गोपथब्राह्मण · अध्याय 3
(ग्ब्र्_1,2.24चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥
(ग्ब्र्_1,3.1अ) ओं दक्षिणाप्रवणा भूमिर् दक्षिणत आपो वहन्ति
(ग्ब्र्_1,3.1ब्) तस्माद् यज्ञास् तद्भूमेर् उन्नततरम् इव भवति यत्र भृग्वङ्गिरसो विष्ठास्
(ग्ब्र्_1,3.1च्) तद् यथाप इमांल् लोकान् अभिवहन्त्य् एवम् एव भृग्वङ्गिरसः सर्वान् देवान् अभिवहन्ति_
(ग्ब्र्_1,3.1द्) एवम् एवैषा व्याहृतिः सर्वान् वेदान् अभिवहत्य् ओम् इति हर्चाम् ओम् इति यजुषाम् ओम् इति साम्नाम् ओम् इति सर्वस्याहाभिवादस्
(ग्ब्र्_1,3.1ए) तं ह स्मैतद् उत्तरं यज्ञे विद्वांसः कुर्वन्ति
(ग्ब्र्_1,3.1f) देवा ब्रह्माण आगच्छतागच्छतेति_
(ग्ब्र्_1,3.1ग्) एते वै देवा ब्रह्माणो यद् भृग्वङ्गिरसस्
(ग्ब्र्_1,3.1ह्) तान् एवैतद् गृणानास् तान् वृणाना ह्वयन्तो मन्यन्ते
(ग्ब्र्_1,3.1इ) नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन्
(ग्ब्र्_1,3.1ज्) यज्ञस्य तेजसा तेज आप्नोत्य् ऊर्जयोर्जां यशसा यशः_
(ग्ब्र्_1,3.1क्) नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति
(ग्ब्र्_1,3.1ल्) तद् यथा पूर्वं वत्सो ऽधीत्य गां धयेद् एवं ब्रह्मा भृग्वङ्गिरोविद् वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति
(ग्ब्र्_1,3.1म्) तद् यथा गौर् वाश्वो वाश्वतरो वैकपाद् द्विपात् त्रिपाद् इति स्यात् किम् अभिवहेत् किम् अभ्यश्नुयाद् इति
(ग्ब्र्_1,3.1न्) तस्माद् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्रह्माणम्_
(ग्ब्र्_1,3.1ओ) तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति
(ग्ब्र्_1,3.1प्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद यश् चैवम् ऋत्विजाम् आर्त्विज्यं वेद यश् च यज्ञे यजनीयं वेदेति ब्राह्मणम्
(ग्ब्र्_1,3.2अ) प्रजापतिर् यज्ञम् अतनुत
(ग्ब्र्_1,3.2ब्) स ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्_
(ग्ब्र्_1,3.2च्) तं वा एतं महावाद्यं कुरुते यद् ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्_
(ग्ब्र्_1,3.2द्) स वा एष त्रिभिर् वेदैर् यज्ञस्यान्यतरः पक्षः संस्क्रियते
(ग्ब्र्_1,3.2ए) मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति_
(ग्ब्र्_1,3.2f) अयम् उ वै यः पवते स यज्ञस्
(ग्ब्र्_1,3.2ग्) तस्य मनश् च वाक् च वर्तनी
(ग्ब्र्_1,3.2ह्) मनसा चैव हि वाचा च यज्ञो वर्तते_
(ग्ब्र्_1,3.2इ) अद एव मन इयम् एव वाक्
(ग्ब्र्_1,3.2ज्) स यद् वदन् नास्ति विद्याद् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति
(ग्ब्र्_1,3.2क्) तद् यथैकपात् पुरुषो यन्न् एकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्य् एवम् एवास्य यज्ञो भ्रेषं न्येति
(ग्ब्र्_1,3.2ल्) यज्ञस्य भ्रेषम् अनु यजमानो भ्रेषं न्येति
(ग्ब्र्_1,3.2म्) यजमानस्य भ्रेषम् अन्व् ऋत्विजो भ्रेषं नियन्ति_
(ग्ब्र्_1,3.2न्) ऋत्विजां भ्रेषम् अनु दक्षिणा भ्रेषं नियन्ति
(ग्ब्र्_1,3.2ओ) दक्षिणानां भ्रेषम् अनु यजमानः पुत्रपशुभिर् भ्रेषं न्येति
(ग्ब्र्_1,3.2प्) पुत्रपशूनां भ्रेषम् अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति
(ग्ब्र्_1,3.2q) स्वर्गस्य लोकस्य भ्रेषम् अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम्
(ग्ब्र्_1,3.3अ) तद् उ ह स्माह श्वेतकेतुर् आरुणेयो ब्रह्माणं दृष्ट्वा भाषमाणम् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति
(ग्ब्र्_1,3.3ब्) तस्माद् ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यम् उपांश्व् अन्तर्यामाभ्याम्
(ग्ब्र्_1,3.3च्) अथ ये पवमाना ओदृचस् तेषु_
(ग्ब्र्_1,3.3द्) अथ यानि स्तोत्राणि सशस्त्राण्य् आ वषट्कारात् तेषु
(ग्ब्र्_1,3.3ए) स यद् ऋक्तो भ्रेषं न्यृच्छेद् ओं भूर् जनद् इति गार्हपत्ये जुहुयात्_
(ग्ब्र्_1,3.3f) यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुदुयात्_
(ग्ब्र्_1,3.3ग्) यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात्_
(ग्ब्र्_1,3.3ह्) यद्य् अनाज्ञाताद् ब्रह्मतो वों भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयात्
(ग्ब्र्_1,3.3इ) तद् वाकोवाक्यस्यर्चां यजुषां साम्नाम् अथर्वाङ्गिरसाम्
(ग्ब्र्_1,3.3ज्) अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते
(ग्ब्र्_1,3.3क्) तद् यथा लवणेनेत्य् उक्तम्_
(ग्ब्र्_1,3.3ल्) तद् यथोभयपात् पुरुषो यन्न् उभयचक्रो वा रथो वर्तमानो ऽभ्रेषं न्येति एवम् एवास्य यज्ञो ऽभ्रेषं न्येति
(ग्ब्र्_1,3.3म्) यज्ञस्याभ्रेषम् अनु यजमानो ऽभ्रेषं न्येति
(ग्ब्र्_1,3.3न्) यजमानस्याभ्रेषम् अन्व् ऋत्विजो ऽभ्रेषं नियन्ति_
(ग्ब्र्_1,3.3ओ) ऋत्विजाम् अभ्रेषम् अनु दक्षिणा अभ्रेषं नियन्ति
(ग्ब्र्_1,3.3प्) दक्षिणानाम् अभ्रेषम् अनु यजमानः पुत्रपशुभिर् अभ्रेषं न्येति
(ग्ब्र्_1,3.3q) पुत्रपशूनाम् अभ्रेषम् अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति
(ग्ब्र्_1,3.3र्) स्वर्गस्य लोकस्याभ्रेषम् अनु तस्यार्धस्य योगक्षेमो ऽभ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम्
(ग्ब्र्_1,3.4अ) तद् यद् औदुम्बर्यां म आसिष्ट हिङ्ङ् अकार्षीन् मे प्रास्तावीन् म उदगासीन् मे सुब्रह्मण्याम् आह्वासीद् इत्य् उद्गात्रे दक्षिणा नीयन्ते
(ग्ब्र्_1,3.4ब्) ग्रहान् मे ऽग्रहीत् प्राचारीन् मे ऽशुश्रुवन् मे समनसस् कार्षीद् अयाक्षीन् मे ऽवषट्कार्षीन् म इत्य् अध्वर्यवे
(ग्ब्र्_1,3.4च्) होतृषदन आसिष्टायाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति होत्रे
(ग्ब्र्_1,3.4द्) देवयजनं मे चीकॢपद् ब्रह्मासादं मे ऽसीसृपद् ब्रह्मजपान् मे ऽजपीत् पुरस्ताद्धोमसंस्थितहोमान् मे ऽहौषीद् अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति ब्रह्मणे
(ग्ब्र्_1,3.4ए) भूयिष्ठेन मा ब्रह्मणाकार्षीद् इति_
(ग्ब्र्_1,3.4f) एतद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः_
(ग्ब्र्_1,3.4ग्) ये ऽङ्गिरसः स रसो ये ऽथर्वाणो ये ऽथर्वाणस् तद्भेषजम्_
(ग्ब्र्_1,3.4ह्) यद् भेषजं तद् अमृतं यद् अमृतं तद् ब्रह्म
(ग्ब्र्_1,3.4इ) स वा एष पूर्वेषाम् ऋत्विजाम् अर्धभागस्यार्धम् इतरेषाम् अर्धं ब्रह्मण इति ब्राह्मणम्
(ग्ब्र्_1,3.5अ) देवाश् च ह वा असुराश् च संग्रामं समयतन्त
(ग्ब्र्_1,3.5ब्) तत्रैतास् तिस्रो होत्रा जिह्मं प्रतिपेदिरे
(ग्ब्र्_1,3.5च्) तासाम् इन्द्र उक्थानि सामानि लुलोप
(ग्ब्र्_1,3.5द्) तानि होत्रे प्रायच्छत्_
(ग्ब्र्_1,3.5ए) आज्यं ह वै होतुर् बभूव
(ग्ब्र्_1,3.5f) प्रऽउगं पोतुर् वैश्वदेवं ह वै होतुर् बभूव
(ग्ब्र्_1,3.5ग्) निष्केवल्यं नेष्टुः_
(ग्ब्र्_1,3.5ह्) मरुत्वतीयं ह वै होतुर् बभूव_
(ग्ब्र्_1,3.5इ) अग्निमारुतम् आग्नीध्रस्य
(ग्ब्र्_1,3.5ज्) तस्माद् एतद् अभ्यस्ततरम् इव शस्यते यद् आग्निमारुतम्_
(ग्ब्र्_1,3.5क्) तस्माद् एते संशंसुका इव भवन्ति यद् धोता पोता नेष्टा_
(ग्ब्र्_1,3.5ल्) आग्नीध्रो मुमुहे वसीत
(ग्ब्र्_1,3.5म्) तद् ब्रह्मेयसामिवास
(ग्ब्र्_1,3.5न्) तासाम् अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद् दक्षिणां चैतत् परिशिषेदेद् इति ब्राह्मणम्
(ग्ब्र्_1,3.6अ) उद्दालको ह वा आरुणिर् उदीच्यान् वृतो धावयां चकार
(ग्ब्र्_1,3.6ब्) तस्य ह निष्क उपाहितो बभूवोपवादाद् बिभ्यतो यो मा ब्राह्मणो ऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति
(ग्ब्र्_1,3.6च्) तद् धोदीच्यान् ब्राह्मणान् भयं विवेदोद्दालको ह वा अयम् आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः
(ग्ब्र्_1,3.6द्) स ऊर्ध्वं वृतो न पर्यादधीत
(ग्ब्र्_1,3.6ए) केनेमं वीरेण प्रतिसंयतामहा इति
(ग्ब्र्_1,3.6f) तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकम् ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठो ऽसीति
(ग्ब्र्_1,3.6ग्) त्वयेमं वीरेण प्रतिसंयतामहा इति
(ग्ब्र्_1,3.6ह्) तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे
(ग्ब्र्_1,3.6इ) तं ह स्वैदायना इत्य् आमन्त्रयाम् आस
(ग्ब्र्_1,3.6ज्) स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव
(ग्ब्र्_1,3.6क्) स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत्
(ग्ब्र्_1,3.7अ) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते
(ग्ब्र्_1,3.7ब्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्माद् अन्ततः सर्वा एव पलिता भवन्ति
(ग्ब्र्_1,3.7च्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजा अदन्तिका जायन्ते कस्माद् आसाम् अपरम् इव जायन्ते
(ग्ब्र्_1,3.7द्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्माद् आसां पुनर् एव जायन्ते कस्माद् अन्ततः सर्व एव प्रभिद्यन्ते
(ग्ब्र्_1,3.7ए) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
(ग्ब्र्_1,3.7f) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे
(ग्ब्र्_1,3.7ग्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमौ दंष्ट्रौ दीर्घतरौ कस्मात् समे इव जंभे
(ग्ब्र्_1,3.7ह्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे
(ग्ब्र्_1,3.7इ) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुवः स्त्रियः_
(ग्ब्र्_1,3.7ज्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां संततम् इव शरीरं भवति कस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति
(ग्ब्र्_1,3.7क्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति कस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति कस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति
(ग्ब्र्_1,3.7ल्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते [एद्. इं]
(ग्ब्र्_1,3.7म्) कस्मात् सकृद् अपानम्
(ग्ब्र्_1,3.8अ) अथ यः पुरस्ताद् अष्टाव् आज्यभागान् विद्यान् मध्यतः पञ्च हविर्भागाः षट् प्राजापत्या उपरिष्टाद् अष्टाव् आज्यभागान् विद्यात्_
(ग्ब्र्_1,3.8ब्) अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात्_
(ग्ब्र्_1,3.8च्) अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात्
(ग्ब्र्_1,3.8द्) तस्मै ह निष्कं प्रयच्छन्न् उवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति
(ग्ब्र्_1,3.8ए) तद् उपयम्य निश्चक्राम
(ग्ब्र्_1,3.8f) तत्रापवव्राज यत्रेतरो बभूव
(ग्ब्र्_1,3.8ग्) तं ह पप्रच्छ किम् एष गौतमस्य पुत्र इति_
(ग्ब्र्_1,3.8ह्) एष ब्रह्मा ब्रह्मापुत्र इति होवाच यद् एनं कश् चिद् उपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत् प्राणा वैनं जह्युर् इति
(ग्ब्र्_1,3.8इ) ते मिथ एव चिक्रन्देयुर् विप्रापवव्रज यत्रेतरो बभूव
(ग्ब्र्_1,3.8ज्) ते प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति
(ग्ब्र्_1,3.8क्) किम् अर्थम् इति
(ग्ब्र्_1,3.8ल्) यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति
(ग्ब्र्_1,3.8म्) तथेति
(ग्ब्र्_1,3.8न्) तेभ्य एतान् प्रश्नान् व्याचचष्टे
(ग्ब्र्_1,3.9अ) यत् पुरस्ताद् वेदेः प्रथमं बर्हि स्तृणाति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते
(ग्ब्र्_1,3.9ब्) यद् अपरम् इव प्रस्तरम् अनुप्रस्तृणाति तस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते
(ग्ब्र्_1,3.9च्) यत् प्राग् बर्हिषः प्रस्तरम् अनुप्रहरति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति
(ग्ब्र्_1,3.9द्) यद् अन्ततः सर्वम् एवानुप्रहरति तस्माद् अन्ततः सर्व एव पलिता भवन्ति
(ग्ब्र्_1,3.9ए) यत् प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् इमाः प्रजा अदन्तिका जायन्ते
(ग्ब्र्_1,3.9f) यद् धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्माद् आसाम् अपरम् इव जायन्ते
(ग्ब्र्_1,3.9ग्) यद् अनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते
(ग्ब्र्_1,3.9ह्) यत् पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां पुनर् एव जायन्ते
(ग्ब्र्_1,3.9इ) यत् समिष्टयजुर् अपुरोऽनुवाक्यावद् भवति तस्माद् अन्ततः सर्व एव प्रभिद्यन्ते
(ग्ब्र्_1,3.9ज्) यद् गायत्र्यानूच्य त्रिष्टुभा यजति तस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
(ग्ब्र्_1,3.9क्) यद् ऋचानूच्य यजुषा यजति तस्माद् अधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस]
(ग्ब्र्_1,3.9ल्) यद् आघारौ दीर्घतरौ प्राञ्चाव् आघारयति तस्माद् इमौ दंष्ट्रौ दीर्घतरौ
(ग्ब्र्_1,3.9म्) यत् संयाज्ये सच्छन्दसी तस्मात् समे इव जम्भे
(ग्ब्र्_1,3.9न्) यच् चतुर्थे प्रयाजे समानयति तस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे
(ग्ब्र्_1,3.9ओ) यज् जपं जपित्वाभिहिंकृणोति तस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुव स्त्रियः_
(ग्ब्र्_1,3.9प्) यत् सामिधेनीः संतन्वन्न् अन्वाह तस्माद् आसां संततम् इव शरीरं भवति
(ग्ब्र्_1,3.9q) यत् सामिधेन्यः काष्ठहविषो भवन्ति तस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति
(ग्ब्र्_1,3.9र्) यत् प्रयाजा आज्यहविषो भवन्ति तस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति
(ग्ब्र्_1,3.9स्) यन् मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति
(ग्ब्र्_1,3.9त्) यद् अनुयाजा आज्यहविषो भवन्ति तस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति
(ग्ब्र्_1,3.9उ) यद् उत्तमे ऽनुयाजे सकृद् अपानिति तस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते
(ग्ब्र्_1,3.9व्) यन् नापानेत् सकृच्छूनं स्यात्_
(ग्ब्र्_1,3.9w) यन् मुहुर् अपानेत् सकृत्पन्नं स्यात्
(ग्ब्र्_1,3.9x) तस्मात् सकृद् अपानिति नेत् सकृच्छूनं स्यात् सकृत्पन्नं वेति
(ग्ब्र्_1,3.10अ) अथ ये पुरस्ताद् अष्टाव् आज्यभागाः पञ्च प्रयाजा द्वाव् आघारौ द्वाव् आज्यभागाव् आग्नेय आज्यभागानां प्रथमः सौम्यो द्वितीयो हविर्भागानाम्_
(ग्ब्र्_1,3.10ब्) हविर् ह्य् एव सौम्यम्
(ग्ब्र्_1,3.10च्) आग्नेयः पुरोडाशः_
(ग्ब्र्_1,3.10द्) अग्नीषोमीयः पुरोडाशो ऽग्निः स्विष्टकृद् इत्य् एते मध्यतः पञ्च हविर्भागाः_
(ग्ब्र्_1,3.10ए) अथ ये षट् प्राजापत्या इडा च प्राशित्रं च यच् चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागो ऽन्वाहार्य एव षष्ठः_
(ग्ब्र्_1,3.10f) अथ य उपरिष्टाद् अष्टाव् आज्यभागास् त्रयो ऽनुयाजाश् चत्वारः पत्नीसंयाजाः समिष्टयजुर् अष्टमम्
(ग्ब्र्_1,3.10ग्) अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति वेदिर् एव सा
(ग्ब्र्_1,3.10ह्) तस्य ये पुरस्ताद् अष्टाव् आज्याभागाः स दक्षिणः पक्षः_
(ग्ब्र्_1,3.10इ) अथ य उपरिष्टाद् अष्टाव् आज्यभागाः स उत्तरः पक्षः_ [एद्. इपरिष्टाद्]
(ग्ब्र्_1,3.10ज्) हवींष्य् आत्मा [एद्. हविंष्य्]
(ग्ब्र्_1,3.10क्) गार्हपत्यो जघनम्
(ग्ब्र्_1,3.10ल्) आहवनीयः शिरः
(ग्ब्र्_1,3.10म्) सौवर्णराजतौ पक्षौ
(ग्ब्र्_1,3.10न्) तद् यद् आदित्यं पुरस्तात् पर्यन्तं न पश्यन्ति तस्माद् अज्योतिष्क उत्करो भवति_
(ग्ब्र्_1,3.10ओ) अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति याज्यैव सा
(ग्ब्र्_1,3.10प्) तस्या ओं श्रावयेति चतुरक्षरम्
(ग्ब्र्_1,3.10q) अस्तु श्रौषद् इति चतुरक्षरम्_
(ग्ब्र्_1,3.10र्) यजेति द्व्यक्षरम्_
(ग्ब्र्_1,3.10स्) ये यजामह इति पञ्चाक्षरम्_
(ग्ब्र्_1,3.10त्) द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः
(ग्ब्र्_1,3.10उ) पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति
(ग्ब्र्_1,3.10व्) तद् यत्रास्यैश्वर्यं स्याद् यत्र वैनम् अभिवहेयुर् एवंविदम् एव तत्र ब्रह्माणं वृणीयान् नानेवंविदम् इति ब्राह्मणम्
(ग्ब्र्_1,3.11अ) अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति
(ग्ब्र्_1,3.11ब्) पृच्छ प्राचीनयोग्येति
(ग्ब्र्_1,3.11च्) किंदेवत्यं ते गवीडायाम्_
(ग्ब्र्_1,3.11द्) किंदेवत्यम् उपहूतायाम्_
(ग्ब्र्_1,3.11ए) किंदेवत्यम् उपसृष्टायाम्_
(ग्ब्र्_1,3.11f) किंदेवत्यं वत्सम् उन्नीयमानम्_
(ग्ब्र्_1,3.11ग्) किंदेवत्यं वत्सम् उन्नीतम्_
(ग्ब्र्_1,3.11ह्) किंदेवत्यं दुह्यमानम्_
(ग्ब्र्_1,3.11इ) किंदेवत्यं दुग्धम्_
(ग्ब्र्_1,3.11ज्) किंदेवत्यं प्रक्रम्यमाणम्_
(ग्ब्र्_1,3.11क्) किंदेवत्यं ह्रियमाणम्_
(ग्ब्र्_1,3.11ल्) किंदेवत्यम् अधिश्रीयमाणम्_
(ग्ब्र्_1,3.11म्) किंदेवत्यम् अधिश्रितम्_
(ग्ब्र्_1,3.11न्) किंदेवत्यम् अभ्यवज्वाल्यमानम्_
(ग्ब्र्_1,3.11ओ) किंदेवत्यम् अभ्यवज्वालितम्_
(ग्ब्र्_1,3.11प्) किंदेवत्यं समुद्वान्तम्_
(ग्ब्र्_1,3.11q) किंदेवत्यं विष्यण्णम्_
(ग्ब्र्_1,3.11र्) किंदेवत्यम् अद्भिः प्रत्यानीतम्_
(ग्ब्र्_1,3.11स्) किंदेवत्यम् उद्वास्यमानम्_
(ग्ब्र्_1,3.11त्) किंदेवत्यम् उद्वासितम्_
(ग्ब्र्_1,3.11उ) किंदेवत्यम् उन्नीयमानम्_
(ग्ब्र्_1,3.11व्) किंदेवत्यम् उन्नीतम्_
(ग्ब्र्_1,3.11w) किंदेवत्यं प्रक्रम्यमाणम्_
(ग्ब्र्_1,3.11x) किंदेवत्यं ह्रियमाणम्_
(ग्ब्र्_1,3.11य्) किंदेवत्यम् उपसाद्यमानम्_
(ग्ब्र्_1,3.11z) किंदेवत्यम् उपसादितम्_
(ग्ब्र्_1,3.11अअ) किंदेवत्या समित्
(ग्ब्र्_1,3.11ब्ब्) किंदेवत्यां प्रथमाम् आहुतिम् अहौषीः
(ग्ब्र्_1,3.11च्च्) किंदेवत्यं गार्हपत्यम् अवेक्षिष्ठाः
(ग्ब्र्_1,3.11द्द्) किंदेवत्योत्तराहुतिः
(ग्ब्र्_1,3.11एए) किंदेवत्यं हुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषीः
(ग्ब्र्_1,3.11ff) किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः
(ग्ब्र्_1,3.11ग्ग्) किंदेवत्यं द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षीः
(ग्ब्र्_1,3.11ह्ह्) किंदेवत्यं प्रथमं प्राशीः
(ग्ब्र्_1,3.11इइ) किंदेवत्यं द्वितीयम्_
(ग्ब्र्_1,3.11ज्ज्) किंदेवत्यम् अन्ततः सर्वम् एव प्राशीः
(ग्ब्र्_1,3.11क्क्) किंदेवत्यम् अप्रक्षालितयोदकं स्रुचा न्यनैषीः
(ग्ब्र्_1,3.11ल्ल्) किंदेवत्यं प्रक्षालितया
(ग्ब्र्_1,3.11म्म्) किंदेवत्यम् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषीः [एद्. उदक]
(ग्ब्र्_1,3.11न्न्) किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः
(ग्ब्र्_1,3.11ओओ) किंदेवत्यं रात्रौ स्रुग्दण्डम् अवामार्क्षीः
(ग्ब्र्_1,3.11प्प्) किंदेवत्यं प्रातर् उदमार्क्षीर् इति_
(ग्ब्र्_1,3.11qq) एतच् चेद् वेत्थ गौतम हुतं ते यद्य् उ न वेत्थाहुतं त इति ब्राह्मणम्
(ग्ब्र्_1,3.12अ) स होवाच रौद्रं मे गवीडयाम्_
(ग्ब्र्_1,3.12ब्) मानव्यम् उपहूतायाम्_
(ग्ब्र्_1,3.12च्) वायव्यम् उपसृष्टायाम्_
(ग्ब्र्_1,3.12द्) वैराजं वत्सम् उन्नीयमानम्_
(ग्ब्र्_1,3.12ए) जागतम् उन्नीतम्
(ग्ब्र्_1,3.12f) आश्विनं दुह्यमानम्_
(ग्ब्र्_1,3.12ग्) सौम्यं दुग्धम्_
(ग्ब्र्_1,3.12ह्) बार्हस्पत्यं प्रक्रम्यमाणम्_
(ग्ब्र्_1,3.12इ) द्यावापृथिव्यं ह्रियमाणम् [एद्. ह्रियमानम्, चोर्र्. पत्यल्]
(ग्ब्र्_1,3.12ज्) आग्नेयम् अधिश्रीयमाणम्_
(ग्ब्र्_1,3.12क्) वैश्वानरीयम् अधिश्रितम्_
(ग्ब्र्_1,3.12ल्) वैष्णवम् अभ्यवज्वाल्यमानम्_
(ग्ब्र्_1,3.12म्) मारुतम् अभ्यवज्वालितम्_
(ग्ब्र्_1,3.12न्) पौष्णं समुद्वान्तम्_
(ग्ब्र्_1,3.12ओ) वारुणं विष्यन्नम्_
(ग्ब्र्_1,3.12प्) सारस्वतम् अद्भिः प्रत्यानीतम्_
(ग्ब्र्_1,3.12q) त्वाष्ट्रम् उद्वास्यमानम्_
(ग्ब्र्_1,3.12र्) धात्रम् उद्वासितम्_
(ग्ब्र्_1,3.12स्) वैश्वदेवम् उन्नीयमानम्_
(ग्ब्र्_1,3.12त्) सावित्रम् उन्नीतम्_
(ग्ब्र्_1,3.12उ) बार्हस्पत्यं प्रक्रम्यमाणम्_
(ग्ब्र्_1,3.12व्) द्यावापृथिव्यं ह्रियमाणम्
(ग्ब्र्_1,3.12w) ऐन्द्रम् उपसाद्यमानम्_
(ग्ब्र्_1,3.12x) बलायोपसन्नम्
(ग्ब्र्_1,3.12य्) आग्नेयी समित्_
(ग्ब्र्_1,3.12z) यां प्रथमाम् आहुतिम् अहौषं माम् एव तत् स्वर्गे लोके ऽधाम्_
(ग्ब्र्_1,3.12अअ) यद् गार्हपत्यम् अवेक्षिषम् अस्य लोकस्य संतत्यै
(ग्ब्र्_1,3.12ब्ब्) प्राजापत्योत्तराहुतिस्
(ग्ब्र्_1,3.12च्च्) तस्मात् पूर्णतरा मनसैव सा
(ग्ब्र्_1,3.12द्द्) यद् धुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषं रुद्रांस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12एए) यद् बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षम् ओषधिवनस्पतींस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12ff) यद् द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षं पितॄंस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12ग्ग्) यत् प्रथमं प्राशिषं प्राणांस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12ह्ह्) यद् द्वितीयं गर्भांस् तेन
(ग्ब्र्_1,3.12इइ) तस्माद् अनश्नन्तो गर्भा जीवन्ति
(ग्ब्र्_1,3.12ज्ज्) यद् अन्ततः सर्वम् एव प्राशिषं विश्वान् देवांस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12क्क्) यद् अप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12ल्ल्) यत् प्रक्षालितया सर्पपुण्यजनांस् तेन
(ग्ब्र्_1,3.12म्म्) यद् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12न्न्) यत् स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस् तेनाप्रैषम्_
(ग्ब्र्_1,3.12ओओ) यद् रात्रौ स्रुग्दण्डम् अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस् तान् उदनैषम्_
(ग्ब्र्_1,3.12प्प्) यत् प्रातर् उदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस् तानुदनैषम् इति ब्राह्मणम्
(ग्ब्र्_1,3.13अ) एवम् एवैतद् भो यथा भवान् आह
(ग्ब्र्_1,3.13ब्) पृच्छामि त्वेव भवन्तम् इति
(ग्ब्र्_1,3.13च्) पृच्छ प्राचीनयोग्येति
(ग्ब्र्_1,3.13द्) यस्य सायम् अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्य् उपसन्नानि स्युर् अथ चेद् दक्षिणागिर् उद्वायात् किं वा ततो भयम् आगच्छेद् इति
(ग्ब्र्_1,3.13ए) क्षिप्रम् अस्य पत्नी प्रैति यो ऽविद्वाञ् जुहोति
(ग्ब्र्_1,3.13f) विद्यया त्वेवाहम् अभिजुहोमीति
(ग्ब्र्_1,3.13ग्) का ते विद्या का प्रायश्चित्तिर् इति
(ग्ब्र्_1,3.13ह्) गार्हपत्याद् अधि दक्ष्.इणाग्निं प्रणीय प्राचो ऽङ्गारान् उद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात्_
(ग्ब्र्_1,3.13इ) अथ प्रातर् यथास्थानम् अग्नीन् उपसामधाय यथापुरं जुहुयात्
(ग्ब्र्_1,3.13ज्) सा मे विद्या सा प्रायश्चित्तिर् इति_
(ग्ब्र्_1,3.13क्) अथ चेद् आहवनीय उद्वायात् किं वा ततो भयम् आगच्छेद् इति
(ग्ब्र्_1,3.13ल्) क्षिप्रम् अस्य पुत्रः प्रैति यो ऽविद्वाञ् जुहोति
(ग्ब्र्_1,3.13म्) विद्यया त्वेवाहम् अभिजुहोमीति
(ग्ब्र्_1,3.13न्) का ते विद्या का प्रायश्चित्तिर् इति
(ग्ब्र्_1,3.13ओ) गार्हपत्याद् अध्य् आहवनीयं प्रणीय प्रतीचो ऽङ्गारान् उद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात्_
(ग्ब्र्_1,3.13प्) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
(ग्ब्र्_1,3.13q) सा मे विद्या सा प्रायश्चित्तिर् इति_
(ग्ब्र्_1,3.13र्) अथ चेद् गार्हपत्य उद्वायात् किं वा ततो भयम् आगच्छेद् इति
(ग्ब्र्_1,3.13स्) क्षिप्रं गृहपतिः प्रैति यो ऽविद्वाञ् जुहोति
(ग्ब्र्_1,3.13त्) विद्यया त्वेवाहम् अभिजुहोमीति
(ग्ब्र्_1,3.13उ) का ते विद्या का प्रायश्चित्तिर् इति
(ग्ब्र्_1,3.13व्) सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचो ऽङ्गारान् उद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात्_
(ग्ब्र्_1,3.13w) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
(ग्ब्र्_1,3.13x) सा मे विद्या सा प्रायश्चित्तिर् इति_
(ग्ब्र्_1,3.13य्) अथ चेत् सर्वे ऽग्नय उद्वायेयुः किं वा ततो भयम् आगच्छेद् इति
(ग्ब्र्_1,3.13z) क्षिप्रं गृहपतिः सर्वज्यानिं जीयते यो ऽविद्वाञ् जुहोति
(ग्ब्र्_1,3.13अअ) विद्यया त्वेवाहम् अभिजुहोमीति
(ग्ब्र्_1,3.13ब्ब्) का ते विद्या का प्रायश्चित्तिर् इति_
(ग्ब्र्_1,3.13च्च्) आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात्_
(ग्ब्र्_1,3.13द्द्) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
(ग्ब्र्_1,3.13एए) सा मे विद्या सा प्रायश्चित्तिर् इति_
(ग्ब्र्_1,3.13ff) अथ चेन् नाग्निं जनयितुं शक्नुयुर् न कुतश् चन वातो वायात् किं वा ततो भयम् आगच्छेद् इति
(ग्ब्र्_1,3.13ग्ग्) मोघम् अस्वेष्टं च हुतं च भवति यो ऽविद्वाञ् जुहोति
(ग्ब्र्_1,3.13ह्ह्) विद्यया त्वेवाहम् अभिजुहोमीति
(ग्ब्र्_1,3.13इइ) का ते विद्या का प्रायश्चित्तिर् इति_
(ग्ब्र्_1,3.13ज्ज्) आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्य <वात आ वातु भेषजम् [प्स् 19.46.7-9]> इति सूक्तेनात्मन्य् एव जुहुयात्_
(ग्ब्र्_1,3.13क्क्) अथ प्रातर् अग्निं निर्मथ्य यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
(ग्ब्र्_1,3.13ल्ल्) सा मे विद्या सा प्रायश्चित्तिर् इति ब्राह्मणम्
(ग्ब्र्_1,3.14अ) एवम् एवैतद् भो भगवन् यथा भवान् आह_
