भाषा

ENहिગુ
ग्रंथ पाठ

गोरक्षशतक (अन्य संस्करण) · श्लोक 42-61

42

ह-कारेण बहिर् याति स-कारेण विशेत् पुनः
हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा ॥

43

षट्-शतानित्वहो-रात्रे सहस्राण्य् एक-विंशतिः
एतत् सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ॥

44

अजपा नाम गायत्री योगिनां मोक्ष-दायिनी
अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते ॥

45

अनया सदृशी विद्या अनया सदृशो जपः
अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥

46

कुन्दलिन्याः समुद्भूता गायत्री प्राण-धारिणी
प्राण-विद्या महा-विद्या यस् तां वेत्ति स योगवित् ॥

47

कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृति
ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥

48

येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम्
मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी ॥

49

प्रबुद्धा वह्नि-योगेन मनसा मारुता हता
सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥

50

प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा
प्रबुद्धा वह्नि-योगेन व्रत्य ऊर्ध्वं सुषुम्णया ॥

51

उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात्
कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत् ॥

52

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम्
वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः ॥

53

अङ्गानां मर्दनं कुर्याच् छ्रम-जातेन वारिणा
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥

54

ब्रह्मचारी मिताहारी त्यागी योग-परायणः
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥

55

सुस्निग्धं मधुराहारं चतुर्थांश-विवर्जितम्
भुज्यते सुर-सम्प्रीत्यै मिताहारः स उच्यते ॥

56

कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृतिः
बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ॥

57

महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम्
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥

58

शोधनं नाडि-जालस्य चालनं चन्द्र-सूर्ययोः
रसानां शोषणं चैव महा-मुद्राभिधीयते ॥

59

वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम्
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद् एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥

60

चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः
यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ॥

61

न हि पथ्यम् अपथ्यं वा रसाः सर्वेऽपि नीरसाः
अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते ॥

मूल पाठ: Gorakṣaśataka · Edition: the version of the text found in Briggs' Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc