भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 2.3

2.3.1

[66] तद् एवं क्षुधि भोजनम् इव तद् अन्ते संयोग-रसम् एव परिवेष्य सर्वान् अपि सुखेन विशेष्य कथक-युगलं निजावासं समाससाद । श्री-राधा-माधवौ च निज-मोहन-मन्दिरम् इति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
अक्रूर-क्रूरता-पूरणं नाम
द्वितीयं पूरणम्
॥2॥
अथ तृतीयं पूरणम्
श्री-मथुरा-पुर-प्रस्थानम्
[1] अथ श्री-कृष्ण-कृतम् अहसि श्री-व्रज-राज-सदसि प्रातः-कथायां स्निग्धकण्ठ उवाच- अयि! श्री-व्रज-राज! राजमान-श्री-हरि-मुख-रुचि-विराजमान! पुनर् इमम् इतिहासम् अवभासयामः ।
[2] अथ रात्राव् अवशिष्ट-स्वल्प-मात्रायां यात्रा-मात्रायाम् अपि पात्राचित-गात्रायां राम-भ्रात्रा रचितेन पूतनादि-वधाचरितेन सम्बद्धा विरुदावल्यः प्राबल्यतः स्तुतिकृत्द्भिः प्रस्तुतिम् आपिताः सर्वान् एव गर्वाद् उत्साहयामासुः । वर्ततां तावद् अन्येषां वार्ता, यत्र तत्-पितरौ च कंस-ध्वंसनम् अपि सिद्धम् इति मत्वा नन्दितरौ वन्दिभ्यः कृत-बहु-धन-वितरौ
बभूवतुः ।
श्री-व्रजेश-गृहिणी-गतिं गता
रोहिणी न पृथग् अत्र वर्ण्यते ।
प्रतिबिम्ब-रुचि-वर्णनं पुनर्
जल्पतां भजति बिम्ब-वर्णने

2.3.2

[3] अथ प्रस्थान-स्थ-मङ्गल-वेलायाम् आरब्ध-मेलायां पुनस् तन्-मन्त्रणाया यन्त्रणाय लब्ध-वैयग्र्यावेशयोर् व्रजेशयोर् ज्योतिर्-निपुणाः शकुन-ज्ञान-सद्-गुणाश् च द्वारि सङ्गम्य रम्य-जन-द्वारा ताव् आत्म-गमनम् अधिगमयामासुः ।
[4] अनन्तरम् अन्तःपुर एव तान् अनन्तरितान् विधाय तदानीम् उचित-दानीय-निधान-पात्र-पाणी शपथं सम्प्रथय्य तौ प्रच्छन्नं पप्रच्छतुः- सर्वम् अनुभवद्भिर् भवद्भिः किम् अवधीयते? इति ।
[5] ते प्रोचुः- कथम् अयं नितान्त-सुख-वृत्तान्त एकान्ततया पृच्छ्यते? सर्वेषां पुरत एव सोऽयं पुरस्कर्तव्यः । तथा हि-
भीतिं मा कुरुतं व्रज-क्षिति-पती युष्मत्-तनूजः स्फुटं
कंसं ध्वंस-गतं विधाय भविता त्रैलोक्य-लक्ष्मी-पतिः ।
यद् वां कीर्ति-कलाप-नर्तित-मुखी शश्वत् त्रिलोकी भवेद्
वेदः पञ्चम-वेद-तन्त्र-सहितः साक्षित्वम् अत्राप्स्यति

2.3.3

[6] अथ तेभ्यश् च बह्वीम् अंहति-संहतिं विधाय हृदि सुखं निधाय शरणतया ध्यात-नारयण-चरणयोर् अनयोः परिवारित-भृत्यौ कृत-प्रातः-कृत्यौ ताव् एतौ सखि-समेतौ निकाम-भीषि तद्-अनुजौ राम-रामानुजौ समाजम् आजग्मतुः ।
[7] समागम्य च तयोः रोहिणी-सहितयोः पदारविन्दानि वन्दित्वा तद्-अङ्क-पालि-सङ्ग-शालितया चिरं नयनयोः स्यन्दित्वा स्थितयोर् एतयोर् एक-द्वादि-क्रमेण शतातिक्रमेण सर्वेऽप्य् अन्तरङ्गा लब्ध-सम्भ्रम-तरङ्गास् तद्-अन्तः-पुरम् आगताः ।
]8] अथ मद्रङ्कर-दीप-भद्र-निपादीनां मध्य-मध्यासीनयोः सार्द्र-नयनयोर् अनयोर् विकसद्-वदनाम्बुजयोर् अग्रजानुजयोः सर्वतः खर्व-विचारतया स्थितेषु सर्वेषु स पुनर् अक्रूरः क्रूरस् तद् एतद् बहिः-प्रदेशतः सन्दिदेश- सर्व-मङ्गल-सङ्गतं कथम् एतल् लग्नं सम्यग् न यात्रा-लग्नं क्रियते इति ।
[9] ततश् च ताव् इमौ शूराणाम् अग्रिमौ कंस-घाताय लब्ध-तृष्णौ राम-कृष्णौ चित्रायमाणानां पित्रादीनां चरण-वन्दनायानन्दनाय च मधुरं विधुरता-विधुननम् अपि गदन्तौ गद्गद-वर्ण-राशिभिर् आशीर् अनुगाम् अनुज्ञाम् आदाय प्रसादायसम्पदा यदा तत्-स्थानात् प्रस्थानाय पदारविन्दं ददानाव् अदृश्येतां तदा तदादीनां सन्-मदालिभिः समम् अद्वन्द्वतां विन्दद् दिव्य-दुन्दुभि-
द्वन्द्व-वृन्द-वाद्यम् अशेषाभिवाद्यतया समुल्ललास ।
[10] तथा च श्री-कृष्णम् उद्दिश्य श्लोकयन्ति-
कंस-ध्वंस-कृते यदा निज-गृहात् कृष्णेन यात्रा कृता
तर्ह्य् आरम्भत एव दुन्दुभि-शतं वृन्दारकैर् वादितम् ।
आस्ताम् अन्य-कथा यथा स च पिता माता च सा चिन्तया
क्लान्तात्मापि मुदं समस्त-भविकानन्दस्य मूलं ययौ

2.3.4

[11] अथ रथ-स्थाने सानेक-वेदादि-घोष-मङ्गल-पोषं कृतागमनयोर् अनयोः सर्वतः सर्वम् एव गोकुलम् आकुलं बभूव । [12] तत्र चैकतः श्री-व्रज-राजादयः परतस् तु तदीय-जायादय इति स्थिते प्रस्थितेर् अनुज्ञापनाय पणायति परितः कृताञ्जलि-सञ्जने कञ्ज-लोचने सर्वेऽप्य् ऊचुः- अस्माभिर् भवता प्रस्मारित-सर्वैः सर्वैर् अपि भवता समम् एवागमनीयम् । यतः-
माता भस्त्रेव सेयं बक-शमन तव त्वद्-वश-श्वास-वर्गा
सोऽयं तातश् च तद्वत् किम् अपरम् अखिलं गोकुलं तादृग् एव ।
सर्वेषां शश्वद् अन्तर्-हृदि वससि यतस् त्वं ततस् त्वां विना किं
गेहैर् अर्थैः शरीरैर् असुभिर् अपि भवेत् प्राणिनां गोकुलस्य

2.3.5

[13] तद् एवम् अस्र-स्तम्भं लम्भयत्सु गोप-सभासत्सु तादृश-दृशा श्री-कमल-दृशा स्वयम् उक्तम्-
यूयं मे प्राणतोऽपि प्रियतम-सुहृदो यन्-निमित्तं दवाग्निं
मेनेऽहं पानकाभं तम् अपि गिरि-वरं कन्दुक-प्रायम् एव ।
यद्यप्य् एतन् न युक्तं वचसि रचयितुं स्याद् अथापि क्लमं वः
पश्यंस् तत् तद् यथा प्राग् अकरवम् अधुना तद्वद् एव प्रवच्मि

2.3.7

[14] किं च, श्रीमत्-पितृ-चरणानां प्रतिनिधितया तत्-तत्-प्रतिविधि-रचनाय तद्-अग्रज-युग्मं व्रजनिष्ठम् एव तिष्ठतात्; अङ्ग-प्रत्यङ्ग-रूपतया तद् अनुज-युग्मन् तु सङ्गम् एव सङ्गच्छतात् ।
[15] अथ तत्र तत्र यत्नतस् तेषु युक्तेषु यथा-यथं नियुक्तेषु यथा यथा मातृ-तद्-यातृ-प्रभृतिषु पितृ-भ्रातृज-स्व-भ्रातृ-प्रचितिषु चानुज्ञापन-समापनं तथा तथा वर्णनं लुप्त-वर्ण-पदताम् आप्नोतीत्य् अलम् अति-प्रसङ्गेन ।
[16] किन्तु तेषां कंस-हननेऽतिविलम्बं विना प्रत्यागमने च नासम्भावनासीद् इतीदम् एव विषीदन् मर्मताम् अतिचक्राम इति । [17] कथां समाप्य स्निग्धकण्ठः पुनर् उवाच-
यन् मयेदं पुरा-वृत्तं पुरा वृत्तं प्रतीयताम् ।
राजन् सुरारि-हन्तायं तव क्रोडे मुरान्तकः

2.3.8

[18] तद् एवम् आयति-रम्यं निशम्य श्री-व्रज-राजेन च तं परस्परास्र-सार्द्राङ्गतयालिङ्गितं निशाम्य सर्वेऽप्य् आनन्द-गर्वेण निज-निज-गम्यं जग्मुः । यदा श्री-व्रज-राज्ञी तम् अन्तरङ्ग-द्वाराहूय भूयः परिरभ्य नवम् इव लभ्यं चकार ।
[19] अथ रात्रि-कथायाम् आरब्ध-प्रथायां श्री-राधा-माधवयोर् अग्रतः स्निग्धकण्ठ उवाच-अयि सम्प्रति सन्तत-लब्ध-कृष्णासञ्जने तत्-कान्ति-नर्तित-नेत्र-खञ्जने सर्वाधिके श्री-राधिके पुनर् इदं पुरा-वृत्तं कर्ण-वृत्तं क्रियताम् । अथवा तदा रथ-पथम् आगते ससमाजे व्रज-युवराजे तत्-प्रेयसीनां वृत्तं मन्-मति-वृत्तिम् अतिवृत्तं कथं कथयितुं शक्नोमि ?
तथा हि-
मूर्खत्वं निर्घृणत्वं हरि-हरणम् इह क्रौर्यम् अक्रूर-नाम्ना
सर्वेषां बुद्धि-लोपं शकुन-सुभगता-कल्पनं चात्र कृत्ये ।
धातुः पश्येति शश्वद् विकलित-वचसाम् आर्य-गोष्ठी-गतानां
धीराणाम् अप्य् अमूषां भ्रम-जनित-दशा हन्त मां दन्दहीति

2.3.9

नोपालभ्यो विधाता स तु भवति परस् तद्वद् अक्रूर-नामा
किन्त्व् एष प्राण-नाथः स्व-विरह-कृद् उपालभ्यते नन्द-पुत्रः ।
एवं तासां मृदूणाम् अपि दूत-हृदय-ज्वाल-रूपैर् विलापैर्
अद्यापि स्मर्यमाणैः प्रतिपदम् अपि नस् तप्यते चित्त-वृत्तिः

2.3.10

आभिर् भाग्यं वधूनां मधु-नगर-भुवां यन् नुतं भावि-कृष्ण-
प्रेक्षायां हन्त तस्माद् गतिर् अपि च निजा तत्र चैषीति शङ्के ।
इच्छां चासां मृदूनां स्वयम् अपि रहसि प्रेक्ष्यमाणे निजाङ्गे
लज्जा-विस्तार-भाजाम् असकृद् अहह तां चिन्तयित्वा दुनोमि

2.3.11

तासां नाति-प्रतीतिं मधु-पुर-गमने श्री-हरेः कुर्वतीनां
वज्राणां पात-तुल्यः शिरसि यद् अभवत् तद् रथारोह-जल्पः ।
तस्मान् निन्दा कृता यद् व्रज-पति-सदसाम् अप्य् अमूदृग्भिर् उच्चैर्
दुःख-प्राचुर्यम् एतन् मम विकलयति स्वान्तम् अद्यापि हन्त

2.3.12

आयात प्राण-सख्यो वयम् इह निकटाः कोटयः प्राण-नाथं
प्रीत्यावृत्तं वितन्मः किम् इव गुरु-जना नः करिष्यन्ति नाम ।
इत्थं तास् तं द्रवन्तीर् मृदु-चरितवतीर् अप्य् अलं तीव्र-भावाः
क्षिप्ताश् चक्रुर् यद् अन्ये तद् इह मम बलात् प्राण-घातं करोति

2.3.13

हा हा सा रास-गोष्ठी नव-नव-मिलनोल्लास-शश्वद् विलासा
तल्-लीला-कल्प-वल्ली-समुदय-जनुषाम् अङ्कुर-श्रीः क्व याता ?
हा धिग् याक्रूर-नाम्ना कितव-नृपतिना दीक्षिता गोप-गोष्ठी
सेयं तत्-सर्व-नाशिन्य् अजनि कुत इति क्रोशिका मां दहन्ति

2.3.14

आस्तां रासादि-लीलावलिर् अपि ललिता हा दिनान्ते निशान्तेऽप्य्
अञ्चन् गोभिर् विलासी सह-सखि-निचयः साग्रजः कृष्ण-चन्द्रः ।
अस्मान् नेत्रान्त-लक्ष्मी-विलसित-कलया पुष्टवान् सुष्ठु यस् तं
गोपास् तूर्णं नयन्ति क्व समम् इति गिरो गोपिका मां तुदन्ति

2.3.15

[20] तद् एवं स्थिते-
राधा यद्यपि मूर्छिता समभवत् तस्यास् तथापि प्रियश्
चित्तान्तः स्फुरति स्म तद्वद् अभितो यद्वच् छताङ्गं गतः ।
सोऽयं यद्यपि दृष्टि-कृष्टिम् अकरोद् अस्याः सकाशान् निज-
क्षोभाद् बिभ्यद् इयं तथाप्य अनुदिशं हा तद्-दृशि व्यानशे

2.3.16

तस्यां सभायां रुरुदुर् यद् एता
गोविन्द दामोदर माधवेति ।
तत्र स्मृतेऽद्यापि मनो ममेदं
खेदं भजत्-प्राण-भृतिं न वष्टि

2.3.17

एवं बत सुदतीनां
रुदतीनाम् अप्य् अरुन्तुदः स रथी ।
अक्रूरः क्रूर-मनाः
दूरं हरिम् अहृत सूरजा-पुरम्

2.3.18

कृष्णस् तन् मुख्य-वर्गस् तद्-अनुगत-रथस् तत्-पताका-तद्-उद्यद्-
धूलीनां पालिर् इत्थं क्रमम् अनु निमिष-प्रोज्झितं वीइक्ष्यमाणा ।
प्रत्यावृत्तौ निराशा व्रज-युवति-ततिः प्राणम् अत्यक्ष्यद् एष
प्राक् चेन् नात्मागति-स्वीकृति-कृति-लिपिभिः सत्यम् अत्र व्यधास्यत्

2.3.19

यद्यपि सुर-मुनि-कथिता
स्वस्यागतये विलम्बिता ज्ञाता ।
तद् अपि च वलयित-तृष्णे
नास्यां कृष्णेन नादृतिः कलिता

2.3.20

[21] तत्र तस्य तासां च स-स्वेद-जल-कुङ्कुम-रागेण साश्रु-कज्जल-भागेन च मुहुर् मिथो लिखिता दूत्य-सङ्गत-मधुमङ्गल-पत्रिकाः पत्रिका यथा-
आयास्याम्य् आशु हत्वा तम् अधि-मधुपुरं कंसम् अप्य् अस्ति दूरं
वत्साद्य्-आघात-धाम्नः पुरम् अपि किम् अदस् तत् प्रियाः कुत्र दुःखम्?
किन्त्व् अन्यत् प्रार्थितं यद् भवद्भिर् उचितं तद् विधत्त प्रसत्त्या
प्राणे प्राणेश्वरीभिर् मयि किम् अयि परं हन्त मन्तव्यम् अन्तः

2.3.21

गच्छन् नेष त्वम् अद्य स्फुरसि दयित भोः कंस-घातं विधाय
स्वीकर्तुं राजतां तत् कथम् अथ भवताद् आगतिस् ते व्रजाय?
तस्माद् अस्माभिर् अर्थ्यं तद् इदम् इह भवांस् तत्र नाना-विराजत्-
तीर्थे सर्वार्थदे नः स्मृतिम् अनु ददताम् अञ्जलीनां त्रयाणि

2.3.22

नालं मे राज्य-लिप्सा कथम् अपि वलते निर्ममे तत्र सत्यं
कंसं हत्वा यदूनां सुखम् अभिवलयन्न् अस्मि चायात-कल्पः ।
बद्धः स्यात् कृष्ण-सारः सपदि विधि-वशात् तर्हि किं पार्थिवादेर्
मानस् तस्मिन् सुखाय प्रभवति न वनं नापि कान्ता-सुसङ्गः

2.3.23

वृन्दं क्रीडा-वनानां बहु-विधम् अभितोऽप्य् अस्ति तत्राथ राज्ञां
कन्या बह्व्योऽपि कान्तास् तव विभव-वशाद् उद्भविष्यन्ति धन्याः ।
तत्-तल्-लाभे मनस् ते कथम् इह भवितास्मासु वा किं तपोभिर्
लब्धे भोगे विचित्रे पुनर् अपि तनुम् आनीहते वन्य-वृत्तीः

2.3.24

सत्यं ताः केलि-वन्या विदधति लषितं सर्वतः सत्यम् एव
क्षोणी-पालादि-कन्याः परम-गुण-गण-स्तोत्र-भाजः स्फुरन्ति ।
सत्यं कुर्वे त्रिलोकी मम न हि रतिदा नापि तत्रस्थ-रामा
यद्वद् वृन्दावनं मे तद्-अनुगत-रमा यद्वद् एता भवत्यः

2.3.25

सा ते सर्वाङ्ग-शोभा बत समधिगता येन नेत्रेण येन
श्रोत्रेणाश्रावि वंशी समगमि वपुषा येन च स्पर्ष-लक्ष्मीः ।
तेनैवालक्षि दूरं गमनम् अवगतं तेन सन्दिष्टम् उग्रं
तेन स्वं विप्रलब्धं रचितम् इति हहा जीवितं धिग् विधिं धिक्

2.3.26

येयं दृष्टिर् मया वश् छवि-परिकलनात् कृष्यते या श्रुतिर् वाग्
दूरस्था रच्यते या तनुर् अपि मिलनाद् दव्यते स-व्यपेक्षम् ।
यद्य् एतास् तत्र तत्र प्रतिकृति-कृतये न ह्य् अधीना मम स्युस्
तर्ह्य् एताः स्वैरिणीर् वा कथम् अहम् अहह प्राण-सख्यः सहेय?

2.3.27

अक्रूर-क्रूर-भावं विधिर् अशुभ-विधिं मित्रम् आमित्र-चर्यां
यस्याम् अस्यां दशायां सरभ-समगमत् तत्र कान्यस्य वार्ता?
अस्मज् जीवोऽप्य् अजीव-स्थितिम् इह नियतं प्राप्नुयाद् एवम् अत्र
स्वामिन् न व्याधिवत् तत्-प्रतिविधिर् उदियात् काल-कल्पे विलम्बे

2.3.28

आयास्याम्य् एव शीघ्रं न खलु मम मनस्य् अन्य-वार्तास्ति काचित्
काचिद् वा दैवतः स्यात् तद् अपि न भवती-जातु दीनास् त्यजानि ।
या या मध्ये मद्-आप्तिर् मुहुर् इह भविता तां पुनः स्वप्न-रूपां
मा शङ्कध्वं यथा प्राग् असति च विरहे शङ्कमाना बभूव

2.3.29

इति ।
एतावन् मानम् अन्यासां वाचिकं हरिणाजनि ।
राधाया मूकतानूकम् अमितं यत् तु निर्ममे

2.3.30

ततः स्व-वृन्देन निशान्तम् आपिता
बलेन बालास् तद् उरीकृतागतिम् ।
प्राचीन-तद्-रीति-शतेन निश्चितां
विनिर्माणा मुहुर् एव तां जगुः

2.3.31

[22] तद् एवं स्निग्धकण्थस्य कथितम् अनु व्यथित-मनसि श्री-राधिकादि-सदसि
विकलः कमल-लोचनः स्वयम् एव समवोचत-
राधे श्रवसि नावेशं कुरु किन्तु विलोचने ।
वृत्तं सन् मन्यसे हन्त वर्तमानं न वीक्षसे

2.3.1

इति श्री-श्री-मद्-उत्तर-गोपाल-चम्पूम् अनु व्रज-पति-विसर्जन-कष्टं
नाम षष्ठं पूरणम् ॥ 6 ॥
अथैकोनत्रिंशं पूरणम्
भावि-कथा-प्रमाण-प्रथनम्
[1] अथ भावि-कथान्तरावतारणाय क्रमात् प्रमाणं निरूप्यते । तद् एवं तत्र मङ्गल-भजने स्थिते व्रज-जने पुनर् अत्र दुःस्थिते पूर्णिमा-वृन्देऽपूर्ण-मनस्तया विविक्तम् अनु विविक्तवत्यौ ।
[2] तथा हि-यदा केशि-मथनस्य व्रजान् मथुरागमन-समनन्तरम् अनन्तरम् एव तज्-जन-दुःखम् ईक्षितुम् अक्षमतया तद्-अतिदूर-क्षिति-स्थितिआं गतयोर् मधुमङ्गल-सङ्गत-वृन्दा-पूर्णिमयोश् चिरम् एकान्त-वन-निशान्ततासीत् । तदा च नाना-संवदमानयोर् अनयोः संप्रति संवदनम् एवं बभूव ।
[3] यथा-यदा साल्व-युद्धम् उद्बुद्धं तद्-दुःखेन च गोष्ठं रुद्धम् । तदा तत्-तद्-वृत्तं विद्नमाना वृन्दा स-रुदितम् उदितवती-भगवति ! किम् अनन्तरम् अन्तरं भवितेति न प्रविशति मे हृदयम् ।
[4] अथ पूर्णिमा गद्गद-पूर्णं गदति स्म-मम च विगमित-सर्वालोकेन शोकेन वपुर् अपि न स्फुरति, किइम् उत पुरः-स्थितम् आस्तां तावद् अपुरःस्थितम् ?
[5] वृन्दाह-योगमायया भवत्याः स्व-गोपनार्थम् एव तपस्वि-वेषेण भवन्त्याः कथं मध्ये मध्ये ज्ञानं पराहन्यते ?
[6] पूर्णिमाह-लीला-शक्ति-रूपवत्या भवत्या यथा ।
[7] वृन्दाह-तच् च कथम् ?
[8] पूर्णिमाह-या काचिद् एका रति-प्रेम-प्रणय-रागानुराग-महाभाव-पर्यन्त-वृत्ति-मयी प्रीति-नाम्नी हरेः शक्तिर् विराजते, सा सर्वत्र प्रवलायास्मद्-आदीनां परमाश्रय-रूपं श्री-कृष्णम् अपि शश्वन् मोहयति । यथा-
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।
उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ [भ्प् 10.13.16] इति ।
[9] वृन्दाह-तद् एतद् अपि सार्वत्रिकं न दृश्यते, कारणं तु न परामृश्यते ॥
[10] पूर्णिमाह-स-प्रेम-भक्तानां निकटीभावत एव सा शक्तिः श्री-कृष्णेऽपि रुचिं प्रकटय्य प्रकटीभवति ।
[11] वृन्दाह-प्रस्तुते किम् आयातम् ?
[12] पूर्णिमाह-परम-प्रेमवतां श्रीमति व्रजे वसतां सङ्गाद् वयम् अपि ।किं बहुना, श्री-कृष्णः स्वयम् अपि प्रेम-गङ्गा-प्रवाहम् अनु मग्ना उन्मग्नाश् च भवन्तः संविदम् असंविदं च प्रतिपद्यामहे इति ।
[13] वृन्दाह-तर्हि कास्मद् आशाया गतिः ?
[14] पूर्णिमाह-भवत्या इव स्वप्नेऽपि परिदेवनाम् एव सेवमानायाः कृत-क्षपणायाम् अनन्तर-क्षपायां कोऽपि गोपितात्मा पुरुषः पुस्तकम् इदं मम हस्त-विन्यस्तं चकार ।विचारय तद् इदम् इति वदन् पुनर् अवदन्न् एव कुत्रापि चचार च । ततस् त्वम् अत्र काच-कामलामल-कार-दुष्पार बाष्पानुमोचन-पर-लोचनायां मयि लोचनायमाना भव ।
[15] वृन्दा तु तद्-वन्दमाना प्रोवाच-
पर्णेषु स्वर्ण-वर्णेष्व् अमर-पति-मणि-प्रख्यतावर्ण्य-वर्णैर्
निर्वर्ण्यैर् गढतम्याम् अपि चितम् अभितो रत्न-सङ्कीर्ण-गात्रम् ।
आमुक्त-स्वच्छ-मुक्ता गुणम् इदम् अनु यत् पुस्तकं कृष्ण-शोभां
तद्-वस्त्रादि-प्रयुक्तां स्वयम् इह स इव प्रादुरस्तीति विद्मः