(ग्ब्र्_1,3.14ब्) उपयामि त्वेव भवन्तम् इति_
(ग्ब्र्_1,3.14च्) एवं चेन् नावक्ष्यो मूर्धा ते व्यपतिष्यद् इति
(ग्ब्र्_1,3.14द्) हन्त तु ते तद् वक्ष्यामि यथा ते न विपतिष्यतीति
(ग्ब्र्_1,3.14ए) यो ह वा एवंविद्वान् अश्नाति च पिबति च वाक् तेन तृप्यति
(ग्ब्र्_1,3.14f) वाचि तृप्तायाम् अग्निस् तृप्यति_
(ग्ब्र्_1,3.14ग्) अग्नौ तृप्ते पृथिवी तृप्यति
(ग्ब्र्_1,3.14ह्) पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
(ग्ब्र्_1,3.14इ) यो ह वा एवंविद्वान् अश्नाति च पिबति च प्राणस् तेन तृप्यति
(ग्ब्र्_1,3.14ज्) प्राणे तृप्ते वायुस् तृप्यति [एद्. प्रणे]
(ग्ब्र्_1,3.14क्) वायौ तृप्ते ऽन्तरिक्षं तृप्यति_
(ग्ब्र्_1,3.14ल्) अन्तरिक्षे तृप्ते यान्य् अन्तरिक्षे भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
(ग्ब्र्_1,3.14म्) यो ह वा एवंविद्वान् अश्नाति च पिबति च चक्षुस् तेन तृप्यति
(ग्ब्र्_1,3.14न्) चक्षुषि तृप्त आदित्यस् तृप्यति_
(ग्ब्र्_1,3.14ओ) आदित्ये तृप्ते द्यौस् तृप्यति
(ग्ब्र्_1,3.14प्) दिवि तृप्तायां यानि दिवि भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
(ग्ब्र्_1,3.14q) यो ह वा एवंविद्वान् अश्नाति च पिबति च मनस् तेन तृप्यति
(ग्ब्र्_1,3.14र्) मनसि तृप्ते चन्द्रमास् तृप्यति
(ग्ब्र्_1,3.14स्) चन्द्रमसि तृप्त आपस् तृप्यन्ति_
(ग्ब्र्_1,3.14त्) अप्सु तृप्तासु यान्य् अप्सु भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
(ग्ब्र्_1,3.14उ) यो ह वा एवंविद्वान् अश्नाति च पिबति च श्रोत्रं तेन तृप्यति
(ग्ब्र्_1,3.14व्) श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति
(ग्ब्र्_1,3.14w) दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
(ग्ब्र्_1,3.14x) यो ह वा एवंविद्वान् अश्नाति च पिबति च तस्यायम् एव दक्षिणः पाणिर् जुहूः
(ग्ब्र्_1,3.14य्) सव्य उपभृत्
(ग्ब्र्_1,3.14z) कण्ठो ध्रुवा_
(ग्ब्र्_1,3.14अअ) अन्नं हविः
(ग्ब्र्_1,3.14ब्ब्) प्राणा ज्योतींषि
(ग्ब्र्_1,3.14च्च्) सदेष्टं सदा हुतं सदाशितं पायितम् अग्निहोत्रं भवति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम्
(ग्ब्र्_1,3.15अ) प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास्
(ग्ब्र्_1,3.15ब्) ते ह स्म न कञ् चन वेदविदम् उपयन्ति
(ग्ब्र्_1,3.15च्) ते सर्वम् अविदुस्
(ग्ब्र्_1,3.15द्) ते सहैवाविदुस्
(ग्ब्र्_1,3.15ए) ते ऽग्निहोत्र एव न समवदन्त
(ग्ब्र्_1,3.15f) तेषाम् एकः सकृद् अग्निहोत्रम् अजुहोद् द्विर् एकस् त्रिर् एकस्
(ग्ब्र्_1,3.15ग्) तेषां यः सकृद् अग्निहोत्रम् अजुहोत् तम् इतराव् अपृच्छतां कस्मै त्वं जुहोषीति_
(ग्ब्र्_1,3.15ह्) एकधा वा इदं सर्वं प्रजापतिः
(ग्ब्र्_1,3.15इ) प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातर् इति
(ग्ब्र्_1,3.15ज्) तेषां यो द्विर् अजुहोत् तम् इतराव् अपृच्छतां काभ्यां त्वं जुहोषीति_
(ग्ब्र्_1,3.15क्) अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस्
(ग्ब्र्_1,3.15ल्) तेषां यस् त्रिर् अजुहोत् तम् इतराव् अपृच्छतां केभ्यस् त्वं जुहोषीत्य् अग्नये प्रजापतये ऽनुमतय इति सायं सूर्याय प्रजापतये ऽग्नये स्विष्टकृत इति प्रातस्
(ग्ब्र्_1,3.15म्) तेषां यो द्विर् अजुहोत् स आर्ध्नोत्
(ग्ब्र्_1,3.15न्) स भूयिष्ठो ऽभवत्
(ग्ब्र्_1,3.15ओ) प्रजया चेतरौ श्रिया चेतराव् अत्याक्रामत्
(ग्ब्र्_1,3.15प्) तस्य ह प्रजाम् इतरयोः प्रजे सजातत्वम् उपैताम्_
(ग्ब्र्_1,3.15q) तस्माद् द्विर् होतव्यं यजुषा चैव मनसा च
(ग्ब्र्_1,3.15र्) याम् एव स ऋद्धिम् आर्ध्नोत् ताम् ऋध्नोति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम्
(ग्ब्र्_1,3.16अ) स्वाहा वै कुतः संभूता
(ग्ब्र्_1,3.16ब्) केन प्रकृता
(ग्ब्र्_1,3.16च्) किं वास्या गोत्रम्_
(ग्ब्र्_1,3.16द्) कत्य् अक्षरा
(ग्ब्र्_1,3.16ए) कति पदा
(ग्ब्र्_1,3.16f) कति वर्णा
(ग्ब्र्_1,3.16ग्) किं पूर्वावसाना
(ग्ब्र्_1,3.16ह्) क्व चित् स्थिता
(ग्ब्र्_1,3.16इ) किम् अधिष्ठाना
(ग्ब्र्_1,3.16ज्) ब्रूहि स्वाहाया यद् दैवतं रूपं च
(ग्ब्र्_1,3.16क्) स्वाहा वै सत्यसंभूता
(ग्ब्र्_1,3.16ल्) ब्रह्मणा प्रकृता
(ग्ब्र्_1,3.16म्) लामगायनसगोत्रा
(ग्ब्र्_1,3.16न्) द्वे अक्षरे
(ग्ब्र्_1,3.16ओ) एकं पदम्_
(ग्ब्र्_1,3.16प्) त्रयश् च वर्णाः शुक्लः पद्मः सुवर्ण इति
(ग्ब्र्_1,3.16q) सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. पत्यल्]
(ग्ब्र्_1,3.16र्) षडङ्गान्य् ओषधिवनस्पतयो लोमानि
(ग्ब्र्_1,3.16स्) चक्षुषी सूर्याचन्द्रमसौ
(ग्ब्र्_1,3.16त्) सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते
(ग्ब्र्_1,3.16उ) तस्या अग्निर् दैवतम्_
(ग्ब्र्_1,3.16व्) ब्राह्मणो रूपम् इति ब्राह्मणम्
(ग्ब्र्_1,3.17अ) अथापि कारवो ह नाम ऋषयो ऽल्पस्वा आसन्_
(ग्ब्र्_1,3.17ब्) त इमम् एकगुम् अग्निष्टोमं ददृशुस्
