गोपथब्राह्मण · अध्याय 4
(ग्ब्र्_1,3.23चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥
(ग्ब्र्_1,4.1अ) ओम् अयं वै यज्ञो यो ऽयं पवते
(ग्ब्र्_1,4.1ब्) तम् एत ईप्सन्ति ये संवत्सराय दीक्षन्ते
(ग्ब्र्_1,4.1च्) तेषां गृहपतिः प्रथमो दीक्षते_
(ग्ब्र्_1,4.1द्) अयं वै लोको गृहपतिः_
(ग्ब्र्_1,4.1ए) अस्मिन् वा इदं सर्वं लोके प्रतिष्ठितम्_
(ग्ब्र्_1,4.1f) गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः
(ग्ब्र्_1,4.1ग्) प्रतिष्ठाया एवैनं तत् प्रतिष्ठित्यै दीक्षन्ते
(ग्ब्र्_1,4.2अ) अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनो ऽध्यात्मम्_
(ग्ब्र्_1,4.2ब्) मनसैव तद् ओषधीः संदधाति
(ग्ब्र्_1,4.2च्) तद् या ओषधीर् वेद स एव ब्रह्मौषधीस्
(ग्ब्र्_1,4.2द्) तद् अनेन लोकेन संदधाति
(ग्ब्र्_1,4.2ए) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
(ग्ब्र्_1,4.2f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् ओषधिभिर् व्यापादयेत्_
(ग्ब्र्_1,4.2ग्) उच्छोषुका ह स्युस्
(ग्ब्र्_1,4.2ह्) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
(ग्ब्र्_1,4.3अ) अथोद्गातारं दीक्षयति_
(ग्ब्र्_1,4.3ब्) आदित्यो वा उद्गाताधिदैवं चक्षुर् अध्यात्मम्_
(ग्ब्र्_1,4.3च्) पर्जन्य आदित्यः
(ग्ब्र्_1,4.3द्) पर्जन्याद् अधि वृष्टिर् जायते
(ग्ब्र्_1,4.3ए) वृष्टिर् एव तद् ओषधीः संदधाति
(ग्ब्र्_1,4.3f) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
(ग्ब्र्_1,4.3ग्) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत्_
(ग्ब्र्_1,4.3ह्) अवर्षुका ह स्युस्
(ग्ब्र्_1,4.3इ) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
(ग्ब्र्_1,4.4अ) अथ होतारं दीक्षयति_
(ग्ब्र्_1,4.4ब्) अग्निर् वै होताधिदैवं वाग् अध्यात्मम्
(ग्ब्र्_1,4.4च्) अन्नं वृष्टिः_
(ग्ब्र्_1,4.4द्) वाचं चैव तद् अग्निं चान्नेन संदाधाति
(ग्ब्र्_1,4.4ए) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
(ग्ब्र्_1,4.4f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् अन्नेन व्यापादयेत्_
(ग्ब्र्_1,4.4ग्) अशनायुका ह स्युस्
(ग्ब्र्_1,4.4ह्) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
(ग्ब्र्_1,4.5अ) अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति
(ग्ब्र्_1,4.5ब्) वायुर् वा अध्वर्युर् अधिदैवं प्राणो ऽध्यात्मम्
(ग्ब्र्_1,4.5च्) अन्नं वृष्टिः_
(ग्ब्र्_1,4.5द्) वायुं चैव तत् प्राणं चान्नेन संदधाति
(ग्ब्र्_1,4.5ए) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत [एद्. एतव्]
(ग्ब्र्_1,4.5f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत्
(ग्ब्र्_1,4.5ग्) प्रमायुका ह स्युस्
(ग्ब्र्_1,4.5ह्) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
(ग्ब्र्_1,4.6अ) अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति_
(ग्ब्र्_1,4.6ब्) अथोद्गात्रे प्रस्तोतारं दीक्षयति_
(ग्ब्र्_1,4.6च्) अथ होत्रे मैत्रावरुणं दीक्षयति_
(ग्ब्र्_1,4.6द्) अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति
(ग्ब्र्_1,4.6ए) स हैनम् अनु_
(ग्ब्र्_1,4.6f) एतेषां वै नवानां कॢप्तिम् अन्व् इतरे कल्पन्ते
(ग्ब्र्_1,4.6ग्) नव वै प्राणाः
(ग्ब्र्_1,4.6ह्) प्राणैर् यज्ञस् तायते_
(ग्ब्र्_1,4.6इ) अथ ब्रह्मणे पोतारं दीक्षयति_
(ग्ब्र्_1,4.6ज्) अथोद्गात्रे प्रतिहर्तारं दीक्षयति_
(ग्ब्र्_1,4.6क्) अथ होत्रे ऽच्छावाकं दीक्षयति_
(ग्ब्र्_1,4.6ल्) अथाध्वर्यवे नेष्टारम् उन्नेता दीक्षयति
