गोपालचम्पू · अध्याय 2.5
[23] तद् एतन् निशम्य रम्यं तन्-मुखं निशाम्य शाम्यत्-पीडा स-व्रीडा तत्-काल-
वलमान-शीतल-नयन-जल-बिन्दुभिस् तत्-पदारविन्द-द्वन्दम् इन्दीवराक्षी शिरसा
निषेवमाणा सुचिरं सिषेच ।
[24] अथ सर्वेषां सुख-सन्दोहे संभृत-दोहे सर्वे पर्वेव लभमाना निज-निजालयं सम्बभूवुः । श्री-राधा-माधवौ च मोहन-मन्दिरं विन्दतः स्मेति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
माथुर-पुर-स्थान-प्रस्थानं नाम
तृतीयं पूरणम्
॥3॥
अथ पञ्चमं पूरणम्
कंस-वध-कथा
[1] अथ श्री-कृष्णेन भासमानायां श्री-व्रज-राज-सभायां पुनः प्रातः-कथा, यथा-
[2] स्निग्धकण्ठ उवाच,- अथ रजनिर् अजनि; प्रजातायां च यस्यां बहु- शिवायमाना शिवा श्री-कृष्णं प्रति शिवा जाता, कंसं प्रति स्फुटम् अशिवेति स्थिते तस्यां रजन्यां स्वप्न-जागरयोस् तस्य महा-भय-जनन्यां व्यतीतायां स पुनर् दम्भी गम्भीरं मल्ल-लीलारम्भं सम्भृतवान् । ततश् चालङ्कृतानां चालङ्कृतानां च शुभ्र-मञ्च-प्रपञ्चानाम् अधिमध्यम्-अध्यस्तं रङ्ग-स्थलं भ्राजमान-चित्र-विरचनं बभ्राजे । विद्युद्-भ्राजमानाद् अभ्र-शरद्-अभ्राणां तारकितं नभ इव ।
[3] तत्राप्य् उन्नततम-मञ्चम् अञ्चन् कंसः स्वयम् अखिल-दुर्जन-राजावतंसति स्म । तत् तु राजाधिपता-गर्व-ग्रस्ततया सम्भवद् अपि त्रस्ततायाम् एव पर्यवस्यति स्म । तत्र च-
अक्रूरानकदुन्दुभी यद् अकृत स्वे मञ्चके प्रान्तयोः
पौरीणां गण-भाजि देवक-सुतां नन्दादिकान् दूरगे ।
किं च द्वारि गजं दधे कुवलयापीडं निजाग्र-स्थले
मल्लान् कूटतया स भोज-नृपतिस् तस्मान् न कः क्षुभ्यति?
(शार्दूल)
तत्र च-
कंसाज्ञयासीद् यद् वाद्यम् अत्र मल्ल-कलोचितम् ।
तद् एव मङ्गलं जज्ञे प्रस्थाने राम-कृष्णयोः
(अनुष्टुभ्)
[4] अथ तयोर् निज-तद्-अनर्गलता-व्यञ्जनाय स्वयम् अनागम्य प्रथम-प्रस्थापित- स्थविर-गोप-वर्गयोः कृत-प्रातः-कृति-सर्गयोर् यदा रङ्ग-पुर-द्वार-पुर-प्रदेश-प्रवेशः समजनि । तदा तु लोक-कोलाहलत एव सर्वस् तत् कलयामास ।
[5] ततश् च सदोत्कटं मदोत्कटं गलत्कटं नगो वा नागो वेति निर्णिनीषतां कृत-व्रीडं कुवलयापीडं निष्पीडयितुम् अंशुकम् आपीडं च दृढीकुर्वन्न् अग्रज-सखि-व्रज-कृतानुव्रजनः सुरेतर-मर्दनः स्वयम् अग्रेसरताम् अवाप ।
स्निग्धा न्यषेधन् ये तत्र गिरा स्वं शत्रवस् तथा ।
उभयांस् तान् स्मितेनैव पश्यन् द्विपम् अगाद् धरिः
(अनुष्टुभ्)
[6] ततश् च श्री-हरिणा-
तद्-वर्त्म-प्रार्थनं तत्-कुपित-गजम् अपि प्रार्दनं तन् निजाङ्ग-
स्याभीक्ष्णं तस्य शुण्डा-रद-पद-वलनं तत् ततो मोचनं च ।
तत्-पुच्छाकर्षणं तद्-भ्रमणम् अभिमुखीभूय तत्-ताडणं तद्
विद्रुत्य द्राक् पतित्वा द्रव-भरम् अनु निष्पातनं संभ्रमय्य
(स्रग्धरा)
तद्-दद्भ्यां वञ्चिताभ्यां क्षिति-हति-वलनात् क्षोभणं तत् पुनश् च
प्रत्यासद्याग्र-हस्त-ग्रहण-रचनया स्रंसनं भूमि-पृष्ठे ।
तद्-वर्ष्माक्रम्य तत्-तद्-दशन-विघटनं तेन तद्-घातनं च
द्रष्टॄन् सिन्धोस् तरङ्ग-प्रतिमम् अनयद् उन्मज्जनं मज्जनं च
(स्रग्धरा)
हस्तिनः कथिते घाते हस्तिपां तत्-कथा वृथा ।
मल्ले क्षुण्णे तु तत्-स्थानां यूकानां तत् किम् उच्यताम्?
(अनुष्टुभ्)
[7] तदा चायं विशेषः,-
पर्यटन् नट एवायं सिंह एव स संहरन् ।
भिन्दन् भिदुरम् एवेति करिणा हरिर् ऐक्ष्यत
(अनुष्टुभ्)
हत्वा नागं दन्त-युग्मं गृहीत्वा
भ्रात्रे प्रादात् कंस-शत्रुस् तद् एकम् ।
एको निर्मात्य् आवयोर् यद् यशस् तद्-
द्विष्ठं दिष्टं स्यात् समन्ताद् इतीव
(शालिनी)
कुञ्जरं हरिर् अघातयद् बलोऽप्य्
अत्र रक्त-मद-बिन्दुभिश् चितः ।
पारिपार्श्विकतया तद्-अन्तिके
च्छाययेव यद् असौ तदाभ्रमत्
(रथोद्धता)
[8] तद् एवं गीर्-वाणा अपि यद् बृंहित-वाणाद् भयम् अयमानास् तत एव किल शश्वद् अस्वप्नान् नाम्नाप्य् अस्वप्ना जाताः । सोऽयं कुवलयापीडः करी दान-वारि-वरीयान् अपि दान-वारि-कृत-दानम् आप्तवान् इति ते पुनर् लेखा विस्मयेन लेखा इवासन् । तत्र च सति कंसं प्रति सहसा न कश्चन भिया शशंस ।
[9] तद् अनु च-
पूर्वाह-लुण्ठित-नृपांशुक-शोभितांशू
सद्यो-विघातित-महा-गज-दन्त-पाणी ।
तद्-रक्त-दान-रचिताङ्गद-कङ्कणौ तौ
तादृग्-गनैर् विविशतुर् नृपतेः पुरस्तात्
(वसन्त)
शौर्यम् एव पुरुषस्य भूषणं
यत्र हेयम् अपि याति गेयताम् ।
दन्ति-रक्त-मद-बिन्दवस् तनुं
कंस-संसदि तयोर् अरूरुचन्
(रथोद्धता)
द्विषन्तो भीष्माङ्गं ददृशुर् अजितं तर्हि पुरतस्
तटस्था मध्यस्थं प्रणय-मनसः शर्म-वपुषम् ।
विशेषं तत्रापि स्फुटम् अधिययुस् ते बहु-विधं
यथा भावस् तद्वद् युगपद् अयम् उच्चैर् विभवति
(शिखरिणी)
वर्ण्यं तद् वा कियद् इह भवेत् तस्य माधुर्य-वर्यं
जीवत्-कंसेऽप्य् अथ सदसि यद् वन्दितं लोक-लक्षैः ।
तेजस् तद् वा कतिपयम् इतः कथ्यतां यत्र मग्नं
प्राणन्तं तं मृतम् इव सुरा मेनिरे भोज-राजम्
(मन्दाक्रान्ता)
[10] अथागतौ च गृहीत-मृणाल-नाल-हस्त-हस्तिनाव् इव धृत-दन्ति-दन्तौ बृहद्-उरस्वन्तौ सोऽयम् एव किम् इति सावहेल-शंसनेन कंसं विलोक्य तौ श्लोक्य-चरितौ तं पृष्ठ-देश-परामृष्टं कुर्वन्तौ तत इतो दृष्टि-विसृष्टिं चक्रतुः ।
[11] ततश् च परिवृत्य श्री-हरिः पुनर् अहो अपश्यत् त्रि-दिवस्य वर्त्मार्धम् एवानु-वर्तमानः सोऽयं वर्तते, तस्मात् तत्र प्रस्थापनम् अस्य नातिदूरावस्थापनम् इति हसित्वा सखिभिर् अखिलैः सह लसित्वा च परस्परं परं वृत्तं वर्तयामास ।
[12] अथ स्व-हत-गज-रक्त-रक्ततया प्रलय-काल-काय-व्यक्त-नील-लोहितायमानता-पात्रस्य गात्रस्य विलोकन-मात्रतः प्राप्त-तेजो-ध्वंसं कंसं कव् इमाव् इति शंसन्तं पार्श्व-वर्तिनः प्रोचुः,- एतव् एव तौ इति ।
[13] कंस उवाच,- अनयोः करयोः किं दृश्यते? गात्रं वा केन चित्र-पात्रं कृतम्?
[14] सर्वेऽप्य् ऊचुः,- कुवलयापीडस्य दन्ताव् इवावकल्येते गात्रं च तद्-रक्त-रक्तं भवेत् ।
[15] कंसः स-संरम्भ-दम्भम् उवाच,- हंहो! अंहो-वलिता द्वयम् अपि वाङ्-मात्र-पात्रायमाणम् इदम् असम्भवम् ।
[16] अथ पुनर् अदत्तोत्तरेषु भयोत्तरेषु च तेषु स्वयम् एव तयोः प्रभावस् तं बोधयामास । यतः,
यदि त्वं रे कंस स्वयम् असि बली तर्हि धिग् अमुं
कथं द्वारे नागं कलयसि न तत्र स्वक-वपुः? ।
रदाभ्यां स श्रेयान् इति यदि तद् आवाम् इव कथं
न तौ गृह्नासीति ध्वनितम् अमुकाभ्यां स्व-कलया?
(शिखरिणी)
[17] तद् एवं सति-
सोऽयं पूतनिकाम् अहन् शकटकं व्यावर्तयत् तं मरुद्-
दैत्यं प्रार्दयद् अर्जुन-द्वयम् अपि प्रार्दत् तद् इत्य् आदिकम् ।
श्रीमद्-गोकुल-केलिम् अस्य कलयन् लोकः पुरा पश्यतस्
तांस् तर्ह्य् आर्दयद् अद्य चार्दयति भोः पश्यापरान् शृण्वतः
(शार्दूल)
[18] तत्र च नयनयोर् विस्तारणया ताभ्यां तयोः सकलम् अपि रूपं युगपत् पातुम् इव वर्णना-रस-रसनायाश् चालनया निखिलम् अपि माधुर्यं लेढुम् इव तल्-लाभ-पर्व-गर्वतः स्फुट-नासा-पुटयोः फुल्लनया ताभ्यां समस्तम् अपि सौरभ्यम् अभ्यन्तरे प्रवेशयितुम् इव मुहुर् अप्य् अस्ताभ्यां हस्ताभ्यां निर्देशनया ताभ्यां साङ्गम् अप्य् अङ्गम् आलिङ्गितुम् इवेहमाने सुखं च सचमाने सुर-नर-सर्गे
शब्दायमाने च चित्र-वादित्र-वर्गे सर्वेषां मुखतः सर्व-सुखद-स्तुतिः प्रस्तुतिम् अवापेति ।
[19] स एष तत्-प्रभाव-विशेषः शश्वद् भावनाम् अभिभवन् विभवति स्म । यत्र कंसेन युद्धाय पूर्वम् एव प्रेरिता विपरीत-वादितायाम् अपि मल्लाः स्तुताव् एव पर्यवसिताः ।
[20] तथा हि- तद् एवं स्थिते क्रूर-धामा चाणूर-नामा शशंस; यत्र हे नन्द-सूनो! हे रामेति निरादर-पितृ-नाम्ना विना च तन् नाम्ना सम्बोधन-द्वयम् अन्यथा-बोधनाय प्रवर्तितम् अपि सरस्वत्या तद्-वाग्-इन्द्रियं स्तुत्य्-अर्थम् एव नर्तितम् आसीत् । हे पितृ-नाम्ना स्व-नाम्ना च सुचरित-समुदाचार-कुमार-द्वयतया समानावतार! श्रूयताम् इति ।
[21] श्री-कृष्णः स-स्मितम् उवाच,- कामम् आज्ञाप्यताम् ।
[22] चाणूर उवाच,- भवतोर् भाग-धेयं चेतसि कियद् आधेयताम् आप्नोतु ।
[23] श्री-कृष्ण उवाच,- कीदृशम्?
[24] चाणूर उवाच,- तेऽमी महाराज-चरणा भवतोर् अनुग्रहमय-दिदृक्षाचरणा विराजन्ते इति ।
[25] श्री-कृष्ण उवाच,- सत्यम्, किञ्चिद् अस्मत्-कृत्यं पुनर् उपदिश्यताम् ।
[26] चाणूर उवाच,- सङ्गतम् एवेदं भवतः सङ्गीर्णम् । तथापि युवयोर् इतः शश्वत्-पराङ्-मुखता नास्मान् सुखयति ।
[27] श्री-कृष्ण उवाच,- वयं वनेचरा नरा न राज-गणे गणेयानां नीतिम् उन्नीतिम् आनयामः । सम्प्रति तु भवद्-उपदेशम् एवानुसरन्तः स-देश-रूपम् आचरिष्यामः ।
[28] चाणूर उवाच,- सम्प्रति युवां प्रति राज-वर्य-चरणा यद् आदिशन्ति, तत् पुनर् आचर्यताम् ।
[29] श्री-कृष्ण्ः स-विनयम् इवाह स्म,- मल्ल-तल्लज! यथा-यथम् आदिश्यताम् ।
[30] चाणूर उवाच,- अस्माभिः सह भवन्ताव् अथ क्रीडा-सुखम् अनुभवन्ताव् इह भवताम् ।
[31] श्री-कृष्ण उवाच,- बालानाम् अस्माकं क्रीडावलोचनं राज्ञां रोचनम् एव, किन्तु युष्माभिर् इति शोचनम् एव प्रतिपद्यते । तस्माद् भवताम् एव तद् इदम् उपहास-प्रकाशनम्, न तु तत्र-भवतां राज-विभवताम् उपपद्यते ।
[32] चाणूर उवाच,- राज-चरणेभ्य एव शपे । राज्ञाम् एवेयम् आज्ञा ।
[33] श्री-कृष्ण उवाच,- कथम् इव?
[34] चाणूर उवाच,-
बालस् त्वं न हि पूतनादि-दलनाद् आसीर् न वाविद्यथाः
पौगण्डः क्षिति-भृद्-विधारण-मुख-क्रीडा-कुल-व्यापृते ।
नैवायं घटसे किशोर इति च प्रत्यक्ष-दिग्-दन्तिवद्
दन्ति-प्रार्दनतान्त-कर्म-रचनाद् राज्ञस् ततः कौतुकम्
(शार्दूल)
[35] अयं तु तव ज्यायान् प्रलम्बाद्यालम्भ-कर्मणा ज्यायान् एव ।
[36] श्री-कृष्ण उवाच,- वृथास्मद् द्वेषाद् एव पापात् तेषाम् अन्यथापत्तिर् जाता, पर्वतश् च लब्ध-मख-पर्वतया शतपर्व-पाणेर् गर्व-खर्वणार्थं स्वयम् एव तथा जातः । स्वयं तु वयं यथावद् एव सर्वथा वर्तामहे । धनुर् अपि पुरातनतया पुरा घुणाकीर्णम् इव जीर्णं वहद्भिर् दूराद् विकीर्णतया स्वयम् एव दीर्णं सत् स्पर्श-मात्रात् विशीर्णं जातम् । कुवलयापीडश् च पीडयितुं द्रवन्न् अपद्रवन्तं माम् अनासद्य सद्यः पृथिव्यन्तर् दन्ताव् अवगाढाव् आचरंस् ताव् आक्रष्टुं न शशाक, परं तु प्रघट्यमानतया त्रुट्य्-अन्ताव् एव घटयन् स्व-प्राणान् अपि विघटयामासेति । तत्र तत्र शीघ्रताघ्रातालोकेन लोकेन पुनर् अहम् एव तत्र कारणतया घटयामासे । तथा हस्तिपा अपि तद् अधस्ताद् धस्तिम् आपन्ना एव विपन्ना
इति मान्यथा मन्यथाः ।
[37] चाणूर उवाच,- भवतानुचितम् एव सङ्कुचित-चित्तीभवता तद् इदम् अपलप्यते । राज-महाशयास् तु तत्र तत्र न जातानुशयाः, प्रत्युत चिराय निजान्तिक-स्थापितानां गर्वितानां गर्व-दमनार्थम् एव तत्र प्रस्थापितानां तेषां वृथा-कृत-पालन-विशेषानां परीवर्ताद् भवन्ताव् एव केवलाव् आत्म-बलाय कल्पयितुम् इच्छन्ति ।
[38] श्री-कृष्ण उवाच,- तद् अतीवास्माकं विस्मायकं भाग्यम् । किन्त्व् आत्मनात्मनः स्तुत्या प्रस्तुत्या लज्जामहे । यद् एतं श्री-महाराजम् इन्द्र-पदम् अपि प्रापयितुं सेवां करिष्यामः । तथापि मल्ल-विद्यायां न वयं कृत-विद्या इति सङ्कुचति चित्तम् ।
[39] चाणूर उवाच,- एतद् अप्य् अपलपितं वृथा मा कृथाः । यच् छ्रुतं विश्रुतम् इदम् । गोपाः खलु गो-पालनं कुर्वन्तः सदास्माकं विद्याम् अभ्यस्यन्तीति । तस्माद् अकपटतयास्माभिर् युष्माभिर् अपि राज्ञाम् आज्ञा पालनीया, न तु चालनीया ।
[40] श्री-कृष्ण उवाच,- तथापि वन्यानाम् अस्माकं न धन्या तद् विद्या विद्यत इति सद्यस् तावद् युष्मच् छिष्टिम् आचरन्तः स्वयं राज्ञः संज्ञपनाय च सम्पत्स्यामहे ।
[41] अथ तद् एतत् पर्यन्तं उदन्तं सन्तन्य दन्ति-दन्त-द्वयं कंस-पुरतस् तद्-वक्षसीव मङ्क्षु शङ्कुवन् निखन्य मुष्टिकेन मुष्टि-प्रहार-हत-प्रलम्बश् चाणूरेण चानूरु-विहगानुज-वाहनः ससञ्ज । लब्ध-बल-प्रशस्तिना महा-हस्तिनाभिनवतया दीव्यद्-दिव्य-सिंह इव । तत्र च-
हस्ताहस्ति भुजाभुजि प्रथयतोर् अङ्घ्र्य्-अङ्घ्रि चाभुन् महज्-
जानूजानु कटाकटि प्रथनया क्रोधः समुद्बुद्धवान् ।
मुष्टामुष्टि तलातलि प्रथमकं यच् चान्यद् आसीत् तयोर्
युद्धं तद् धरि-मल्लयोर् बहु-विधं बुद्धं कियत् कल्पताम्
(शार्दूल)
किं तु चाणूरकं कृष्णः कामपालश् च मुष्टिकम् ।
हस्त-रोधं दधत् कंसे श्वास-रोधं विनिर्ममे
(अनुष्टुभ्)
एकं तत्र बभूव चित्रम् अखिल-ज्ञानातिदूरं यथा
साङ्गं स्वाङ्गम् अकर्षि यर्हि हरिणा विन्यासि तद् यर्हि च ।
व्यात्यासः स्फुरति स्म तर्हि बलवन् मल्ले तु किं चास्फुरद्
दूराद् अप्य् असकृत् परि-प्रतिनिधिर् घातादिकानां विधिः
(शार्दूल)
सत्यं प्राहरतां मल्लाव् अपि माधव-रामयोः ।
जवाद् बृंहयमानौ तौ न तु तल् लक्ष्यतां गतौ
(अनुष्टुभ्)
[42] तद् एवं स्थिते तत्-प्रभावम् अननुभवताम् अनुभवताम् अपि कंसं प्रत्य् एव दोष-शंसनम् आसीत् । तत्र पूर्वेषु मल्लानाम् अपि यथा- तत्र चादौ तेषां भावनेयम्,-
एतौ स्यातां सुष्ठु बालौ बलिष्ठौ
किं तु श्रेष्ठां मल्ल-विद्यां न वित्तः ।
तस्मात् कस्माद् भूभृद् अस्मान् मृधेऽस्मिंस्
तद्-विद्यानां पारगान् वा नियुङ्क्ते ?
(शालिनी)
[43] अन्ते तु-
ज्ञात्वाप्य् उच्चैस् ताव् इमौ मल्ल-विद्या
शास्त्र-ज्ञानाम् आदि-विज्ञान-विज्ञौ ।
हा धिङ् मौढ्याद् एव कंसोऽयम् अस्मान्
एतद् युद्धे भीरुकोऽपि न्ययुङ्क्त
(शालिनी)
[44] तथान्येषाम् अपि नारी-प्रचुराणाम् अक्रूराणां कंसाय दोष-शंसनं, यथा-
क्व मल्ला वज्राद्रि-प्रतिम-वपुषः क्वाति-मृदुलाव्
इमौ बालौ तस्माद् इह यद् अनुमन्तॄन् धिग् अधिपान् ।
कथं वा ते निन्द्या न खलु वयम् अस्मिन् सदसि ये
सतां द्विष्टे दृष्टिं सकुतुकम् इवामी वितनुमः
(शिखरिणी)
धिग् अस्मत्-पुण्यं यत् कथम् अपि हरेर् वीक्षण-लवेऽ
प्य् अभूद् उत्पातोऽयं प्रणयि-जनता-राक्षस-निभः ।
व्रजन् वन्यां प्रातर् व्रजम् अपि विशन् सायम् अमुकः
सुखं यासां स्त्रीणां वहति वर-पुण्याः परम् अमूः
(शिखरिणी)
धिग् अस्मान् याः कंसाद् भयम् अनुसृता नाम च हरेः
समर्था वक्तुं न व्रज-वर-दृशस् ताः कति नुमः ।
सदा या गायन्ति स्व-गृह-बहु-कर्मण्य् अपि गुणांस्
तदीयान् शश्वत् तद् धृदि च विहरन्ति प्रतिपदम्
(शिखरिणी)
कस्यातुलं फलम् इदं यद् अमुष्य रूपं
लावण्य-सारम् असमं स्वत एव सिद्धम् ।
एकान्त-धाम विभूतायशसोः समन्ताद्
दृग्भिः सदा नव-नवाभम् अमूः पिबन्ति
(वसन्त-तिलक)
तासां प्रेम्णः परम-महिमा शक्यते केन वक्तुं
पश्यास्माकं तम् अनुगतवच् चित्तम् एतद् विहाय ।
यद् गोविन्दः श्रम-मय-रुचाप्य् एष सर्वस्य चेतः
कर्षत्य् अर्वाग् अपि तद् अनुगः सुष्ठु सङ्कर्षणाख्यः
(मन्दाक्रान्ता)
क्रुद्धं शत्रुम् अभिद्रवन्न् अपि हरिः स्मेरान् अनाब्जे रसोल्-
लासाद् घर्म-जलं दधद् विलसति स्वां सौम्यताम् अत्यजन् ।
यद् रामः स्फुट-शोण-नेत्र-वद्नस् तत्-कोपतः शोभते
तच् चास्य प्रकृतिर् यद् एष स हरेः साक्षात् प्रतापानलः
(शार्दूल)
एते श्री-वसुदेव-नन्द-वलिताः श्री-देवकी-संहताः
सर्वे साधु-जनाश् च मादृश-गिरा दीप्तान्तर-ज्वालया ।
यस्मात् तीव्र-निभालनं विदधतः क्षुभ्यन्ति कंसे मुहुस्
तस्माद् अस्य विनाश एव चिरता-भानं विना सेत्स्यति
(शार्दूल)
[45] अथ तत्-प्रभावम् अनुभवतां कंसे दोष-शंसणं, यथा-
सोऽयं मूर्खः स्वान्तरे भीत एव
न्यास्थन् मल्लान् यः पुरस्तान् मुरारेः ।
यद्वद् व्याधः कोऽपि सङ्गोपितात्मा
सिंहस्याग्रे न्यस्यति ग्राम-सिंहान्
(शालिनी)
यः पूतनादि-बलम् अस्य निनाय नाशं
यः शक्र-गर्वम् अपि खर्वयति स्म सर्वम् ।
यः सर्व-सर्जकम् अमूमुहद् ऊह-वर्जं
तं भोज-राड् अभिभवन् किल बाढम् ईष्टे
(वसन्त-तिलक)
क्व कृष्णः स्व-प्रकाशात्मा मल्ल-सङ्घः क्व तामसः ।
युद्धं पश्यानयोश् चित्रं तेजस् तिमिरयोर् इव
(अनुष्टुभ्)
सङ्घर्षेऽपि मिथः स्पृष्टिर् नेक्ष्यते कृष्ण-मल्लयोः ।
आद्यस्य शक्ति-वैशिष्ट्यात् तेजस् तिमिरयोर् इव
(अनुष्टुभ्)
उच्छूनत्वं क्षतजम् अपि न प्रेक्ष्यते द्वेषि-गात्रे
दैत्यारातेर् न यद् उदयते कश्चिद् औद्धत्य-लेशः ।
पश्यामुष्य द्विषद् अभिमुखं वीर्य-वर्यं विषाभं
भेदं भेदं द्विषि निखिलकं मर्म चूर्णं चकार
(मन्दाक्रान्ता)
सूक्षाग्निस् तृण-मण्डले पविर् अगे कुम्भाङ्गजः सागरे
चण्डांशुस् तिमिरे तथा मुर-रिपोर् नामापि सर्वांहसि ।
तद्वन् नन्द-सुतः स एष विजयी रङ्ग-स्थलान्तर् महा-
सार-स्फार-कदङ्ग-सङ्घ-बलिते मल्ले पुरः प्रेक्ष्यताम्
(शार्दूल)
अत्र कृष्णस्य संग्रामे दृश्यतां परमाद्भुतम् ।
चाणूरः पीड्यते तेन बुक्का कंसस्य भिद्यते
(अनुष्टुभ्)
मूढस् तथाप्य् असौ वज्र-मुष्टिभ्यां हरिम् आर्दयत् ।
स ताभ्यां हृदि लग्नाभ्यां सन्-मदात् पुलकं दधे
(अनुष्टुभ्)
[46] तद् एवं स-परिदेवनं स-देवनं च लोके विलोकमाने,-
अथाग्रहीद् धरिर् अपि तं सकृद् धसन्न्
अबिभ्रमन् नभसि च यं निभालयन् ।
उवाच धिङ् मृत इति वाढ-रीढयाप्य्
अपोथयद् भुवि नृपतेः प्रपश्यतः
(रुचिरा)
मुष्टिकेनास्तया मुष्ट्या तुष्तिं लब्धवतः स च ।
बलस्य तल-घातं यन् प्राण-घातम् अपद्यत
(अनुष्टुभ्)
अग्रे व्यग्रतयाङ्ग-सङ्घम् अभितः सम्यग् रयात् कम्पयन्न्
उग्रम्पश्यतयाक्षि-युग्मम् असकृत् क्षिप्ती-कृतं क्षोभयन् ।
राम-श्यामल-नाम-काल-दलितः कंसस्य वर्त्मादिशन्
द्राङ् मल्लः स स लोकम् अन्यम् अगमद् विश्वत्र चित्रं दिशि
(शार्दूल)
क्रीडां कृत्वाथ ताभ्यां बक-दलन-बलौ तत्र विज्ञाय नाति-
प्रवीणां ताव् अवज्ञा-वलितम् अकिरतां क्षौणि-पृष्ठे यदा तु ।
तर्ह्य् आगात् कूट-नामा य इह शल-युतस् तोशलो यश् च तं तं
सद्यो वामाङ्घ्रि-हस्त-प्रहरण-दलिती-कृत्य नृत्यं व्यधत्ताम्
(स्रग्धरा)
[47] अथापरेषां मल्लानां समुदायेन समं समम् अपि समुदायं कर्तुं समुदायम् एव मेनाते । [48] ते तु,-
हतेषु तेषु मल्लेषु शृगालीम् आगताः परे ।
पश्यतो हासयामसुः कृष्ण-राम-प्रधानकान्
(अनुष्टुभ्)
जेतुं प्रस्थापिताः प्राक् त्रिदिवम् अपि मया त्वत्क-सेनाधिनाथास्
तद्वत् प्रस्थाप्य नागं नृप तव रचितास् तत्-कृते चाद्य मल्लाः ।
एवं तद्-वर्त्म-सौख्यं तव विरचयता नन्दतः स्वीय-मित्रैः
क्रीडा कार्येति कंसं सदसि किल दिशंस् तत्र चिक्रीड कृष्णः
(स्रग्धरा)
भ्रात्रोर् विक्रीडितोर् मित्रैर् मध्ये मध्ये पराजयः ।
तान् हत्वा पश्य कंसस्य स्वान्तं संक्रान्तवान् मुहुः
(अनुष्टुभ्)
[49] तद् एवं मैत्रेयिकया चित्रीयमाणौ धन्येन चातुर्-वर्ण्येन निर्वण्यमानौ समान-मानौ स-वयसः संमानयमानौ राम-रामानुज-नामानौ द्याव्-आपृथिव्य्-अनवद्य-वाद्य-विद्याम् अनुविद्य-प्रमोदाद् विद्योतमानौ दिव्य-नृत्य-प्रतिमल्लतया लब्ध-मल्ल-तालमानौ तत्-पर्वणः सर्वतः समाहृत-विमानौ सुमनोभिः
सुमनोभिः कृतमानौ घटिकाम् एकाम् अखिलान् एकायनान् निर्ममतुः ।
[50] तद् असहमानः सहमानः कंसस् तु द्रविण-बलयोर् एक-पर्यायतयेवाभेदम् आलक्स्य गोप-द्रविण-हरणादि-लक्षण-वक्स्यमाण-निज-वचः-प्रचारण-लक्ष्यतः सव्य-हस्तस्य द्वि-त्र-वारम् अस्ततया स्व-वादित्रं निषिषेध ।
[51] तत्र च निषिद्धे सिद्धेश्वर-वादित्रे तु शुद्धतया सिद्धे तदीद्धे हिततया सहितं सखि-वर्ग-सहिततया च वल्गु यद् अवल्गद् यच् च व्रज-देवं वसुदेवम् उग्रसेनम् अप्य् उद्दिश्य तस्य तत् तद् उग्रं वचनम् अशृणोत् तद् द्वयम् अपि स्व-च्छिद्र-बाधाय लक्ष्यं विधाय सहसा सहसाननतया पर्यक् प्लवमानः स्वैरी कंस-वैरी । तस्माद् अकस्मात् कंस-मञ्चोपर्य् एव पर्यैक्षत ।
[52] यत्र कंसेन सह तेन सुदुःसहं श्री-हरेर् विग्रह-तेज एव विग्रह-करम् आसीत् । अथ समुपागत-ध्वंसः कंसश् च स्वं पराजयमानात् तस्मात् पराजयमान-मना धैर्यं हित्वा खड्ग-चर्मणी गृहीत्वा यद् विचचार, तेनापि दुर्धर्षः स-हर्ष-गतिः स एष व्रज-कुल-गतिस् तत्-केश-ग्राहिता-निर्वाहितां कथम् अवाप, तत् खल्व् असाव् अपि बोद्धुं शशाद-वशतापन्नः शशवन् न शशाक ।
[53] लोकस् तु तद् इदं श्लोकयामास,-
श्येनः कपोतम् इव पञ्चमुखः करीन्द्रं
वज्रो गिरिं विकिर-राट् कटुकाद् रवेयम् ।
कंसं निगृह्य सहसा वशयन् स एष
क्रीडां करोति परितः पृथुम् अञ्चम् अञ्चन्
(वसन्त-तिलक)
[54] तद् एवं लोके कृत-श्लोके हरिणा गृहीत-केशः स भोजेशः प्राणानाम् अर्धं पूर्वं मुमोच, निजाघ्राततया मञ्चाद् अवाञ्चंस् त्व् अर्धम् इति हरिर् अपि तच् छीघ्रतां बोद्धुं योद्धु-मनस्ता-वशान् न शशाक ।
कंसस्य केशा हरिणा विकृष्टाः
प्राणाश् च तन् मुष्टि-गता बभूवुः ।
चित्रं न चेदं स्मर तस्य बाल्ये
तत् पूतना-स्तन्य-विकर्षणं च
(इन्द्रवज्रा)
पतत्-खड्ग-चर्मा गलद्-रत्न-वर्मा
भ्रमत्-सर्व-केशः स्खलन्-मूर्ध-वेशः ।
स मञ्चाद् अधस्ताज् जनानां पुरस्ताद्
अनेनाधिरूढः पपातातिमूढः
(भुजङ्ग-प्रयाता)
प्राग् आसीत् स्तब्ध-पक्ष्मा भयम् अनु स यथा तद्वद् एव प्रमीतः
कंसोऽयं तेन मृत्युं गत इति निखिलैर् भीरुभिर् नाभ्यभाषि ।
श्री-कृष्णस् तत्-प्रतीतं सपदि विरचयन् हस्तिवत् सिंह-वर्यः
सावज्ञं तं विसंज्ञं सदसि तत इतः क्ष्मां च कर्षंश् चकर्ष
(स्रग्धरा)
ततो जय-जय-ध्वनि-प्रसित-वाद्य-कोलाहल-
प्रसून-घन-वृष्टि-युक्-स्तुति-दिवस् पृथिव्य्-आस्पदैः ।
कृत-प्रमद-वर्धनः सपदि कंस-चिद्-वर्धनश्
चिरं निज-गनार्चितः स्थगित-बुद्धिर् आसीद् असौ
(पृथ्वी)
कंस-ध्वंसन-शंसन-प्रथन-भृद् गीर्वाण-गीर्-बान्धव-
द्योवाद्योत्तम-गन्ध-सन्ध-कुसुमासारार्चिर्-अभ्यर्चितः ।
भूमि-स्थाप्य् अतिभूमित-गतम् अहो भूमा तदा भूयसा-
नन्द-स्यन्द-भरेण भाविततया हारी हरिर् भाव्यताम्
(शार्दूल)
ततश् च,
यदा कङ्कादयो भ्रातुर् निर्वेशायात्र संययुः ।
साहाय्याय तदा रामः परिघेणार्दति स्म तान्
(अनुष्टुभ्)
[55] अथ हरि-वंशादि-मिश्रीभूत-श्री-भागवत-मत-प्रभूततया कथां प्रथयिष्यामः । [56] यथा- तद् एवं श्रीमान् गोविन्दः स्वयं नन्दित्वा श्रीमन्-नन्दराजेन साकं विन्दमानं श्रीमद्-आनकदुन्दुभिं वन्दित्वा तं मोचयित्वा सर्वान् अपि रोचयित्वा श्री-देवकीम् अप्य् अनुसन्धाय तथा सन्धाय गृहाय बृहन्-महिलाभिः सह सम्विधाय यथा-सन्धम् अन्यान् अपि लब्ध-सम्बन्धान् धृतानन्दान् विधाय कंसेन कृत-बन्धनस्य हृत-धनस्य तज्-जनकस्य मोचनार्थम् अपि जनान् अभिधाय मतङ्गज-व्रजेनापि क्रष्टुं सुष्ठु-दुष्करं कंस-कलेवरम् ईषत्-करतया वाम-करेण कच-निकरे विकृष्य तद्-वर्त्म-परिखां परि परिहृष्यल् लोक-सार्थावृत-पितृ-द्वयानुगन्तृकतया विश्रान्ति-तीर्थम् अनु विश्रान्तिम् अवाप ।
[57] तद् अनु सङ्कर्षणादयश् च कङ्क-मुखान् सङ्कर्षन्तः सर्वेषां हर्षं वर्षन्तः कृत-कर्ष-प्राणानाम् अमित्राणां पर्षदं चक्रुः ।
[58] परस्पर-प्रधने निधनं गतान् भुवर्-लोकात् पतितान् क्रव्यादान् लोकान् इव यान् सभ्याः पश्यन्ति स्म । तद् एवं स्थिते साधूनां मनसि च सुस्थिते ।
श्रीमन्-नन्द-महाशया द्रुततरं प्रस्थापयन् यं नरं
गोष्ठं कंस-विनाश-शंसन-कृते प्रागाद् अयं तद् यदा ।
तस्मात् तर्हि न केवलाः सुखमया वाद्य-स्वनास् तां पुरीम्
आप्ताः किन्तु जनाश् च केचिद् इह ये तद् यौगपद्यं ययुः
(शार्दूल)
[59] ततश् च मृत-प्रियतयाननुसंहित-संहनन-क्रियताम् आपन्नाः कंसादि-स्त्रियस् तत्रागत्य गत्य्-अन्तर-रहिताः स्व-स्व-पत्य्-अङ्गम् आश्लिष्य द्विष्यमाण-निज-प्राना रोदनं
कुर्वाणा रोदनं विजहुस् तथा तन् मातरश् च कातरताम् अवापुः । तत्र च-
चिह्नानि दयित-घ्नानि निह्नुवानाः पुराभवन् ।
कंस-स्त्रियः शुगार्त्या तद् व्यक्त्यामार्जन् ह्रियं हरेः
(अनुष्टुभ्)
तथापि-
रोदनं सपदि रोदनं तथा
तन् निशम्य च निशाम्य चाजितः ।
स्वं स-तापम् अवमत्य सत्य-कृत्
ताः स-सान्त्वम् अभितोऽप्य् असान्त्वयत्
(रथोद्धता)
सान्त्वयन्न् अप्य् अमूः कृष्णो न विपदे स्व-सान्त्वनम् ।
इति तत्र नियुज्यान्यान् निन्युस् तं यदवः पुरम्
(अनुष्टुभ्)
[60] यत्र च पुर्यन्तर्-उपप्लवं व्याजम् आचरितवन्तः । यदा चाक्रूरं स्व-गृहाय निनीषन्तं निषिध्यन् नीति-विध्य्-अग्रणिर् निजावरज-गृहम् एव व्रज-राजः साग्रजं तं निनाय, उपवेशयामास च; यथा-
मध्ये कृष्णं रामम् अप्य् अत्र कृत्वा
पार्श्व-द्वन्द्वे शौरि-नन्दावभूताम् ।
अग्रे व्यग्रा यादव-प्राग्र्य-लोकास्
ते सङ्गतं सुष्ठु सम्मर्दम् आपुः
(अनुष्टुभ्)
द्वयं तन्-मेलनायासीद् अशेषाणां तद्-अग्रतः ।
ज्यायसां गोप-भू-भर्ता गान्दिनेयः कनीयसाम्
(अनुष्टुभ्)
[61] अथ तं कंस-दारादि-रोदनं सन्तानतः सन्तप्तम् एव सन्तं श्रीमन्तं
पुत्रापराध-राहु-कलित-मुख-विधु-श्रि-राहुकः सङ्गत्य गत्य्-अन्तर-रहितः स्व-
हित-सहितः कनक-दण्ड-लक्षित-क्षितिप-मण्डन-मण्दलम् अग्रतो निधाय
मूर्धानम् अवाग्रं विधाय तस्थौ ।
[62] तं पुनर् अवधाय श्रीमन्-नन्द-सहितानकदुन्दुभिर् उत्तस्थौ । उत्थितयोश् च तयो राम-रामानुजाव् अपि तादृग्-अवस्थौ बभूवतुर् अनुबभूवतुश् च सोऽयम् इति । अनुभूय च विदूय भूय-सादरेण सम्भूय दरेण धूयमानम् अमूम् उग्रसेन-नामानं प्रणाम-पुरःसरतया पुरत एव निवेशनया पुरश् चक्रतुः ।
[63] स तु सुत-सुततापराध-सम्बाध-सङ्कोचतः शोचन्न् इदम् अवोचत,-
यद्यपि मन्तु-विधातुः
स्वजनः सुजनेऽभिधातुम् अर्हेन् न ।
तर्ह्य् अप्य् अनन्य-गतिता
बलवत्य् एतं प्रलापयति
(आर्या)
[64] श्री-कृष्ण उवाच,- कामम् आदिश्यताम् ।
[65] उग्रसेन उवाच,-
स एवाधिपतिर् भूम्यां यस् तामस-विनाशनः ।
विध्वस्त-शार्वराद् भानोर् अन्यः कः स्याद् अहर्पतिः ?
(अनुष्टुभ्)
वृद्धो यः स तु वृद्धानाम् एव वर्त्मानुवर्तताम् ।
अकुल-काल-जवगः कः कुर्यात् प्रतिकूलताम् ?
(अनुष्टुभ्)
[66] तस्माद् इदं छत्रादिकं स्वेन सत्रा क्रियताम् इति ।
[67] श्री-कृष्ण उवाच,- राजंस् तव तनूजस्य मद्-विहित-विनाशनता सर्वैर् एव निशामिता । कथम् इव ताम् अन्यथयानि ? किन्तु मम तन् नाशनतायाम् उपलक्षणता परं लक्ष्यते; यस्माद् भवद्-विध-विषयकापराध-मय-काल एव तत्र परं कारणम् । मया तु लब्ध-बुद्धि-बलतया स्व-वशायाम् अपि दशायां ज्ञातम् अपि तद् वैरम् अवज्ञातम् । बाल्य-दशायां तत् किल न ज्ञातम् एव, तथापि तेन पूतनादि-यूथं क्रमशः प्रस्थापितम्, तादृश-कालेनैव च संस्थापितम् । तथा हि-
स्तन्यान् मां तुदती बकी खल-मरुत् कर्षंश् छलात् संहरन्
वत्साख्यो निगिरन् बको मयज-निर्विच्छेदयन् मित्रकैः ।
भुञ्जानः स-गणं फणी हृत-बलं कुर्वन् प्रलम्बः स च
घ्नन्तु क्ष्मा-तुरगो गिलन् स्वयम् अनश्यद् दूषणं किं मम?
(शार्दूल)
योऽयं वा तनयस् तव स्वयम् असाव् अक्रूरकं प्रेषयन्
माम् आनाय्य निघातयन् कुवलयापीडेन मल्लैः पुनः ।
युष्मत्-कुत्सन-भर्त्सन-श्रवण-जान् मन्तोर् मया भीरुणा
प्रायश्चित्त-कृता धृतः कच-तटे तस्माद् अकस्मान् मृतः
(शार्दूल)
[68] तस्मात् तस्य स-जातीय-विजातीय-बालङ्गिलस्य मातुलाहेर् मारणम् अपि तद्-उद्यम-कारणम्
एव जातम्, न तु मद्-ईहास्पदी-कृतम् । तथा च सति कथम् इव राज्यं प्राज्यतया मह्यं रोचताम्?