2.3.2

(स्रग्)
[16] पूर्णिमा सानन्दम् आह-तर्हि परमम् अर्हितम् एव तद् इदम् अस्मन्-मनः संविदं विदितां करिष्यतीति त्वरितम् एव वाचय ।
[17] वृन्दा स-प्रमद-वृन्दं तद्-वाचनास्पदम् आचचार ।प्रथमं तावद् बहिर् विहितान् नाम-वर्णान् निर्वर्णयन्ती वर्णयामास-अत्र कलित-त्वद्-भाग-धेयं श्रीमद्-भागवत-भाग-सम्भाग-जागरूकं पाद्मोत्तर-खण्डस्य खण्डं निध्येयम् ।मध्ये मध्ये तत्-तत्-पोषणाय संचितं किञ्चिद् अन्यद् अन्यद् अपि इति ।
[18] अथ प्रथमं पठ्यताम् इति पूर्णिमा-कथनानन्तरं वृन्दा पपाठ--[19] अथ श्री-भागवत-पद्यानि-
तस्मिन् निपतिते पापे सौभे च गदया हते ।
नेदुर् दुन्दुभयो राजन् व्योम्नि देव-गणेरिताः ।
सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ (10.77.37)
श्री-शुक उवाच-
शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ।
पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् ॥
एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् ।
पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत ॥
तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः ।
अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ (10.38.1-3) इत्य् आदि ।
[19] तद्-अन्ते च-
कृष्णोऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे ।
गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् ॥
प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः।
ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् ।
पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप ॥
विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः ।
आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया ॥
तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना ।
शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् ॥
एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् ।
हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः ॥
वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् ॥ (10.78.8-13,15)
[20] पूर्णिमा प्राह स्म-अत्रेदम् अधिगतम् । यदा साल्व-वधः सम्बद्धस् तदा गदाम् आदाय दन्तवक्रः सन्नद्धस् तत्र चङ्क्रम्यते स्म । श्री-कृष्ण-गदयाप्य् उत्क्रम्यते स्म इति ।
[21] अथ तद्-अन्ते तद्-अन्तेवासिनी वृन्दा सन्दिदेह-भगवति ! तद् इदं मम मतिम् अतीतम् । कदा नामावधारितवान् विदूर-धामा दन्तवक्र-नामा तत्-क्षणारब्ध-साल्व-वधाभिधानम् ? अवधारयतु वा कथं तदैव दैवतम् इव दूर-निज-देशात् तद्-देशं प्रविवेश । तत्रापि गदा-पाणिः सन् पदातिर् एव केवल एव चेति कथम् इव ?
[22] पूर्णिमा प्राह स्म-उत्कृष्टं पृष्टम् । किन्तु तद्-अनन्तर-वाचनयापि रोचय निज-वाचम् ।
[23] वृन्दा तद् अपि वाचयति स्म-अथ पाद्मोत्तर-खण्ड-गद्यानि-अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम् आजगाम । कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य तेन योद्धुं मथुराम् आययौ । दन्तवक्त्र-वासुदेवयोर् अहोरात्रं मथुरा-पुर-द्वारि यमुना-तीरे सङ्ग्रामः समवर्तत कृष्णस् तु गदया तं जघान । स तु चूर्णित-सर्वाङ्गो वज्र-निर्भिन्न-महीधर
इव गतासुर् अवनि-तले पपात । इति ।
[24] तद् एवं वाचयित्वा वृन्दा पप्रच्छ-तद् इदं पुराण-द्वयं प्रत्युत परस्परं विरुद्धम् इव बुद्धम् इति ।
[25] एतद्-उत्तरं पूर्णिमायाः पुनस् तत्-तद्-वचन-लब्ध-विज्ञान-पूर्णिताया उत्तरम्-न हि न हि ! किन्तु श्रीमद्-भागवतस्य तावद् असंबद्ध-भाषिता न सम्भवति । तथा पुराणान्तरेण सम्भवति चैक-वाक्यत्वे वाक्य-भेदो न न्याय्य इति वाक्यैक-वाक्यतान्यथानुपपत्त्या तद् इदं गम्यते ।
यत्र प्रथमं साल्वस्येव शिशुपालेन सह राजसूयम् अनागतस्य तस्य पृथ्वी-प्रकम्पन-गति-सम्पत्तया प्रसिद्धतया महा-सत्त्वतया सिन्धुतया वज्र-निर्भिन्न-महीधरतया च पठितया सहसा प्रबलतमतां प्राप्तः सोऽयम् इत्य् अवगतस्य स्मर-हराराधनं तर्क्यते । यत्र एव वराभासेन निर्वास्यतः पाद-घात-प्रतीक-सङ्घातयोर् अनुसन्धानम् अदुःसन्धानम् अवधीयते ।
तत्र च सति मनोरथ-गति-प्रथकस्य मुरमथन-रथस्य च वैभवं सुसम्भवम् अवगम्यते । तथा हरि-लिप्सित-संप्रहार-लीलां वलयितुर् मनोजवतां कलयितुस् तत्-तद्-वृत्त-संचारणाविशारदस्य श्री-नारदस्य च साहायकम् उदीक्ष्यते ।
[26] तद् एवम् एव श्री-भागवते-
सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभगात् ।
शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ॥
इत्य् अत्र शाल्वोऽपि गणितः ।
पाद्मे च-कृष्णस् तु तच् छ्रुत्वा इति गदितम् । किन्तु-महा-सत्त्वो व्यदृश्यत [भ्प् 10.78.2] इति यच् छ्री-भागवत-वचनं तत् तु दृष्टोऽप्य् असौ श्री-नारद-वचनेन विज्ञात-तत्त्व इति गम्यते ।
तथा च सति निहत-शिशुपालं श्री-गोपालम् इन्द्रप्रस्थाद् अकृत-प्रस्थानं निशम्य मथुराम् आगम्य पथि निर्द्वन्द्वं तं प्रति द्वन्द्व-युद्धेन परिपन्थिताचरणाय स्थितः । प्राग् एव तं द्वारकां प्रस्थितम् आकलय्य संशय्य कृत-विचार-चक्रः स खलु दन्तवक्रस् तच् चक्रपाणिः स्वयं लीला-सुख-सारदेन श्री-नारदेन साल्व-वधादिकम् अवधारयामासे । द्वारका-नाथश् च तथा तत्-कथनया
तद्-आगमन-साक्षात्कार-प्रथनया च मनोवद् अतीत-पथेन तेन रथेन तत्रापयामासे । नूनम् इति मत-द्वयम् अनूनम् एक-मतं स्यात् । तद् इदम् अपि व्यक्तम् अद्य श्व एव विशेषाद् व्यक्तं भविष्यति । पुनर् उत्तरम् उत्तर-विषयी-क्रियताम् ।
[27] अथ वृन्दा पठति स्म । पठन्तिई च नटन्तीवासीत् । तत्र पूर्ववत् तद्-गद्यं, यथा- कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा प्राक्तनौ पितराव् अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्याश्वास्य रत्नाभरणादिभिस् तत्रस्थान् सन्तर्पयामास । इति ।
[28] तद् एतत् पठित्वा च वृन्दा पुनर् उच्छलद्-बाष्पं पप्रच्छ-तद् इदम् अपि किं श्रीमद्-भागवत-संमतम् ?
[29] पूर्णिमा पूर्ण-मनाः प्राह स्म-दृश्यताम् उत्तर-विभागः ।
[30] वृन्दा पुनः श्री-भागवत इति पठित्वा पपाठ-
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः ॥ [भ्प् 10.38.35] इति ।
[31] पूर्णिमोवाच-मथुरा-प्रस्थान-स्थानम् इदं वचनम् ।
[32] वृन्दा पुनः पपाठ-
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भ्प् 10.45.23]
[33] पूर्णिमा जगाद-कंस-वधाद् दिन-कतिपयानन्तरं श्री-व्रजेशादि-व्रज-व्राजे तद् इदंश्री-कृष्ण-वाक्यम् ।
[34] वृन्दा पुनः पपाठ-
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [10.46.35] इति ।
आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ [10.46.34] इति च ।