(ग्ब्र्_1,4.6म्) स हैनम् अनु_
(ग्ब्र्_1,4.6न्) अथ ब्रह्मण आग्नीध्रं दीक्ष्यति_
(ग्ब्र्_1,4.6ओ) अथोद्गात्रे सुब्रह्मण्यं दीक्षयति_
(ग्ब्र्_1,4.6प्) अथ होत्रे ग्रावस्तुतं दीक्षयति_
(ग्ब्र्_1,4.6q) अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति
(ग्ब्र्_1,4.6र्) न पूतः पावयेद् इत्य् आहुः
(ग्ब्र्_1,4.6स्) सैषानुपूर्वं दीक्षा
(ग्ब्र्_1,4.6त्) तद् य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते
(ग्ब्र्_1,4.6उ) सत्त्रिणां प्रायश्चित्तम् अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्न् अर्धे दीक्षन्त इति ब्राह्मणम्
(ग्ब्र्_1,4.7अ) श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम्_
(ग्ब्र्_1,4.7ब्) सोमात् क्रयम्_
(ग्ब्र्_1,4.7च्) विष्णोर् आतिथ्यम्
(ग्ब्र्_1,4.7द्) आदित्यात् प्रवर्ग्यम्_
(ग्ब्र्_1,4.7ए) स्वधाया उपसदः_
(ग्ब्र्_1,4.7f) अग्नीषोमाभ्याम् औपवसथ्यम् अहः
(ग्ब्र्_1,4.7ग्) प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम्_
(ग्ब्र्_1,4.7ह्) वसुभ्यः प्रातःसवनम्_
(ग्ब्र्_1,4.7इ) रुद्रेभ्यो माध्यंदिनं सवनम्
(ग्ब्र्_1,4.7ज्) आदित्येभ्यस् तृतीयसवनम्_
(ग्ब्र्_1,4.7क्) वरुणाद् अवभृथम्
(ग्ब्र्_1,4.7ल्) अदितेर् उदयनीयाम्_
(ग्ब्र्_1,4.7म्) मित्रावरुणाभ्याम् अनूबन्ध्याम्_
(ग्ब्र्_1,4.7न्) त्वष्टुस् त्वाष्ट्रम्_
(ग्ब्र्_1,4.7ओ) देवीभ्यो देविकाभ्यो देवताहवींषि
(ग्ब्र्_1,4.7प्) कामाद् दशातिरात्रम्_
(ग्ब्र्_1,4.7q) स्वर्गाल् लोकाद् उदवसानीयाम्_
(ग्ब्र्_1,4.7र्) तद् वा एतद् अग्निष्टोमस्य जन्म
(ग्ब्र्_1,4.7स्) स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम्
(ग्ब्र्_1,4.8अ) अथ यद् दीक्षणीयया यजन्ते श्रद्धाम् एव तद् देवीं देवतां यजन्ते
(ग्ब्र्_1,4.8ब्) श्रद्धा देवी देवता भवन्ति
(ग्ब्र्_1,4.8च्) श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8द्) अथ यत् प्रायणीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते
(ग्ब्र्_1,4.8ए) अदितिर् देवी देवता भवन्ति_
(ग्ब्र्_1,4.8f) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8ग्) अथ यत् क्रयम् उपयन्ति सोमम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.8ह्) सोमो देवो देवता भवन्ति [एद्. दवता]
(ग्ब्र्_1,4.8इ) सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8ज्) अथ यद् आतिथ्यया यजन्ते विष्णुम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.8क्) विष्णुर् देवो देवता भवन्ति
(ग्ब्र्_1,4.8ल्) विष्णोर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8म्) अथ यत् प्रवर्ग्यम् उपयन्त्य् आदित्यम् एव तद् देवं देवतां यजन्ते_ [एद्. दवतां]
(ग्ब्र्_1,4.8न्) आदित्यो देवो देवता भवन्ति_
(ग्ब्र्_1,4.8ओ) आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8प्) अथ यद् उपसदम् उपयन्ति स्वधाम् एव तद् देवीं देवतां यजन्ते
(ग्ब्र्_1,4.8q) स्वधा देवी देवता भवन्ति
(ग्ब्र्_1,4.8र्) स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8स्) अथ यद् औपवसथ्यम् अहर् उपयन्त्य् अग्नीषोमाव् एव तद् देवौ देवते यजन्ते_
(ग्ब्र्_1,4.8त्) अग्नीषोमौ देवौ देवते भवन्ति
(ग्ब्र्_1,4.8उ) अग्नीषोमयोर् देवतयोः सायुज्यं सलोकतां यन्ति ये एतद् उपयन्ति_ [एद्. ऽग्नीषोमयोर्]
(ग्ब्र्_1,4.8व्) अथ यत् प्रातरनुवाकम् उपयन्ति प्रातर्याव्ण एव तद् देवान् देवता यजन्ते
(ग्ब्र्_1,4.8w) प्रातर्यावाणो देवा देवता भवन्ति
(ग्ब्र्_1,4.8x) प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8य्) अथ यत् प्रातःसवनमुपयन्ति वसून् एव तद् देवान् देवता यजन्ते
(ग्ब्र्_1,4.8z) वसवो देवा देवता भवन्ति
(ग्ब्र्_1,4.8अअ) वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8ब्ब्) अथ यन् माध्यंदिनं सवनम् उपयन्ति रुद्रान् एव तद् देवान् देवता यजन्ते
(ग्ब्र्_1,4.8च्च्) रुद्रा देवा देवता भवन्ति
(ग्ब्र्_1,4.8द्द्) रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8एए) अथ यत्तृतीयसवनम् उपयन्त्य् आदित्यान् एव तद् देवान् देवता यजन्ते_
(ग्ब्र्_1,4.8ff) आदित्या देवा देवता भवन्ति_
(ग्ब्र्_1,4.8ग्ग्) आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8ह्ह्) अथ यद् अवभृथम् उपयन्ति वरुणम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.8इइ) वरुणो देवो देवता भवन्ति
(ग्ब्र्_1,4.8ज्ज्) वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8क्क्) अथ यद् उदयनीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते_
(ग्ब्र्_1,4.8ल्ल्) अदितिर् देवी देवता भवन्ति_
(ग्ब्र्_1,4.8म्म्) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ [एद्. आदित्या]
(ग्ब्र्_1,4.8न्न्) अथ यद् अनूबन्ध्यया यजन्ते मित्रावरुणाव् एव तद् देवौ देवते यजन्ते
(ग्ब्र्_1,4.8ओओ) मित्रावरुणौ देवौ देवते भवन्ति
(ग्ब्र्_1,4.8प्प्) मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8qq) अथ यत् त्वाष्ट्रेण पशुना यजन्ते त्वष्टारम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.8र्र्) त्वष्टा देवो देवता भवन्ति
(ग्ब्र्_1,4.8स्स्) त्वष्टुर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8त्त्) अथ यद् देविकाहविर्भिश् चरन्ति या एता उपसत्सु भवन्त्य् अग्निः सोमो विष्णुर् इति देव्यो देविका देवता भवन्ति
(ग्ब्र्_1,4.8उउ) देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8व्व्) अथ यद् दशातिरात्रम् उपयन्ति कामम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.8ww) कामो देवो देवता भवन्ति
(ग्ब्र्_1,4.8xx) कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.8य्य्) अथ यद् उदवसानीयया यजन्ते स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते
(ग्ब्र्_1,4.8zz) स्वर्गो लोको देवो देवता भवन्ति
(ग्ब्र्_1,4.8अअअ) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
(ग्ब्र्_1,4.8ब्ब्ब्) तद् वा एतद् अग्निष्टोमस्य जन्म
(ग्ब्र्_1,4.8च्च्च्) स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाप्त्वैव तद् अग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति
(ग्ब्र्_1,4.8द्द्द्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद_
(ग्ब्र्_1,4.8एएए) अग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम्
(ग्ब्र्_1,4.9अ) अहोरात्राभ्यां वै देवाः प्रायणीयम् अतिरात्रं निरमिमत_
(ग्ब्र्_1,4.9ब्) अर्धमासेभ्यश् चतुर्विंशम् अहः_
(ग्ब्र्_1,4.9च्) ब्रह्मणो ऽभिप्लवम्_
(ग्ब्र्_1,4.9द्) क्षत्रात् पृष्ठ्यम्
(ग्ब्र्_1,4.9ए) अग्नेर् अभिजितम्
(ग्ब्र्_1,4.9f) अद्भ्यः स्वरसाम्नः
(ग्ब्र्_1,4.9ग्) सूर्याद् विषुवन्तम्
(ग्ब्र्_1,4.9ह्) उक्ता आवृत्ताः स्वरसामानः_
(ग्ब्र्_1,4.9इ) इन्द्राद् विश्वजितम्
(ग्ब्र्_1,4.9ज्) उक्तौ पृष्ठ्यभिप्लवौ
(ग्ब्र्_1,4.9क्) मित्रावरुणाभ्यां गवायुषी
(ग्ब्र्_1,4.9ल्) विश्वेभ्यो देवेभ्यो दशरात्रम्_
(ग्ब्र्_1,4.9म्) दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम्