(ग्ब्र्_1,3.17च्) तम् आहरन्_
(ग्ब्र्_1,3.17द्) तेनायजन्त
(ग्ब्र्_1,3.17ए) ते स्वर् ययुः
(ग्ब्र्_1,3.17f) स य इच्छेत् स्वर् इयाम् इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणम्
(ग्ब्र्_1,3.18अ) अथातः सवनीयस्य पशोर् विभागं व्याख्यास्यामः_
(ग्ब्र्_1,3.18ब्) उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः
(ग्ब्र्_1,3.18च्) कण्ठः सकाकुद्रः प्रतिहर्तुः
(ग्ब्र्_1,3.18द्) श्येनं वक्ष उद्गातुः_
(ग्ब्र्_1,3.18ए) दक्षिणं पार्श्वं सांसम् अध्वर्योः
(ग्ब्र्_1,3.18f) सव्यम् उपगातॄणाम्_
(ग्ब्र्_1,3.18ग्) सव्यो ऽंसः प्रतिप्रस्थातुः_
(ग्ब्र्_1,3.18ह्) दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः_
(ग्ब्र्_1,3.18इ) अवरसक्थं ब्राह्मणाच्छंसिनः_
(ग्ब्र्_1,3.18ज्) ऊरुः पोतुः
(ग्ब्र्_1,3.18क्) सव्या श्रोणिर् होतुः_
(ग्ब्र्_1,3.18ल्) अवरसक्थं मैत्रावरुणस्य_
(ग्ब्र्_1,3.18म्) अरुर् अच्छावाकस्य
(ग्ब्र्_1,3.18न्) दक्षिणा दोर् नेष्टुः
(ग्ब्र्_1,3.18ओ) सव्या सदस्यस्य
(ग्ब्र्_1,3.18प्) सदं चानूकं च गृहपतेः_
(ग्ब्र्_1,3.18q) जाघनी पत्न्यास्
(ग्ब्र्_1,3.18र्) तां सा ब्राह्मणेन प्रतिग्राहयति
(ग्ब्र्_1,3.18स्) वनिष्ठुर् हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुर् आग्नीध्रस्य
(ग्ब्र्_1,3.18त्) सव्य आत्रेयस्य
(ग्ब्र्_1,3.18उ) दक्षिणौ पादौ गृहपतेर् व्रतप्रदस्य
(ग्ब्र्_1,3.18व्) सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः
(ग्ब्र्_1,3.18w) सहैवैनयोर् ओष्ठस्
(ग्ब्र्_1,3.18x) तं गृहपतिर् एवानुशिनष्टि
(ग्ब्र्_1,3.18य्) मणिकाश् च स्कन्ध्यास् तिस्रश् च कीकसा ग्रावस्तुतस्
(ग्ब्र्_1,3.18z) तिस्रश् चैव कीकसा अर्धं चापानस्योन्नेतुः_
(ग्ब्र्_1,3.18अअ) अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः
(ग्ब्र्_1,3.18ब्ब्) शिरः सुब्रह्मण्यस्य
(ग्ब्र्_1,3.18च्च्) यः श्वःसुत्याम् आह्वयते तस्य चर्म
(ग्ब्र्_1,3.18द्द्) तथा खलु षट्त्रिंशत् सम्पद्यन्ते
(ग्ब्र्_1,3.18एए) षट्त्रिंशदवदाना गौः
(ग्ब्र्_1,3.18ff) षट्त्रिंशदक्षरा बृहती
(ग्ब्र्_1,3.18ग्ग्) बार्हतो वै स्वर्गो लोकः_
(ग्ब्र्_1,3.18ह्ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते
(ग्ब्र्_1,3.18इइ) बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति
(ग्ब्र्_1,3.18ज्ज्) प्रतितिष्ठन्ति प्रजया पशुभिर् य एवं विभजन्ते
(ग्ब्र्_1,3.18क्क्) अथ यद् अतो ऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्न् एवम् एवैषां पशुर् विमथतो भवत्य् अस्वर्ग्यः_
(ग्ब्र्_1,3.18ल्ल्) देवभाजो ह वा इमं श्रुतऋषिः पशोर् विभागं विदां चकार
(ग्ब्र्_1,3.18म्म्) तम् उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच
(ग्ब्र्_1,3.18न्न्) ततो ऽयम् अर्वाङ् मनुष्येष्व् आसीद् इति ब्राह्मणम्
[एद्. मनुष्येस्व्]
(ग्ब्र्_1,3.19अ) अथातो दीक्षा
(ग्ब्र्_1,3.19ब्) कस्य स्विद् धेतोर् दीक्षित इत्याचक्षते
(ग्ब्र्_1,3.19च्) श्रेष्ठां धियं क्षियतीति
(ग्ब्र्_1,3.19द्) तं वा एतं धीक्षितं सन्तं दीक्षित इत्य् आचक्षते परोक्षेण
(ग्ब्र्_1,3.19ए) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(ग्ब्र्_1,3.19f) कस्य स्विद् धेतोर् दीक्षितो ऽप्रत्युत्थायिको भवत्य् अनभिवादुकः प्रत्युत्थेयो ऽभिवाद्यः_
(ग्ब्र्_1,3.19ग्) ये प्रत्युत्थेया अभिवाद्यास् त एनम् आविष्टा भवन्त्य् अथर्वाङ्गिरसस्
(ग्ब्र्_1,3.19ह्) तस्य किम् आथर्वणम् इति
(ग्ब्र्_1,3.19इ) यद् आत्मन्य् एव जुह्वति न परस्मिन्_
(ग्ब्र्_1,3.19ज्) एवं हाथर्वणानाम् ओदनसवानाम् आत्मन्य् एव जुह्वति न परस्मिन्_ [एद्. अदनसवानाम्, चोर्र्. पत्यल्]
(ग्ब्र्_1,3.19क्) अथास्य किम् आङ्गिरसम् इति
(ग्ब्र्_1,3.19ल्) यद् आत्मनश् च परेषां च नामानि न गृह्णात्य् एवं ह तस्मिन्नासाद् आत्मनश् चैव परेषां च नामानि न गृह्यन्ते
(ग्ब्र्_1,3.19म्) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(ग्ब्र्_1,3.19न्) विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम्_
(ग्ब्र्_1,3.19ओ) सैषा व्रतधुग् अथर्वाङ्गिरसस्
(ग्ब्र्_1,3.19प्) तां ह्य् अन्वायत्ताः
(ग्ब्र्_1,3.19q) कस्य स्विद् धेतोर् दीक्षितो ऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति_
(ग्ब्र्_1,3.19र्) अन्नस्थो नामस्थो भवतीत्य् आहुस् तस्य ये ऽन्नम् अदन्ति ते ऽस्य पाप्मानम् अदन्ति_
(ग्ब्र्_1,3.19स्) अथास्य ये नाम गृह्णन्ति ते ऽस्य नाम्नः पाप्मानम् अपाघ्नते_
(ग्ब्र्_1,3.19त्) अथापि वेदानां गर्भभूतो भवतीत्य् आहुस्
(ग्ब्र्_1,3.19उ) तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्य् आहुः
(ग्ब्र्_1,3.19व्) स दीक्षाणां प्रातर् जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्य् आहुः
(ग्ब्र्_1,3.19w) कस्य स्विद् धेतोः संसवा परिजिहीर्षिता भवन्ति
(ग्ब्र्_1,3.19x) यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति
(ग्ब्र्_1,3.19य्) कस्य स्विद् धेतोर् दैवे न ध्यायेत् संस्थिते नाधीयीतेति
(ग्ब्र्_1,3.19z) संसवस्यैव हेतोर् इति
(ग्ब्र्_1,3.19अअ) विद्योतमाने स्तनयत्य् अथो वर्षति वायव्यम् अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति
(ग्ब्र्_1,3.19ब्ब्) तद् अभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसो ऽनूचानास्
(ग्ब्र्_1,3.19च्च्) तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति
(ग्ब्र्_1,3.19द्द्) स दैवे न ध्यायेत् संस्थिते नाधीयीतेति ब्राह्मणम्
(ग्ब्र्_1,3.20अ) समावृत्ता आचार्या निषेदुस्
(ग्ब्र्_1,3.20ब्) तान् ह यज्ञो दीक्षिष्यमाणान् ब्राह्मणरूपं कृत्वोपोदेयाय_
(ग्ब्र्_1,3.20च्) इत्थं चेद् वो ऽपसमवत्सुर् हन्त वो ऽहं मध्ये दीक्षा इति [एद्. ऽपसमवत्सुर्, पत्यल् प्रोपोसेस् अपसमवतस्थुर्, एद्. दिक्षा]
(ग्ब्र्_1,3.20द्) त ऊचुर् नैव त्वा विद्म न जानीमः
(ग्ब्र्_1,3.20ए) को हीदविज्ञायमानेन सह दीक्षिष्यतीति
(ग्ब्र्_1,3.20f) यन् न्व् इदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे_
(ग्ब्र्_1,3.20ग्) अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ
(ग्ब्र्_1,3.20ह्) मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति_
(ग्ब्र्_1,3.20इ) अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ
(ग्ब्र्_1,3.20ज्) ते तूष्णीं ध्यायन्त आसां चक्रिरे
(ग्ब्र्_1,3.20क्) स होवाच किं नु तूष्णीम् आध्वे
(ग्ब्र्_1,3.20ल्) भूयो वः पृच्छामः
(ग्ब्र्_1,3.20म्) पृच्छतेति यन् न्व् इदं दीक्षिष्यध्व उपमे एतस्मिन् संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [पत्यल् fइन्द्स् उपमय् एतस्मिन् इन् त्wओ बोरि म्स्स्. अन्द् प्रोपोसेस् तो अच्चेप्त् थिसे रेअदिन्ग्]
(ग्ब्र्_1,3.20न्) धिग् इति होचुः
(ग्ब्र्_1,3.20ओ) कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति
(ग्ब्र्_1,3.20प्) ते वै ब्राह्मणानाम् अभिमन्तारो भविष्यथ
(ग्ब्र्_1,3.20q) रेतो ह वो य एतस्मिन् संवत्सरे ब्राह्मणास् तद् अभविष्यंस् ते बोधिमता भविष्यथेति_
(ग्ब्र्_1,3.20र्) अथ वा उपेष्यामो नोपेष्यामहा इति
(ग्ब्र्_1,3.20स्) ते वै दीक्षिता अवकीर्णिनो भविष्यथ
(ग्ब्र्_1,3.20त्) न ह वै देवयानः पन्था प्रादुर् भविष्यतीति
(ग्ब्र्_1,3.20उ) तिरो वै देवयानः पन्था भविष्यतीति
(ग्ब्र्_1,3.20व्) ते वयं भगवन्तम् एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम्
(ग्ब्र्_1,3.21अ) स होवाच द्वादश ह वै वसूनि दीक्षिताद् उत्क्रामन्ति
(ग्ब्र्_1,3.21ब्) न ह वै दीक्षितो ऽग्निहोत्रं जुहुयात्_
(ग्ब्र्_1,3.21च्) न पौर्णमासेन यज्ञेन यजेत
(ग्ब्र्_1,3.21द्) नामावास्येन_
(ग्ब्र्_1,3.21ए) अस्मिन् वसीत
(ग्ब्र्_1,3.21f) न पितृयज्ञेन यजेत
(ग्ब्र्_1,3.21ग्) न तत्र गच्छेद् यत्र मनसा जिगमिषेत्_
(ग्ब्र्_1,3.21ह्) नेष्ट्या यजेत
(ग्ब्र्_1,3.21इ) न वाचा यथाकथा चिद् अभिभाषेत
(ग्ब्र्_1,3.21ज्) न मिथुनं चरेत्_
(ग्ब्र्_1,3.21क्) नान्नास्य यथाकामम् उपयुञ्जीत
(ग्ब्र्_1,3.21ल्) न पशुबन्धेन यज्ञेन यजेत
(ग्ब्र्_1,3.21म्) न तत्र गच्छेद् यत्र चक्षुषा परापश्येत्
(ग्ब्र्_1,3.21न्) कृष्णाजिनं वसीत
(ग्ब्र्_1,3.21ओ) कुरीरं धारयेत्_
(ग्ब्र्_1,3.21प्) मुष्टी कुर्यात्_
(ग्ब्र्_1,3.21q) अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत्_
(ग्ब्र्_1,3.21र्) मृगशृङ्गं गृह्णीयात्
(ग्ब्र्_1,3.21स्) तेन कषेत_
(ग्ब्र्_1,3.21त्) अथ यस्य दीक्षितस्य वाग् वायता स्यान् मुष्टी वा विसृष्टौ स एतानि जपेत्
(ग्ब्र्_1,3.22अ) अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम्_
(ग्ब्र्_1,3.22ब्) वसतिश् च मामावास्यश् च यज्ञः पश्चात् प्राञ्चम् उभाव् इति समानम्_
(ग्ब्र्_1,3.22च्) मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् उभाव् इति समानम्_
(ग्ब्र्_1,3.22द्) वाक् च मेष्टिश् चोत्तरतो दक्षिणाञ्चम् उभाव् इति समानम्_
(ग्ब्र्_1,3.22ए) रेतश् च मान्नं चेत ऊर्ध्वम् उभाव् इति समानम्_
(ग्ब्र्_1,3.22f) चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो ऽर्वाञ्चम् उभौ कामप्रौ भूत्वाक्षित्या सहाविशताम् इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम्
(ग्ब्र्_1,3.22ग्) अपात्येति पुनराजातिम्_
(ग्ब्र्_1,3.22ह्) कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् दीक्षाम् उपैतीति ब्राह्मणम्
(ग्ब्र्_1,3.23अ) अथ यस्य दीक्षितस्यर्तुमती जाया स्यात् प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात्_
(ग्ब्र्_1,3.23ब्) रेतो वा अन्नम्_
(ग्ब्र्_1,3.23च्) वृषा हिंकारः_
(ग्ब्र्_1,3.23द्) एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति_
(ग्ब्र्_1,3.23ए) एतेनैव प्रक्रमेण यजेतेति ब्राह्मणम्
मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0