गोरक्षशतक · श्लोक 61-80
अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम्
प्राप्ते प्राणं महापद्मं योगित्वम् अमृतायते ॥
विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते
अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः ॥
विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलम्
मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥
सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महत्
ध्यात्वामृतमयीं देवीं षण्-मासेन कविर् भवेत् ॥
अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात्
ऊर्ध्वं प्रवर्तते रेतोऽप्य् अणिमादि-गुणोदयः ॥
इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः
तथा सोमकला-पूर्णं देही देहं न मुञ्चति ॥
आसनेन समायुक्तः प्राणायामेन संयुतः
प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ॥
हृदये पञ्च-भूतानां धारणां च पृथक् पृथक्
मनसो निश्चलत्वेन धारणा च विधीयते ॥
या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ॥
अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेऽम्बु-तत्तव्ं स्थितं यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा ॥
यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम्
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा ॥
यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोर् अन्तरे वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥
आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितं तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम्
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा ॥
स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा
शोषणी च भवन्त्य् एवं भूतानां पञ्च धारणाः ॥
कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः
विधाय सततं योगी सर्व-पापैः प्रमुच्यते ॥
सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते
यत् तत्त्वे निश्चितं चेतस् तत् तु ध्यानं प्रचक्षते ॥
द्विधा भवति तद् ध्यानं स-गुणं निर्गुणं तथा
सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः ॥
आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभम्
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति किल्बिषम् ॥
स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनम्
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति पातकम् ॥
तरुणादित्य-संकाशं चक्रं च मणिपूरकम्
नासाग्रे दृष्टिम् आदाय ध्यात्वा संक्षोभयेज् जगत् ॥
मूल पाठ: Gorakṣaśataka · Edition: Swami Kuvalayananda and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0