गुणकारण्डव्यूहसूत्र · भाग 81100
स्वचित्तमेव निवार्य किमेवान्यैर्निवारितैः ॥
सहापि वा च्छरीलाभ्यां मन्दवृत्तेन तत्fअलम् ।
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥
जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि ।
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥
दुःखं हन्तुं सुखं प्राप्तुं भ्रमन्ति ते मुधाम्बरे ।
यैश्चैतद्धर्मसर्वस्वं चित्तगुह्यं न भावितम् ॥
तस्मात्स्वाधिष्ठितं चित्तं सदा कार्यं सुरक्षितम् ।
चित्तरक्षाव्रतं मुक्त्वा किमन्यैर्बहुभिर्व्रतैः ॥
यथा चपलमध्यस्थो रक्षति व्रणमादरात् ।
एवं दुर्जनमध्यस्थो रक्षेश्चित्तव्रणं सदा ॥
लाभा नश्यन्तु ते कामं सत्कारः कायजीवितम् ।
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥
असंप्रजन्यचित्तस्य श्रुतचिन्ततभावितम् ।
सछिद्रकुम्भजलवन्न स्मृताववतिष्ठते ॥
अनेके श्रुतवन्तो ऽपि श्रद्धायत्नपरा अपि ।
असंप्रजन्यदोषेन भवन्त्यापत्तिकश्मलाः ॥
असंप्रजन्यचौरेण स्मृतिमोषानुसारिणः ।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥
क्लेशतस्करसंघो ऽयमवतारगवेषकः ।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम् ॥
तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन ।
गतापि प्रत्युपस्थाप्या संस्मृत्वा पापिकीं व्यथाम् ॥
बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतक्षणाः ।
सर्वमेवाग्रतस्तेषामहं चापि पुरःस्थितः ॥
इति ध्यात्वा तथा तिष्ठन् त्रपादरभ्यान्वितः ।
बुद्धानुस्मृतिरप्येव भवेत्तव मुहुर्मुहुः ॥
संप्रजन्यं तदायाति नैव यात्यागतं पुनः ।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥
इत्येवं त्वं महाराज बोधिचर्याव्रतं चर ।
त्रिरत्नं शरणं कृत्वा भज नित्यमनुस्मरन् ॥
एतत्पुण्यविपाकेन परिशुद्धत्रिमण्डलः ।
बोधिसत्त्वो महासत्त्वो महाभिज्ञो भवेद् ध्रुवम् ॥
ततः पारमित्ताः सर्वाः पूरयित्वा यथाक्रमम् ।
दुष्टमारान् विनिर्जित्य सद्धर्मगुणराड् भवेह् ॥
सद्धर्मश्रीगुणाधारः सर्वसत्त्वहितार्थभृत् ।
षडक्षरीमहाविद्यां प्राप्य भवेः समृद्धिमान् ॥
ततो मारगणान् सर्वान् जित्वार्हद्विजितेन्द्रियः ।
प्राज्ञः सम्बोधिमासाद्य सम्बुद्धपदमाप्नुत्याः ॥
तदा त्वमसुरेन्द्रश्रीनार्म तथागतो जिनः ।
धर्मराजो जगन्नाथः सर्वज्ञोर्हन्मुनीश्वरः ॥
सर्वविद्याधिपः शास्ता महाभिज्ञो विनायकः ।
समन्तभद्रकृच्छ्रीमान् गुणाकरो भविष्यसि ॥
इमे सर्वे सुरास्तत्र श्रावकास्ते जितेन्द्रियाः ।
निःक्लेशा विमलात्मानो भविष्यन्ति शुभंकराः ॥
तदा तव मुनीन्द्रस्य बुद्धक्षत्रे समन्ततः ।
क्लेशानां समुदाचारा भविष्यन्ति कदापि न ॥
इत्येवं त्वं परिज्ञाय समाधायासुराधिप ।
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥
बोधिचर्यासमुद्भूतं पुण्यं नैव क्षिणोत्यपि ।
सदापि सत्fअलं दद्याद्यावत्संबोधिनिर्वृतिम् ॥
बोद्धिचर्याद्भवं पुण्यं सर्वैरपि मुनीश्वरैः ।
प्रमातुं शक्यते नैव मयैकेन कथं खलु ॥
तस्मात् सर्वप्रयत्नेन विरम्य क्लेशसंगतेः ।
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥
यद्येवं चरसे राजन् क्वापि न दुर्गतिं व्रजेः ।
सदा सद्गतिसंजातो बोधिसत्त्वः समृद्धिमान् ॥
स्वपरात्महितं कृत्वा भुक्त्वा सौख्यं सदा भवेः ।
सद्धर्मश्रीगुणापन्नसत्सौक्याभिनन्दितः ॥
अन्ते गत्वा सुखावत्याममिताभं जिनेश्वरम् ।
संपश्यंश्च्छरणं गत्वा भजिष्यसि सदादरात् ॥
तत्सद्धर्मामृतं पीत्वा संबुद्धश्रीगुणालयः ।
संबुद्धपदमासाद्य सुनिर्वृतिमवाप्स्यति ॥
इत्यादिष्टं जगच्छास्त्रा लोकेश्वरेण सद्धिया ।
श्रुत्वा सो ऽसुरेन्द्रो ऽपि मुमोद बोधिसाधने ॥
अथ बलिः स दैत्येन्द्रस्तं लोकाधिपतीश्वरम् ।
महाराजर्द्धिसत्कारैः समार्चयत् प्रमोदितः ॥
ततः पादाम्बुजे नत्वा सांजलिः संप्रसादितः ।
संबोधिप्रणिधिं धृत्वा पुनरेवमभाषत ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
यत्राद्य रोपितं बीजमद्य संपद्यते fअलम् ॥
यावत्र प्राणिनः सर्वे बोधिसत्त्वा भवन्त्यपि ।
तावत्सत्त्वहितार्थाय चरे ऽहं बोधिसंवरम् ॥
उत्पादयामि संबोधौ चित्तं नाथ जगद्धिते ।
निमन्त्रये जगत्सर्वं दारिद्रयान्मोचयामि तत् ।
व्यापादाखिलचित्तं तदीर्ष्यामात्सर्यदुर्मतिम् ।
नाद्याग्रेण धरिष्यामि यावन्नाप्स्यामि निर्वृतिम् ॥
ब्रह्मचर्यं चरिष्यामि कायान्स्त्यक्ष्यामि पापकान् ।
बुद्धानामनुशिक्ष्ये ऽहं शीलसंयमसंवरम् ॥
नो ऽहं त्वरितरुपेण बोधिं प्राप्तुं समुत्सहे ।
भवान्तकोटिमिच्छामि स्थातुं सत्त्वस्य कारणाम् ॥
क्षेत्रान् विशोधयिष्यामि चाप्रमेयान् समन्ततः ।
नामधेयं करिष्यामि दशसु दिक्षु विश्रुतम् ॥
कायवाचोमनस्कर्म शोधयिष्यामि सर्वथा ।
बोधिमार्गे प्रतिष्ठाप्य चारयिष्ये जगच्छुभे ॥
त्रिरत्नभजनं कृत्वा यावत्र निर्वृतिं गतः ।
बोधिचर्याव्रतं धृत्वा करिष्यामि जगद्धितम् ॥
इति मे निश्चयं शास्तस्तद्भवान् संप्रसीदतु ।
भवत्प्रसादमासाद्य बोधिसत्त्वो ऽस्मि साम्प्रतम् ॥
इति तदुक्तमाकर्ण्य लोकेश्वरः प्रसादितः ।
तं बलिं बोधितं पश्यन् पुनरेवमुपादिशत् ॥
यद्येवं ते मनो बोधिचर्याव्रते सुनिश्चितम् ।
हितार्थं ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ॥
यस्य पुण्ये ऽभिलाषो ऽस्ति तेन पूज्या जिनास्सदा ।
तेन संलभ्यते पुण्यं संबोधिगुणसाधनम् ॥
यस्य ज्ञाने रुचिस्तेन श्रोतव्यं योगमुत्तमम् ।
