भाषा

ENहिગુ
ग्रंथ पाठ

गुणकारण्डव्यूहसूत्र · भाग 101120

भवता यद्यथादिष्टं तत्करिष्यामहे तथा ॥
न पुरा राक्षसीवृत्तिं करिष्यामः कदाचन ।
शिक्षासंवरमाधाय चरिष्यामो व्रतं सदा ॥
जम्बूद्वीपे यथा मर्त्या विरम्य दशपापतः ।
संवृतिसुखभुंजाना जीवन्ति सद्गुणारताः ॥
तथा वयं विरम्यात्र दशकुलमार्गतः ।
सद्वृतिसुखभुंजाना जीवेम सद्गुणारताः ॥
सदैतद् व्रतमाधाय त्रिरत्नभजनारताः ।
सर्वं सत्त्वहितं कृत्वा संचरिष्यामहे शुभे ॥
तदस्मान् कृपया पश्यन्नेवं चानुग्रहं सदा ।
कृत्वा सद्धर्ममादिश्य विहरत्विह मान्यतः ॥
इति संप्रार्थितं ताभिः सर्वाभिः स जिनात्मजः ।
लोकेश्वरः समाकर्ण्य ता वीक्ष्य वदते पुनः ॥
नाहं सदेह तिष्ठेयं सर्वत्रापि सुदुःखिनः ।
प्राणिनः स्वयमालोक्य समुद्धर्तुं चरेमहि ॥
तदेतत्संवरं धृत्वा यूयमेवं समाहिताः ।
त्रिरत्नभजनं कृत्वा सौख्यं भुक्त्वाभितिष्ठत ॥
काले काले ऽहमागत्य युष्माकं हितसाधने ।
देशयिष्यामि सद्धर्मसंबुद्धपदसाधानम् ॥
एवं संबोधयन् सर्वा राक्षसीस्ताः स राक्षसः ।
लोकेश्वरो महासत्त्वः संप्रस्थितस्ततो द्रुतम् ॥
ततो ऽन्तर्हित आकाशे गत्वेन्दुरिव भासयन् ।
प्रह्लादयन् जगल्लोकं चरते सत्वहितोत्सुकः ॥
तं खे गतं प्रभास्वन्तं दृष्ट्वा ताः सकला अपि ।
राक्षस्यो विस्मयोत्पन्नास्तिष्ठन्ति प्रतिनन्दिताः ॥
ततः प्रभृती ताः सर्वा राक्षस्यो ऽपि समाहिताः ।
तच्छिक्षासंवरं धृत्वा संचरन्ते सदा शुभे ॥
एवं स त्रिजगन्नाथो राक्षसीरपि बोधयन् ।
बोधिमार्गे नियुज्यापि चारयति सदा शुभे ॥
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयसंख्येमित्याख्यातं मुनीश्वरैः ॥
तत्तस्य त्रिजगद्गर्तुः शरणं समुपाश्रिताः ।
ध्यात्वाप्युच्चार्य नामापि स्मृत्वापि भजताद्भवम् ॥
ये तस्य त्रिजगद्भर्तुः श्रद्धया शरणे स्थिताः ।
ध्यात्वाप्युच्चार्य नामापि स्मृत्वा भजन्ति सर्वदा ॥
ते सदा सद्गतिं यान्तिं न कदाचन ।
भद्रश्रीगुणसंपत्तिसमापन्ना भवन्त्यपि ॥
सदा सत्त्वहिताधाने सद्धर्मसाधनारताः ।
त्रिरत्नभजनं कृत्वा संप्रयायुः सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।

अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इतिसिंहलद्वीपराक्षसीपरिबोधनोद्धरण प्रकरणम् ॥
13. वाराणसी कृमि कीटोद्धारण प्रकरण
अथ गगनगंजो ऽसौ बोधिसत्त्वः कृतांजलिः ।
विश्वभुवं मुनीन्द्रं च प्रणत्वैवमवोचत ॥
भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः ।
नाद्यापिह समायाति कदागच्छेत्तदादिश ॥
इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः ।
गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥
ततः संप्रस्थितश्चासौ लोकेश्वरो विलोकयन् ।
वाराणस्यां समुद्धर्तुं सत्त्वान् समभिगत्च्छति ॥
दृष्ट्वा स प्राणिनो ऽनेकानसंख्येयान् सुदुःखितान् ।
सविण्मूत्रमृदालग्नांस्तिष्ठत्येवं विचिन्तयन् ॥
हा पापं कथमेतानि सविण्मुत्राश्रीतान्यहम् ।
कृम्यसंख्यसहस्त्राणि प्रोद्धरेयं प्रबोधयन् ॥
तत्र स चिन्तयन् मत्वा सत्त्वान् कृपया संविलोकयन् ।
भ्रमररुपमाधाय भर्मते तदुपाचरन् ॥
नमो बुद्धाय धर्माय संघायेति प्रणोदितम् ।
मधुरशब्दमुच्चार्य भ्रमते स वियच्चरन् ॥
तं खे भ्रमन्तमालोक्य सर्वे ते प्राणका अपि ।
तत्कलारावमाकर्ण्य चिन्तयन्येवमुत्सुकाः ॥
अहो ऽयं सुखवान् पक्षी भ्रमते खे ऽतियथेच्छया ।
किमनेन कृतं पुण्यं चरते सुखम् ॥
किमस्माभिः कृतं पापं येनामेध्याश्रिता वयम् ।
इति विचिन्त्य ते सर्वे कृमयस्तत्सुखेच्छिताः ॥
तद्विण्वमनुश्रुत्वा संतिष्ठन्ते तदुन्मुखाः ॥
तथा ते कृमयः सर्वे तन्नामस्मृतिभाविताः ।
तत्त्रिरत्ननमस्कारं धृत्वा तिष्ठन्ति चेतसा ॥
तथा चैवं समुच्चार्य त्रिरत्ननाम चेतसा ।
स्मृत्वा कृत्वा नमस्करं तिष्ठन्ति त्रिमणेर्मुदा ॥
एतत्पुण्यविलिप्तास्ते सर्वे संजातपक्षकाः ।
तत उड्डीय गंगायां निपतन्तस्त्यजन्त्यसून् ॥
ततस्ते विमलात्मानः संप्रयाताः सुखावतीम् ।
सर्वे सुगन्धमुखा नाम बोधिसत्त्वा भवन्त्यपि ॥
ते तत्रामितभासस्य पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य निर्वृपदमाप्नुयुः ॥
एवमसौ महासत्त्वो लोकेश्वरः कृमीनपि ।
प्रयत्नेन समुद्धृत्य प्रेषयति सुखावतीम् ॥

तथा तस्य जगच्छास्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
ये चास्य लोकनाथस्य श्रद्धया शरणे स्थिताः ।
ध्यात्वा स्मृत्वा समुच्चार्य नाम भजन्ति सर्वदा ॥
सदा ते सद्गतौ जाता दुर्गतौ न कदाचन ।
सद्धर्मश्रीसुखापन्नाः संप्रयायुः सुखावतीम् ॥
तत्रामिताअभनाथस्य पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संप्राप्स्यन्ति जिनालयम् ॥
इति मत्वा सदा भद्रसौख्यमिच्छन्ति ये भवे ।
ते ऽस्य त्रैलोकनाथस्य भजन्तु शरणे स्थिताः ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे समाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति वाराणसीकृमिकीटोद्धारणप्रकरणं समाप्तम् ॥
14. मागधिक सत्त्व प्रबोधनोद्धारण प्रकरण
अथ गगनगंजो ऽसौ बोधिसत्त्वः प्रमोदितः ।
विश्वभुवं मुनीन्द्रं तं प्रणत्वैवमुवाच च ॥
भगवन् स महाभिज्ञः कदेह समुपासरेत् ।
इदानीं क्व प्रयातो ऽसौ ह्येतदादेष्टुमर्हति ॥
इति संप्रार्थिते तेन विश्वभूः स मुनीश्वरः ।
बोधिसत्त्वं तमालोक्य सभां चाप्येवमब्रवीत् ॥
ततो ऽसौ त्रिजगन्नाथो वाराणस्यां विनिश्चरन् ।
सत्त्वान् पश्यन् समुद्धर्तुं मगधे ऽभिगतो ऽधुना ॥
तत्र स समुपाश्रित्य दुर्भिक्षपरिपीडितान् ।
नृमांसान्यपि भुंजानान् पिबतो रुधिराण्यपि ॥
परस्परं युध्यमानान् महापातकचारिणः ।
क्लेशाग्नितापितान् दुष्टान् संपश्यन्ननुपृच्छति ॥
कस्माद्यूयमिहान्योन्यं युद्धं कृत्वाविरोधिताः ।
नृमांसान्यपि भुक्त्वैवं पीत्वा नृरुधिराण्यपि ॥
क्लेशाग्निदहितात्मानो महापातचारिणः ।
भूतयक्षा इव क्षुराश्वरथैवमभद्रके ॥
इति तत्पृष्टमालोक्य सर्वे ते दुर्जना अपि ।
तत्पुण्यांशुपरिस्पृष्टा भवन्ति दमिताशयाः ॥
ततः सर्वे ऽपि ते तस्य पुरतः समुपाश्रिताः ।
तं समीक्ष्य महासत्त्वं निवेदयन्ति तद्वृतिम् ॥
साधो यदत्र दुर्भिक्षमहोत्पातं प्रवर्तते ।
तन्नात्र विद्यते किंचिदन्नं पानं च भोजनम् ॥
विंशतिवर्षंजातो स दहतिः प्रवर्तिता ।
तत्क्षुत्तृष्णाग्निसंदग्धाः सर्वे ऽतिक्लेशिता वयम् ॥
यदेवं क्लेशसंतप्ता दुःसहवेदनातुराः ।
निःस्नेहा निर्दयाः क्रूराश्चाण्डालवृत्तिचारिणः ॥