[35] पूर्णिमोवाच-तद् इदम् उद्धव-सन्देशतया बुद्धम् । अत्र च द्रष्टुम् इति दर्शनम् एव पुरुषार्थ इत्य् अर्थः । पित्रोः प्रियं विधास्यते इति तद्-एक-पुरुषार्थत्वेऽपि तयोर् अभीष्टं नित्य-निज-लालना-रूपम् इत्य् अर्थः । [36] पूर्णिमाह-पुनर् वाच्यताम् ।
[37] वृन्दा वाचयति स्म-
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ [भ्प् 10.47.36]
[38] पूर्णिमाह-सोऽप्य् एष श्रीमद्-उद्धव-सन्देश एव । अत्रास्मच्-छब्द-पदानां मयि इत्य्-आदिना त्रिर्-आवृत्तिस् तत्र च प्रथमतः कृष्णे इति विशिष्य शिष्यमाणयोर् अपि मा मां इत्य् अनयोर् विभक्ति-विपरिणामेनानुवृत्तिम् अभिप्रेत्य कृष्णाकारेणैव स्व-प्राप्तिः प्रकरण-निगमनायाम् अभिप्रेता । किन्त्व् अन्यद् वाच्यताम् ।
[39] वृन्दा प्राह-अस्ति चात्र किंचन हरिवंश-वचनम्-
अहं स एव गो-मध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥ इति ।
[40] पूर्णिमा चाह-तद् इदं कंस-वधाद् उत्तरम् उग्रसेनं प्रति श्री-कंस-जित् प्रत्युत्तरं मद्-व्याख्यान-साक्षितया लक्षितम् ।
[41] अथ वृन्दा तदैतद्-उक्ति-विषयी-कृत्य नृत्यन्तीव तद् इदम् उक्तवती-सत्यं सत्य-सङ्कल्पस्य तस्य वचनं नासत्यताम् ऋच्छेत् । यदि च श्री-भागवताद् एव पुनर् व्रजागमन-वचनं साक्षात् कर्ण-सुख-रचनम् आलोचयामि, तदा तत्-परम् एव रोचनं स्यात् ।
[42] पूर्णिमाप्य् उत्सुकता-पूर्णम् उवाच-उल्लेखय तद्-उत्तर-लेखम् । कदाचित् तद् अपि सम्प्रदाय कल्पेत ।
[43] वृन्दा सानन्दम् ऊचे-अस्ति किंचित् । यथा श्री-भागवत एव-
यर्ह्य् अम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्-दिदृक्षया ।
तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ [भ्प् 1.11.9]
[44] पूर्णिमोवाच-तद् इदं भावि-भारत-युद्धानन्तरं श्री-द्वारका-पतेर् द्वारका-प्रवेशो द्वारका-प्रजा-वचनम् ।
[45] अत्र वृन्दा निवेदयामास-पद्यम् इदं विशद्यताम् ।
[46] पूर्णिमाथ वर्णयामास यथा-कुरून् इति कुरु-देशस्य, तथा मधून् इति मथुरा-देशस्य समुद्देशः । सुहृदोऽप्य् अत्र द्वारका-प्रस्थानात् परस्ताद् व्रजस्था एवेति व्यवस्थापयन् । यथा-
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [भ्प् 10.65.1]
[47] वृन्दोवाच-तद् इदं कालान्तर-भावीति च सम्भावितं स्यात् । न तु परं दन्तवक्र-संयद्-अनन्तर-भावि इति ।
[48] पूर्णिमा विमृश्य पुनर् दृश्यताम् इत्य् उपदिदेश ।
[49] वृन्दा पुनर् उवाच-आं आं पुनः श्री-भागवतीयं पद्यम् एकं प्रतिपद्यते ।
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु-पक्ष-क्षपण-चेतसः ॥ [भ्प् 10.82.41]
[50] तद् एतद् वाचयित्वा वृन्दा पुनर् उवाच-किम् अनेन समुन्नेयम् ?
[51] पूर्णिमा प्राह स्म-तद् इदं कुरुक्षेत्र-यात्रायां श्री-राम-भ्राता निज-स्नेह-पात्राणां व्रज-तनु-गात्राणां दुःख-त्राणाय भङ्ग्या शत्रु-पक्ष-क्षपणम् एवावधितया प्रतिज्ञातम् । शत्रु-पक्ष-क्षपणं च स्वदूरथ-दन्तवक्र-संयद्-अन्तम् एव । तद्-अनन्तरं हि स्वयं शस्त्र-हस्तता संन्यस्ता स्यात् । तस्माद् इदम् अपि सर्व-सुख-सद्म-पद्म-पुराण-मतं
श्रीमद्-भागवत-भाग् अवगतम् ।
[52] ततः कश्चिद् दन्तवक्र-वधं कुत्रचिन् मन्यतां नाम । तद्-अनन्तरं तु श्री-कृष्णस्य व्रजागमनम् अवश्यम् एव मन्तव्यम् । इतीदं प्रोच्य भगवती पुनः प्रोवाच-किंचिद् अन्यद् अस्ति ?
[53] वृन्दोवाच-तथैवाध्वन्य-वेषेण इत्य् आदिना पूर्वं दर्शितं श्री-रामस्य व्रजाद् आगतस्य श्री-कृष्णेन संवाद-रूपं हरिवंश-वचनम् एव पपाठ ।
[54] अथ तद्-अभिप्रायं पूर्णिमा प्राह-अत्र यद्-व्रजाद् आगतं रामम् अग्रजं रहसि रामानुजः प्रत्येक-व्रज-जीव-कुशलं पृष्टवान् । यच् च सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि इति । तस्माद् उत्तरं लब्धवांस् तस्माद् भावि-निज-सङ्गम-मङ्गलम् अपि तत्र द्वयोर् अपि भावितं बभूव । तत्रोदासीनतायां तत्राप्य् उदासीनता स्याद् इति ।
[55] अथ तेन निदिग्ध-धीर् अपि वृन्दा सन्दिग्धम् आचचार-पद्म-पुराणम् इव कथम् अच्छद्म न तद् व्रज-प्रत्यागमनं वचन-सद्म चकार स च पुराण-सारः ।
[56] पूर्णिमा बभाषे-श्रीमद्-भागवतं खल्व् इदं श्री-कृष्ण-भाग्-अवतंस इति शंसन्ति । तच् च निज-रहस्यम् इदं न व्यक्तं वक्तुं व्यवस्यति । तच् च गर्व-स्थेम्ना स्वतन्त्रं-मन्यतया नानान्य-सम्पत्-कामनाधीनानां तद्-उदासीनानां मत्य्-अवगुण्ठनार्थं प्रेम्णा गोकुल-लोकं-मन्यतया तम् उपासीनानां
विशिष्ट-तन्-निजाभीष्ट-स्पष्ट-श्रवण-विहीनानां बाढम् उत्कण्ठनार्थं च इति ।
[57] वृन्दोवाच-पूर्वेषां मत्य्-अवगुण्ठना समुचिता । परेषाम् उत्कण्ठना तु किम् अर्थं समुदिता ?
[58] पूर्णिमा वदति स्म-
उत्कण्ठया सह प्रेमा धत्ते मिथुनतां यदा ।
अङ्गजं हरि-सङ्गाख्यं तदा भजति नान्यदा