ततः संप्राप्यते ज्ञानं संबोधिपदसाधनम् ॥
यस्य भोग्ये रुचिस्तेन कर्तव्यं दानमीप्सितम् ।
ततो ऽभिवांछितं भोग्यं प्राप्यते श्रीगुणान्वितम् ॥
यस्य स्वर्गे ऽभिलाषो ऽस्ति सुशीलं तेन धार्यताम् ।
ततो दिव्यमहत्सौख्यं लभ्यते श्रीगुणास्पदम् ॥
प्रतिभाणार्थिकेनापि कर्तव्यं गुरुगौरवम् ।
तेन संप्राप्यते नूनं प्रतिभाणं महत्तरम् ॥
संधारणार्थिकेनापि भावनीया निरात्मता ।
तेनाभिलभ्यते मुक्तिर्भवचारणबन्धनात् ॥
सुखार्थिकेन त्यक्तव्या पातकाभिरतिर्मतिः ।
तेन संलभ्यते सौख्यं सुभद्रं निरुपद्रवम् ॥
सत्त्वहितार्थिकेनापि धर्तव्यं बोधिमानसम् ।
तेन सत्त्वहितं कृत्वा प्राप्यते बोधिरुत्तमा ॥
मंजुस्वरार्थिकेनापि वक्तव्यं सत्यमेव हि ।
तेन मंजुस्वरो सत्यवादी भवति सन्मतिः ॥
शुद्धगुणार्थिकेनापि सेवितव्यः सुसद्गुरुः ।
तेन सद्गुणसंपत्तिश्रीसमृद्धो भवत्यपि ॥
शमथे रुच्यते तेन कार्या सत्संगचारणा ।
विपश्यनार्थिकेनापि प्रत्यवेक्ष्यात्मशून्यता ॥
तथा हि सर्वदोषाणाअं व्युओपशन्तिर्भवेद् भवे ॥
ब्रह्मलोकार्थिकेनापि धार्या ब्रह्मविहारिता ।
तया ब्रह्म समासाद्य परा गतिरवाप्यते ॥
नृदेवश्र्यर्थिकेनापि धर्तव्यं दशकौशलम् ।
तेन सुरेन्द्रसम्पत्तित्वम्छ्रीः संप्राप्यते ध्रुवम् ॥
सुनिर्वाणार्थिकेनापि कार्यं ज्ञानभियोजनम् ।
तेनेव सकलान् मारान् जित्वा संबोधिमाप्नुयात् ॥
बोधिगुणार्थिकेनापि सेवितव्यं त्रिरत्नकम् ।
तेन बोधिमतिं प्राप्य निर्वृतिपदमाप्नुयात् ॥
एवं विज्ञाय दैत्येन्द्र सद्धर्मसुखसाधनम् ।
मया ते हितमाख्यातं बुध्वा धर्तुं यदीच्छसि ॥
विरम्य तीर्थिकासंगात् त्रिरत्नशरणं गतः ।
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥
एवं कृत्वासुरेन्द्र त्वं बोधिसत्त्वो जिनात्मजः ।
महासत्त्वो महाभिज्ञो सर्वलोकाधिपो भवेः ॥
एवं यो चरते नात्र क्लेशव्याकुलिताशयः ।
मारचर्यागुणसक्तो ऽसत्पथे संचरिष्यते ॥
ततो ऽतिक्लेशितात्मा स दशाकुशलसंरतः ।
भूयो ऽतिपातके घोरे निर्विशंकश्चरिष्यति ॥
ततो ऽतिदुरितात्मा स दारुणदुःखतापितः ।
दुःसहक्लेशरागाग्निदग्धांगः परितप्यते ॥
तदा तस्य सुहतत्राता कश्चिदेको ऽपि नैव हि ।
तथातिचिररोगार्त्तः कृच्छ्रेण स मरिष्यत ॥
ततः स यमदूतेन बध्वा संतर्ज्य नेष्यते ।
तत्र पश्यन् स सर्वत्र सर्वान् दुष्टान् भयंकरान् ॥
पश्येद् वृक्षान् प्रदीप्ताग्निज्वालामालातिभीषणान् ।
पूयशोणितसंपूर्णां भीमां वैतरणीं नदिम् ॥
तान् दृष्ट्वा स परित्रस्तो विकलो दीनमानसः ।
विमोहितो विषण्णात्मा तिष्ठेत् त्रासविषार्दितः ॥
ततस्ते यमदूतास्तं कालपाशैर्निबध्य च ।
क्षुरधारोचिते मार्गे क्रामयेयुर्बलाद् द्रुतम् ॥
तत्पादशीर्णमांसानि काकगृध्रोलूकादयः ।
पक्षिणः श्वशृगालाश्च भक्षेयु रुधिराण्यपि ॥
पुनेरेवं समुद्भूतो भविष्यतो विशीर्णितो ।
एवं स महतीं प्रत्यनुभवेन्नरके व्यथाम् ॥
ततो ऽवतार्य भूयस्तं बध्वा ते यमकिंकराः ।
तीक्ष्णकण्टाचित्ते मार्गे क्रामयेयुरितस्ततः ॥
एकैकांघ्रितले तस्य पंचपंचशतान्यपि ।
कण्टकान्यतितीक्ष्णानि प्रवेक्ष्यन्ति समन्ततः ॥
तत्र स चंक्रमाशक्तातत्तीव्रवेदनार्दितः ।
किं मया प्रकृतं पापमित्युक्त्वाभिरुदनक्रमेत् ॥
तच्छ्रुत्वा यमदूतास्ते रक्ताक्षा भीइषणननाः ।
ततो ऽवतार्य तं दुष्टं वदेयुरेवेमग्रतः ॥
अरे पापिन किमत्रैवमिदानीमनुशोचसे ।
अवश्यं यत्कृतं कर्म भोग्यमेव हि तत्fअलम् ॥
यत्त्वया प्रकृतं पापं तत्fअलं भुक्तमत्र हि ।
यदि न प्रकृतं पापं भुंज्यानैवात्र तत्fअलम् ॥
धर्मस्ते विद्यते नैव तत्त्राता नात्र कश्चन ।
धर्म एव सुहत्त्राता सर्वेषां भवचारिणाम् ॥
यत्त्वय कामरक्तेन विलंघ्य सद्गुरोर्वचः ।
असन्मित्रानुरागेण प्रकृतं पातकं बहु ॥
हत्वापि प्राणिनो ऽनेका भुक्तास्त्वया प्रमोदिना ।
अदत्तमपि चाहृत्य भुक्तम् द्रव्यं त्वया बलात् ॥
अधर्मरतिरोगेण भुक्ताश्चापि परयियः ।
यशोजीवितद्रव्यार्थे प्रभाषितं मृषा वचः ॥
पैशुन्यवचसा भेदं सुहृदां च कृतं त्वया ।
लोके भिन्नप्रलापेन प्रकृतं वैरविग्रहम् ॥
पारुष्यवचसाक्रुष्य सन्तो ऽपि परिभाषिताः ।
परस्वविषये लोभात्तृष्णाक्लिष्टं मनस्तव ॥
साधूनामर्हतां चापि व्यापादमपि चिन्तितम् ।
मिथ्यादृष्टिप्रमादेन स्वपरात्माहितं कृतम् ॥
एवम् नानाविधानेन क्लेशाभिमानिना त्वया ।
प्रभुक्त्वैव यथाकामं संचरित्वा यथेच्छया ।
साधितं पापमेवैवं धर्मं किंचिन्न साधितम् ॥
भुक्त्वैव केवलं भोग्यं यथाकामं प्रमोदिना ।
क्रीडीत्वा पशुनेवैवं दुख हेतु त्वयार्जितम् ॥
सद्धर्मसाधनं चित्तमुत्साहितं न ते क्वचित् ।
तेनात्रैवं महद्दुखं त्वया दुरात्मना ॥
नापि किंचित् त्वया दत्तमर्थिभ्यः द्रव्यमीप्सितम् ।
दृष्ट्वापि परदेहानि मनस्ते रोषदूषितम् ॥
शीलं ते विद्यते नैव किंचिदपि च संयमे ।
क्षान्तिर्न भाविता नैव सत्त्वेषु दुःखितेष्वपि ॥
न कृतं शासने बोउद्धे सत्कारभजनोत्सवम् ।
त्रिरत्नस्मरणं कृत्वा ध्यानं नापि जगद्धितम् ॥
प्रज्ञापि साधिता नैव सद्धर्मगुणसाधनी ।
त्रिरत्नस्तूपबिम्बानां दृष्ट्वापि नानुमोदितम् ।
सत्कारं भजनं नैव किंचिदपि कृतं त्वया ॥
प्रदक्षिणानि कृत्वापि वन्दिप्वापि कदाचन ।
स्मृत्वा नाम गृहीत्वापि न हि संसाधितं शुभम् ॥
सद्धर्मभाषितं क्वापि श्रुतं त्वया कदापि न ।
सांघिकानां च सत्कारं कृतं नापि कदाचन ॥
धर्मगण्डीनिनादं च श्रुतं त्वया कदापि न ।
किंचिदपि न ते धर्मे मनो ऽभिलषते क्वचित् ॥