तदन्योन्यं निहत्यापि युद्धं कृत्वा दिवानिशम् ।
नृमांसान्यपि भुंजानाः पीत्वा नृरुधिराण्यपि ॥
कृत्वातिदारुणं कर्म महापातकचारिणः ।
स्वात्मानमेव संतृप्य पालयन्तश्चरामहे ॥
विंशतिवर्षपर्याप्तं कान्तारमिह वर्तते ।
अभक्ष्यान्यपि तद्भुक्त्वा पालयामः स्वजीवितम् ॥
तद्भवान् यदि शक्नोति दुर्भिक्षं शमयन्निह ।
कृत्वा सुभिक्षमस्माकं त्राता भवितुमर्हति ॥
इति तैः कथितं श्रुत्वा बोधिसत्त्वः स ऋद्धिमान् ।
गत्वा खे विविधं द्रव्यं प्रवर्षयति सर्वतः ॥
प्रथममौदकं वर्षं प्रवर्तितं समन्ततः ।
तद् दृष्ट्वा ते जनाः सर्वे साश्चर्यहर्षिताशयाः ॥
तद् मृतं सुखं पीत्वा यथेच्छया प्रमोदिताः ।
संतृप्तरिसन्तुष्टा भवन्ति प्रीणीताश्रयाः ॥
ततश्चासौ महाभिज्ञो भोग्यानि विविधानि च ।
सुपिष्टादीनि खाद्यानि वर्षयति समन्ततः ॥
तानि दृष्ट्वा च ते सर्वे समागृह्य यथेच्छया ।
प्रभुक्त्वा सुखमासाद्य तिष्ठन्ति विस्मयान्विताः ॥
यदाहारेअण संतृप्ताः सर्वे ते संप्रमोदिताः ।
तदा धान्यादिसर्वाणि व्रीहिशस्यानि वर्षयन् ॥
विविधानि च वस्त्राणि द्रव्याणि विविधान्यपि ।
सर्वाणि धातुरत्नानि सर्वाणि भूषणानि च ॥
वर्षयंस्तत्र सर्वत्र करोति तान् प्रमोदितान् ।
तद्दृष्ट्वा सकला लोका भवन्ति विस्मयान्विताः ॥
तानि सर्वाणि ते सर्वे दृष्ट्वादाय यथेच्छया ।
पूरयित्वा गृहे कोष्ठे भवन्ति प्रतिनन्दिताः ॥
यदा तेषामभिप्रायं सर्वेसामनुसिध्यते ।
तदा ते नन्दिताः सर्वे समेत्येकान्त आश्रिताः ॥
परस्परं समालोक्य साश्चर्यहर्षिताशयाः ।
अहो कस्यानुभावो ऽयमित्युक्त्वा समुपास्थिताः ॥
तदासौ त्रिजगच्छास्ता वृद्धमेकं महल्लकम् ।
सुदृष्ट्या समधिष्ठाय प्रेषयन्ति तदन्तिके ॥
तत्र स संचरन् वृद्धो जीर्णः कुब्जो महल्लकः ।
दण्डपरायणो गत्वा शनैः पश्चन्निषीदति ॥
तत्र मध्ये निषीत्वा स वृद्धस्तान् समुपाश्रितान् ।
सर्वांल्लोकान् समालोक्य कथयत्येवमानतः ॥
किं मन्यध्व इदं भद्रं जातं कस्यानुभावतः ।
कस्यापीदृक्प्रभावं हि नास्ति त्रैधातुकेष्वपि ॥
ज्ञायाअं ह्यनुभावो ऽयं लोकेशस्य जगत्प्रभोः ।
श्रूयतां वक्ष्यते तस्य प्रभावो ऽत्र मयाधुना ॥

यो लोकेश्वरो नाम बोधिसत्त्वो जिनात्मजः ।
महासत्त्वो महाभिज्ञस्त्रैधातुकाधिपेश्वरः ॥
स सर्वेषामपि त्राता नाथः शास्ता हितार्थभृत् ।
धर्मश्रीगुणसंपत्तिसुखभर्ता गुरुं प्रभुः ॥
अन्धानामपि सन्मार्गं दर्शयति प्रदीपवत् ।
सूर्यादितापदग्धानां छत्रीभूतः सुधांशुवत् ॥
तृषितानां नदीभूतः क्षुधितानां सुरद्रुमः ।
रोगिणां शल्यहृद्वैद्यः माता पिता च दुःखिनाम् ॥
नरकाभ्युओपपन्नानामुद्धर्ता निर्वृतिप्रदः ।
दरिद्रानां प्रदाता च शरण्यं शरणार्थिनाम् ॥
अगतीनां गतिर्बन्धुमित्रं द्विपः परायणः ।
किमेव बहुनाख्याय सर्वधर्माधिपो ऽप्यसौ ॥
सुखितास्ते महाभागा भद्राः सद्धर्मलाभिनः ।
ये ऽस्य त्रैधातुनाथस्य स्मृत्वा भजन्ति सर्वदा ॥
ते ऽपि धन्या महात्मानः सद्धर्मगुणलाभिनः ।
ये ऽस्य नाम समुच्चार्य भजन्ति श्रद्धया सदा ॥
ते भवदुःखनिर्मुक्ता निःक्लेशा विमलाशयाः ।
पूजांगैः श्रद्धयाभ्यर्च्य भजन्ति ये समादरात् ॥
ये चास्य मण्डलं कृत्वं समभ्यर्च्य यथाविधि ।
जपस्तोत्रप्रणामाद्यैर्भजन्ते शरणाश्रिताः ॥
ते भवन्ति महाराजा नरेन्द्राश्चक्रवर्तिनः ।
धर्मश्रीगुणसत्कीर्तिसप्तरत्नसमन्विताः ॥
सौम्याः सुगन्धिकायाश्च पूर्णगात्राः शुभेन्द्रियाः ।
जातिस्मराः सुभद्रांशाः सद्धर्मगुणसाधिनः ॥
एवं तस्य जगत्त्रातुः सद्गुणं वर्ण्यते कथम् ।
अप्रमेयमसंख्येमित्याख्यातं मुनीश्वरैः ॥
एवं तस्य महत्पुण्यस्कन्धमहत्तरं वरम् ।
यूयं विज्ञाय नामापि स्मृत्वा भजत सर्वदा ॥
ये चास्य श्रद्धया नित्यं स्मृत्वा ध्यात्वा समाहिताः ।
नामापि च समुच्चार्य भजन्ति शरणाश्रिताः ॥
दुर्गतिं ते न गच्छन्ति कदाचिदपि कुत्रचित् ।
सदा सद्गतिसंजाता भवन्ति श्रीगुणाश्रयाः ॥
कृत्वा भद्राणि सत्त्वानां भुक्त्वा सौख्यानि सर्वदा ।
बोधिचर्याव्रतं धृत्वा प्रान्ते यान्ति सुखावतीम् ॥
तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः ॥
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते जनाः ।
तथेति प्रतिनन्दित्वा व्रजन्ति स्वगृहं ततः ॥
सो ऽपि महल्लको वृद्धः सद्धर्मगुणविस्तरम् ।
समाख्याय समुत्थाय संप्रयाति स्वमालयम् ॥

