गोरक्षशतक · श्लोक 82-101
विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥
सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवम्
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥
भ्रुवोर् मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभम्
नासाग्रे दृष्टिम् आदाय ध्यात्वाऽनन्दमयो भवेत् ॥
निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम्
नासाग्रे दृष्टिम् आदाय ध्यात्वा दुःखाद् विमुच्यते ॥
गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः
घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरम् ॥
निर्मलं गगनाकारं मरीचि-जल-सन्निभम्
आत्मानं सर्वगं ध्यात्वा योगी योगम् अवाप्नुयात् ॥
कथितानि यथैतानि ध्यान-स्थानानि योगिनाम्
उपाधि-तत्त्व-युक्तानि कुर्वन्त्य् अष्ट-गुणोदयम् ॥
उपाधिश् च तथा तत्त्वं द्वयम् एवम् उदाहृतम्
उपाधिः प्रोच्यते वर्णस् तत्त्वम् आत्माभिधीयते ॥
उपाधिर् अन्यथा-ज्ञानं तत्त्वं संस्थितम् अन्यथा
समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनाम् ॥
आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः
मुक्तो यः शक्ति-भेदेन सोऽयम् आत्मा प्रशस्यते ॥
निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम्
निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥
शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः
तावद् एव स्मृतं ध्यानं तत्-समाधिर् अतः परम् ॥
यदा संक्षीयते प्राणो मानसं च विलीयते
तदा सम-रसैकत्वं समाधिर् अभिधीयते ॥
धारणाः पञ्च-नाड्यस् तु ध्यानं च षष्ठि-नाडिकाः
दिन-द्वादशकेनैव समाधिः प्राण-संयमः ॥
न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम्
आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥
खाद्यते न च कालेन बाध्यते न च कर्मणा
साध्यते न च केनापि योगी युक्तः समाधिना ॥
निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत्
व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः ॥
दुग्धे क्षीरं धृते सर्पिर् अग्नौ वह्निर् इवार्पितः
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥
भव-भय-वने वह्निर् मुक्ति-सोपान-मार्गतः
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥
मूल पाठ: Gorakṣaśataka · Edition: Swami Kuvalayananda and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0