तेनात्र दारुणं दुःखं त्वयाप्तं साम्प्रतं ध्रुवम् ।
येनैव यत्कृतं कर्म तेनैव भुज्यते fअलम् ॥
इति तैर्गदितं श्रुत्वा स पापी परितापितः ।
तेषां पुरो रुदन्नैवं ब्रूयाच्च निःश्वसन् शनैः ॥
अश्राद्धो ऽहं तदा धर्मे त्रिरत्नगुणनिःस्पृहः ।
असन्मित्रोपदेशेन प्रारमन्दुरिते सदा ॥
तद्भवद्भिः कृपाबुद्धया क्षन्तव्या मे ऽपराधता ।
रक्षितव्याहमात्रापि युष्माभिरपि सर्वथा ॥
इति तत्प्रार्थितं श्रुत्वा सर्वे ते यमकिंकराः ।
तं बध्वा यमराजस्य पुरतः सहसा नयेत् ॥
तं दृष्ट्वा यमराजो ऽपि समुपानीतमग्रतः ।
तान् सर्वान् किन्नरान् पश्यन् सहसैवमुपादिशेत् ॥
किमत्र मे उपानीतः पापिष्ठो ऽयं हि दुर्मतिः ।
यदस्य पापिनो द्रष्टुमपि नेच्छाम्यहं मुखम् ॥
गच्छतैवं निबध्वापि दर्शयत स्वकर्मताम् ।
यत्र कर्मfअलं भोग्यं तत्रैनं नयत द्रुतम् ॥
इति राज्ञा समादिष्टं श्रुत्वा ते यमकिन्नराः ।
तं बध्वा सहसा नीत्वा कालसूत्रे ऽतिदारुणे ।
क्षिप्त्वा शक्तिशतैः काये प्रहरेयुरनेकधा ॥
तथा स विध्यमानो ऽपि शक्तिशतैरनेकधा ।
दुःसहवेदनां भुक्त्वा जीवन्नैव त्यजेदसून् ॥
तथापि तं महादुष्टं जीवन्तं तं समीक्ष्य ते ।
बध्वा चाग्निखदामध्ये क्षिप्त्वा कुर्युर्विदाहितम् ॥
तथापि जीवितो नैव त्यजेत् प्राणं स किल्विषी ।
सर्वांगदग्धितश्चापि तिष्ठेत् प्रश्वस्य मोहितः ॥
तथापि तममुक्तासुं दृष्ट्वा ते यमकिंकराः ।
क्षिप्त्वा तस्य मुखे तप्तं भक्षयेयुरयोगुडम् ॥
तेन तस्य मुखमोष्ठौ जिह्वा दन्ता च कण्ठकम् ।
हदयमन्त्रगुणा दग्धा सर्वांगो ऽप्यभिधक्ष्यते ॥
ततो निदग्धकायो ऽसौ पापी त्यक्त्वा तदाश्रयम् ।
अन्यत्र नरके जन्म लब्ध्वैवं दुःखमाप्स्यते ॥
एवमेव महाराज दशाकुशलचारिणः ।
सर्वे ते पापिनो दुष्टा भुंजन्ते नरके व्यथाम् ॥
कश्चित्त्राता तदा तेषां नास्त्येव तत्र नारके ।
यावन्न क्षीयते कर्म तावद्दुःखं समन्ततः ॥
पुण्यमेव सुहृत्त्राता सर्वभवचारिणः ।
पापिनो नरकासीनाः स्वर्गासीना हि पुण्यिनः ॥
तस्माद्राजन्विदित्वैवं संसारभद्रवांछिभिः ।
दुःखं हन्तुं सुखं प्राप्तुं कर्तव्यं पुण्यमेव हि ॥
पुण्येन जायते क्वापि दुर्गतौ न कदाचन ।
सदा सद्गतिसंजाता भवन्ति श्रीगुणालयाः ॥
पुण्यवांल्लक्ष्मीमांछ्रीमान् गुणवान् बुद्धिमान् कृती ।
सर्वविद्याकलाभिज्ञः सर्वसत्त्वार्थभृद्भवेत् ॥
सुशीलो संयमी धीरः क्षान्तिमान् वीर्यवान् बली ।
समाधिगुणवान् प्राज्ञः सर्वधर्माधिपो भवेत् ॥
बोधिचित्तमपि प्राप्य सर्वसात्त्वहितार्थभृत् ।
बोधिसत्त्वो महासत्त्वः संबुद्धगुणसाधकः ॥
बोधिचर्याव्रतं धृत्वा संचरेत जगद्धिते ॥
ततो ऽभिसुहृत् कृपात्मा स परिशुद्धत्रिमण्डलः ।
निःक्लेशो ऽर्हत् त्रिधां बोधिं प्राप्य निर्वृतिमाप्नुयात् ॥
इति विज्ञाय राजेन्द्र यदि संबोधिमिच्छसि ।
विरम्य तीर्थिकासंगाद् बोधिचर्याव्रतं चरन् ॥
सर्वसत्त्वहितं कृत्वा चतुर्ब्रह्मविहारधृक् ।
त्रिरत्नभजनं कृत्वा साधय पुण्यसन्मणिम् ॥
यद्येवं साध्यते पुण्यं भवेरेवं महर्द्धिमान् ।
सद्धर्मरत्नमासाद्य त्रिलोकाधिपतिर्भवेत् ॥
इत्येवं समुपादिष्टं लोकेशेन निशम्य सः ।
बलिस्तथेति विज्ञप्य प्राभ्यनन्दन्प्रबोधितः ॥
ततः स दैत्यराजेन्द्रस्तं त्रैलोकाधिपं गुरुम् ।
महद्राजर्द्धिसत्कारैः समभ्यर्च्य प्रमोदितः ॥
दिव्यरत्नमयोज्ज्वालं मौलिकुण्डलभूषणम् ।
मुक्तिकाहारत्नादिन् दक्षिणान् समढौकयेत् ॥
ततः प्रदक्षिणान्कृत्वा सांजलिः संप्रमोदितः ।
तत्पादाम्बुरुहे नत्वा समालोक्यैवमब्रवीत् ॥
भगवंल्लोकराजेन्द्र भवत्कृपाप्रसादतः ।
पवित्रीभूतमात्मानं भवति मे ऽधुना ध्रुवम् ॥
सर्वदाहं जगन्नाथ भवतां शरणाश्रितः ।
त्रिरत्नभजनं कृत्वा संचरे बोधिसंवरे ॥
तन्मे ऽनुग्रहमाधाय सदैवं द्रष्टुमर्हति ।
क्षमित्वा चापराधत्वं पुत्रवत् पालयस्व माम् ॥
भवानत्रैवमाश्रित्य सद्धर्मं समुपादिशत् ।
अस्मदनुग्रहं कृत्वा विजयितुं सदार्हति ॥
इत्येवं प्रार्थिने तेन बलिना स जगत्प्रभुः ।
लोकेश्वरो महासत्त्वस्तं विलोक्यैवमादिशत् ॥
नाहं सदात्र तिष्ठेयं बहु कार्यं ममास्ति हि ।
ततो ऽहं जेतकोद्याने विहारे सुगताश्रमे ।
सदेवासुरलोकानां सन्निपाता भवत्यपि ॥
तत्र तं त्रिजगन्नाथं विश्वभुवं मुनीश्वरम् ।
संबुद्धं द्रष्टुमिच्छामि तद्गमिष्यामि साम्प्रतम् ॥
तत्त्वं यथा परिज्ञातं तथा कृत्वा समाहितः ।
बोधिचर्याव्रतं धृत्वा सुखं चर सदा शुभे ॥
इति शास्ता समादिष्टं श्रुत्वा स बलिरादरात् ।
तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्तमीश्वरम् ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
तं बलिं समनुशास्य प्रतस्थौ भासयन्स्ततः ॥
संचरन्तं तमालोक्य सजनः सो ऽसुराधिपः ।
दूरतः सांजलीर्नत्वा संपश्यन् स्वालयं ययौ ॥
तदारभ्यासुरेन्द्रो ऽसौ बोधिचर्याव्रतं दधत् ।
त्रिरत्नभजनं कृत्वा सदारज्जगद्धिते ॥
सर्वे तस्य जनाश्चापि त्रिरत्नभजने रताः ।
तथा बोधिव्रतं धृत्वा प्राचरन्त सदा शुभे ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः ।
लोकाः सद्धर्मं वांछन्तः प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति बलिसंबोधनबोधिमार्गावतारणप्रकरणम् ॥
10. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम्
अथ सर्वनीवरणविष्कम्भी सुगतात्मजः ।
भगवन्तं पूनर्नत्वा सांजलिरेवमब्रवीत् ॥
भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः ।
कदेह समुपागच्छेत् संद्रक्ष्यते मया कथम् ॥
नैवास्मि तोषितः शास्तः पीत्वापि तद्गुणामृतम् ।
यत्साक्षाद्द्रष्तुमिच्छामि कदेह स समाचरेत् ॥
यत्त्रैलोकाधिपतीशो ऽसौ दुर्दान्तानपि दानवान् ।
बोधयित्वा प्रयत्नेन बोधिमार्गे न्ययोजयत् ॥
तत्तस्येव महद्वीर्यं कस्यापि विद्यते न हि ।
मुनीन्द्रैरपि सर्वैर्यत्प्रमातुं नैव शक्यते ॥
भूयो ऽपि पातुमिच्छामि तद्गुणामृतमुत्तमम् ।
तद्भवान्समुपादिश्य तुष्टो ऽन्तः कर्तुमहति ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
शृणु साधो महासत्त्व लोकेशस्य महद्गुणम् ।
भूयो ऽहं संप्रवक्ष्यामि सर्वस्त्तवशुभार्थतः ॥
ततो निष्क्रम्य दैत्येन्द्रभवनात् स जिनात्मजः ।
अन्यत्रापि समुद्धर्तुं सत्त्वान् संभासयन् ययौ ॥
ततश्चासौ महाभिज्ञो लोकेश्वरः स्वपुण्यजान् ।
नानारश्मीन् समुत्सृत्य जगल्लोकमभासयत् ॥
तद्रश्मयो जगल्लोकानभास्य प्रसारिताः ।
जेतोद्याने मुनीन्द्रस्य विश्वभुवः पुरः स्थिताः ॥
जेतोद्याने तदा तत्र प्रादुर्भूताः सरोवराः ।
अष्टांगगुणसंपन्नजलपूर्णा मनोहराः ॥
दिव्यसौवर्णपद्मादिपरिपूर्णाभिशोभिताः ।
अनेके कल्पवृक्षाश्च सर्वालंकारलम्बिताः ।
सरत्नमणिमुक्तादिहारलम्बितशोभिताः ॥
काशिकदुष्यपट्टादिवस्त्रालंकारलम्बिताः ।
प्रवालोहितस्तम्बाः सुवर्णरुप्यपत्रकाः ॥
अनेके पुष्पवृक्षाश्च fअलवृक्षादयो ऽपि च ।
सर्वाश्चापि महौषध्यः प्रादुर्भूतास्समन्ततः ॥
तत्रारामे विहारे च सुगन्धिकुसुमानि च ।
दिव्यसुवर्णपुष्पाणि निपेतुर्वियतस्तदा ॥
एवं तन्मंगलोद्भूतनिमित्तं महदद्भुतम् ।
समुद्भूतं समालोक्य तस्थुः सर्वे सविस्मयाः ॥
अथ गगनगंजाख्यो बोधिसत्त्वो ऽपि विस्मितः ।
तन्महद्भद्रनैमित्यं परिस्प्रष्टुं समुत्थितः ॥
विश्वभुवो मुनीन्द्रस्य पुरतः समुपस्थितः ।
पादाब्जे प्रणतिं कृत्वा सांजलिरेवमब्रवीत् ॥
कस्य पुण्यप्रभारश्मिर्भगवन्नयमागतः ।
कुत इह समाभास्य करोत्येवं शुभाद्भुतम् ॥
तद्भवान् समुपादिश्य सर्वान् सभाश्रितानिमान् ।
लोकाअन् प्रबोधयन् धर्मे विनोदयितुमर्हति ॥
एवं संप्रार्थिते तेन विश्वभूर्भगवान् जिनः ।
गगनगंजमालोक्य तमेवं पुनरब्रवीत् ॥
असौ लोकेश्वरस्तस्माद्भवनान्निश्चरन् बलेः ।
तमो ऽन्धकारभूम्यां च सत्त्वान् पातुं प्रगच्छति ॥
तस्य लोकेश्वरस्यायं पुण्यरश्मिस्समन्ततः ।
अवभास्य जगल्लोकमिहापि संप्रसारितः ॥
तेनदं भद्रनैमित्यं कुलपुत्र प्रजायते ।
तत्र सत्त्वान् समुद्धृत्य प्रागच्छेत् स जगत्प्रभुः ॥
तदात्र कुलपुत्रस्त्वं त्रैलोकाधिपतीश्वरम् ।
तमायातं समालोक्य नत्वाराधय सादरम् ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः ।
गगनगंज आलोक्य तं मुनीमेवमब्रवीत् ॥
कथं स भगवान् याति तत्रान्धतमसे भुवि ।
सूर्यचन्द्रमसोर्यत्र प्रभा न ज्ञायते क्वचित् ॥
तत्रापि प्राणिनः सन्ति यानुद्धर्तुं स गच्छति ।
कथं किमर्थमालोक्य विहरेत् क्व जिनात्मजः ॥
इति तेनोदिते शास्ता विश्वभूः स मुनीश्वरः ।
गगनगंजमालोक्य तं पुनरेवमादिशत् ॥
तत्रापि कुलपुत्रास्ति वरदो नाम सद्गुणी ।
चिन्तामणिर्महारत्नः श्रीकान्तिमान् दिनेशवत् ॥
तत्रानेकसहस्राणि यक्षणां रक्षसामपि ।
यथाकामं सुखं भुक्त्वा वसन्ति स्वैरचारिणः ॥
तान् क्लेशाभिमानो दुष्टान् पश्यन् स करुणानिधिः ।
बोधयित्वा प्रयत्नेन चारयितुं सुसंवरम् ॥
स्वपुण्यरश्मिमुत्सृज्य संभासयन् समन्ततः ।
प्रविशति यथा पूर्णचन्द्रः प्रह्लादयन् जगत् ॥
तद्रश्मिपरिस्पृष्टास्ते सर्वे ऽपि यक्षराक्षसाः ।
महासौख्यसमापन्नाः तिष्ठन्ति विस्मयान्विताः ॥
तदा तं समुपायातं श्रीकान्तिसंप्रभासितम् ।
दृष्ट्वा ते मुदिताः सर्वे पुरतः समुपागताः ।
कृतांजलिपुटा नत्वा तस्य पादाम्बुजे मुदा ।
पुरतः समुपाश्रित्य संपृच्छन्त्येवमादरत् ॥
मा त्वं भगवंच्छ्रान्तः क्लान्तो व भवतां तनौ ।
कच्चित् सर्वत्र कौशल्यं दृश्यते सुचिराद्भवान् ॥
इति तैरुदितं श्रुत्वा लोकेशः स जिनात्मजः ।
तान् सर्वान् समुपासीनान् वदत्येवं विलोकयन् ॥
ममानेकानि कार्याणि सत्त्वानां हितसाधने ।
तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् ॥
नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने ।
निष्पादितो जगत्सत्त्वसद्धर्मसाधने ऽपि हि ॥
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् ।
नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने ॥
निष्पादितो जगत्सत्त्वसद्धर्मसाधने ऽपि हि ।
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ॥
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
तेनाहं सुचिरेणापि युष्माकं हितसाधने ।
विलोक्य समुपायामि नान्यथेति हि मन्यत ॥
इत्यादिष्टं जगच्छास्त्रा तेन लोकेश्वरेण ते ।
श्रुत्वा सर्वे मुदा तस्य पुर एवं वदन्ति च ॥
जयो ऽस्तु ते सदा कार्ये सिध्यतु ते समीहितम् ।
सदैवं कृपयालोक्य सर्वान्नः पातुमर्हति ॥
इत्युक्त्वा ते प्रसन्नाक्षाः सर्वे तं त्रिगुणाधिपम् ।
स्वर्णरत्नासने स्थाप्य प्रार्थयन्येवमानताः ॥
भगवन्नाथ लोकेश सत्सौख्यगुणसाधनम् ।
अस्मदनुग्रहे धर्मं समुपादेष्टुमर्हति ॥
इति सम्प्रार्थिते तैः स लोकेश्वरो जिनात्मजः ।
तान यक्षान् राक्षसान् सर्वान् समालोक्यैवमादिशत् ॥
साधु चित्तं समाधाय शृणुध्वं यूयमादरात् ।
कारण्डव्यूहमौदार्यसूत्रं वक्ष्यामि वो हिते ॥
ये श्रोष्यन्ति महायानसूत्रराजमिदं मुदा ।
ये श्रुत्वा धारयिष्यन्ति वाचयिष्यन्ति ये सदा ॥
पर्यवाप्स्यन्ति ये चापि लिखिष्यन्ति च ये तथा ।