तदा सर्वे ऽपि ते लोक मागधिकाः प्रबोधिताः ।
लोकेश्चरमनुस्मृत्वा भजन्ति सर्वदा मुदा ॥
तदारभ्य सदा तत्र सुभिक्षं संप्रवर्तितम् ।
सर्वे सत्त्वा यथाकामं भुक्त्वा चरन्ति सद्वृषे ॥
सर्वे ते विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
बोधिचर्याव्रतं धृत्वा संचरन्ते शुभे सदा ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वधर्माधिपः शास्ता बोधिसत्त्वः कृपानिधिः ॥
स्वयं सत्त्वान् समाअलोक्य पापिनो दुर्जनानपि ।
बोधयित्वा प्रयत्नेन चारयति शुभे व्रते ॥
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं जिनैरपि ॥
तेनासौ त्रिजगन्नाथः सर्वत्रैधातुकाधिपः ।
सर्वर्माभिसंभर्ता बोधिश्रीगुणरत्नभृत् ॥
सर्वैर्मुनीश्वरैश्चापि प्रशंसितो ऽभिसंष्टुतः ।
सर्वैर्लोकाधिपैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥
इत्येवं तस्य सद्धर्मगुणमाहात्म्यमुत्तमम् ।
विज्ञाय स्मरणं धृत्वा भजन्तु बोधिवांछिनः ॥
ये तस्य शरणे स्थित्वा स्मृत्वा ध्वात्वापि चेतसा ।
नामोच्चार्याभिवन्दित्वा स्तुत्वा भजन्ति सर्वदा ॥
दुर्गतिं ते न गच्छन्ति क्वचिदपि कदाचन ।
सदा सद्गतिसंजाता भवन्ति बोधिचारिणः ॥
बोधिचर्याव्रतं धृत्वा सर्वसत्त्वहितोद्यताः ।
बोधिश्रीगुणसंपन्नाः संप्रयान्ति सुखावतीम् ॥
तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इति यूयमपि ज्ञात्वा स्मृत्वा तं त्रिगुणाधिपम् ।
ध्यात्वा स्मृत्वाभिवन्दित्वा भजध्वं सर्वदादरात् ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति मागधिकसत्त्वप्रबोधनोद्धारणप्रकरणं समाप्तम् ॥
15. श्रीजेताराम विश्वभू दर्शन सुखावती प्रत्युद्गम प्रकरणम्
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
सांजलिः श्रीघनं नत्वा समालोक्यैवमब्रवीत् ॥
भगवन् स महासत्त्वो लोकेश्वरस्ततश्चरन् ।
कुत्र सत्त्वान् समुद्धर्तुं संप्रयातस्तदादिश ॥
इति तदुक्तमाकर्ण्य भगवन् स मुनीश्वरः ।
सभां विष्कम्भिनं तं च समालोक्यैवमादिशत् ॥
ततो ऽप्यन्तर्हितश्चासौ लोकेश्वरो वियद्गतः ।
संभासयन् जगल्लोकं स्थित्वा चैवं व्यचिन्तयत् ॥

जेतारामे विहारे ऽद्य सर्वदेवासुरादयः ।
लोकाः समेत्य सद्धर्मं श्रोतुं सभासमाश्रिताः ॥
अहमपि मुनीन्द्रं तं विश्वभुवं जगद्गुरुम् ।
वन्दितुं तस्य धर्मं च श्रोतुं गच्छेयं साम्प्रतम् ॥
इति ध्यात्वा स लोकेश्वरः प्रभासयन् समन्ततः ।
प्रह्लादयन् जगल्लोकं जेताराममुपाचरत् ॥
तत्र स समुपाविश्य संपश्यन्स्तं मुनीश्वरम् ।
सर्वावतीं सभां तां च संभासयन्नुपासरत् ॥
तं दृष्ट्वा समुपायातं गगनगंज उत्थितः ।
उपेत्य तं मुनिं नत्वा सांजलिरेवमब्रवीत् ॥
भगवन्नयमायातः कतमस्सुगतात्मजः ।
बोधिसत्त्वो जगल्लोकं प्रभासयन् समागतः ॥
इति तत्पृष्टमालोक्य विश्वभूः स मुनीश्वरः ।
लोकेश्वरो ऽयमायात इति पश्यन्स्तमब्रवीत् ॥
तत्रोपेत्य स लोकेशो बोधिसत्त्वो विलोकयन् ।
त्रिधा प्रदक्षिणीकृत्य विश्वभुवो जगद्गुरोः ।
सांजलिः प्रणतिं कृत्वा वामपार्श्वे समाश्रयत् ॥
कच्चिते कुशलं काये श्रान्तः क्लान्तश्च मास्यपि ।
इत्येवं कुशलं पृष्ट्वापृच्छत् स भगवान् पुनः ॥
कुलपुत्र त्वया कुतेर सत्त्वाः समुद्धृताः ।
कियन्तो बोधयित्वा च नियुज्य स्थापिता शुभे ॥
इति पृष्टे मुनीन्द्रेन लोकेश्वरः स आदितः ।
विस्तरेण मुनीन्द्रस्य पुर एवं न्यवेदयत् ॥
प्रेतलोकेषु ये सत्त्वाः प्रेताः सूचीमुखादयः ।
ते ऽपि सर्वे मयोद्धृत्य संप्रेषिताः सूखावतीम् ॥
ये चावीचौ निमग्नास्ते सर्वे मया समुद्धृताः ॥
कालसूत्रे च ये सत्त्वा ये चापि रौरवाश्रिताः ।
हाहे च तपने ये च शीतोदके चये स्थिताः ॥
असिच्छदे च ये सत्त्वाः संवृते चापि ये स्थिताः ।
एवमन्यत्र सर्वत्र नरकेषु समास्थिताः ॥
ते ऽपि सर्वे मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥
ये चापि पापिनो दुष्टास्ते ऽपि मया प्रयत्नतः ।
बोधयित्वा प्रतिष्ठाप्य बोधिमार्गे नियोजिताः ॥
तथा कांचनभूम्यां च सत्त्वा ये ऽधोमुखाः ।
अपि ते सर्वे ऽपि मया यत्नाद् बोधिमार्गे नियोजिताः ॥
तथा रुपमयीभूम्यां सत्त्वाः पुरुषपुंगलाः ।
ते ऽपि मया प्रयत्नेन बोधिमार्गे नियोजिताः ॥
ततश्चायोमयीभूम्यां पाताले निवसन्ति ये ।
बलिप्रमुखदैत्याश्च दुर्दान्ता मदमानिनः ॥
ते ऽपि सर्वे मया यत्नाद् बोधयित्वा प्रसादिताः ।

बोधिमार्गे प्रतिष्ठाप्य चारयित्वा जगद्धिते ॥
तमो ऽन्धकारभूम्यं च ये सत्त्वा यक्षराक्षसाः ।
ते सर्वे बोधिमार्गेषु बोधयित्वा नियोजिताः ॥
शुद्धावासे देवलोके सुकुण्डलादयो ऽमराः ।
बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजिताः ॥
ततः सिंहलद्वीपे च राक्षस्यो ऽपि प्रयत्नतः ।
बोधयित्वा बोधिमार्गे सर्वाः स्थापिता मया ॥
वाराणस्यां च ये ऽमेध्यनिमग्नाः कृमयो ऽपि ते ।
सर्वे मया समृद्धृत्य संप्रेषिताः सुखावतीम् ॥
ततो मागधिका लोका दुष्टा अपि प्रयत्नतः ।
बोधयित्वा बोधिमार्गे नियुज्य पालिता मया ॥
एवमन्ये ऽपि सत्त्वाश्च दुष्टाः पातकिनो ऽपि ते ।
सर्वे मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥
एवं भूताः पिशाचाश्च प्रेताश्चापि निशाचराः ।
सर्वे पापिनो मग्नाः सर्वेषु नरकेष्वपि ।
मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥
तिर्यंचो ऽपि सर्वे सद्गतौ स्थापिता मया ।
ते ऽपि मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥
एवं नागाश्च दैत्याश्च यक्षगन्धर्वकिन्नराः ।
कुम्भाण्डा राक्ष्यश्चापि दुष्टा दर्पाभिमानिनः ॥
ते ऽपि सर्वे प्रयत्नेन बोधिमार्गे मयेरिताः ॥
एवं च मानवा दुष्टाः पापिष्ठा अपि यत्नतः ।
शोधयित्वा समालोक्य बोधिमार्गे नियोजिताः ॥
एवं दिव्यसुखारक्ता देवाश्चापि प्रयत्नतः ।
बोधयित्वा मया सर्वे बोधिमार्गे नियोजिताः ॥
एवं सर्वे ऽपि सत्त्वाश्च त्रैधातुकनिवासिनः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
एवं सर्वान् समालोक्य समुद्धृत्य समन्ततः ।
भवतां दर्शनं कर्तुमिहाहमागतो ऽधुना ॥
भवतां दर्शनं प्राप्य साfअल्यं मे परिश्रमम् ।
इतो ऽहं भगवंच्छास्ता गमिष्यामि सुखावतीम् ॥
भवानिह समाश्रित्य पुण्याभैर्भासयन् जगत् ।
सद्धर्मम् सर्वदादिश्य विहरतु जगद्धिते ॥
इति तेन समाख्यातं श्रुत्वा स संप्रहर्षितः ।
गगनगंज आलोक्य लोकेशमेवमव्रवीत् ॥
अहो ईदृक्महाभिज्ञं दृष्टं श्रुतं न कस्यचित् ।
संबुद्धानां न विद्यन्ते तत्कस्यान्यस्य विद्यते ॥
इत्युक्त्वा स महासत्त्वो गगनगंज उत्थितः ।
तस्य लोकेश्वरस्याग्रे सांजलिः समुपाचरन् ॥
मा त्वं श्रान्तो ऽसि लोकेश कच्चित्ते कौशलं तनौ ।

