भाषा

ENहिગુ
ग्रंथ पाठ

गोरक्षशतक · श्लोक 41-60

41

बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवम्
नासाग्र-दृष्टिर् एकाकी प्राणायामं समभ्यसेत् ॥

42

प्राणो देह-स्थितो वायुर् आयामस् तन्-निबन्धनम्
एक-श्वास-मयी मात्रा तद् योगी गगनायते ॥

43

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥

44

अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभम्
ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ॥

45

प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः
कुम्भयित्वा विधानेन भूयश् चन्द्रेण रेचयेत् ॥

46

प्रज्वलज्-ज्वलन-ज्वाला पुञ्जम् आदित्य-मण्डलम्
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥

47

रेचकः पूरकश् चैव कुम्भकः प्रणवात्मकः
प्राणायामो भवेत् त्रेधा मात्रा द्वादश-संयुतः ॥

48

द्वादशाधमके मात्रा मध्यमे द्विगुणास् ततः
उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥

49

अधमे च घनो घर्मः कम्पो भवति मध्यमे
उत्तिष्ठत्य् उत्तमे योगी बद्ध-पद्मासनो मुहुः ॥

50

अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥

51

मन्दं मन्दं पिबेद् वायुं मन्दं मन्दं वियोजयेत्
नाधिकं स्तम्भयेद् वायुं न च शीघ्रं विमोचयेत् ॥

52

ऊर्ध्वम् आकृष्य चापानं वातं प्राणे नियोजयेत्
मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते ॥

53

प्राणायामो भवत्य् एवं पातकेन्धन-पातकः
एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा ॥

54

आसनेन रुजो हन्ति प्राणायामेन पातकम्
विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥

55

चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः
तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥

56

एका स्त्री भुज्यते द्वाभ्याम् आगता सोम-मण्डलात्
तृतीयो यो भवेत् ताभ्यां स भवत्य् अजरामरः ॥

57

नाभिदेशे भवत्य् एको भास्करो दहनात्मकः
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥

58

वर्षत्य् अधोमुखश् चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः
ज्ञातव्यं करणं तत्र येन पीयूषम् आप्यते ॥

59

ऊर्ध्व-नाभिर् अधस् तालु ऊर्ध्व-भानुर् अधः शशी
करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते ॥

60

त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम्
अनाहतं च तच् चक्रं हृदये योगिनो विदुः ॥

मूल पाठ: Gorakṣaśataka · Edition: Swami Kuvalayananda and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc