गोरक्षशतक · श्लोक 1-20
ओं गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम् ॥
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम्
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम्
शमनं भव-तापस्य योगं भजति सज्जनः ॥
आसनं प्राण-संयामः प्रत्याहारोऽथ धारणा
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट् ॥
आसनानि तु तावन्ति यावत्यो जीव-जातयः
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम्
ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन् मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन् भ्रुवोर् अन्तरम् एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद् एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते ॥
आधाराख्ये गुद-स्थाने पङ्कजं यच् चतुर्दलम्
तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता ॥
योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम्
मस्तके मणिवद् भिन्नं यो जानाति स योगवित् ॥
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत्
चतुरस्रं पुरं वह्नेर् अधो-मेढ्रम् एवाभिधीयते ॥
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः
स्वाधिष्ठानाख्यया तस्मान् मेढ्रम् एवाभिधीयते ॥
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः स्व-गाण्डवत्
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥
तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः
प्राधान्यात् प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः ॥
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥
अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥
मूल पाठ: Gorakṣaśataka · Edition: Swami Kuvalayananda and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0