इति पृष्ट्वा पदाम्भोजे नत्वा पश्यन् समाश्रितः ॥
इत्येवं तेन संपृष्टे लोकेश्वरो निशम्य ते ।
गगनगंजमालोक्य सस्मित एवमब्रवीत् ॥
नात्राहं भवतां मध्ये श्रान्तः क्लिष्टो ऽपि वा चरे ।
भवतां दर्शनेनापि कौशल्यं मम सर्वतः ॥
इति तेन समादिष्तं निशम्य संप्रमोदितः ।
गगनगंज आलोक्य तं लोकेशमभाषत ॥
सदात्रास्मद्धिते शास्तर्विहरस्व कृपामते ।
भवद्धर्मामृतं पीत्वा करिष्यामो जगद्धितम् ॥
इति तदुक्तमाकर्ण्य लोकेश्वरो जिनात्मजः ।
गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥
नाहं सदेह तिष्ठेयं सर्वत्रापि चरेय हि ।
यथा मया प्रतिज्ञातं कर्तव्यं तज्जगद्धितम् ॥
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
तत्सत्त्वान् समुद्धृत्य शोधयित्वाभिबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य गमिष्यामि सुखावतीम् ॥
तद्भन्तः सदाप्येवं संबुद्धशरणाश्रिताः ।
बोधिचर्याव्रतं धृत्वा विहरन्तु जगद्धिते ॥
सदा वो मंगलं भूयात्कार्ये संबोधिसाधने ।
संसिध्यतु जगद्भद्रसाधनश्रीः समृद्ध्यतु ॥
इत्यादिष्टं जगद्भर्त्रा श्रुत्वा स संप्रहर्षितः ।
गगनगंज एनं च समालोक्यैवमब्रवीत् ॥
भवतामपि सिध्यन्तु कार्याणि त्रिजगद्धिते ।
मंगलं च सदा भूयात् संबोधिश्रीः समृद्ध्यतु ॥
इत्येवं तौ महासत्वौ पृष्ट्वान्योन्यं सकौशलम् ।
मिथौ भद्राशिषं दत्वा तूष्णीभूत्वावतिष्ठतुः ॥
तदासौ भगवांच्छास्ता विश्वभूस्तान् सभाश्रितान् ।
सर्वांल्लोकान् समालोक्य सद्धर्मं समुपादिशत् ॥
शृण्वन्तु कुलपुत्रा यत्संबोधिज्ञानसाधनम् ।
सद्धर्मं तन्मयाख्यातं सत्त्वानां भद्रकारणम् ॥
प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये ।
संबोधिं प्रणिधिं कृत्वा कर्तव्यं दानमीप्सितम् ॥
ततो विरम्य पापेभ्यो दशभ्यो ऽपि समादरात् ।
शुद्धशीलं समाधाय चरितव्यं सुसंवरम् ॥
ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः ।
क्षान्तिव्रतं सदा धृत्वा चरितव्यं जगद्धितम् ॥
ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने ।
पापमित्रारतिं त्यक्त्वा साधनीयं महद्गुणम् ॥
ततो दुष्टाशयं त्यक्त्वा कामभोग्यविरागिना ।

सुधीरचित्तमाधाय ध्यातव्यं त्रिजगद्धितम् ॥
ततो दुर्मित्रसंरागं त्यक्त्वा संबोधिरागिना ।
प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे ॥
एताः पारमिताः षड् वा पूरयित्वा यथाक्रमम् ।
सर्वान् मारगणान् जित्वा संबोधिज्ञानमाप्स्यते ॥
तत एवं महाभिज्ञश्रीईसंपद्वीर्यसद्गुणैः ।
सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यते ॥
एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ ।
एवं पारमिताः सर्वाः पूरयध्वं यथाक्रमम् ॥
संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः ।
त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥
एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः ।
अर्हन्तः प्राप्य संबोधिं संबुद्धपदमाप्स्यथ ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे लोकाः सभासीनस्तथेत्यभ्यनुमोदिताः ॥
विश्वभुवं मुनीन्द्रं तं तन्त्रलोकाधिपेश्वरम् ।
कृतांजलिपुटा नत्वा स्वस्वालयं ययुर्मुदा ॥
ततो लोकेश्वरो गत्वा खे ऽग्निपिण्ड इवोज्जवलन् ।
संभासयन् जगल्लोकं द्रुतं सुखावतीं ययौ ॥
इत्येवं त्रिजगत्त्रातुर्लोकेशस्य महात्मनः ।
विश्वभुवा समादिष्टं महाभिज्ञं मया श्रुतम् ॥
दृष्टं चापि तथा तस्य लोकेशस्य जगत्प्रभोः ।
महाभिज्ञानुभावत्वं मया तद्वो निगद्यते ॥
एवं तस्य महाभिज्ञं मत्वा यूयं समादरात् ।
ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवम् ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा ।
नामापि च समुच्चार्य भजन्ति बोधिमानसाः ॥
दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे ।
सदा सद्गतिसंजाताः सद्धर्मगुणसाधिनः ॥
भद्रश्रीगुणसंपत्तिसमृद्धिसिद्धिभाविनः ।
सदा लोके शुभं कृत्वा प्रान्ते यायुः सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति श्रीजेतारामविश्वभूदर्शनसुखावतीप्रत्युद्गमप्रकरणं समाप्तम् ॥
16. सिंहल सार्थवाहोद्धारण प्रकरणम्
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
श्रीघनं तं पुनर्नत्वा सांजलिरेवमब्रबीत् ॥
भगवन् यदसौ श्रीमदार्यावलोकितेश्वरः ।

बोधिसत्त्वो महासत्त्वस्त्रैधातुकाधिपेश्वरः ॥
सर्वान् सत्त्वान् स्वयं पश्यन् त्रिधातुभुवनेष्वपि ।
समुद्धृत्याभिसंबोध्य प्रेषयति सुखावतीम् ॥
पापिनो ऽपि समालोक्य स्वयमुद्धृय बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संचारयते संवरम् ॥
तत्कथं स महासत्त्वः समुद्धृत्याभिशोधयन् ।
कृत्वा शुद्धेन्द्रियान् सर्वान् प्रेषयति सुखावतीम् ॥
केनोपायेन पापिष्ठान् दुष्टानपि प्रबोधयन् ।
बोधिमार्गे नियुज्यापि प्रचारयनि संचरन् ॥
कथं सुदुःखिनः सर्वान् करोति सत्सुखान्वितान् ।
दरिद्रान् दुर्भगान् दीनान् धनिनः सुभगान् सतः ॥
दुर्दान्तान् दानवान् यक्षान् राक्षसान् राक्षसीरपि ।
बोधिमार्गे प्रतिष्ठाप्य चारयति कथं व्रतम् ॥
तदुपायं समाख्यातुं सत्त्वानां हितसाधनम् ।
येनोपायेन स सर्वान् करोति बोधिभागिनः ॥
इति संप्रार्थिते तेन विष्कम्भिना सुभाविना ।
भगवान् स तमालोक्य सभां चाप्येवमादिशत् ॥
कुत्रपुत्र स लोकेशो महोपायविधानवित् ।
येन सत्त्वान् समुद्धृत्य करोति बोधिभागिनः ॥
समाअधिस्तस्य प्राज्ञस्य महोपायो जगद्धिते ।
येन स सहसोद्धृत्य योजयति शुभे जगत् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स विस्मिताशयः ।
विस्कम्भी भगवन्तं तं प्रार्थयदेवमादरात् ॥
भगवांस्तत्समाधिं मे समुपादेष्टुमर्हति ।
येन सहसोद्धृत्य चारयते शुभे जगत् ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
बहवस्तस्य विद्यन्ते कुलपुत्र समाधयः ।
यैः स सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
अप्रेमेयैरसंख्येयैः सर्वाकारकरादिभिः ।
समाधिभिः समापन्नो भवति स जगत्प्रभुः ॥
धारणीनां च विद्यानां परमाणां सहस्रकैः ।
अप्रमेयैरसंख्येयैः समापन्नो विराजते ॥
एतेषामनुभावैः स समुद्धृत्य भवोदधेः ।
बोधिमार्गे प्रतिष्ठाप्य पालयति जगत्त्रयम् ॥
एतत्पुण्यानुभावैः स लोकेश्वरो महर्द्धिमान् ।
शोधयित्वा जगत्सत्त्वं चारयति सुसंवरम् ॥
एवं तस्य जगत्त्रातुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
तेनासौ त्रिजगच्छास्ता सर्वत्रैधातुकेश्वरः ।