ये च लिखापयिष्यन्ति भावयिष्यन्ति ये सदा ॥
ये च प्रवर्तयिष्यन्ति श्रावयिष्यन्ति ये परान् ।
अनुमोद्य सदा स्मृत्वा प्रणत्वा ये भजन्त्यपि ॥
ये चापि श्रद्धया नित्यमर्चयिष्यन्ति सर्वदा ।
सादरं ये च सत्कृत्य मानयिष्यन्ति सर्वदा ॥
तेषां पुण्यमसंख्येयमप्रमेयं महत्तरम् ।
सद्गुनश्रीमहत्सौख्यसंबुद्धपदसाधनम् ॥
सर्वज्ञाः सुगताः सर्वे मुनीन्द्रा अपि सर्वदा ।
एतत्पुण्यप्रमाणानि कर्तुं न चाभिशक्नुयुः ॥
तद्यथापि च चतुर्द्विपनिवासिनो ऽपि मानवाः ।
हेमरत्नमयं स्तूपं कुर्युरेकैकमुच्छ्रितम् ॥
तेषु स्तूपेषु सर्वेषु धातुरत्नावरोपणम् ।
कूर्युस्ते मानवाः सर्वे चतुर्द्वीपनिवासिनः ॥
तेसां यावन्महत्पुण्यस्कन्धमौदार्यसत्तमम् ।
ततो ऽधिकं हि तत्पुण्यं कारण्डव्यूहसूत्रजम् ॥
तद्यथा च महानघाः पंचपूर्णजलावहाः ।
सहस्रपरिवारास्ताः संक्रमन्ति यथोदधिम् ॥
एवमेव महत्पुण्यं कारण्डव्यूहसूत्रजम् ।
श्रवणभजनादीनां संप्राभिवहते सदा ॥
एवमेतन्महत्पुण्यं मत्वा यूयं यदीच्छथ ।
त्यक्त्वा पापमतिं सर्वे शृणुतेदं सुभाषितम् ॥
श्रुत्वानुमोद्य सत्कृत्य मानयत सदादरात् ।
एतत्पुण्याभिलिप्ता हि भविष्यथ जिनात्मजाः ॥
इति तेन जगच्छास्त्रा समादिष्टं निशम्य ते ॥
सर्वे ते राक्षसा यक्षा मुदिताश्चेदमब्रुवन् ॥
ये चापीदं महायानसूत्रराजं जगत्प्रभाः ।
लिखापयन्ति तेषां स्यात्कियत्पुण्यं समादिश ॥
इत्यक्ते तैः स लोकेशो बोधिसत्त्वो जिनात्मजः ।
सर्वांस्तान् मुदितान् मत्वा समालोक्येदमादिशत् ॥
कुलपुत्रा अप्रमेयं पुज्यं तेषां प्रजायते ।
लिखन्तीदं सूत्रराजं लिखापयन्ति ये ऽपि च ॥
चतुरशीतिसद्धर्मस्कन्धसाहस्रिकानि तैः ।
लिखापितानि सर्वाणि तेषां पुण्यं महत्तरम् ॥
राजानस्ते भविष्यन्ति नृपेन्द्राश्चक्रवर्तिनः ।
धर्मिष्ठा लोकभर्तारो विरा धीरा विचक्षणाः ॥
ये चाप्यस्य महायानसूत्रराजस्य सर्वदा ।
नामानुस्मरणं कृत्वा भजन्ति संप्रसादिताः ॥
ते सर्वे भवदुःखेभ्यो विमुक्ता विमलाशयाः ।
निःक्लेशाः परिपूर्णांगाः सुगन्धिमुखवासिनः ॥
चन्दनगन्धितांगाश्च सुवीर्यबलवेगिनः ।
जातिस्मराश्च धर्मीष्ठा भवेयुः श्रीगुणाश्रयाः ॥
एवं मत्वा महत्पुण्यं यद्येतद्गुणमिच्छथ ।
विरम्य क्लेशसंगेभ्यः परिशुद्धाशया मुदा ॥
एतत्कारण्डव्यूहस्य सूत्रराजस्य सर्वदा ।
नामानुस्मरणं कृत्वा भजत श्रद्धयादरात् ॥
ततो यूयं विनिर्मुक्ता भवक्लेशातिदुःखतः ।
निःक्लेशा विमलात्मानः सुखावतीं गमिष्यथ ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
बोधिचर्यांव्रतं प्राप्य भविष्यथ जिनात्मजाः ॥
ततः सत्त्वहिताधानश्रीसंपत्सद्गुणाश्रयाः ।
सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यथ ॥
इति सत्यं परिज्ञाय शुद्धाशया जितेन्द्रियाः ।
त्रिरत्नभजनं कृत्वा भजन तत्सुभाषितम् ॥
इति तदुक्तमाकर्ण्य सर्वे ते यक्षराक्षसाः ।
प्रबोधिता महोत्साहैश्चरन्त्येवं समादरात् ॥
ततः केचिन् भवन्त्येतद्धर्मश्रद्धानुसारिणः ।
केचिच्च श्रोताअपन्नाः सकृदागामिनो ऽपरे ॥
अन्ये ऽनागामिनः केचिद्भवन्ति बोधिसाधने ।
ततस्सर्वे ऽपि ते यक्षा राक्षसाः संप्रमोदिताः ॥
तदुपदिष्टमासाद्य भवन्ति ब्रह्मचारिणः ।
परस्य च हितं कृत्वा संचरन्ते शुभे सदा ॥
ततस्ते नन्दिताः सर्वे भूयस्तं त्रिगुणाधिपम् ।
कृताजंलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥
भगवन्नुबोधे नः सद्धर्मं समुपादिशत् ।
विहरस्व सदात्रैव क्वचिदन्यत्र मा व्रज ॥
स्वर्णरत्नमयं स्तूपं कृत्वा दास्यामहे ऽत्र ते ।
रथचंक्रयात्रा च करिष्यामो जगत्प्रभोः ॥
सदा ते शरणे स्थित्वा पीत्वा धर्मामृतं मुदा ।
सद्धर्मसाधनं कृत्वा चरिष्यामः सुखं शुभे ॥
इति तैः प्रार्थितं सर्वैः श्रुत्वा लोकेश्वरो ऽथ सः ।
सर्वान्स्तान् राक्षसान् यक्षान् समालोक्यैवमादिशत् ॥
नाहं सदात्र तिष्ठेयमन्त्रत्राप्येवमाचरन् ।
बोधयन्नपरान् सत्त्वान् योजयेयं सुसंवरे ॥
तस्माद्यूयमिमे सर्वे उपदिष्टं यथा मया ।
तथा धृत्वा सदा धर्मे चरित्वा तिष्ठताभवम् ॥
इति शास्त्रा समादिष्टं श्रुत्वा ते यक्षराक्षसाः ।
तद्वियोगातिदुःखार्ता वदन्येवं परस्परम् ॥
गमिष्यति भवन्तो ऽयं लोकनाथो जगत्प्रभुः ।
तद्भविष्यामहे सर्वे सद्धर्मरहिता वयम् ॥
इति संभाष्य सर्वे ते तस्य त्रैधातुकप्रभोः ।
पादाब्जे प्रणतिं कृत्वा तिष्ठन्ति समुपाश्रिताः ॥
ततः स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
तान् सर्वान् समुपामन्त्र्य चरति प्रस्थितस्ततः ॥
तत्र ते राक्षसा यक्षास्सर्वे तस्य जगत्प्रभोः ।
रुदन्तः स्नेहरागार्ता गच्छन्ति पृष्ठतो ऽनुगाः ॥
तान् दृष्ट्वा त्वागतान् सर्वान् स लोकेशो करुणात्मकः ।
प्रायातान् दूरतो मार्गे समालोक्यैवमब्रवीत् ॥
सुदूरमागतो यूयं निवर्तध्वं स्वमालयम् ।
मागच्छत गमिष्यामि शुद्धावासे सुरालये ॥
इत्यादिष्टे जगच्छास्त्रा सर्वे ते यक्षराक्षसाः ।
लोकेश्वरस्य पादाब्जे नत्वा यान्ति स्वमालयम् ॥
तत्र ते राक्षसा यक्षा धृत्वाज्ञां त्रिजगत्प्रभोः ।
त्रिरत्नभजनं कृत्वा चतुर्ब्रह्मविहारिणः ॥
बोधिचर्याव्रतं धृत्वा संबोधिनिहिताशयाः ।
परस्परं हितं कृत्वा संचरन्ते सदा शुभे ॥
एवं स त्रिजगन्नाथो दुर्बोधान् यक्षराक्षसान् ।
अपि नियुज्य सद्धर्मे चारयति प्रबोधयन् ॥
एवं स त्रिजगन्नाथः सर्वासत्त्वान् प्रबोधयन् ।
बोधिमाअर्गे प्रतिष्ठाप्य पालयति सदा भवे ॥
तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयं जिनैः सर्वैः प्रमातुं नैव शक्यते ॥
तस्मात्तस्य जगद्भर्तुः स्मृत्वापि नाम सर्वदा ।
समुदाहृत्य नत्वापि कर्तव्यं भजनं मुदा ॥
ये तस्योच्चार्य नामापि भजन्ति सर्वदा मुदा ।
दुर्गतिं ते न गच्छन्ति संप्रयायुः सुखावतीम् ॥
तत्रामिताभनाथस्य शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेरन् सुसंवरे ॥
ततो बोधिव्रतं धृत्वा संचरित्वा जगद्धिते ।
त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वे ससांघिका लोका मुहुर्मुहुः संप्रबोधिताः ॥
॥ इति तमो ऽन्धकारभूमियक्षराक्षसपरिबोधनसद्धर्मावतारणप्रकरणं समाप्तम् ॥
11. शुद्धावासिक सुकुण्डल देवपुत्रोद्धारण प्रकरणम्
अथ गगनगंजो ऽसौ बोधिसत्त्वः कृतांजलिः ।
विश्वभुवं मुनीन्द्रं तं नत्वेवं पुनरबवीत् ॥
भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः ।
कदेह समुपागच्छेद् द्रक्ष्यते स कथं मया ॥
ततः कुत्र प्रयातो ऽसौ समुद्धर्तुं च दुःखितः ।
तदुपादिश्य नः सर्वान् प्रबोधयितुमर्हति ॥
इति संप्रार्थिते तेन गगनगंजेन सद्धिया ।
विश्वभूर्मुनिराजस्तं समालोक्यैवमादिशत् ॥
ततो ऽसौ कुत्रपुत्रान्तर्हिताग्निवत् प्रभासयन् ।
गत्वा विहायासौ शुद्धवासलोके ऽभिगच्छति ॥
तत्र स ब्राह्मणं रुपं धृत्वा पश्यन् समन्ततः ।
तत्र देवनिकायेषु समुपाचरते दीनवत् ॥
तत्र सुकुण्डलो नाम देवपुत्रो दरिद्रितः ।
दुःखितः क्लेशाभिन्नात्मा दुर्भगो दीनमानसः ॥
तं संपश्यन् समुद्धर्तुं सदृशाभाविताशयः ।
शनैस्तस्य गृहद्वारे समुपाश्रित्य तिष्ठति ॥
तं द्वारसमुपासीनं विलोक्य स सुकुण्डलः ।
कस्त्वं किमर्थमायात इत्येवं परिपृच्छति ॥
तेनैवं परिपृष्टे ऽसौ ब्राह्मणो ऽर्थि सुदुःखिवत् ।
निश्वस्यैवं शनैस्तस्य संपश्यन् वदते पुरः ॥
ब्राह्मणो ऽहं महाभाग दूरदेशादिहागतः ।
क्षुत्पिपासाभितप्तो ऽस्मि तद्भोज्यं मे प्रदीयताम् ॥
तेनैवं याचमानो ऽसौ देवपुत्रः सुकुण्डलः ।
रुदन् दीनस्वरः पश्यन् वदत्येवं तमानतः ॥
ब्राह्मण किं प्रदास्यते किंचिद्वस्तु न मे गृहे ।
तत्क्षमस्वापराधं मे प्रार्थयान्यमितो व्रजन् ॥
इति तेनोदितं श्रुत्वा वदत्येवं द्विजः स तम् ।
किंचिदपि प्रदातव्यं क्षुत्तृष्णाखेदितस्य मे ।
यदि न दीयते किंचिदप्यत्र मरणं व्रजे ॥
इति तदुक्तमाकर्ण्य देवपुत्रः सुकुण्डलः ।
किंचिद्वस्तु गृहे द्रष्टुं प्रविश्य पश्यते श्वसन् ॥
तदा तस्य जगद्धर्तुः कृपादृष्ट्यनुभावतः ।
तत्र गृहे समुद्भूता महदैश्वर्यसंपदः ॥
तदा तस्य गृहे तत्र काष्ठागारेषु सर्वतः ।
भाण्डानि विविधै रत्नैः पूर्णानि सर्वधातुभिः ॥
अन्नैश्च भोजनैर्द्रव्यैः पानैर्दिव्यामृतैरपि ।
दिव्यचीवरवस्त्रादिसर्वालंकारभूषणैः ॥
सुगन्धिद्रव्यपुष्पैश्च परिपूर्णानि सर्वतः ।
विलोक्य समुदाश्चर्यसमाकुलितमानसः ॥
अहो किमिदमाश्चर्यम् स्वप्नं वा दृश्यते मया ।
इति संचिन्त्य भूयो ऽपि समीक्ष्यैवं विचिन्तयन् ॥
नूनमयं महाभिज्ञः पुरुषो मद्गृहागतः ।
यस्य दर्शनभावेन लक्ष्मीर्जाता ममेदृशी ॥
इति निश्चित्य चित्तेन देवपुत्रः स नन्दितः ।
सहसोपेत्य तम् विप्रं भाषते एवमादरात् ॥
नमस्ते ब्राह्मणश्रेष्ठ कश्चित्ते कौशलं तनौ ।
प्रविशात्र गृहे ऽस्माकमनुग्रहीतुमर्हसि ॥
इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः ।
सहसोत्थाय तद्गेहं प्रविशति विलोकयन् ॥
तत्र स सुप्रसनात्मा देवपुत्रः सुकुण्डलः ।
ब्राह्मणं तं प्रतिष्ठाप्य स्वासने चार्चते मुदा ॥
प्रवार्य दूष्यपट्टादिचीवरैः शुष्मकोमलैः ।
मण्डयित्वा च सर्वागं सर्वालंकारभूषणैः ॥
दिव्यरसाग्रसुस्वादैराहारैरमृतोत्तमैः ।
वर्णगन्धरसोदारैर्भोजयति समादरम् ॥
तत्सत्कारं समालोक्य ब्राह्मणः स प्रसादितः ।
भुक्त्वा भोग्यं यथाकामं ददात्यस्मै शुभाशिषम् ॥
स्वस्ति ते मंगलं भूयात्सर्वदापि समन्ततः ।
तिष्ठतु ते गृहे लक्ष्मीः सदा सद्धर्मसाधिनी ॥
भवतु ते सदा शुद्धं चित्तं सद्धर्मलालसम् ।
सिध्यन्तु ते ऽभिलाषं च सम्वृतिकार्यसाधनम् ॥
सदैतच्छ्रीसुसंपत्तिसुखं भुक्त्वा हितार्थभृत् ।
त्रिरत्नभजनं कृत्वा तिष्ठ चरन् मुदा शुभे ॥
अहं गच्छामि जेतर्षेरुद्यने सौगताश्रमे ।
विश्वभुवं मुनीन्द्रं संद्रष्टुं वन्दितुमुत्सहे ॥
इति तदुक्तमाकर्ण्य देवपुत्रः स विस्मितः ।
ब्राह्मणं तं समालोक्य पृच्छते चैवमादरात् ॥
कीदृशं तन्महोद्यानं जेतर्षेः सौगताश्रमम् ।
कीदृशी रमणीया सा भूमी तद्वद मे द्विज ॥
इत्येवं देवपुत्रेण परिपृष्टे निशम्य सः ।
ब्राह्मणस्तं समालोक्य वदत्येवं च सादरम् ॥
रमणीयं तदुद्यानं जेतर्षः सौगताश्रमम् ।
दिव्यसौवर्णरत्नादिनानालंकारमण्डितम् ॥
तत्रैनकसमुद्भूता कल्पृक्षा महीरुहाः ।
सर्वकुसुमवृक्षाश्च सर्वसत्fअलशाखिनः ॥
अष्टांगगुणसम्पन्नाः जलपूर्णमनोहराः ।
अनेकाः पुष्करिण्यो ऽपि पद्मोत्पलादिशोभिताः ॥
तत्रार्हन्तः शुभात्मानो भिक्षवो ब्रह्मचारिणः ।
शुद्धशीला महाभिज्ञा दक्षिणीया विचक्षणाः ॥
विश्वभुवो मुनीन्द्रस्य श्रावका बोधिचारिणः ।
अनेके बोधिसत्त्वाश्च महासत्त्वा महर्द्धिकाः ॥
भिक्षुण्यो ब्रहचारिण्यः शुद्धशीला जितेन्द्रियाः ।
चैलकव्रतिनश्चापि तथान्ये ऽपि च सांघिकाः ॥
त्रिरत्नभजनारक्ता उपासका उपासिकाः ।
विश्वभुवो मुनीन्द्रस्य शासने शरणाश्रिताः ॥
सदा धर्मामृतं पीत्वा विहरन्ति समाहिताः ।
एवमन्ये ऽपि लोकाश्च ब्राह्मणस्तीर्थिका अपि ॥
राजानः क्षत्रियाश्चैव समन्त्रिजनपौरिकाः ।
श्रेष्ठिनः सार्थवाहाश्च महाजनाः शुभार्थिनः ॥