2.3.3

[59] वृन्दा विरमानन्दान् निरीहतया स्मित्वा प्राह-जन्मारभ्य कियद् वर्षानन्तरं कंसान्तकस्य यद्-उपत्तनाद् व्रजागमन-शन्तमम् इदं जनिता ।
[60] पूर्णिमा स-प्रणिधानम् आह-भारत-रीत्या भारत-युद्धानन्तरं युधिष्ठिरस्य प्राज्यं राज्यं तस्य षष्ठि-वर्षत एव जनिता । श्री-विष्टरश्रवाश् चार्जुन-सवयस्कता-विशिष्टतया युधिष्ठिरस्य वर्ष-त्रय-कनिष्ठस् तदानीं सप्त-पञ्चाशद्-वर्षताम् आप्स्यतीति लक्ष्यते । तत्र तु तद्-युद्धतः पूर्वाद् वनाज्ञात-वास-मय-वर्ष-त्रयोदशकात्
पूर्वं साल्व-दन्तवक्र-धूर्वणम् इति तस्य व्रजागमन-समय-विचारणायां वर्षाणां चतुश्-चत्वरिंशद् एवावशिष्यते । तद्-उत्तर-कालतः प्रकाशान्तरेण पुर्यां स्थितस्य पृथिवी-पालने तु भारताच् छ्री-भागवतं मतं विलक्षणम् इति तद्-एक-वाक्यतायाम् अशक्यतयाकल्प-भेद-कल्पनम् एव कल्पते । न तु तद् अत्र प्रयोजकम् । ततस् तद् अस्तु, प्रस्तुतं तु प्रस्तूयताम् ।
[61] वृन्दोवाच-कृष्णोऽपि तं हत्वा इति गद्यानन्तरं पाद्म-पद्य-द्वयम् इति लिखित्वा लिखितम्-
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः ।
बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [पद्मप् 6.252.19-27] इति ।
[62] अथास्य वृन्दा तात्पर्यं पर्यनुयुक्तवती ।
[63] पूर्णिमा चोवाच-गोप-नारीभिः इत्य् अत्र नृ-नरयोर् वृद्धिश् चेति जाताव् एव स्त्री-प्रत्यय-विधानाद् गोप-जातिभिर् नारीभिर् इति गम्यम् । तृतीय-स्कन्धे देवहूतिम् उद्दिश्य कर्दमं प्रति श्री-शुक्ल-वचने
दृश्यते च तद्-अनुवादि-मृत्युञ्जय-संहिता-वचनम्-
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् ।
गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः ।
मुक्ताहार-लसत्-पीन-तुङ्ग-स्तन-भराननाः ॥ इति ।
गौतमीये च-
गोप-कन्या-सहस्रैस् तु पद्म-पत्रायतेक्षणैः ।
अर्चितं भाव-कुसुमैस् त्रैलोक्यैक-गुरुं परम् ॥ इति ।
ब्रह्म-रात्र उपावृत्ते इत्य् आद्य्-उक्ताद् विलक्षणेन अनिशं इत्य् अनेन च तत्-पतिंमन्यादिषु वास्तवाभीरीणां विवाहादि-वञ्चनार्थं नासूयन् खलु कृष्णाय इत्य् आद्य्-उक्त-दिशा या मया योग-मायया सृष्टास् तासु पुनर् व्यक्ती-क्रियमाणासु पूर्वासां पर-दारत्व-भ्रमापक्रमानन्तरं सङ्कोच-मोचनं गम्यते । तच् चावश्यं तत्रावगन्तव्यम् । तत्र हि सर्वे गुणा लज्जानुगुणा एव कीर्त्यन्ते
। तथा हि हरि-वंशे श्री-नारदेन तस्य प्रशंसेयं यादव-संसदां कर्णावतंसवद् आचरति स्म ।
यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस् तत्र सन्नतिः ।
सन्नतिर् ह्रीस् तथा श्रीश् च नित्यं कृष्णे महात्मनि ॥ [ह्व् 2.101.73]
[64] तद् एवम् एव रम्य-केलि-सुखेनैव इत्य् अनेन, बहु-प्रेम-रसेन इत्य् अनेन चात्र व्रजे तत्-केलि-सुखस्य सर्व-मनोरथत्वं नाना-प्रेम-रसदत्वं च दर्शितं स्यात् । तद् एवम् एव च पूर्वं यद् असूया-राहित्यं तेषु मायया सम्पादितम्, तच् च महा-विरहेण व्यक्त-रहस्यास्व् अप्य् एतासु निर्व्यूढं स्यात् । किं च या श्री-भगवतः प्रतिकल्पम् अवश्यम्भावि-तादृशता-स्वभावावतार-लीलात्
प्रेयसी-प्रेम-प्रभाव-व्यञ्जनाय तत्-प्रिय-जन-रञ्जनाय च खेलन्ती जनक-कन्यायाम् इव गोप-कन्या-श्रेण्यां तस्य नित्य-कान्तास्मीति ज्ञानं यद्यप्य् आवृतवती, तथापि प्रेमाणाम् अवरीतुं न शक्तवती ।
[65] यः खलु प्रेमा तादृश-तल्-लीला-परवशतया तस्या इव तस्याः पर-हस्त-पतनावस्थायाम् अपि तत्-पातिव्रत्यं प्रतिपालयिता, स एवायत्याम् अपि तां दुःख-रूपां शमयित्वा मेलयिता स्याद् एवेति मास्मान्यथा मन्यथाः । तथा हि, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् इति तत्-तद्-वचनं प्रसिद्धम् । तत् खलु पर-दारताप-क्रम-रचना-पूर्वक-तन्-मिलनार्थम् एव तासां
सचते । भक्तानां यादृङ्-मनोरथ-प्रकारता, तादृग् एव मद्-आकारताविष्कार इति हि तत्र विवक्षितम् । तत्-प्रकारता च तच्-छ्रेणीनाम् इत्थम् एव-अहो कदाचिद् एवं भाग्यम् अस्माकं भविता । यद् अन्य-पत्नीत्व-प्रतीतिर् अयत्नीभूय दुःस्वप्नतया मिथ्या स्यात् तत्-पत्नीत्वम् एव जागरतया त्वरया सत्यं स्याद् इति ।
[66] आस्ताम् इह पर-पुरुषे रागि-स्त्रीणां तथा रीतिः । अन्यत्र च तत्-सदृशां गृहिणी-भावः सदापीष्टः । तथा च ताभिर् एवाभिप्रेतम् । गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् दामोदराधर-सुधाम् अपि गोपिकानाम् भुङ्क्ते स्वयम् इति ।
अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते
स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् ।
क्वचिद् अपि स कथां नः किङ्करीणां गृणीते
भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ [भ्प् 10.47.21]
अत्र यः खल्व् अस्माकम् आर्य-पुत्र-शब्द-वाच्यस्य प्रत्युतस् तस्य स्वीयाः स्मः इत्य् अभिमानस् तत्र गुप्तम् अस्ति । तदैव ताः किङ्कर्य इति मत्यापि कदा स्वयं व्यक्तम् अङ्गीकारिणा तेनास्मान् अङ्गीकरिष्यत इति । इत्य् अत्र आर्य-पुत्रः इत्य् अनेन तत्र पतित्वं व्यज्य नः किङ्करीणाम् इत्य् आदिना तथा तदीय-स्वीकारः प्रकटम् एव स्याद् इति व्यञ्जितम् ।
[67] तद् एतद् आत्मनः श्रीमद्-व्रजागमनम् । व्रजागमनम् अनु च तासु स्वीयताप्रक्टी-करणम् एव शुभङ्करणम् इति श्रीमद्-व्रजेन्द्र-नन्दनेन स्वयम् एव व्यञ्जितम् ।
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥
इति तद्-वचनं हि तासु स्वीयताम् । स्वीयतायाम् अपि तद्-एक-स्वरूपतां, तथापि विदूर-स्थिततया विसूरित-पूरिततां तत्-प्रत्यागमनम् अपि प्रत्याययति । तथा च सति यथा तासु विरहस्य दुःसहता तथा परकीयताख्यातेश् चेति ख्यापयति । अथवा, ताम् इमां ततोऽप्य् अधिकाम् अधिगमयति । ततस् ताम् अवश्यम् एव नश्यन्तीं करिष्यामीति पर्यवसाययति ।
[68] वृन्दा प्राह-युष्मद्-भावितम् एवायुष्मद् भविता ।
[69] पूर्णिमाप्य् आह-
श्री-कृष्णास्वादिताधरासु विजित-श्रीषु व्रज-स्त्रीषु सा
माया-मात्र-मयी भवेद् विवहनाद्य्-उत्था परोच्छिष्टता ।
मन्यन्ताम् उभयत्र भक्ति-रहिताः सत्येति तां दुर्दशां
हा धिक् तां किम् उ तत्-पराः स्थिरतया वाञ्छन्ति शृण्वन्ति च