सर्वधर्माधिपो नाथो जगत्त्रातेति कथ्यते ॥
तेन तस्य भये दुःखे रक्षा न क्रियते क्वचित् ।
सर्वत्रापि सदा रक्षा क्रियते सर्वप्राणिनाम् ॥
नानोपायविधानेन समुद्धृत्य प्रबोधयन् ।
बोधिचर्याव्रतं दत्वा प्रापयति सुखावतीम् ॥
एवमसौ महासत्वो बोधिसत्त्वो महर्द्धिमान् ।
सर्वसत्त्वहित्तं कृत्वा संचरते समन्ततः ॥
अहमपि पुरा तेन संरक्षितो महाभयात् ।
यन्ममैतत्पुरावृत्तं शृणुध्वं वक्ष्यते ऽधुना ॥
तद्यथा सिंहकल्पायां राजधानां वणिक्प्रभोः ।
सिंहस्य सार्थवाहस्य पुत्रो ऽभूत् सिंहलाभिधः ॥
बाल्ये ऽपि स महासत्त्वः सर्वसत्त्वहिताशयः ।
दिव्यातिसुन्दरः कान्तः सर्वसत्त्वमनोहरः ॥
कौमार्ये ऽपि स सर्वासां विद्यानां पारमागतः ।
सर्वसत्त्वहितं कृत्वा रेमे सुहृत्सहायकैः ॥
दत्वार्थिभ्यो यथाकामं श्रुत्वा नित्यं सुभाषितम् ।
गुरुणां सत्कृतिं कृत्वा कुलधर्माभिसंरतः ॥
स्वकुलदेवतादीन् च सर्वान् देवान् समर्चयन् ।
मानयन् सकलांल्लोकान् भृत्यान् दासान् च तोषयन् ॥
ज्ञातिबन्धुसुहृन्मित्रसचिवान् चाभिनन्दयन् ।
यथाकामं सुखं भुक्त्वा रेमे पित्रोरनुज्ञया ॥
ततो नूतनयौवन्ये प्रौढः पुष्टांगिकः कृती ।
शूरो धीरः समुत्साही व्यवहारविचक्षणः ॥
मेधावी सद्गुणारक्तः सर्वविद्याविशारदः ।
यदुपचार आत्मज्ञः सत्यधर्मयशो ऽर्थभृत् ॥
यथामूल्यं समादाय द्रन्यं दत्वा वणिग्जनान् ।
सर्वान्विनीय संस्थाप्य स्ववशे ऽभ्यन्वमोदयत् ॥
सर्वेषामपि रत्नानां परीक्षासु विचक्षणः ।
सार्थवाहान् वणिग्नाथानपि सर्वान् व्यनोदयत् ॥
एवं स सकलांल्लोकान् धर्मश्रीगुणविक्रमैः ।
जित्वा राजेव सन्नीत्या विहरन्नभ्यराजत ॥
तस्यैतद्गुणसंपत्तिं दृष्ट्वेर्ष्यालुर्वणिक्कुधीः ।
रहसि तं समागम्य सुहृद्वदेवमब्रवीत् ॥
साधो धन्यो ऽसि सत्पुत्रः सर्वलोकाभिनन्दनः ।
तत्कुलर्जितसंवृत्तौ चरन् धर्मार्थमर्जय ॥
इति तेनोदितं श्रुत्वा सिंहलः स विचक्षणः ।
को कुलार्जितसंवृत्तिस्तद्वक्तुं मे त्वमर्हति ॥
इति तेनोदितं श्रुत्वा स ईर्ष्याकुलिताशयः ।
सिंहलं तं समालोक्य बोधितुमेवब्रवीत् ॥
जनकस्ते महाभाग सार्थवाहो वणिक्पतिः ।

सदा रत्नाकरे गत्वा सो धयति सुसंपदे ॥
धन्यास्ते एव सत्पुत्रा ये कुलधर्मचारिणः ।
अन्ये किंपुरुषास्ते हि भुक्त्वैव गृहचारिणः ॥
पितुर्द्रव्यं समादाय दत्वार्थिभ्यो न ते fअलम् ।
स्वार्जितमेव तन्दद्याद्यशोधर्मार्थसिद्धये ॥
तत्त्वं कुलार्जितां वृत्तिं दधानः श्रीगुणोत्साहः ।
अब्धौ रत्नाकरे गत्वा रत्नद्रव्याणि साधय ॥
ततो गृहं समागत्य दत्वार्थिभ्यो यथेप्सितम् ।
यथाकामं सुखं भुक्त्वा संचरस्व यशो ऽन्वितः ॥
एवं श्रीगुणसंपत्तियशोधर्मासुखान्वितः ।
स्वकुलवृत्तिसंचारमहोत्साहैः सदा रम ॥
एवं तदुक्तमाकर्ण्य सिंहलः स प्रबोधितः ।
समुद्रं गन्तुमुत्साहं प्रवर्धयन् मुदाचरत् ॥
ततः स सिंहलो ऽम्भोधियात्रां गन्तुं समुत्सुकः ।
सार्थवाहात्मजान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥
भवन्तो ऽहं समिच्छामि गन्तुं रत्नाकरे ऽधुना ।
भवतां यदि वांछास्ति प्रागच्छन्तु मया सह ॥
इति तदुक्तमाकर्ण्य सर्वे ते वणिगात्मजाः ।
तथेति प्रतिनन्दतः सहर्षमेवमब्रुवन् ॥
सार्थवाह समिच्छामो गन्तुं रत्नाकरे वयम् ।
यदस्माकं भवान्नेता तदन्वाहर्तुमर्हति ॥
इति तैः सह संभाष्य स सिंहलः समुन्मनाः ।
पितुः पादाम्बुजे नत्वा सांजलिरेवमब्रवीत् ॥
ततो ऽहं गन्तुमिच्छामि रत्नाकरे महाम्बुधै ।
तद्भवान् सुदृशा मह्यमनुज्ञां दातुमर्हति ॥
इति पुत्रोदितं श्रुत्वा सिंहः सः सार्थभृत्पिता ।
स्वात्मजं तं समालोक्य सुचिन्तादेवमब्रवीत् ॥
पुत्र शृणु हितं वाक्यं मयोदितं त्वयात्मज ।
यत्तावत् सुकुमारो ऽसि तत्कथमम्बुधौ व्रजेः ॥
तावन्मे ऽस्ति महासंपन्मया कष्टैरुपार्जिता ।
सर्वा एतास्तवाधीना भुक्त्वा रम यथेच्छया ॥
यावज्जीवाम्यहं पुत्र तावद्गृहे सुखं रमन् ।
यथाकामं प्रभुज्यैवं संचरस्व यथेप्सिते ॥
तत्रैव च महाम्भोधौ तावन्मा व्रजथाः क्वचित् ।
मृते ऽपि मयि तत्राब्धौ गन्तुं नेह कदाचन ॥
यावद्द्रव्ये गृहे पूर्णे तावन्मा गाः कुहापि च ।
यदा क्षीणे गृहे द्रव्यं तदापि स्वगृहे ऽर्जय ॥
सर्वदापि त्वया पुत्र महाम्बुधै सुदुस्तरे ।
गन्तुं नैवाभिवाछां ते भवेद्वांछास्ति ते यदि ॥
किमेव बहुभिर्द्रव्यैः क्लेश एव यदुद्भवेत् ।

क्लेशिना हि सदा दुःखं संसारे सुखता कुतः ॥
बहुद्रव्यवतां नित्यं क्लेशदुःखमहद्भयम् ।
तन्निरर्थं बहुद्रव्यं साधने मा समुद्यम ॥
यदर्जितं बहुद्रव्यं गृहे ऽस्ति तावदात्मज ।
एतत्सर्वं तवाधीनं तत्किमर्थत्वमर्जितुम् ॥
एततसर्वं त्वमादाय दत्वार्थिभ्यो यथेच्छया ।
यथाकामं स्वयं भुक्त्वा यावज्जीवं सुखं चर ॥
इति पित्रा समादिष्टं श्रुत्वात्नजस्स सिंहलः ।
जनकं तं समालोक्य पुनरेवं न्यवेदयत् ॥
सत्यमेव त्वयादिष्टं तथापि श्रूयतां मम ।
अभिप्रायं प्रवक्ष्यामि श्रुत्वानुबुध्यतां पितः ॥
विधिना प्रेरितो यत्र जातस्तद्वृत्तिसाधितैः ।
धर्मविद्यागुणद्रव्यसंपद्भिरेव शोभते ॥
तदन्यथार्जितैरेतैर्धर्मविद्यागुणादिभिः ।
सर्वद्रव्यैः समापन्नः पुमानपि न शोभते ॥
यदहं कर्मणा जातः सार्थवाहकुले तथा ।
तत्कुलवृत्तिविभ्राणः संचरितुं समुत्सहे ॥
तदहं स्वकुलाचारवीर्योत्साहाभिमानभृत् ।
गत्वा रत्नाकरे ऽप्यब्धौ रत्नायर्जितुमुत्सहे ॥
स्वयमेवार्जितं द्रव्यं दत्वार्थिभ्यो यथेप्सितम् ।
भुक्त्वैव स्वजनान् बन्धूनपि संभर्तुमुत्सहे ॥
इत्येवं स कुलाचारवृत्तिधर्मार्थसाधिनम् ।
स्वात्मजं मां समालोक्य प्राभिनन्दितुमर्हसि ॥
निवारणा न कार्यात्र मम धर्मार्थसाधने ।
त्वयानुज्ञाप्रदानेन नन्दनीयो ऽहमात्मजः ॥
यदि दैवाद्विपत्तिः स्यात् सर्वतीर्थाधिपे ऽम्बुधौ ।
पतित्वा सर्वमुत्सृज्य संप्रयायां सुरालयम् ॥
तथापि मां महत्पुण्यकीर्त्तिः संशोधयेत् कुलम् ।
इति विज्ञाय मे तात ह्यनुज्ञां दातुमर्हति ॥
गृहे ऽपि नो भवेदेव विपित्तिर्दैवयोगतः ।
अवश्यंभाविनो वा भवेयुरेव सर्वतः ॥
इति शंकाविषं हित्वा सद्धर्मस्मृतिमानसः ।
धर्मार्थसाधने नित्यं महोत्साही समाचरेत् ॥
अथाहं क्षमकौशल्यं संपन्नो निरुपद्रवः ।
रत्नश्रीसुखसंयुक्तं संप्रायां स्वगृहे मुदा ॥
तदा किमुच्यते सौख्यं यशोधर्मोत्सवान्वितम् ।
दत्वार्थिभ्यो यथाकामं भुक्त्वा शुभे चरेमहि ॥
ततो ऽस्मत्कुलजाश्चापि धर्माचारसमन्विताः ।
दत्वार्थिभ्यो यथाकामं भुक्त्वा यायुः सुरालयम् ॥
एतत्सत्यमिति ज्ञात्वा यदीच्छसि हितं मम ।

सुदृशानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥
यद्यनुज्ञां ददासि न वियोगो नौ भवेद्ध्रुवम् ।
मृत्युर्हि सर्वजन्तूनां सर्वत्रापि पुरः सदा ॥
इति पुत्रोदितं श्रुत्वा सिंहः पिता स बोधितः ।
आत्मजं तं समालोक्य सिंहमेवमब्रवीत् ॥
यद्येवं निश्चयं पुत्र समुद्रे गन्तुमिच्छसि ।
तव निर्बन्धितं चितां वारयितुं न शक्यते ॥
तद्गच्छ ससहायस्त्वं मार्गे ऽरण्ये वने ऽम्बुधौ ।
महाभयानि विद्यन्ते तत्समीक्ष्य समन्ततः ॥
शीतवातातपादीनि दुःखानि दुःसहान्यपि ।
सहित्वा धैर्यमालम्ब्य शनैर्व्रजाभिलोकयन् ॥
सिध्यतु ते विसंयात्रा भूयात् सर्वत्र मंगलम् ।
यथा हि वांछितं द्रव्यं गृहीत्वायाह्यविघ्नतः ॥
इति पित्राभ्यनुज्ञाते सिंहलः संप्रमोदितः ।
पित्रोः पादान् प्रणत्वैव सहसा गन्तुमारभेत् ॥
तदा माता समालिंग्य सिंहलं तं प्रियात्मजम् ।
रुदन्त्यश्रुभिर्लिप्तास्या विलपन्त्यैवमब्रवीत् ॥
हा पुत्र मां परित्यज्य कथं गन्तुं त्वमिच्छसि ।
नान्यो मे विद्यते कश्चिदेक एव त्वमात्मजः ॥
हा जिवननन्दनो मे ऽसि वल्लभो हि न चापरः ।
हा प्राण मातारि स्नेहः कथं ते विद्यते न हि ॥
यदा गर्भप्रविष्टो मे तदारम्भ समादरात् ।
मया सदाभिनन्दन्त्या संपाल्यसे प्रयत्नतः ॥
जायमानो ऽपि संदृष्ट्वा मया संपालितो मुदा ।
बाल्ये ऽपि च सदालोक्य संपाल्य परिपुष्यसे ॥
कौमार्ये ऽपि समाराध्य सहानन्देन वर्द्धितः ।
मया संपालितः प्रौढभूतो ऽसि नवयौवनः ॥
इदानीं त्वं युवा भूत्वा कथं मां त्यक्तुमिच्छसि ।
पुत्रः स्वां मातरं वृद्धां रक्षदेव त्यजेन्न तु ॥
इदानीं कथमेवं त्वं निःस्नेहश्चरसे मयि ।
हा पुत्र कथं मे को मां जीर्णितां त्यक्तुमर्हति ॥
यावज्जीवाम्यहं पुत्र कुत्रापि मा व्रजो ऽन्यतः ।
यथाकामं सुखं भुक्त्वा संचरस्व गृहे रमन् ॥
मृतायां मयि ते पुत्र यत्रेच्छा वर्तते तदा ।
तत्र गत्वा यथाकामं कुरु धर्मार्थसाधनम् ॥
इति मात्रोदितं श्रुत्वा सिंहलः स विनोदितः ।
मातरं तां विलपन्तीं समाश्वस्यैवमब्रतीत् ॥
मा रौत्सीः किं विषादं ते धैर्यमालम्ब्य मा शुचः ।
विधिना प्रेरितो यत्र तत्रावश्यं गतिर्भवे ॥
यदभावि भवेत्तत्र सर्वत्रापि भवे सदा ।

भावि चेदृग्भवेदेव नैवान्यथा क्वचिद् भवेत् ।
अवश्यंभाविनो भावा भवन्त्येव हि नान्यथा ।
सर्वेषामपि जन्तूनां षड्गतिभवचारिणाम् ॥
सर्वेषांश्चापि जन्तूनां सर्वत्र मृत्युरग्रतः ।
संपत्तिश्च विपत्तिश्च स्वस्वदैवानुयोगतः ॥
इति विज्ञाय किं मातविर्योगदुःखशंकया ।
अवश्यमेव सर्वेषां वियोगं भवचारिणाम् ॥
इति मे ऽत्र महत्कार्ये कुलधर्मार्थसाधने ।
रुदित्वैवं निवारन्ती विघ्नं कर्तुं न चार्हसि ॥
यदि ते ऽस्ति मयि स्नेहो पश्यन्ती सुदृशैव माम् ।
दत्वा भद्राशिषं मह्यमनुज्ञां दातुमर्हसि ॥
ममार्थे देवतां स्मृत्वा प्रार्थयन्ती सुमंगलम् ।
पित्रा सह सुखं भुक्त्वा पालयन्ती गृहे वस ॥
अचिरेणागमिष्यामि तन्मे स्मृत्वापि मा शुचः ।
विमुचं मा विषादं च प्रसीदाहं व्रजानि हि ॥
इत्युक्त्वा स महासत्त्वो मातरं संविनोदयन् ।
गाढाभिलिंगनान्मुक्तः प्रणत्वैव ततो ऽचरत् ॥
ततः स नगरे तत्र घण्टाघोषमचारयत् ।
सिंहलः सार्थवाहो ऽब्धौ रत्नाकरे व्रजेदिति ॥
तद्घण्टाघोष्णं श्रुत्वा पंचवणिक्श्तान्यपि ।
तथा रत्नाकरे तेन सह गन्तुं समीच्छिरे ॥
ततस्ते वणिजस्सर्वे समील्य सहसा मुद्रा ।
सिंहलस्य पुरो गत्वा प्रार्थयन्नेवमानताः ॥
सार्थवाह वयं सर्वे सार्थवाहात्मजा अपि ।
रत्नाकरे त्वया सार्धं गन्तुमिच्छामहे खलु ॥
यत्सर्वणिजां नेता सार्थवाहात्मजा भवान् ।
तन्नानुग्रहमाधाय समन्वाहर्तुमर्हति ॥
इति तैः प्रार्थिते सर्वैः स सिंहलो महामतिः ।
सर्वांस्तान् समुपामन्त्र्य संपश्यन्नेवमब्रवीत् ॥
भो भवन्तः समिच्छन्ति यद्यागन्तुं मया सह ।
तत्सर्वं पण्यमादाय समायान्तु व्रजामहे ॥
इति तेनोदितं श्रुत्वा सर्वे ते संप्रहर्षिताः ।
सहसा स्वस्वगृहं गत्वा ज्ञातीन् सर्वान् विनोदयन् ॥
लब्धानुज्ञाः पितुर्मातुर्धृत्वा स्वस्त्ययनं मुदा ।
सर्वे ते पण्यमादाय संप्रस्थिताः समाचरन् ॥
सो ऽपि महाअसत्त्वः धृवा स्वस्त्ययनं मुदा ।
पित्रोः पादान् प्रणत्वा च पण्यमादाय प्रस्थितः ॥
तत्र तान् वणिजः सर्वान् दृष्टवा स समुपाचरन् ।
संमील्य संमतं कृत्वा संप्रस्थितो मुदाचरत् ॥
तत्र सो ऽनुगतान् सर्वान् बन्धुमित्रसुहृज्जनान् ।

संबोधयन् समालोक्य संनिर्वार्य न्यवर्तयत् ॥
ततः संसंचरन् पंचवणिक्शतैः समन्वितः ।
अनेकैर्गर्दभैर्गोभिरुष्ट्रैश्च भारवाहकैः ॥
सामुद्रपण्यभारात्तैः शनैः संप्रस्थितः क्रमात् ।
ग्रामारण्यवनोद्याननिगमपत्तनानि च ॥
नगरराज्यसौराष्ट्रराजधानीप्युरादिषु ।
चंचूर्यमाण आलोक्य समुत्साहैः समाचरत् ॥
ततो देशान्तरे ऽरण्यकान्तारशैलपर्वतान् ।
शनैश्चरन् विलंघ्यापि सुदूरविपिने ययौ ॥
तत्र प्राप्ता विषण्णास्ते सर्वे त्रासविषादिताः ।
भग्नोत्साहाः शनैर्गत्वा ददृशुर्दूरतो ऽम्बुधिम् ॥
दृत्वा सर्वे ऽपि ते ऽम्बोधिं दुरभिसंप्रहर्षिताः ।
प्रोत्साहवीर्यसंकान्तास्तीरं प्रापुर्महोदधेः ॥
तत्र ते समुपासृत्य सर्वे सहंर्षिताशयाः ।
प्रणत्वा तं महाम्बोधिं पश्यन्तः समुपाश्रयन् ॥
अथ ते वणिजः सर्वे समीक्ष्य तं महाम्बुधिम् ।
प्राणस्नेहनिरुत्साहास्तस्थुः संत्रसिताश्याः ॥
तदा स सिंहलो दृष्ट्वा सर्वांस्तांस्त्रासिताशयान् ।
कर्णधारं समामन्त्र्य पुर एवं न्यवेदयत् ॥
कर्णधार महाभाग यद्वयमागता इह ।
सर्वसंपत्तिमिच्छन्तो गन्तुम् रत्नाकरे ऽम्बुधौ ॥
तद्भवानत्र सन्मित्रं नेताअस्माकं हितार्थदिक् ।
समीक्ष्यानुग्रहं कृत्वा संतारयितुमर्हति ॥
इत्येवं प्रार्थितं सर्वैः कर्णधारो निशम्य सः ।
सर्वांस्तान् वणिजः पश्यन् समामन्त्र्यैवमब्रवीत् ॥
भवन्तो यदि वांछन्ति गन्तुं रत्नाशयाम्बुधौ ।
तद्धैर्यदेवतां स्मृत्वा तिष्ठन्तु नौसमाश्रिताः ॥
इति तेनोदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः ।
नत्वा नावं समारुह्य संतस्थिरे समाहिताः ॥
ततः स कर्णधारोरो ऽपि संस्मृत्वा कुलदेवताम् ।
सांजलिः प्रणतिं कृत्वा प्रार्थयदेवमम्बुधिम् ॥
महोदधे जगद्भर्ता भवान् रत्नामृताकरः ।
तदिमे वणिजः सर्वे भवच्छरण आश्रिताः ॥
तद्भवान् कृपया धृत्वा सर्वानिमान् धनार्थिनः ।
रत्नाकरे सुभद्रेण संप्रापयितुमर्हसि ॥
इति संप्रार्थ्य नत्वा तमम्भोधिं तरणिं च ताम् ।
नाविकः स समारुह्य प्राचारयन् शनैः क्रमात् ॥
ततः संचारिता सा नौ सदा गतिसमीरिता ।
क्रमेण संवहन्त्यब्धेर्मध्यद्वीपमुपाययौ ॥
तत्र नौका भ्रमन्त्येव तस्थै वाताभिताडिता ।

तद्दृष्ट्वा कर्णधारस्तं सिंहलमेवमब्रवीत् ॥
सार्थवाह विजानीयाद्भवानत्र महद्भयम् ।
यदियं नौर्महावातैराहता भ्रमते मुहुः ॥
कुत्र गन्तुं समीहा वो वाता वान्ति महाजवाः ।
स्वकुलदेवताः स्मृत्वा संप्रार्थ्य त्राणमम्बुधिम् ॥
धैर्यमालम्ब्य सर्वत्र संतिष्ठध्वं समाहिताः ॥
इति तेनोदितं श्रुत्वा सर्वे ते त्रसिताशयाः ।
स्वस्वेष्टदेवताः स्मृत्वा प्रार्थयदेवमम्बुधिम् ॥
महोदधे जगद्भर्तर्वयं ते शरणे स्थिताः ।
तदस्मान् कृपया धृत्वा संतारयितुमर्हसि ॥
इत्येवं प्रार्थयन्तस्ते सर्वे स्मृत्वा स्वदेवताम् ।
धैर्यमालम्ब्य संत्रस्तास्तस्थुर्जीवराशिताः ॥
ततः स कर्णधारो ऽपि संप्रार्थ्य तं महोदधिम् ।
स्वकुलदेवतां स्मृत्वा तस्थौ जीवनिराशितः ।
सिंहलः सार्थवाहो ऽपि संप्रार्थ्य त्राणमम्बुधिम् ।
त्रिरत्नस्मरणं कृत्वा तस्थै धैर्यसमाहितः ॥
ततस्ते वायवः शान्ता नौका संचरिता क्रमात् ।
तद्दृष्ट्वा वणिzअः सर्वे तस्थुः संहर्षिताशयाः ॥
तत्र तां समुपायातां नावं वणिक्समाश्रिताम् ।
ताम्रद्वीपनिवासिन्यो राक्षस्योयो ऽद्राक्षुरम्बुधौ ॥
ततस्ताभिः समेत्याशु राक्षसीभिः प्रभंजनाः ।
उत्सृष्टाः कालिका वातास्तन्नौकाभिमुखा ववुः ॥
तैराशु प्रहता सा नौ भ्राम्यमाना प्रलोलिता ।
तीव्रातिवेगकल्लोलो ऽभिहताभूद्विभिन्निता ।
तदा ते वणिजः सर्वे संत्रासाभिहताशयाः ।
हा दैवेति विलपन्तस्तस्थुः प्राणनिराशिताः ॥
तदा स सिहंलो दृष्ट्वा तरणिं तां विभिन्निताम् ।
सर्वांस्तान् सुहृदो भीतान् समालोक्यैवब्रवीत् ॥
भवन्तः किं विषादेन दैव एव गतिर्भवेत् ।
तत्त्रिरत्नस्मृतिं धृत्वा धैर्यमालम्ब्य तिष्ठत ॥
यदि दैवाद्विपत्तिः स्यादत्र तीर्थाधिपे ऽम्बुधौ ।
द्रव्यैः सार्धं वयं सर्वे पतिता निधनं गताः ॥
सर्वपातकनिर्मुक्ताः परिशुद्धत्रिमण्डलाः ।
सद्गतौ सुकुले जाता भवेम श्रीगुणाश्रयाअः ॥
इत्युक्ता तेन ते सर्वे तीर्थिकानामुपासकाः ।
त्रिरत्नस्मरणं धातुं श्रद्दधुर्न कथंचन ॥
स एव सिंहलः स्मृत्वा त्रिरत्नं शरणं गताः ।
ध्यात्वा नाम समुच्चार्य तस्थै संबोधिमानसः ॥
तदापि दैवतस्तेषां कालिकावातघातिता ।
कल्लोलभ्रमणाक्रान्ता नौकाभूच्छतखण्डिता ॥

