गोरक्षशतक (अन्य संस्करण) · श्लोक 1-20
श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम्
यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः ॥
अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते
ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे ॥
नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम्
अभीष्टं योगिनां ब्रूते परमानन्द-कारकम् ॥
गोरक्षः शतकं वक्ति योगिनां हित-काम्यया
ध्रुवं यस्यावबोधेन जायते परमं पदम् ॥
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम्
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम्
शमनं भव-तापस्य योगं भजति सज्जनः ॥
आसनं प्राण-संयामः प्रत्याहारोऽथ धारणा
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट् ॥
आसनानि तु तावन्ति यावत्यो जीव-जातयः
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम्
ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन् मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन् भ्रुवोर् अन्तरम् एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद् एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥
षट्-चक्रं षोडशाधारं त्रिलक्षं व्योम-पञ्चकम्
स्व-देहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥
एक-स्तम्भं नव-द्वारं गृहं पञ्चाधिदैवतम्
स्व-देहं ये न जानन्ति कथं सिध्यन्ति योगिनः ॥
चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्-दलम्
नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि ॥
कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्विदलं तथा
सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे ॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते ॥
आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम्
तन्-मध्ये प्रोच्यते योनिः कामाक्षा सिद्ध-वन्दिता ॥
योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम्
मस्तके मणिवद् बिम्बं यो जानाति स योगवित् ॥
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत्
त्रिकोणं तत्-पुरं वह्नेर् अधो-मेढ्रात् प्रतिष्ठितम् ॥
मूल पाठ: Gorakṣaśataka · Edition: the version of the text found in Briggs' Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0