(ग्ब्र्_1,4.9न्) एभ्यो लोकेभ्यश् छन्दोमं त्र्यहम्_
(ग्ब्र्_1,4.9ओ) संवत्सराद् दशमम् अहः
(ग्ब्र्_1,4.9प्) प्रजापतेर् महाव्रतम्_
(ग्ब्र्_1,4.9q) स्वर्गाल् लोकाद् उदयनीयम् अतिरात्रम्_
(ग्ब्र्_1,4.9र्) तद् वा एतत् संवत्सरस्य जन्म
(ग्ब्र्_1,4.9स्) स य एवम् एतत् संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम्
(ग्ब्र्_1,4.10अ) अथ यत् प्रायणीयम् अतिरात्रम् उपयन्त्य् अहोरात्राव् एव तद् देवौ देवते यजन्ते_
(ग्ब्र्_1,4.10ब्) अहोरात्रौ देवौ देवते भवन्ति_
(ग्ब्र्_1,4.10च्) अहोरात्रयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ [एद्. ऽहोरात्रयोर्]
(ग्ब्र्_1,4.10द्) अथ यच् चतुर्विंशम् अहर् उपयन्त्य् अर्धमासान् एव तद् देवान् देवता यजन्ते_
(ग्ब्र्_1,4.10ए) अर्धमासा देवा देवता भवन्ति_
(ग्ब्र्_1,4.10f) अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10ग्) अथ यद् अभिप्लवम् उपयन्ति ब्रह्माणम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.10ह्) ब्रह्मा देवो देवता भवन्ति
(ग्ब्र्_1,4.10इ) ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10ज्) अथ यत् पृष्ठ्यम् उपयन्ति क्षत्रम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.10क्) क्षत्रं देवो देवता भवन्ति
(ग्ब्र्_1,4.10ल्) क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10म्) अथ यद् अभिजितम् उपयन्त्य् अग्निम् एव तद् देवं देवतां यजन्ते_
(ग्ब्र्_1,4.10न्) अग्निर् देवो देवता भवन्ति_
(ग्ब्र्_1,4.10ओ) अग्नेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10प्) अथ यत् स्वरसाम्न उपयन्त्य् एव तद् देवीर् देवता यजन्त आपो देव्यो देवता भवन्ति_
(ग्ब्र्_1,4.10q) अपां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10र्) अथ यद् विषुवन्तम् उपयन्ति सूर्यम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.10स्) सूर्यो देवो देवता भवन्ति
(ग्ब्र्_1,4.10त्) सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10उ) उक्ता आवृत्ताः स्वरसामानः_
(ग्ब्र्_1,4.10व्) अथ यद् विश्वजित मुपयन्तीन्द्रम् एव तद् देवं देवतां यजन्ते_
(ग्ब्र्_1,4.10w) इन्द्रो देवो देवता भवन्ति_
(ग्ब्र्_1,4.10x) इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10य्) उक्तौ पृष्ठ्याभिप्लवौ_
(ग्ब्र्_1,4.10z) अथ यद् गवायुषी उपयन्ति मित्रावरुणाव् एव तद् देवौ देवते यजन्ते
(ग्ब्र्_1,4.10अअ) मित्रावरुणौ देवौ देवते भवन्ति
(ग्ब्र्_1,4.10ब्ब्) मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10च्च्) अथ यद् दशरात्रम् उपयन्ति विश्वान् एव तद् देवान् देवता यजन्ते
(ग्ब्र्_1,4.10द्द्) विश्वे देवा देवता भवन्ति
(ग्ब्र्_1,4.10एए) विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10ff) अथ यद् दाशरात्रिकं पृष्ठ्यं षडहम् उपयन्ति दिश एव तद् देवीर् देवता यजन्ते
(ग्ब्र्_1,4.10ग्ग्) दिशो देव्यो देवता भवन्ति
(ग्ब्र्_1,4.10ह्ह्) दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10इइ) अथ यच् छन्दोमं त्र्यहम् उपयन्तीमान् एव तल् लोकान् देवान् देवता यजन्ते_
(ग्ब्र्_1,4.10ज्ज्) इमे लोका देवा देवता भवन्ति_
(ग्ब्र्_1,4.10क्क्) एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10ल्ल्) अथ यद् दशमम् अहर् उपयन्ति संवत्सरम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.10म्म्) संवत्सरो देवो देवता भवन्ति [एद्. दवता]
(ग्ब्र्_1,4.10न्न्) संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10ओओ) अथ यन् महाव्रतम् उपयन्ति प्रजापतिम् एव तद् देवं देवतां यजन्ते
(ग्ब्र्_1,4.10प्प्) प्रजापतिर् देवो देवता भवन्ति [एद्. दवता]
(ग्ब्र्_1,4.10qq) प्रजापतेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_
(ग्ब्र्_1,4.10र्र्) अथ यद् उदयनीयम् अतिरात्रम् उपयन्ति स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते
(ग्ब्र्_1,4.10स्स्) स्वर्गो लोको देवो देवता भवन्ति
(ग्ब्र्_1,4.10त्त्) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
(ग्ब्र्_1,4.10उउ) तद् वा एतत् संवत्सरस्य जन्म
(ग्ब्र्_1,4.10व्व्) स य एवम् एतत् संवत्सरस्य जन्म वेदाप्त्वैव तत् संवत्सरं स्वर्गे लोके प्रतितिष्ठति
(ग्ब्र्_1,4.10ww) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_1,4.10xx) संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम्
(ग्ब्र्_1,4.11अ) स वा एष संवस्तरो ऽधिदैवं चाध्यात्मं च प्रतिष्ठितः
(ग्ब्र्_1,4.11ब्) स य एवम् एतत् संवत्सरम् अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति
(ग्ब्र्_1,4.11च्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_1,4.12अ) स वा एष संवत्सरो बृहतीम् अभिसंपन्नः_
(ग्ब्र्_1,4.12ब्) द्वाव् अक्षराव् अह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ
(ग्ब्र्_1,4.12च्) गवायुषी दशरात्रस्
(ग्ब्र्_1,4.12द्) तथा खलु षट्त्रिंशद् संपद्यन्ते
(ग्ब्र्_1,4.12ए) षट्त्रिंशदवदाना गौः
(ग्ब्र्_1,4.12f) षट्त्रिंशदक्षरा बृहती
(ग्ब्र्_1,4.12ग्) बार्हतो वै स्वर्गो लोकः_
(ग्ब्र्_1,4.12ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते
(ग्ब्र्_1,4.12इ) बृहत्या स्वर्गे लोके प्रतितिष्ठति
(ग्ब्र्_1,4.12ज्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_1,4.13अ) स वा एष संवत्सरस् त्रिमहाव्रतः_
(ग्ब्र्_1,4.13ब्) चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम्_
(ग्ब्र्_1,4.13च्) तं ह स्मैतम् एवंविद्वांसः पूर्वे त्रिमहाव्रतम् उपयन्ति
(ग्ब्र्_1,4.13द्) ते तेजस्विन आसंत् सत्यवादिनः संशितव्रताः_
(ग्ब्र्_1,4.13ए) य एनम् अद्य तथोपेयुर् यथामपात्रम् उदक आसिक्ते निर्मृत्येद् एवं यजमाना निर्मृत्येरन्न् उपर्य् उपयन्ति
(ग्ब्र्_1,4.13f) तथा हास्य सत्येन तपसा व्रतेन चाभिजितम् अवरुद्धं भवति य एवं वेद
(ग्ब्र्_1,4.14अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
(ग्ब्र्_1,4.14ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्_
(ग्ब्र्_1,4.14च्) अभिप्लवात् पृष्ठ्यो निर्मितः
(ग्ब्र्_1,4.14द्) पृष्ठ्याद् अभिजित्_
(ग्ब्र्_1,4.14ए) अभिजितः स्वरसामानः
(ग्ब्र्_1,4.14f) स्वरसामभ्यो विषुवान्
(ग्ब्र्_1,4.14ग्) विषुवतः स्वरसामानः
(ग्ब्र्_1,4.14ह्) स्वरसामभ्यो विश्वजित्_
(ग्ब्र्_1,4.14इ) विश्वजितः पृष्ठ्याभिप्लवौ
(ग्ब्र्_1,4.14ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(ग्ब्र्_1,4.14क्) गवायुर्भ्यां दशरात्रः
(ग्ब्र्_1,4.14ल्) दशरात्रान् महाव्रतम्_
(ग्ब्र्_1,4.14म्) महाव्रताद् उदयनीयो ऽतिरात्रः_
(ग्ब्र्_1,4.14न्) उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै
(ग्ब्र्_1,4.15अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
(ग्ब्र्_1,4.15ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्_
(ग्ब्र्_1,4.15च्) अभिप्लवात् पृष्ठ्यो निर्मितः
(ग्ब्र्_1,4.15द्) पृष्ठ्याद् अभिजित्_
(ग्ब्र्_1,4.15ए) अभिजितः स्वरसामानः
(ग्ब्र्_1,4.15f) स्वरसामभ्यो विषुवान् [एद्. विषवान्]
(ग्ब्र्_1,4.15ग्) विषुवतः स्वरसमानः
(ग्ब्र्_1,4.15ह्) स्वरसामभ्यो विश्वजित्_
(ग्ब्र्_1,4.15इ) विश्वजितः पृष्ठ्याभिप्लवौ
(ग्ब्र्_1,4.15ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(ग्ब्र्_1,4.15क्) गवायुर्भ्यां दशरात्रः_
(ग्ब्र्_1,4.15ल्) अथ ह देवेभ्यो महाव्रतं न तस्थे कथम् ऊर्ध्वै स्तोमैर् विषुवन्तम् उपागातावृत्तैर् माम् इति
(ग्ब्र्_1,4.15म्) ते देवा इहसामिवासुर्
(ग्ब्र्_1,4.15न्) उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतद् अहर् अवाप्नुयामेति
(ग्ब्र्_1,4.15ओ) तत एतं द्वादशरात्रम् ऊर्ध्वस्तोमं ददृशुस्
(ग्ब्र्_1,4.15प्) तम् आहरन्_
(ग्ब्र्_1,4.15q) तेनायजन्त
(ग्ब्र्_1,4.15र्) तत एभ्यो ऽतिष्ठन्_
(ग्ब्र्_1,4.15स्) तिष्ठति हास्मै महाव्रतम्_
(ग्ब्र्_1,4.15त्) प्रतितिष्ठति
(ग्ब्र्_1,4.15उ) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_1,4.16अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
(ग्ब्र्_1,4.16ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्
(ग्ब्र्_1,4.16च्) तद् आहुः कति संवत्सरस्य पराञ्च्य् अहानि भवन्ति कत्य् अर्वाञ्चि
(ग्ब्र्_1,4.16द्) तद् यानि सकृत्सकृद् उपयन्ति तानि पराञ्चि
(ग्ब्र्_1,4.16ए) अथ यानि पुनःपुनर् उपयन्ति तान्य् अर्वाञ्चीत्य् एवैनान्य् उपासीरन्
(ग्ब्र्_1,4.16f) षडहयोर् ह्य् आवृत्तिम् अन्वावर्तन्ते
(ग्ब्र्_1,4.17अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
(ग्ब्र्_1,4.17ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्_ [एद्. ऽतिरत्रम्]
(ग्ब्र्_1,4.17च्) अभिप्लवं पुरस्ताद् विषुवतः पूर्वम् उपयन्ति
(ग्ब्र्_1,4.17द्) पृष्ट्यम् उपरिष्टात्
(ग्ब्र्_1,4.17ए) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
(ग्ब्र्_1,4.17f) तस्मात् पूर्वे वयसि पुत्राः पितरम् उपजीवन्ति
(ग्ब्र्_1,4.17ग्) पृष्ठ्यं पश्चाद् विषुवतः पूर्वम् उपयन्त्य् अभिप्लवम् उपरिष्टात्
(ग्ब्र्_1,4.17ह्) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
(ग्ब्र्_1,4.17इ) तस्माद् उत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद
(ग्ब्र्_1,4.17ज्) तद् अप्य् एतद् ऋचोक्तं <शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः [ऋव् 1.89.9]>_इति_
(ग्ब्र्_1,4.17क्) उप ह वा एनं पूर्वे वयसि पुत्राः पितरम् उपजीवन्त्य् उपोत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद
(ग्ब्र्_1,4.18अ) अथ हैष महासुपर्णस्
(ग्ब्र्_1,4.18ब्) तस्य यान् पुरस्ताद् विषुवतः षण्मासान् उपयन्ति स दक्षिणः पक्षः_
(ग्ब्र्_1,4.18च्) अथ यान् आवृत्तान् उपरिष्टात् षड् उपयन्ति स उत्तरः पक्षः_
(ग्ब्र्_1,4.18द्) आत्मा वै संवत्सरस्य विषुवान् अङ्गानि पक्षौ
(ग्ब्र्_1,4.18ए) यत्र वा आत्मा तत् पक्षौ
(ग्ब्र्_1,4.18f) यत्र वै पक्षौ तद् आत्मा
(ग्ब्र्_1,4.18ग्) न वा आत्मा पक्षाव् अतिरिच्यते
(ग्ब्र्_1,4.18ह्) नो पक्षाव् आत्मानम् अतिरिच्येते इति_
(ग्ब्र्_1,4.18इ) एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात्
[एद्. बूयात्]
(ग्ब्र्_1,4.19अ) तद् आहुर् यद् द्वादश मासाः संवत्सरो ऽथ हैतद् अहर् अवाप्नुयामेति
(ग्ब्र्_1,4.19ब्) यद् वैषुवतम् अपरेषां स्विदितमहां परेषाम् इति_
(ग्ब्र्_1,4.19च्) अपरेषां चैव परेषां चेति ब्रूयात्_
(ग्ब्र्_1,4.19द्) आत्मा वै संवत्सरस्य विषुवान् अङ्गानि मासाः_
(ग्ब्र्_1,4.19ए) यत्र वा आत्मा तद् अङ्गानि
(ग्ब्र्_1,4.19f) यत्राङ्गानि तद् आत्मा
(ग्ब्र्_1,4.19ग्) न वा आत्माङ्गान्य् अतिरिच्यते नो ऽङ्गान्य् आत्मानम् अतिरिच्यन्त इति_
(ग्ब्र्_1,4.19ह्) एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात्
(ग्ब्र्_1,4.19इ) स वा एष संवत्सरः
(ग्ब्र्_1,4.20अ) तद् आहुः कथम् उभयतोज्योतिषो ऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति_
(ग्ब्र्_1,4.20ब्) उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति_
(ग्ब्र्_1,4.20च्) एष ह वा एतेषां ज्योतिर् य एनं प्रमृदीव तपति
(ग्ब्र्_1,4.20द्) देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते
(ग्ब्र्_1,4.20ए) तद् य एवंविदुषां दीक्षितानां पापकं कीर्तयद् एते एवास्य तद् देवचक्रे शिरश् छिन्दतः_
(ग्ब्र्_1,4.20f) दशरात्रम् उद्धिः
(ग्ब्र्_1,4.20ग्) पृष्ठ्याभिप्लवौ चक्रे
(ग्ब्र्_1,4.20ह्) दशरात्रम् उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस्
(ग्ब्र्_1,4.20इ) तयो स्तोत्राणि च शस्त्राणि च संचारेयत्_
(ग्ब्र्_1,4.20ज्) यः संचारयेत् तस्माद् इमे पुरुषे प्राणा नाना सन्त एकोदयाच् छरीरम् अधिवसति यन् न संचारयेत् प्रमायुको ह यजमानः स्यात्_
(ग्ब्र्_1,4.20क्) एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा
(ग्ब्र्_1,4.20ल्) नवाग्निष्टोमा मासि संपद्यन्ते
(ग्ब्र्_1,4.20म्) नव वै प्राणाः
(ग्ब्र्_1,4.20न्) प्राणैर् यज्ञस् तायते_
(ग्ब्र्_1,4.20ओ) एकविंशतिर् उक्थ्याः_
(ग्ब्र्_1,4.20प्) एक उक्थ्यः षोडशी_
(ग्ब्र्_1,4.20q) अन्नं वा उक्थ्यः_
(ग्ब्र्_1,4.20र्) वीर्यं षोडश्य् एव
(ग्ब्र्_1,4.20स्) तथा रूढ्वा स्वर्गं लोकम् अध्यारोहन्ति
(ग्ब्र्_1,4.21अ) अथातो ऽह्नाम् अध्यारोहः
(ग्ब्र्_1,4.21ब्) प्रायणीयेनातिरात्रेणोदयनीयम् अतिरात्रम् अध्यारोहन्ति चतुर्विंशेन महाव्रतम्
(ग्ब्र्_1,4.21च्) अभिप्लवेन परम् अभिप्लवम्_
(ग्ब्र्_1,4.21द्) पृष्ठ्येन परं पृष्ठ्यम्
(ग्ब्र्_1,4.21ए) अभिजिताभिजितं स्वरसामभिः परान्त् स्वरसामानः_
(ग्ब्र्_1,4.21f) अथैतद् अहर् अवाप्नुयामेति यद् वैषुवतम् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात्
(ग्ब्र्_1,4.21ग्) स वा एष संवत्सरः
(ग्ब्र्_1,4.22अ) अथातो ऽह्नां निवाहः
(ग्ब्र्_1,4.22ब्) प्रायणीयो ऽतिरात्रश् चतुर्विंशायाह्ने निवहति
(ग्ब्र्_1,4.22च्) चतुर्विंशम् अहर् अभिप्लवाय_
(ग्ब्र्_1,4.22द्) अभिप्लवः पृष्ठ्याय
(ग्ब्र्_1,4.22ए) पृष्ठ्यो ऽभिजिते_
(ग्ब्र्_1,4.22f) अभिजित् स्वरसामभ्यः
(ग्ब्र्_1,4.22ग्) स्वरसामानो विषुवते
(ग्ब्र्_1,4.22ह्) विषुवान्त् स्वरसामभ्यः
(ग्ब्र्_1,4.22इ) स्वरसामनो विश्वजिते
(ग्ब्र्_1,4.22ज्) विश्वजित् पृष्ठ्याभिप्लवाभ्याम्_
(ग्ब्र्_1,4.22क्) पृष्ठ्याभिप्लवौ गवायुर्भ्याम्_
(ग्ब्र्_1,4.22ल्) गवायुषी दशरात्राय
(ग्ब्र्_1,4.22म्) दशरात्रो महाव्रताय
(ग्ब्र्_1,4.22न्) महाव्रतम् उदनीयायातिरात्राय_
(ग्ब्र्_1,4.22ओ) उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै
[एद्. ऽतिरत्रः]
(ग्ब्र्_1,4.23अ) आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति
(ग्ब्र्_1,4.23ब्) त आदित्या लघुभिः सामभिश् चतुर्भि स्तोमैर् द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकम् अभ्यप्लवन्त
(ग्ब्र्_1,4.23च्) यद् अभ्यप्लवन्त तस्माद् अभिप्लवः_
(ग्ब्र्_1,4.23द्) अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकम् अभ्यस्पृशन्त
(ग्ब्र्_1,4.23ए) यद् अभ्यस्पृशन्त तस्मात् स्पृश्यस्
(ग्ब्र्_1,4.23f) तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्य् आचक्षते परोक्षेण
(ग्ब्र्_1,4.23ग्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः_
(ग्ब्र्_1,4.23ह्) अभिप्लवात् पृष्ठ्यो निर्मितः
(ग्ब्र्_1,4.23इ) पृष्ठ्याद् अभिजित्_
(ग्ब्र्_1,4.23ज्) अभिजितः स्वरसामानः
(ग्ब्र्_1,4.23क्) स्वरसामभ्यो विषुवान्
(ग्ब्र्_1,4.23ल्) विषुवतः स्वरसामानः
(ग्ब्र्_1,4.23म्) स्वरसामभ्यो विश्वजित्_
(ग्ब्र्_1,4.23न्) विश्वजितः पृष्ठ्याभिप्लवौ
(ग्ब्र्_1,4.23ओ) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(ग्ब्र्_1,4.23प्) गवायुर्भ्यां दशरात्रस् [एद्. दशरत्रस्]
(ग्ब्र्_1,4.23q) तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि
(ग्ब्र्_1,4.23र्) तेषां शतंशतं रथानान्यन्तरं तद् यथारण्यान्य् आरूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते
(ग्ब्र्_1,4.23स्) एवं हैवैते प्रप्लवन्ते ये ऽविद्वांस उपयन्त्यि_
(ग्ब्र्_1,4.23त्) अथ ये विद्वांस उपयन्ति तद् यथा प्रवाहात् प्रवाहं स्थलात् स्थलं समात् समं सुखात् सुखम् अभयाद् अभयम् उपसंक्रामन्तीत्य् एवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम्
(ग्ब्र्_1,4.24अ) प्रेदिर् ह वै कौशाम्बेयः कौसुरुबिन्दुर् उद्दालक आरुणौ ब्रह्मचर्यम् उवास
(ग्ब्र्_1,4.24ब्) तम् आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्य् अमन्यतेति
(ग्ब्र्_1,4.24च्) कति त्वेवेति
(ग्ब्र्_1,4.24द्) दशेति होवाच
(ग्ब्र्_1,4.24ए) दश वा इति होवाच
(ग्ब्र्_1,4.24f) दशाक्षरा विराड् विराजो यज्ञः
(ग्ब्र्_1,4.24ग्) कति त्वेवेति
(ग्ब्र्_1,4.24ह्) नवेति होवाच
(ग्ब्र्_1,4.24इ) नव वा इति होवाच
(ग्ब्र्_1,4.24ज्) नव वै प्राणाः
(ग्ब्र्_1,4.24क्) प्राणैर् यज्ञस् तायते
(ग्ब्र्_1,4.24ल्) कति त्वेवेति_
(ग्ब्र्_1,4.24म्) अष्टेति होवाच_
(ग्ब्र्_1,4.24न्) अष्टौ वा इति होवाच_
(ग्ब्र्_1,4.24ओ) अष्टाक्षरा गायत्री
(ग्ब्र्_1,4.24प्) गायत्री यज्ञः
(ग्ब्र्_1,4.24q) कति त्वेवेति
(ग्ब्र्_1,4.24र्) सप्तेति होवाच
(ग्ब्र्_1,4.24स्) सप्त वा इति होवाच
(ग्ब्र्_1,4.24त्) सप्त छन्दांसि_
(ग्ब्र्_1,4.24उ) छन्दोभिर् यज्ञस् तायते
(ग्ब्र्_1,4.24व्) कति त्वेवेति
(ग्ब्र्_1,4.24w) षड् इति होवाच
(ग्ब्र्_1,4.24x) षड् वा इति होवाच
(ग्ब्र्_1,4.24य्) षड् वा ऋतवः_
(ग्ब्र्_1,4.24z) ऋतूनाम् आप्त्यै
(ग्ब्र्_1,4.24अअ) कति त्वेवेति
(ग्ब्र्_1,4.24ब्ब्) पञ्चेति होवाच
(ग्ब्र्_1,4.24च्च्) पञ्च वा इति होवाच
(ग्ब्र्_1,4.24द्द्) पञ्चपदा पङ्क्तिः
(ग्ब्र्_1,4.24एए) पाङ्क्तो यज्ञः
(ग्ब्र्_1,4.24ff) कति त्वेवेति
(ग्ब्र्_1,4.24ग्ग्) चत्वारीति होवाच
(ग्ब्र्_1,4.24ह्ह्) चत्वारि वा इति होवाच
(ग्ब्र्_1,4.24इइ) चत्वारो वै वेदाः_
(ग्ब्र्_1,4.24ज्ज्) वेदैर् यज्ञस् तायते
(ग्ब्र्_1,4.24क्क्) कति त्वेवेति
(ग्ब्र्_1,4.24ल्ल्) त्रीणीति होवाच
(ग्ब्र्_1,4.24म्म्) त्रीणि वा इति होवाच
(ग्ब्र्_1,4.24न्न्) त्रिषवणो वै यज्ञः
(ग्ब्र्_1,4.24ओओ) सवनैर् यज्ञस् तायते
(ग्ब्र्_1,4.24प्प्) कति त्वेवेति
(ग्ब्र्_1,4.24qq) द्वे इति होवाच
(ग्ब्र्_1,4.24र्र्) द्वे वा इति होवाच
(ग्ब्र्_1,4.24स्स्) द्विपाद् वै पुरुषः_
(ग्ब्र्_1,4.24त्त्) द्विप्रतिष्ठः पुरुषः
(ग्ब्र्_1,4.24उउ) पुरुषो वै यज्ञः
(ग्ब्र्_1,4.24व्व्) कति त्वेवेति_
(ग्ब्र्_1,4.24ww) एकम् इति होवाच_
(ग्ब्र्_1,4.24xx) एकं वा इति होवाच_
(ग्ब्र्_1,4.24य्य्) अहरहर् इत्य् एव सर्वं संवत्सरं
मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0