तत्रागत्य समाश्रित्य श्रुत्वा सद्धर्ममादरात् ।
त्रिरत्नभजनं कृत्वा विहरन्ति सदा शुभे ॥
तथा देवाश्च दैत्याश्च गन्धर्वा अपि किन्नराः ।
यक्षाश्च नागराजाश्च गरुडाश्च महोरगाः ॥
सिद्धा विद्याधराश्चापि सर्वे लोकाधिपा अपि ।
सदा तत्र समागत्य विश्वभुवो जगद्गुरोः ॥
सत्कृत्याभ्यर्च्य सद्धर्मं श्रुत्वा तिष्ठन्ति सादरम् ॥
एवं तत्र मुनीन्द्रो ऽसौ विश्वभूः संप्रदर्शयन् ।
प्रातिहार्याणि सद्धर्मं समुपादिश्य तिष्ठति ॥
एवं तज्जेतकारामं पुण्यक्षेत्रं मनोरमम् ।
सर्वैर्लोकाधिपैश्चापि संसेवितं प्रशासितम् ॥
तदत्र साम्प्रतम् सर्वे लोका देवाधिपा अपि ।
सद्धर्मं श्रोतुमागात्य तिष्ठन्ति तत्सभाश्रिताः ॥
तवापि यदि वांछास्ति तत्र गच्छ समदरात् ।
विश्वभुवो मुनीन्द्रस्य सभां पश्च वृषं शृणु ॥
तत्सद्धर्मामृतं पीत्पा संबोधिनिहिताशयः ।
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥
एतत्पुण्यविशुद्धत्मा परिशुद्धत्रिमण्डलः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि ॥
इति मत्वा समाधाय श्रुत्वा सद्धर्ममादरात् ।
त्रिरत्नभजनं कृत्वा तिष्ठ चरन् सदा शुभे ॥
इति तेन समादिष्टं निशम्य स सुकुण्डलः ।
प्रबोधितस्तथेत्युक्त्वा पृच्छत्येवं द्विजं च तम् ॥
अवस्यं सत्यमाख्यातुमर्हसि मे पुरः द्विज ।
देवो ऽसि मानवो वा त्वं दैत्येन्द्रो वा महर्द्धिमान् ॥
कस्यापि विद्यते नेदृक्कृपाधर्मानुभावता ।
यथा त्वमिह माम् पश्यन् तथा को ऽन्यो ऽनुपालयेत् ॥
इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः ।
देवपुत्रं तमालोक्य वदत्येवं प्रबोधने ॥
न देवो मानवो नैव दैत्येन्द्रो वापि नास्म्यहम् ।
बोधिसत्त्वो ऽस्म्यहं सर्वसत्त्वहितार्थसंभरः ॥
बोद्धिचर्याव्रतं धृत्वा पश्यन् सत्त्वान् सुदुःखितः ।
बोधयित्वा प्रयत्नेन योजयित्वा सुसंवरे ॥
एवं सर्वत्र लोकेषु दुःखिनः पापिनो ऽप्यहम् ।
बोधयित्वा स्वयं पश्यन् योजयेयं सदा शुभे ॥
तथहं स्वयमालोक्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य गच्छे तत्र जिनाश्रमे ॥
इति तेन समादिष्टं निशम्य संप्रमोदितः ।
स रत्नदक्षिणां दत्वा तस्यैवं च प्रभाषते ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
यत्राद्य रोपितं वीजमद्य संपद्यते fअलम् ॥
धन्यास्ते पुरुषाः सर्वे ये त्रिरत्नसुभक्तिकाः ।
सदा धर्मामृतं पीत्वा संचरन्ते जगद्धिते ॥
अहमपि गमिष्यामि जेतारामे जिनाश्रमे ।
विश्वभुवं मुनीन्द्रं तं द्रष्टुमिच्छे ससांघिकम् ॥
तदहं भवता सार्द्धं तत्र गन्तुं समुत्सहे ।
तन्मां नीत्वा मुनीन्द्रं तं संदर्शयितुमर्हति ॥
इति संप्रार्थिते तेन ब्राह्मणः स सुकुण्डलम् ।
देवपुत्रं तमालोक्य प्रतिब्रवीति बोधयन् ॥
अहमन्यत्र लोके ऽपि सत्त्वान् पश्यन् प्रबोधयन् ।
बोधिमार्गे नियुज्यैवं गमिष्यामि तदाश्रमे ॥
त्वमेव प्रथमं गत्वा तत्र जेताश्रमे वने ।
विहारस्थं मुनीन्द्रं तं संदर्शय ससांघिकम् ॥
तत्सद्धर्मामृतं पीत्वा संबोधिनिहिताशयः ।
त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे ॥
इत्युक्त्वा स महासत्त्वो ब्राह्मणः प्रस्थितस्ततः ।
अन्तर्हितः क्षणाद्वह्निरिवाशे ऽभिगच्छति ॥
तद् दृष्ट्वा देअवपुत्रो ऽसौ मुदाश्चर्यकुलाशयः ।
नत्वाकाशे मुहुः पश्यंश्चिरेण गच्छते गृहे ॥
तत्र सत्त्वालयासीनाः ब्राह्मणं तमनुस्मरन् ।
तद्दुपदिष्टमाधाय तिष्ठते संचरेच्छुभे ॥
त्रिरत्नभजनं कृत्वा संचरन्ते सदा शुभे ॥
एवं स त्रिजगन्नथो लोकेश्वरो जिनात्मजः ।
देवानपि प्रयत्नेन बोधयित्वा प्रमोदयन् ।
बोधिमार्गे नियुज्यैवं चारयति जगद्धिते ॥
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
तत्रास्य त्रिजगद्भर्तुः स्मृत्वापि नाम सर्वदा ।
ध्यात्वापि प्रणतिं कृत्वा भजन्तु बोधिवांछिनः ॥
ये भजन्ति मुदा तस्य न ते गच्छन्ति दुर्गतिम् ।
सदा सद्गतिसंजाताः प्रान्ते यान्ति सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
बोधिचर्याव्रतं धृत्वा संयास्यन्ति जिनालयम् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः ।
लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥
॥ इति शुद्धावासिकसुकुण्डलदेवपुत्रोद्धरणप्रकरणं समाप्तम् ॥
12. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम्
अथ गगनगंजो ऽसौ बोधिसत्त्वो जिनात्मजः ।
विश्वभुवं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥
अद्यापि स महासत्त्वो नायाति भगवन्निह ।
कदेह समुपागच्छेत् कुत्र गच्छति साम्प्रतम् ॥
इति तेनाभिसंपृष्टे विश्वभूः स सुधाखिरः ।
गगनगंजमालोक्य तमेवं पुनरादिशत् ॥
ततः संप्रस्थितो ऽसौ च लोकेश्वः प्रभासयन् ।
सिहंलद्वीप आलोक्य च लोकेश्वर राक्षसीरभिगच्छति ॥
दिव्यातिसुन्दरं कामरुपं धृत्वा स भासयन् ।
तत्राभिसरते चित्तं राक्षसीनां प्रमोदयन् ॥
तमायातं समुपालोक्य प्रौढकामातिसुन्दरम् ।
सर्वासां राक्षसीनां तत्कामरागं समुत्थितम् ॥
तदा ताः प्रमदाः सर्वा राक्षस्य मदनाकुलाः ।
नवयौवनकन्तांगा रतिरुपातिसुन्दराः ॥
भूत्वा तं समुपालोक्य पुरतं समुपाश्रिताः ।
तत्पादाम्बुरुहे नत्वा बुवत्येवं समादरम् ॥
स्वागतं ते भवान् हि कच्चित् सर्वत्र कौशलम् ।
संपश्यन् तर्पयास्माकमनुगृहीतुमर्हसि ॥
अस्माकं यौवनीनां यत्स्वामी भर्ता पतिः प्रभुः ।
कस्या अपि हि नैको ऽपि विद्यते हि कदाचन ॥
तदास्माकं भवान् स्वामी भर्ता पतिः प्रभुः सुहृत् ।