सर्वे ते वणिजश्चापि विभग्नाशा विमोहिताः ।
पतितास्तत्र महाम्भोधौ सह द्रव्यैर्निमज्जिताः ॥
तत्र ते वणिजः सर्वे निमग्नान्यपि दैवतः ।
स्वस्वबाहुबलेनैव समुतेरुस्तटान्तिकम् ॥
दृष्ट्वा तान् वणिजः सर्वांस्तीरान्तिकसमागतान् ।
ताम्रद्वीपनिवासिन्यो राक्षस्यः संप्रमोदिताः ॥
दिव्यकौमारिकारुपं धृत्वा सर्वाः समागताः ।
तीरे स्थित्वा समुत्तार्य सर्वान्स्तानेवमब्रुवन् ॥
मा भैष्ट धैर्यमालम्ब्य समागम्य तरोरधः ।
छायामाश्रित्य सर्वत्र विश्रान्तुं तिष्ठत क्षणम् ॥
इत्येवं कथितं ताभिः श्रुत्वा ते वणिजस्ततः ।
गत्वा चम्पकवृक्षस्य छायायां समुपाश्रयन् ॥
तत्र विश्रम्य ते सर्वे संनिरीक्ष्य परस्परम् ।
ज्ञातीन् स्मृत्वानुशोचन्तो निश्वस्यैवं बभाषिरे ॥
हा दैव कथमस्माकं विपत्तिर्भवतीदृशी ।
क इह साम्प्रतं त्राता हितार्थी सद्गतिर्भवेत् ॥
इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः ।
सर्वान्स्तान् त्रासभिन्नात्मान् समाश्वास्यैवमब्रवीत् ॥
नास्त्यस्माकमिह त्राता को हितार्थी सुहृद्गतिः ।
धर्म एव भवेत् त्राता सर्वत्रापि सुहृद्गतिः ॥
अवश्यंभाविनो भावा भवन्ति महतामपि ।
सर्वेषामपि जन्तूनां सर्वत्रापि न चान्यथा ॥
तदत्र श्रद्धया सर्वे त्रिरत्नस्य समाहिताः ।
स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥
एतदेव हि संसारे धर्ममूलं निगद्यते ।
धर्म एव हि सर्वत्र त्राता भर्ता सुहृद्गतिः ॥
एवं विज्ञाय सर्वे ऽपि त्रिरत्नस्य समाहिताः ।
स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥
इति तेनोदितं श्रुत्वा सर्वे ते परिबोधिताः ।
तीर्थिका श्रावका नैव त्रिरत्नं स्मर्तुमीच्छिरे ॥
स एव सिंहलः स्मृत्वा त्रिरत्नस्य समाहितः ।
ध्यात्वा नाम समुच्चार्य तस्थौ संबोधिमानसः ॥
ततस्ताः प्रमदाः कान्ताः कुमारिका मनोरमाः ।
सर्वान्स्तान् वणिजान् दृष्ट्वा पुरस्था एवमब्रुवन् ॥
वैषाद्यं वः किमत्रापि नैव चिन्त्यो हि दुःखता ।
यथेप्सितं सुखं भुक्त्वा संचरध्वं यथेच्छया ॥
अस्माकं स्वामिनो नैव गतिर्वापि न कश्चन ।
परायणो ऽपि नैवास्ति भर्तापि न सुहृत्प्रियः ॥
तद्यूयं भवतास्माकं स्वामिनो गतयो ऽपि च ।
परायणाश्च भर्तारः पतयः सुहृदः प्रियाः ॥

विद्यन्ते ऽत्र गृहा रम्या भोग्यानि विविधान्यपि ।
पानानि सुरसान्येवं वस्त्राणि विविधानि च ॥
सर्वद्रव्याणि रत्नानि सर्वाणि भूषणान्यपि ।
सर्वर्तुफलपुष्पादिरम्योद्यानवनान्यपि ॥
पुष्करिण्यो ऽपि सन्त्यत्र दिव्यगन्धाम्बुपूरिताः ॥
तदत्र किं विषादं वः संरमध्वं यथेच्छया ।
यथाकामं सुखं भुक्त्वा संचरध्वं प्रमोदिताः ॥
इत्येवं कथितं ताभिर्निशम्य ते वणिग्जनाः ।
सर्वे ऽपि ताः समालोक्य विस्मयं समुपाययुः ॥
ततस्ताः प्रमदाः सर्वान् मत्वा तान् काममोहितान् ।
एकैकं पुरुषं धृत्वा स्वस्वगेहं न्यवेशयन् ॥
तासां वृद्धापि या कान्ता सा दृष्ट्वा समुपासृता ।
सिंहलं तं समादाय स्वालयं संन्यवेशयत् ।
अथ ताः प्रमदाः सर्वान् स्वान् स्वांस्तान् स्वामिनो मुदा ।
स्वस्वालये प्रतिष्ठाप्य दिव्यभोगैरतर्पयन् ॥
ततस्तान् भोगसंतृप्तान् सर्वान्स्ताः प्रमदाशयाः ।
रहिक्रीडारसाभोगैः सन्तर्पयितुमारभन् ॥
एवं ते वणिजः सर्वे भुक्त्वा भोज्यं यथेप्सितम् ।
संक्रीडित्वा यथाकामं संचरिते प्रमोदिताः ॥
एवं भुक्त्वा यथाकामं रमित्वा ते दिवानिशम् ।
महानन्दसुखासक्ताः सप्ताहानि व्यलंघयन् ॥
अथापरे क्षपायां स सिंहलः ।
त्रिरत्नस्मृतिमाधाय तस्थौ ध्यानसमाहितः ॥
तदा तत्रालये दीपः संप्रदीप्तमहोज्ज्वलः ।
राक्षस्यां निद्रितायां स प्राहसन् संप्रभासयन् ॥
तं प्रदीप्तं हसन्तं स दृष्ट्वातिविस्मिताशयः ।
सुचिरं संनिरीक्ष्यैवं ध्यात्वा चैवं व्यचिन्तयत् ॥
अहो चित्रं किमर्थे ऽयं प्रदीपो यत्प्रहस्यते ।
एवं हि हसितो दीपो दृष्टो नैव श्रुतो ऽपि न ॥
इति ध्यात्वा चिरं पश्यन् सिंहलः स समुत्थितः ।
समुपाश्रित्य तं नत्वा पप्रच्छैवं कृतांजलिः ॥
किमर्थं हससे दीप तदत्र मे समादिश ।
को ऽत्र दीपे प्रविष्टो हि मया न ज्ञायते भवान् ॥
इति तेनाभिंसंपृष्टे प्रदीपः स समुज्ज्वलन् ।
सिंहलं तं समामन्त्र्य प्रहसन्नेवमब्रवीत् ॥
सिंहल किं न जानासि राक्षसीयं न मानुषी ।
रमित्वापि यथाकामं भक्षेत्त्वां नैव संशयः ॥
सर्वास्ताः प्रमदाः कान्ता राक्षस्यो नैव मानवाः ।
सर्वांस्तांस्त्वत्सहायांश्च भक्षिष्यन्ति न संशयः ॥
इति दीपसमाख्याउतं श्रुत्वा भीतः स सिंहलः ।

मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc