्मुनीश्वराः ॥
यश्चादारादिमां विद्यामहाराज्ञीं षदक्षरीम् ।
मूर्ध्नि कण्ठे भुजे वापि बध्वा दध्यात् समाहितः ॥
स सर्वपापनिर्मुक्तः परिशुद्धत्रिमण्डलः ।
निःक्लेशं परिशुद्धात्मा वज्रकायो भवेद् ध्रुवम् ॥
बुद्धधातुमणिस्तूप इव धर्ममयाश्रयः ।
संबोधिज्ञानसद्रत्नराशिश्रीसद्गुणाश्रयः ॥
तथागतगुणधारः सद्धर्मगुणसागरः ।
बोद्धिसत्वो महासत्त्वो महासमृद्धिमान् ॥
यश्चापीमां महाविद्यां गृहीत्वा विधितो मुदा ।
श्रीमल्लोकेश्वरं ध्यात्वा जपेन्नित्यं समाहितः ॥
स सर्वपातकैर्मुक्तः परिशुद्धत्रिमण्डलः ।
भवेत् सद्धर्मदिग्धीमानक्षयप्रतिभानवान् ॥
सर्वधर्माधिपः शास्ता ज्ञानराशिसमृद्धिमान् ।
भवेद्भद्रसमाचारी चतुर्ब्रह्मविहारिकः ॥
सर्वविद्याधिराजेन्द्रश्चक्रवर्ती गुणाकरः ।
षट्कपारमितां नित्यं संपूरयेद्दिने दिने ॥
ये च तस्य समुच्छ्वासैः स्पृश्यन्ते ते ऽपि निर्मलाः ।
बोधिसत्त्वा महासत्त्वा भवेयुरविवर्तिकाः ॥
ये चापि तस्य वस्त्राणि स्पृशन्ति ते ऽपि निर्मलाः ।
बोधिसत्त्वाः सुधीराः स्युश्चरमभविकाः खलु ॥
ये चापि जपमानं तं पश्यन्ति ते ऽपि निर्मलाः ।
चरमभविकाः सर्वे भवेयुः सुगतात्मजाः ॥
पक्षिणः पशवो वापि सर्वे ऽपि प्राणिनश्च ये ।
पश्यन्ति जपमानं तं ते स्युस्सर्वे जिनात्मजाः ॥
एवमेतन्महाविद्याजपमानस्य सन्मतेः ।
पुण्यश्रीगुणसंपत्तिसंचोदनादिता जिनैः ॥
इति शास्त्रा स्मादिष्टं निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
भगवन् प्राप्तुमिच्छामि महाविद्यां षडक्षरीम् ।
तत्कुतः कथमाप्स्यामि भवानदेष्टुमर्हति ॥
यो मेए दद्यादिमां विद्यां सर्वाविद्याधिपेश्वरीम् ।
सर्वयोगगुश्रेणीं सर्वध्यानगुणार्थदाम् ॥
संबोधिज्ञानसंभर्त्रीं निर्वाणमार्गदर्सनीम् ।
क्लेशविद्यायतनीं भद्रां सद्धर्मविराजतीम् ॥
षड्गतिभवसंचारक्लेशसुखाग्निशामिनीम् ।
बोधिसंभारसंभर्त्रीं सर्वज्ञज्ञानदायिनीम् ॥
तस्मादहं चतुर्द्वीपान् सप्तरत्नाभिपूरितान् ।
संप्रदातुं समिच्छामि सत्यमेतन्मयोदितम् ॥
स हि माताधिमाता मे पिता संसारदर्शकः ।
मित्राणामपि सन्मित्रं गुरुणामपि सद्गुरुः ॥
तस्याहं शासनं धृत्वा शरणे सर्वदाश्रितः ।
निर्विकल्पः समाधानः संचरेयं मुदा सर्वतः ॥
इति मे भगवन् वक्यं सत्यमेवान्यथा न हि ।
तत्र मां प्रेषयित्वाशु यत्रासौ सद्गुरुः स्थितः ॥
दशदिक्ष्वपि सर्वत्र त्रैधातुभुवनेष्वपि ।
यत्रासौ संस्थितः शास्ता तत्रापि गन्तुमुत्सहे ॥
इति मे खेदता चित्ते काये ऽपि विद्यते न हि ।
सर्वं भवान् विजानीते तदर्थे मे प्रसीदतु ॥
भवानेव जगच्छास्त सर्वधर्महितार्थभृत् ।
तन्मे ऽनुग्रहं कृत्वा पूरयतु मनोरथम् ॥
एतत्तेनोदितं श्रुत्वा भगवान् सर्वसार्थदिक् ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्राहमप्यस्या विद्यायाः करणे पुरा ।
लोकधातुषु सर्वत्र पर्यभ्रमन् समुत्सुकः ॥
बुद्धक्षेत्रेषु सर्वेषु सुचिरं भ्रमता मया ।
न लब्धेयं महाविद्या सकाशात् कस्यचिन्मुनेः ॥
ततो रत्नोत्तमाख्यायां लोकधातौ मुदा चरन् ॥
तत्ररत्नोत्तमाख्यस्य संबुद्धस्य पुरो व्रजन् ।
तस्य रत्नोत्तमस्याग्रे सांजलिः समुपाचरन् ॥
पादौ नत्वाश्रुलिप्तास्यः संवीक्ष्यैवं न्यवेदयन् ॥
भगवन्नहमायामि भवतां शरणे ऽधुना ।
तन्मे ऽर्हति भवान् दातुं महाविद्यां षडक्षरीम् ॥
इति मयोदितं श्रुत्वा रत्नोत्तमः स सर्ववित् ।
संबुद्धो ऽश्रुविलिप्तास्यं मां पश्न्नेवमादिशत् ॥
कुलपुत्राश्रु मा मुंच यदर्थे त्वमिहागतः ।
नैतन्मे विद्यते नूनं तदन्ये प्रार्थयेर्हि तं ॥
यदि ते ऽस्ति समीच्छा हि प्राप्तुं विद्यां षडक्षरीम् ।
गच्छ पद्मोत्तमाख्यायां लोकधातौ महामते ॥
तत्र पद्मोत्तमो नाम तथागतो मुनीश्वरः ।
सद्धर्मं समुपादिश्य विहरति जगद्धिते ॥
स एवेमां विजानीते महाविद्यां षडक्षरीम् ॥
तदेनां तं समाराध्य प्रार्थयस्व मुनीश्वरम् ।
स ते शास्ता महाभिज्ञः सर्वधर्माधिपो जिनः ।
दद्यादेनां महाविद्यां षडक्षरीं जगद्धिते ॥
इति तेन समादिष्टं निशम्याहं प्रसादितः ।
ततः पद्मोत्तमाख्यायां लोक्धातौ मुदाचरम् ॥
तत्र पद्मोत्तमं नाम संबुद्ध तं सभाश्रितम् ।
दूरतो ऽहं समालोक्य सहसा समुपाचरम् ॥
तत्र गत्वा पुरस्तस्य पद्मोत्तमस्य सद्गुरोः ।
पादाब्जे सांजलिर्न्नत्वा प्रार्थयमेवमादरात् ॥
भगवन् सर्वलोकेषु बुद्धक्षेत्रेष्वहं भ्रमन् ।
षडक्षरीं महाविद्यां प्राप्तुकाम इहाचरे ॥
यस्याः स्मृतिमात्रेन परिशुद्धत्रिमण्डलाः ।
लभेयुर्दुर्लभां बोधिं तस्या अर्थे ऽहमाव्रजे ॥
यदर्थे ऽहमसंख्येयालोकधातुर्भ्रमन्निह ।
भवच्छरणमायामि तत्साfअल्यं करोतु मे ॥
इति तेनोदितं श्रुत्वा पद्मोत्तमः स सर्ववित् ।
सुबुद्धो मां परिक्लिष्टं समालोक्यैवमादिशत् ॥
धन्यो ऽसि कुलपुत्रस्त्वं यदर्थे ऽखिन्नमानसः ।
बुद्धक्षेत्रेषु सर्वेषु भ्रमन्निह समागतः ॥
तदर्थं ते महासत्व पूरयामि जगद्धिते ।
तत्पुण्यगुणमाहात्म्यं वक्ष्ये शृणु समाहितम् ॥
तद्यथा कुलपुत्रास्या विद्यायाः पुण्यमुत्तमम् ।
अप्रेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
सर्वस्थाणुरजःकृत्वा तत्संख्यातुं प्रशक्यते ।
षडक्षरीमहामन्त्रजपपुण्यं न शक्यते ॥
सर्वाब्धिबालुकानां च संख्याकर्तुं प्रशक्यते ।
सर्वभूतलसंजातव्रीहिसंख्या च विद्यते ॥
सर्वसमुद्रतोयानां बिन्दुसंख्या च विद्यते ।
सर्वनदीजलानां च बिन्दुसंख्यापि विद्यते ॥
सर्वभूतृणवृक्षाणां पत्रसंख्या च विद्यते ।
सर्वेषामपि जन्तूनां लोमसंख्या च विद्यते ।
सदावृष्टिजलानां च बिन्दुसंख्यापि विद्यते ॥
सर्वसत्त्वा भवेयुश्च दशभूमिप्रतिष्ठिताः ।
यावत्तेषां महत्पुण्यं ततो ऽप्येतन्महत्तरम् ॥
सर्वेषु पुण्यतीर्थेषु सर्वेष्वपि च पर्वसु ।
स्नानदानजपुण्यानामेतज्जावद्वृषं महत् ॥
सर्वे सत्वा भवेयुश्च ये तपोब्रह्मचारिणः ।
तान् सर्वान् समभ्यर्च्य भोजयेयुर्थाविधि ॥
यावत्तेषां महत्पुण्यं भद्रश्रीगुणसंपदम् ।
ततो ऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥
सर्वे सत्त्वा भवेयुश्च प्रत्येकसुगता अपि ।
यश्चैतान् सुगतान् सर्वान् सत्कारैर्विधिनार्चयेत् ॥
तस्य यावन्महत्पुण्यं सद्धर्मश्रीगुणार्थदम् ।
ततो ऽप्यभ्यधिओकं पुण्यं षडक्षरीजपोद्भवम् ॥
यश्चापि सुगतान् सत्कारैर्विधिनार्चयेत् ।
ततो ऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥
एवं महत्तरं पुण्यं षडक्षरीजपोत्थितम् ।
सर्वैरपि हि सर्वज्ञैः प्रमातुं नैव शक्यते ॥
कथमप्रमेयैकेन प्रमातुं शक्यते ऽखिलम् ।
एवं महत्तरं पुण्यं षडक्षरीजपोद्भवम् ॥
इति सर्वैर्जिनैः ख्यातं निशम्याहं प्रमोदितः ।
एतां षडक्षरीं विद्यां प्राप्तुमैच्छन् जगद्धिते ॥
एषो हि परमो धर्मः संबोधिधर्मसाधनः ।
सूक्ष्मो ऽनागतो ऽव्यक्तो लोकेशहृदयं वरम् ॥
सर्वाः पारमिताः सर्वतीर्थस्नानव्रतादिकम् ।
सर्वमेतन्महाविद्यामन्त्रसंप्राप्तिकारणम् ॥
यदा ह्येतन्महाविद्यामन्त्रसिद्धिरवाप्यते ।
तदा सर्वमहाविद्यासिद्धिश्रीगुणमाप्नुयात् ॥
एवमेतन्महोपायकुशालं त्रिजगद्धिते ।
लोकेशस्य जगद्भर्तुर्हृदयमन्त्रमुत्तमम् ॥
एवमेतन्महाविद्यामन्त्रं संबोधिसाधनम् ।
असंख्येयं महत्पुण्यमित्याख्यातं मुनीश्चरैः ॥
एतां षडक्षरी महाविद्यां संप्राप्तिकारणे ।
अहमपि पुरा सर्वबुद्धक्षेत्रेष्वपि भ्रमन् ।
सर्वेषामपि बुद्धानां शरणे समुपाश्रितः ॥
सत्कारैर्विधानाभ्यर्च्य संप्रार्थयमिमां वराम् ॥
कुत्राप्येतां महाविद्यां संबोधिज्ञानसाधनीम् ।
कस्यचित् सुगतस्यापि नाध्यगच्छन् सकाशतः ॥
ततो ऽप्यहमिमाः विद्यां समधिगन्तुमुत्सुकः ।
लोकधातौ सुखावत्यां प्रागच्छन् संप्रमोदितः ॥
तत्रामिताभमालोक्य दूरतो ऽहं सभाश्रितम् ।
सांजलिः प्रणतिं कृत्वा दूरतः समुपाचरन् ॥
तस्य शास्तुर्मुनीन्द्रस्य नत्वा पादाम्बुजे पुरे ।
गलदश्रुविलिप्तास्यः संपश्यन्समुपाश्रयम् ॥
तद्दृष्ट्वा स भगवांच्छास्ता सर्वज्ञो मामुपाश्रितम् ।
जानन् मनो ऽभिलाषं मे समालोक्यैवमदिशत् ॥
कुत्रपुत्र षदक्षरीं विद्यामिच्छन्निहागतः ।
त्वं किमेतन्ममाग्रे ऽत्र प्रवदैनां यदीच्छसि ।
इत्यादिष्टं जिनेन्द्रेण निशम्याहं प्रसादितः ॥
भूयः पादाम्बुजे तस्य प्रणत्वैवं न्यवेदयम् ॥
भगवन्नेमिच्छामि महाविद्यां षडक्षरीम् ।
तद्भवान्मे मनोवांछां संपूरयितुमर्हति ॥
भगवन् यदहं सर्वलोकाधातुषु सर्वतः ॥
भ्रमन्निह समागच्छे प्राप्तुं विद्यां षडक्षरीम् ॥
सर्वेषामपि बुद्धानां बुद्धक्षेत्रेषु सर्वतः ।
भ्रमितो ऽहमिमां विद्यां समन्वेषसमुत्सुकः ॥
सर्वेषामपि वुद्धानां शरणे समुपाश्रितः ।
सत्कारैर्विधिनाराध्य प्राभजन् श्रद्धया मुदा ॥
एकस्यापि मुनीन्द्रस्य सकाशात् कस्यचिन्मया ।
लब्धा नेयं महाविद्या षडक्षरी श्रुतापि न ॥
भगवन्स्तद्भवंच्छास्ता मां शरणं समागतम् ।
संपश्यन् पुत्रवद्धर्मे नियोजयितुमर्हति ॥
भगवन् भव मे त्राता भर्ता गतिः परायणः ।
बन्धुर्मित्र सुहृच्छास्ता गुरुर्नाथो हितार्थभृत् ॥
देहि मे भगवन् धर्मदृष्टिं सर्वार्थदर्शनीम् ।
शमय मे महत्क्लेशं वह्नितापं सुधांशुवत् ॥
दर्शय बोधिमार्गं मे सम्बुद्धपुरचारणम् ।
देहि धर्मनिधानं मे सद्धर्मश्रीसुखार्थदम् ॥
स्थापय मां शुभे धर्मे संप्रेरय सुनिर्वृतिम् ॥
इत्येवं बहुधासौ संपार्थ्यमानो मया मुहुः ।
अमिताभो जिनेन्द्रो ऽपि लोकेश्वरं व्यलोकयत् ॥
तद्दृष्ट्वासौ माहसत्त्वो लोकेश्वरः समुत्थितः ।
सांजलिः धर्मराजं तं प्रनत्वैवमभासत ॥
भगवन् किमभिप्रायं भगतां यत्समादिश ।
भवदाज्ञां वहन् मूर्ध्नि कुर्यामेव समादिश ॥
इत्युक्ते लोकनाथेन भगवान् सो ऽमितप्रभः ।
लोकेश्वरं महाभिज्ञं समालोक्यैवमादिशत् ॥
पस्य त्वं कुलपुत्रेमं पद्मोत्तमं मुनीश्वरम् ।
षडक्षरीं महाविद्यां प्राप्तुमिह समागतम् ॥
यो ऽयं शास्ता मुनीन्द्रो ऽपि संबुद्धो ऽपि तथागतः ।
जगत्सत्त्वहिताधानीं विद्यामिच्छन्निहागतः ॥
तद्देहि कुलपुत्रास्मै सर्वसत्त्वशुभार्थिने ।
श्रद्धाभक्तिप्रसन्नाय महाराज्ञीं जगद्धिओते ॥
इत्यादिष्टे मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः ।
अभिताभं जिनेन्द्रं तं समलोक्यैवमब्रवीत् ॥
भगवन् कथमत्रास्मै विना मण्डलदर्शनम् ।
अनभिषिच्य दास्यामि विद्यामिमां षडक्षरीम् ॥
देया नेयं महाविद्या ह्यनभिषिक्ताय भिक्षवे ।
वीतरागाय दुष्टाय तीर्थिकाय दुरात्मने ॥
देया हीयं महाविद्या भद्रश्रीगुणसाधनी ।
सुसत्त्वाय प्रसन्नाय महायानव्रतार्थिने ॥
बोधिसत्त्वाय विज्ञाय सर्वसत्त्वहितेप्सवे ।
श्रद्धाअभक्तिप्रसन्नाय सद्धर्मगुणसाधने ॥
सर्वसत्त्वहिताधाने बोधिचर्याव्रतोद्यते ।
अस्थाने भगवन्नस्मै सुगतायार्हते ऽपि हि ॥
दया चेदभिषिंचैनं दर्शयित्वापि मण्डलम् ।
ततो ऽस्मै सुप्रसन्नाय दास्यामि भवदाज्ञया ॥
इति निवेदितं तेन लोकेशेन निशम्य सः ।
अमिताभो मुनीन्द्रस्तं लोकेशमेवमब्रवीत् ॥
कुलपुत्र मयाख्यातं विद्यादानविधानं तम् ।
नानाविधिं समाख्यातं सर्वैरपि मुनीश्वरैः ॥
नैलचूर्णैः पद्मरागचूर्णैर्मारकतैरपि ।
सौवर्णै रुप्यकैश्चूर्णैर्वर्तन्मण्डलं गुरुः ॥
तथा शक्तौ पुष्पचूर्णैर्गन्धचूर्णैः सुरंगकैः ।
विधाय मण्डलं तीर्थें वाभिषेकं प्रदापयेत् ॥
यद्येतानि न विद्यन्ते देशभ्रमणचारिणः ।
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0