भवतु नागतिश्चापि त्राता द्वीपः परायणः ।
शरण्यं च सदा लोके सन्मार्गदेशको ऽचि च ॥
सदा ते शरणे स्थित्वा समादिष्टं तथा त्वया ।
तथा सर्वा वयं धृत्वा संचरिष्यामहे मुदा ॥
सन्त्यत्र विविधा भोग्या दिव्यामृतरसोत्तमाः ।
वस्त्राणि विविधान्येवं विविधभूषणाम्यपि ॥
रमणीयास्तडागाश्च क्रीडोद्यानवनानि च ।
प्रासादा रमणीयाश्च दीर्घिकाश्च मनोरमाः ॥
सन्ति द्रव्याणि सर्वाणि रत्नानि विविधान्यपि ।
सर्वोपकरणवस्तूनि सुपथ्यान्यौषधान्यपि ॥
एतानीमानि सर्वाणि त्वदधीनानि सर्वदा ।
तद्भवान् समुपालोक्य स्वेच्छया दातुमर्हति ॥
यथाकामं सुखं भुक्त्वा सहास्माभिः सदा रमन् ।
स्वेच्छया संचरंस्तिष्ठन् वसत्विहैव सर्वदा ॥
भवद्वशे समाश्रित्य सर्वा वयं समासरात् ।
पूरयित्वाप्यभिप्रायं चरिष्यामो यथासुखम् ॥
तदस्माकं भवान् स्वामी भूत्वात्रैव सदा रमन् ।
स्थातुमर्हसि राजेव पालयन्नः सुदुःखिताः ॥
भवतो भजनं कृत्वा करिष्यामः समीहितम् ।
तत्तिष्ठतु सदेहैव मान्यत्र व्रजतु क्वचित् ॥
एवं ताभिः समाख्यातं निशम्य स जगत्प्रभुः ।
सर्वास्ताः प्रमदाः पश्यन् ब्रवीत्येवं पुरः पुनः ॥
यथा मयोपदिष्टं हि युष्माभिः क्रियते यदि ।
तथा युष्मद्वशे स्थित्वा चरिष्यामीह सर्वदा ॥
यथाकामं सुखं भुक्त्वा युष्माभिः सह सर्वदा ।
रमन् सर्वमभिप्रायं पूरयिष्यामि वो ध्रुवम् ॥
इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि ।
सर्वास्तं पुरुषं कान्तं संवीक्ष्यैवं ब्रुवन्ति च ॥
त्वदादिष्टं वयं श्रुत्वा न चरिष्यामहे कथम् ।
अवश्यं ते वशे स्थित्वा करिष्यामो यथोदितम् ॥
तदस्माकं वचः श्रुत्वा भुक्त्वास्माभिः सुखं सह ।
यथाकामं रमन्नत्र संचरतां यथेच्छया ॥
इति ताभिः समाख्यातं निशम्य स जगत्प्रभुः ।
सर्वास्ता राक्षसीः पश्यन् ब्रवीत्येव प्रबोधयन् ॥
यदि यूयं मयाख्यातं धृत्वा सर्वाश्चरिष्यथ ।
तच्छृणुध्वं समाधाय देशितं वो हितं मया ॥
विरम्य दशपापेभ्यो धृत्वा ब्रह्मविहारिकम् ।
त्रिरत्नभजनं कृत्वा चरध्वं पोषधं व्रतम् ॥
यद्येतद्व्रतमाधाय चरथ सर्वदादरात् ।
तदा युष्मद्वशे स्थित्वा तिष्ठेयमिह संरमन् ॥
इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि ।
सर्वास्तथेति विज्ञप्य कुर्वन्त्येवं च तत्पुरः ॥
स्वामिन् यथा त्वयादिष्टं तथा वयं चरेमहि ।
तदेतद्विधिमस्माकं समुपादेष्टुमर्हसि ॥
इति संप्रार्थितं ताभिनिर्शम्य स जिनात्मजः ।
ताः सर्वास्ता बोधिता मत्वा समीक्ष्यैवं ब्रवीति तत् ॥
शृणुध्वं यदि वांछास्मिन् युष्माकं सत्सुखे सदा ।
व्रतराजविधानं च उपदेक्ष्यामि विस्तरम् ॥
आदौ पुण्यसुखोत्साहं धृत्वा शुद्धाशया मुदा ।
तीर्थे स्नात्वा विशुद्धांगा प्रावृत्य शुद्धचीवरैः ॥
अभ्यर्च्य सद्गुरुं नत्वा त्रिरत्नशरणं गताः ।
श्रीमल्लोकेश्वरं ध्यात्वा समभ्यर्च्य यथाविधिम् ॥
ततश्चार्घादिकं दत्वा संस्तुत्वा स्तुतिजल्पनः ।
अष्टांगैः सादरं नत्वा कृत्वा वापि प्रदक्षिणान् ॥
सधातुद्रव्यरत्नादिदक्षिणान् श्रद्धयादरात् ।
उपढोक्य समालोक्य कृताजलिपुता मुदा ॥
पापानां देशनां कृत्वा धृत्वा पुण्यानुमोदनाम् ।
संबोधिओप्रणिधिं धृत्वा प्रार्थगेत जगच्छुभे ॥
एवं कृत्वा व्रतं नित्यमह्नायामे तृतीयके ।
भोग्यं निरामिषं भुक्त्वा कुरुत व्रतपालनाम् ॥
एवं नित्यं समाधाय कृत्वा व्रतमिदं सदा ।
त्रिरत्नशरणं कृत्वा संचरध्वं जगद्धितं ॥
एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः ।
सदा सद्गतिसंजाताः सद्धर्मश्रीगुणाशयाः ॥
सत्सुखानि सदा भुक्त्वा निःक्लेशा विजितेन्द्रियाः ।
सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्पा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥
एवं मत्वा महत्पुण्यं पोषधव्रतसंभवम् ।
यदीच्छथ सदा भद्रं तच्चरध्वं सदा व्रतम् ॥
इत्येवं तत्समादिष्टं श्रुत्वा ताः प्रमदा अपि ।
राक्षस्यो मुदिताः सर्वा धर्तुमिच्छन्ति तद् व्रतम् ॥
ततस्ताः प्रमदाः सर्वा राक्षस्यो ऽपि प्रबोधिताः ।
यथाविधि समाधाय चरन्ति पोषधं व्रतम् ॥
एतत्पुण्यानुभावेन सर्वास्ता विमलाशयाः ।
विमुक्तकामसंरागा भवन्ति ब्रह्मचारिकाः ॥
तदा तासां च सर्वासां राक्षसीनां मनांस्यपि ।
क्लेशदुःखैर्न बाध्यन्ते ऽपहारिभिः कदापि च ॥
तासामाघाचित्तं च नैवाभिजायते क्वचित् ।
दशाकुशलसंरागं कस्याश्चापि न जायते ॥
सर्वा श्रद्धानुसारिण्यः सद्धर्मगुणसाधने ।
तथा धर्मानुसारिण्यो भवन्ति प्राप्तसंवराः ॥
चतुःसत्यागमप्रप्ताः प्राप्तमार्गचतुष्टयाः ।
काश्चिच्च श्रोताअपतिfअलप्राप्ताः प्रबोधिताः ॥
तथान्याः सकृदागामिfअलप्राप्ताः काश्चित् सद्धर्मसाधने ॥
काश्चिदर्हत्वसंप्राप्ताः परिशुद्धत्रिमण्डलाः ।
प्रत्येकां बोधिमन्याश्च काश्चित्संबोधिलालसाः ॥
एवं तदुपदेशमासाद्य सर्वास्ताः प्रमदा अपि ।
सद्धर्माभिता भद्रा भवन्ति बोधिमानसाः ॥
एवं तस्य जगद्भर्तुः प्रसादास्ताः प्रमोदिताः ।
शिक्षासंवरमासाद्य प्रचरन्ति जगद्धिते ॥
ततस्ता नन्दिताः सर्वाः शास्तारं तमुपस्थिताः ।
कृताजलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥
यद्भवान् स्वयमालोक्य सर्वानस्मान् दुरारतान् ।
कृत्या बोधयन् धर्मे नियोजयति सद्गुरो ॥
तदस्माकं भवांच्छस्ता सुहृन्मित्रं च सद्गुरुः ।
सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥
वयं सर्वा भवच्छिक्षास्तद्भवच्छरणे स्थिताः ।
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0