गोरक्षशतक (अन्य संस्करण) · श्लोक 21-41
यत् समाधौ परं ज्योतिर् अनन्तं विश्वतो-मुखम्
तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते ॥
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः
स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते ॥
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥
द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति ॥
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत्
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥
तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः
प्रधानं प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः ॥
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥
अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा ॥
कुहूश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश-नाडिकाः ॥
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ॥
प्राणोऽपानः समानश् च उदानो व्यानौ च वायवः
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥
हृदि प्राणो वसेन् नित्यं अपानो गुद-मण्डले
समानो नाभि-देशे स्याद् उदानः कण्ठ-मध्यगः ॥
उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः
कृकरः क्षुत-कृज् ज्ञेयो देवदत्तो विजृम्भणे ॥
न जहाति मृतं चापि सर्व-व्यापि धनञ्जयः
एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः ॥
आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः
प्राणापान-समाक्षिप्तस् तथा जीवो न तिष्ठति ॥
प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥
रज्जु-बद्धो यथा श्येनो गतोऽप्य् आकृष्यते(?)
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते ॥
अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति
ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित् ॥
मूल पाठ: Gorakṣaśataka · Edition: the version of the text found in Briggs' Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0