[69] स एष चाव्यभिचारि-सङ्कल्पस्य मम सङ्कल्पः प्रतिकल्पं सत्य-वचसाम् अपि जल्प-
विषयी-भविष्यति । यथा-
अहं स एव गो-मध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः
एतावच् छतशोप्य् एवं सत्येनैव ब्रवीमि ते ।
न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियताम् इदम् ।
भवान् मान्योस्तु राजा मे यदूनाम् अग्रजः प्रभुः [ह्व् 78.35-37] इति
[70] तद् एवम् अस्य सर्वेऽपि सुशीलताम् अनुशीलयन्तस् तद् एतन् मुख-माधुर्य-पुर्यमाण-
सलिल-कलिल-विलोचनाः क्षण-कतिपयं तद्-अवस्थम् एव तस्थुः । श्रीमद्-आनकदुन्दुभ्य्-आदयः कतिपये बिभ्यति स्म । श्रीमन्-नन्दादयस् तु नन्दन्ति स्मेति स्थिते तं स्वतः परतश् च भीतम् आलोचयन् पुनः श्री-कृष्णः प्राह स्म,- विराट्-कुलम् इदं सम्प्रति विराड्-जातम् । ततो यदि भवान् पतिताम् इमाम् उर्वीम् उर्वी-पतिताम् उरीकुर्वीत, तदा दिन-कतिपयं वयम् अपि साहायकम् आहरिष्यामः । न चेत् सद्य एव गोकुलं प्रपद्य तद्-अनवद्य-सुखम् अभिमुखम् आनयिष्यामः इति ।
[71] तद् एवं केशवस्याभिनिवेशतः सर्वेषाम् अप्य् अन्यथा क्लेषतस् तं भोजेशं तूष्ञीकाम्
एव पुष्णन्तं श्री-गोकुल-प्रेम-तृष्णः सोऽयं श्री-कृष्णः स्वयम् एव स-निर्बन्धं मुकुट-बन्ध-बन्धुरं करोति स्म ।
[72] तं प्रति सर्वेण समम् अगर्वेण मूर्धानम् आनम्य स्वयम् असाव् आवेदयामास,-
राजंस् तस्य वीर-गतिं गतस्य सत्कार-कारणं भवत्-पुरः-सराः सर्वेऽपि वयम् अनुसरामः । श्रीमत्-पितरौ तु लब्ध-श्रम-विसरौ निज-निजावासम् एवासीदताम् इति । श्रीदामादीन् प्रति च जगाद- आवां तावत् क्रूर-कर्मणि प्रतिरुद्धाव् इति भवन्त एव
श्रीमत्-पितृ-चरणानुगतिम् अनुभवन्तः शकटावरोह एवं रात्रिं क्षिपन्तु । इति ।
[73] ततस् तथा विधाय पुनर् विश्रान्तिं सन्निधाय तरणिभिस् तरणि-दुहितुर् उत्तर-तीरे
मृत-कायान् निधाय तेषां प्रेत-कार्यं संविधाय श्रीमद्-आनकदुन्दुभि-भवनम्
एव सह-रामः समाजगाम ।
[74] आगम्य च सर्वेषाम् अगम्यं तद्-अवरोधम् अवरुन्धानः सावधानम् अमू मातर-
पितरौ नमश् चकार । किन्तु स्व-प्रभावानुभवाल् लब्ध-पितृ-भावाभिभवाव् अत
एवासम्भवन्तौ तत्र-भवन्तौ ताव् अनुभूय दूयमान इव तथा निवेशयामास ।
यथास्मद् व्रज-राज-द्वन्द्ववद् एव निर्द्वन्द्व-सदयतामय-हृदयतया तं बल-
वलितं ताव् आलिङ्गन्ताव् अलिङ्गवद् बहु-समयम् आसाते स्म । यतः,
रसयति न हि यावन् माधुरीम् अस्य तावन्
नयति मनसि भक्तस् तीव्र-भावं प्रभावम् ।
स कथम् इतरथा वा श्री-शुकः शश्वद् एतत्
स्फुट-मधुरिम-भाजं श्री-व्रजं सुष्ठु नौति
(मालिनी)
[75] अथ श्रीमद्-आनकदुन्दुभिना समं बहिर् आगत्य स्वयम् एवानुस्मृत्य भृत्य-
वत्सलः श्री-वत्स-लक्ष्मा दिदृक्षया निर्निमिष-पक्ष्माः सर्व-शर्मद-यशाः सङ्कोच-
वशात् पूर्वं दूरत एव लब्ध-निजालोचन-पूरम् उद्धव-मायाद् अनुगृहीत-जन-द्वारा
सानुग्रहं गृहाद् आजुहाव । ततश् च-
अन्योऽन्यं मिलति स्म यर्ह्य् अभिनवं तर्हि स्वयं नाविदत्
कोऽहं कुत्र कदा क एत इति स प्रेयान् स च श्री-प्रभुः ।
किं चादूर-गताश् च तन् न विविदुर् यत् तत्र सिद्धान्तितां
को गच्छेन् निज-तत्त्वम् एतद् अनयोः प्रेमा परं वेत्ति हि?
(शार्दूल)
[76] अथ रामेण समं रामानुजः स-व्याजम् आनकदुन्दुभेः किञ्चिद् अन्तरितम् अञ्चन्न्
अमुञ्च न मुञ्चन् नासीत् । अञ्चित्वा च शीतलित-विरह-मय-स्व-हृदय-वाप्याकारया निज-बाष्प-धारया मुहुर् अपि तन् मुख-निरीक्षण-पूर्वक-तद्-आलिङ्गन-पर्वणि तम् अन्तरङ्गतयाभिषिञ्चन्न् इवालोक्यत ।
[77] अथ सह-रामोद्धवः श्री-शूरोद्भवम् अनुज्ञाप्य भोज-राज-गृहं प्राप्य कंस-
पत्नीनां बाष्पं निर्वाप्य राज-सभायाम् उग्रसेनं सह-यादव-सेनम् आनाय्य तवैव
राज्यं न्याय्यम् इति प्रत्याय्य सिंहासनं स्वीकार्य पुनः श्री-शूर-जनिकाय्यम् आगतवान् ।
ब्रह्माण्ड-कोतीश्वरताति-तुच्छा
यस्येक्ष्यते विष्णूपदेशिता च ।
सा तस्य गोलोक-महेन्द्र-सूनोः
काम्या कथं कंसक-राज्य-लक्ष्मीः?
(इन्द्रवज्रा)
[78] अथ समुद्धव-लसद्-उद्धव-सहिताभ्यां ताभ्यां सह महा-रथ-मूह्यमान-
मनोरथम् आरुह्य स पुनर् आनकदुन्दुभिर् व्रज-मही-पतिं प्रति मिलनाय विशङ्कटं तदीय-शकट-व्रजम् आजगाम । आगम्य च गाढालिङ्गनतया सङ्गम्य रम्य-स्वजन-संवलितेन तेन तेन सह परस्परं लब्ध-ध्वंस-कंस-कृत-चरोपद्रव-वार्तां वर्तयामास । वर्तयित्वा च पुनः प्रार्थयामास,- यावत् स्थितिस् तावद् अस्मद्-गृह एव स्व-गृह इव सर्वैः सह भोक्तव्यम् इति ।
[79] ततश् च प्रतिदिनम् एवं निर्वर्तमाने महा-पर्वणि स-रामः श्री-रामानुजः पलायित-यादव-चय-समाचयन-मय-नव-राज्य-प्राज्य-स्थापन-कर्म-समये राज-सभायां श्री-वसुदेवस्य सभायां वा विराजते स्म । अन्तरान्तरा च शकटावरोहम् आसाद्य श्रीदामाद्य-निज-मित्रैः सह विचित्रं क्रीडति स्म इति ।
[80] अथ दिन-कथां समापयतः स्निग्धकण्ठस्य वचनं यथा,-
कंसं निहतवान् यः प्राक् सोऽयं क्रोड-गतस् तव ।
द्वीपात् प्रत्यागतं वित्तम् इवैतं पश्य गोपते
(अनुष्टुभ्)
[81] अथ तत्र गतायां कथायां समाप्त-प्रथायां परमानन्दिनः श्रीमद्-व्रज-वन्दिनस् तद् इदं पठन्ति स्म,-
जय कृत-मथुरा-प्रवेश-भावुक । माथुर-जनता-सुभगम् भावुक ॥ग्च्_2,5.
नाना-विलसित-नन्दित-नागर । नगर-वधू-जन-मोहन-नागर ।
स-व्रजक-कंसक-वसना-दायक । कृत-रुचि-वायिनि निज-रुचि-दायक ॥ग्च्_2,5.
भक्त-गणे धृत-करुणा-पूरक । मालाकार-मनोरथ-पूरक ॥ग्च्_2,5.
तनु-तत-कुब्जा-चन्दन-चित्रक । कुब्जा-वक्रिम-हृति-कृत-चित्रक ॥ग्च्_2,5.
कंस-मख-स्थित-धनुर्-अनुयोजक । नगर-जनानां सुख-शत-योजक ॥ग्च्_2,5.
कंस-धनुर् मख-धनुर् अनुभङ्गद । तद्-असहनोद्धत-योद्धृषु भङ्गद ॥ग्च्_2,5.
हस्तिपम् अनु निज-वर्त्म-स-मर्दक । तस्मिन् धृत-रुषि हस्ति-विमर्दक ॥ग्च्_2,5.
भ्रात्रा सह करि-दन्त-विभूषण । रङ्गं प्रविशन् भोज-विभूषण ॥ग्च्_2,5.
गज-रक्तादिभिर् अङ्गं परिचित । बहु-विध-भावैर् विविधं परिचित ॥ग्च्_2,5.
जगति समन्ताद् अप्रतिमल्लक । कंसाग्रे हत-तत्-प्रति-मल्लक ॥ग्च्_2,5.
सदसि समस्ते नास्ति समोहन । मल्ल-नटन-कृत-विश्व-विमोहन ॥ग्च्_2,5.
कंसज-गुरु-निन्दन-कम्पाकुल । दृष्टि-विकीर्ण-द्युति-शम्पाकुल ॥ग्च्_2,5.
प्लुति-लीला-कृत-मञ्च-क्षोभक । क्रीडा-विक्रम-कंस-क्षोभक ॥ग्च्_2,5.
सहसा मञ्चात् कंस-निपातक । तेन ध्वस्त-त्रि-जगत्-पातक ॥ग्च्_2,5.
अखिल-जनानां दुःख-विमोक्षद । कंसस्यापि च सहसा मोक्षद ॥ग्च्_2,5.
मोचित-वसुदेवादिक-बन्धक । साधु-सुखं प्रति धृत-निर्बन्धक ॥ग्च्_2,5.
विश्रान्तिं प्रति कंसाकर्षक । व्यञ्जित-निज-बल-बलयोत्कर्षक ॥ग्च्_2,5.
कंस-पितरि-जित-राज्य-निधायक । निज-यशसाखिल-शर्म-विधायक ।
व्रजतः पोष्याखिल-निस्तारक । पुनर् अपि च व्रज-सुख-विस्तारक ॥ग्च्_2,5.
जय जय जय जय जय जय जय जय । जय जय जय जय जय जय जय जय ॥ग्च्_2,5. वीर
[82] तद् एवं कथकयोः कथया वन्दिनां वन्दन-प्रथया च लब्धावधान-पोषाः
श्री-कृष्ण-लाभ-सन्तत-सन्तोषाः सर्वे यथास्वं तद्-आनुकूल्य-सुखम् अर्जयामासुः ।
[83] अथ लब्ध-प्रथायां रात्रि-कथायां श्री-राधा-माधवयोर् अग्रतः स्निग्धकण्ठ
उवाच,- तद् एतत् प्रमद-वृत्ते स्थिते प्रतिलवम् अपि गोकुलं प्रस्थिते च तत्-प्रदेशतः सन्देशः श्रीमत्-केशव-सदेशम् आगतः, तत्रान्येषां प्रातः-प्रस्तोतव्यः । सम्प्रति तु कंस-पितरि राज्यार्पणस्य श्रवणतः किञ्चिद् अवाञ्चित-भयमय-चिर-विरह-क्लमानां
व्रज-रमाणाम् अति-निभृत-स्वस्ति-मुख-संभृतः सोऽयम् आकर्ण्यताम्,-
विरहस् तव गोपालीर्
दयित मिथो याः स-पत्नीश् च ।
रञ्जयति स्म समस्ताः
प्राणात् कथम् अहह ता विरञ्जयति?
(उद्गीति)
विपिनं सदनं यासां
सदनं विपिनं बभूव गोपीनाम् ।
तासां त्वद्-वियुजां किं
मृति-जीवनयोर् विपर्ययो न स्यात्?
(गीति)
यासां चन्दन-चन्द्र-
प्रभृति च वस्तु-प्रतापनं भवति ।
हरि-रहितानां तासां
वह्निः किं बत न शीतताम् अयिता?
(गीति)
विश्लेषस् तव भद्रः
क्लेशं स हरेद् भवन्न् एव ।
आशा सेयं धृष्टा
त्वत्-सृष्टा तत्र विघ्नम् आतनुते
(उद्गीति)
भवता मर्यादार्थं
यः खलु पर्यापितः कालः ।
कालः स भवन्न् अघ-हर
लवशः कल्पाय कल्पतेऽस्माकम्
(उद्गीति) इति ।
[84] अत्र चेदं श्री-राधा-सखीनां तद् अनुपद्यमानं पद्यम्,-
अघ-हर विरह-व्रणता
न हि नः कृच्छ्राय तादृशे श्रयति ।
राधा-लवणिम् अगलनं
यदि वलनं तत्र नापि कुर्वीत
(गीति)
[85] तत्र कारणम् अन्यद् अन्यद् अस्तु, तद् इदं तु महद् एव दुःसहम्,-
आनीतं घृत-पायसान्नम् अनया कृष्णाय किञ्चित् त्वया
लब्धव्यं शुक तन्-मया च मधुरं नाम्ना रुतं तन्यताम् ।
इत्थं प्रातर् अनूद्य नित्यम् अपि तां राधां मुहुः शारिका
वृन्दारण्य-निवासिनी मधुपुर-क्ष्मा-नाथ तोतुद्यते
(शार्दूल)
एवं प्रिय-सखी-लेखं वाचकस्य बकी-रिपोः ।
लुम्पत्-कल्पस् तदा बाष्पः स्थैर्य-कल्पम् अचीक् पत्
(अनुष्टुभ्)
[86] तद् एतत् कथारम्भ एव तासां श्वासानां बहिर् निष्क्रमणम् इव वीक्ष्य स्निग्धकण्ठः
सोत्कण्ठं समापयन्न् आह स्म,-
राधे योऽयं दयितस्
त्वयि दयितः कथम् अनार्द्रताम् अयिता?
तव तनु-लतिकाम् अस्रैः
सिञ्चति पश्याम्बुद-श्यामः
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0