2.3.4

[70] वृन्दा पप्रच्छ-मास-द्वयम् इह वासश् चेत् कथं एवं सौभं च साल्वं च [भ्प् 10.78.13] इत्य्-आदि-वीक्षया तस्य प्रतीक्षया रण-रङ्ग-सङ्गतैर् यदु-सङ्घैः सहैव द्वारकान्तः-प्रवेशः सदेश-रूपः स्यात् ?
[71] पूर्णिमा सहासम् इवाह स्म-न जानामि । ता इमास् तस्य योगमायाः प्रक्रियाः । यथा ब्रह्म-मोहनानन्तरं तद् इदं दर्शितम्-
एकस्मिन्न् अपि यातेऽब्दे प्राणेशं चान्तरात्मनः ।
कृष्ण-माया-हता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ [10.14.43] इति ।
[72] वृन्दाह-तर्हि व्रजम् आगत्य हरिणा चिराय यद् यत् कृतम् । तत् किं द्वारका-वासिभिर् न ज्ञातम् ?
[73] पूर्णिमाह-पूर्वम् अज्ञातम् अपि दारुक-मुखाद् अवधार्य ज्ञातम् अनुभूतं च येन तत्-प्रजाभिः यर्ह्य् अम्बुजाक्षापससार इति प्रोक्तम् ।
[74] अथ वृन्दा सानन्दापि समुत्कण्ठया ततः कण्टकम् उद्धर्तुम् इच्छति स्म । यथाह यर्ह्य् अम्बुजाक्षापससार इत्य्-आदि-रीत्या मास-द्वयम् उवास ह इति नीत्या च पुनर् व्रजाद् व्रजनं व्रजराज-सूनोर् उपलभ्यते ।
[75] पूर्णिमोवाच-वाचि शेषय । यद् पाद्म-वाचां शेषः स्यात् ।
[76] वृन्दा च वाचयति स्म- अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [पद्मप् 6.252.28-29] इति ।
[77] पुनर् निभाल्य वृन्दा तद् एतद् आह-तद् एतत् पदम् एव महा-गोलोकाख्यं तच् च सर्वोर्ध्वम् एव वर्तत इति ब्रह्म-संहिता-वचनं चात्र दृश्यते । यथा-
गोलोक-नाम्नि निज-धाम्नि तले च तस्य
देवि महेश-हरि-धामसु तेषु तेषु ।
ते ते प्रभाव-निचया विहिताश् च येन
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
तथा मोक्ष-धर्मस्य नारायणीयोपाख्यान-वचनं च-
एवं बहु-विधै रूपैश्
चरामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय
गोलोकं च सनातनम् ॥ [म्भ् 12.330.68] इति ।
[78] अथ पुनश् च निरूप्य वृन्दा सविस्मयम् आह-अहो ! हरिवंशे गोविन्दाभिषेकं रचयितुम् आगतस्य शचीपतेर् वचनम् इदम् इति लिखितम् । तस्य सर्वगतताम् अपि शंसद् दृश्यते, यथा-
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥
उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ह्व् 2.19.31-2। इति ।
किन्तु तद् इदं विशद्यताम् ।
[79] पूर्णिमा प्राह-साध्याः इति सर्वेषाम् अस्माकं प्रसादनीया इत्य् अर्थः । सर्व-गतः इति श्री-कृष्ण-विग्रहवद् अचिन्त्य-शक्तितया विभुर् इत्य् अर्थः । तथापि सर्वोर्ध्वता तादृग्-उपासकानां तथैव स्फुरणाद् इति गम्यते । महाकाशो ब्रह्म आकाशस् तल्-लिङ्गात् [व्स् 1.1.22] इति न्यायात् । तद्-गतः इति तद्-अनुभवोपर्य् अप्य् अनुभवनीय इत्य् अर्थः । तपोमयी इति पारमैश्वर्यमयीत्य् अर्थः । यां
न विद्मः इति ब्रह्मापि दुर्ज्ञेयतया न सम्यक् प्रकाशयतीति भावः ।
[80] अथ वृन्दा पुनर् वाचितवती श्री-भागवते-
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥
ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥
इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥
जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥
इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥
ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [10.28.10-17]
[81] अथ वृन्दा वदति स्म-किम् अत्र सुख-सत्रम् आयातम् ?
[82] पूर्णिमोवाच-तद् एवं यन्-निज-पदं तेषाम् एवास्पदतया तेषाम् एव दृष्टि-पदम् अकार्षीत् तद् एव पश्चाद् व्यतारीद् इति तत्र परामृश्यते । तत्र ते तु ब्रह्म-ह्रदं नीताः इत्य् अत्र यत्राक्रूरः स्तुतवांस् तं ब्रह्म-ह्रदं कृष्णेन तत्-तीर्थ-महिमानं लक्ष्यं विधातुं नीता मग्नाश् च पुनः कृष्णेनैवोद्धृत्य वृन्दावनम् आनीतास् तस्मिन्न्
एव नराकृति-पर-ब्रह्मणस् तस्य लोकं ददृशुर् न त्व् अक्रूरवज् जल-मध्य इति न चान्यथेति च गम्यते । पुरा इत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति हि कोष-काराः । लोकः स च सूक्ष्मम् इति तमसः परम् इति । सत्यं ज्ञानम् इत्य् आदि-स्वरूप इति च प्रकृति-गुणास्पृष्टतया चिच्-छक्ति-विलास एवेति लभ्यते ।
[83] तथा अपि नः स्व-गतिम् इति, न वेद स्वां गतिम् इति, गोपानां तमसः परम् इति, कृष्णं च तत्र इति च । न परम-व्योमादि-रूपः । किन्तु ब्रह्म-संहितादि-कृत-श्लोकः स्फुटम् अप्राकृत-गोलोक-स्वरूप एवायं श्रीमद्-व्रजेश-श्लोक इति पर्यवसीयते । तत्र छन्दोभिः स्तूयमानम् इति तज्-जन्मादि-लीला-वर्णनीनां श्रुति-वर-वर्णिनीनां साक्षिता तु तत्रापि पुरः स्फुरति
कृष्णे तेषां निज-सुततादि-मात्रता-ज्ञानाय पार्षदान्तर-दर्शनानुक्तिस् तेषां गोपानाम् एव तत्रत्य-तत्-परिकरता-व्यञ्जनायेति ज्ञेयम् । यत एव तद्-एक-रुचीनां श्री-नन्दादीनां परमानन्द-निर्वृतिर् विस्मितिश् च घटते ।
[84] स्व-लोकतायाम् अप्य् अवतारावसरे तेषां तस्यादर्शने कारणं जनो वै इति । सालोक्य-सार्ष्टि इत्य् आदि-पद्ये जना इतिवज्-जन-शब्दोऽयं तदीय-स्वजन-परः ।
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भ्प् 10.25.18]
[85] श्री-कृष्णस्यैव तत्र च मनसैव स्व-निष्ठा-प्रतिष्ठा-रचनाद् वचनाद् अत्र स तु व्रज-जनः परम-स्वजन एव स्पष्टः । साधारण-जन-वाचित्वे तत्-कृपा सर्वस्यापि जनस्य व्यापिन्य् अभविष्यत् । स्वां गतिम् इत्य् अपि न समगंस्यत । ततश् च परम-स्वजनोऽयं मम व्रज-वासि-जनः प्रापञ्चिके लोके याः स्वाविद्यादिभिर् देव-तिर्यग्-आदि-रूपा त्गतयस् तासु भ्रमंस्
तन्-निर्विशेषतयात्मानं मन्वानः स्वां गतिं गोलोक-लक्षणां न जानातीत्य् अर्थः । अत्र कारणं तु--
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भ्प् 10.11.58] इति ।
इत्य् अनुसारेण मदीय-लौकिक-लीला-शक्तिर् एवेति भावः । तद्-अज्ञानाद् एव च नन्दस् त्व् अतीन्द्रियम् इत्य् आदिकं घटत इति । तस्माद् यद् एव खल्व् इदं दर्शितम् । तद् एव तेभ्यः पश्चाद् दत्तम् इति गम्यते ।

