गोरक्षशतक · श्लोक 21-40
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा ॥
कूहुश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ॥
प्राणापानौ समानश् च ह्य् उदानो व्यान एव च
नागः कूर्मश् च कृकरो देवदत्तो धनञ्जयः ॥
नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः
एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः ॥
प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥
आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः
प्राणापान-समाक्षिप्तस् तथा जीवोऽनुकृष्यते ॥
रज्जु-बद्धो यथा श्येनो गतोऽप्य् आकृष्यते(?)
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते ॥
अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति
ऊर्ध्वाधः संस्थिताव् एतौ यो जानाति स योगवित् ॥
कन्दोर्ध्वे कुण्डली-शक्तिर् अष्टधा कुण्डली-कृता
ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति ॥
प्रबुद्धा वह्नि-योगेन मनसा मारुता हता
प्रजीव-गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥
महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम्
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥
वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम्
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद् एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥
ऊर्ध्वं मेढ्राद् अधो नाभेर् उड्डियानं प्रचक्षते
उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी ॥
जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे
न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम्
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो निगद्यते ॥
यतः काल-भयात् ब्रह्मा प्राणायाम-परायणः
योगिनो मुनयश् चैव ततः प्राणं निबन्धयेत् ॥
चले वाते चलं सर्वं निश्चले निश्चलं भवेत्
योगी स्थाणुत्वम् आप्नोति ततो वायुं निबन्धयेत् ॥
षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः
वाम-दक्षिण-मार्गेण ततः प्राणोऽभिधीयते ॥
मूल पाठ: Gorakṣaśataka · Edition: Swami Kuvalayananda and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0