[86] वृन्दा प्राह-हन्त ! कथं त एते मद्-वनाद् अन्तर्हितताम् आप्स्यन्ति । श्री-कृष्णेन पुनर् वियोगं च लप्स्यन्ते ?
[87] पूर्णिमा प्राह-किंचिद् अन्यद् अस्ति चेद् वाच्यताम् ।
[88] वृन्दा प्राह स्म-अथ वाराह-वचनम् इति किंचिद् अन्यद् अपि संचितम् अस्ति । तद् यथा-
तत्रापि महद् आश्चर्यं पश्यन्ति पण्डिता नराः ।
कालीय-ह्रद-पूर्वेण कदम्बो महितो द्रुमः ।
शत-शाखं विशालाक्षि पुण्यं सुरभि-गन्धि च ।
स च द्वादश-मासानि मनोज्ञः शुभ-शीतलः ।
पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ॥ इति ।
तथा-
तत्राश्चर्यं प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे ।
लभन्ते मनुजाः सिद्धिं मम कर्म-परायणाः ॥
तस्य तत्रोत्तरे पार्श्वेऽशोक-वृक्षः सित-प्रभः ।
वैशाखस्य तु मासस्य शुक्ल-पक्षस्य द्वादशी ॥
स पुष्पति च मध्याङ्गे मम भक्त-सुखावहः ।
न कश्चिद् अपि जानाति विना भागवतं शुचिम् ॥ इत्य् आदि ।
[89] अत्र तस्य इति ब्रह्म-कुण्डस्येत्य् अर्थः इत्य् उक्त्वा पुनः पूर्णिमोवाच-किंचिद् अन्यद् अप्य् अस्ति ?
[90] वृन्दा सानन्दम् उवाच-अस्ति चान्यत् स्कान्द-मथुरा-माहात्म्ये-
ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति ।
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥ इति च ।
अथादि-वाराह-वचनं च-
कृष्ण-क्रीडा-सेतु-बन्धं महा-पातक-नाशनम् ।
वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥
गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने ।
तत्रैवे रमणार्थं हि नित्य-कालं स गच्छति ॥ इति ।
वृन्दावने वसेद् धीमान् यावत् कृष्णस्य दर्शनम् ॥ इति ।
[92] अथात्र वृन्दा पप्रच्छ-सम्प्रति चिराय प्रोषितत्वेन परामृश्यमानस्य तस्य सदा क्रीडनम् अत्र कथ घटते ?
[93] पूर्णिमा प्राह-वैकुण्ठाद् गजेन्द्र-ध्रुवादि-कृपार्थं मध्ये मध्ये पृथ्विईम् आगतस्य च यथा तन्-नाथस्य तत्र नित्यावस्थानं प्रोच्यते । तद्वद् अत्रापि सच्यते । अनाद्य्-अनन्त-कालं तत्र विहरतस् तस्य निमेष-मात्रम् एव तत्-तत्-काल इति । अतः परं किंचिद् अस्ति, तत् तु वद ।
[94] वृन्दा प्राह-एतद्-अनन्तरं बृहद्-गौतमीय-पद्यानि प्रतिपद्यन्ते ।
[95] पूर्णिमाह-वाच्यन्ताम् ।
[96] वृन्दा च वाचितवती । यथा, नारद उवाच-
किम् इदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते ।
श्रोतुम् इच्छामि भगवन् यदि योगोऽस्मि मे वद ॥
श्री-कृष्ण उवाच-
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।
[97] पूर्णिमा प्राह-आयातम् अत्र च प्रकटाप्रकट-लीलावकाशताम् अयं प्रकाश-द्वैविध्यम् । अत्र मे पशवः इति, तेजोमयम् इति चोक्तवान् ।
[98] तद् एवं जात-सुख-वृन्दा वृन्दा पुनः पप्रच्छ-तद् इदं च सर्वं पर्यक् तात्पर्याय-पर्यालोच्यताम् ।
[99] पूर्णिमोवाच-अनेनेदं गम्यते । गोलोकाख्यं तद् वैभवं सदैव वृन्दावन-भवम् । किन्तु त्वं व्रज-वासिन्-जनवद् एव सम्प्रति न तद् अवगच्छसि । यथा पृथ्व्या अपि तद्-अज्ञानं वाराह-वचनाल् लभ्यते । तद् एतद् एव च नित्य-धाम तेभ्यस् तेन दर्शितं, तद् एव च तेषां नित्य-प्राप्यतया वर्णितम् । अक्के चेन् मधु विन्देत किम् अर्थं प्रवतं व्रजेत् इति-न्यायेन दूरे तेषां गमनं
च व्यर्थम् इति ।
[100] वृन्दाह-सत्यं सत्यम् । द्वयोर् अभेदेनैव व्यवस्था-रचनं हरिवंश-स्थ-तत्-प्रसङ्ग-सङ्गत-शक्र-वचनं चात्र दृश्यते-
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघन्तोप्दद्रवान् गवाम् ॥ [ह्व् 2.19.35]
[101] किन्तु, अथ तत्रस्था नन्दादयः इत्य् आदि-पाद्म-गद्य-द्वयं विशद्यताम् ।
[102] पूर्णिमा व्याचचक्ष-श्रीमन्-नन्दाद्या व्रज-स्थिताः स्व-स्व-पुत्रैः स्वयं कृष्णादिभिः स्व-स्व-दारैः श्री-यशोदादिभिः सहिता वसुदेवाद् आगतस्य तस्य कृत-निजागमन-सङ्कल्प-संवादेन प्रसादेन पूर्वतोऽपि परमापूर-रूप-धराः परसपर-दृक्-सुख-करा सर्वत्र मनोरथ-पथ-प्रापक-तदीय-रथम् आरूढास् तत्त्व-मात्रानभिज्ञेषु तत्त्वान्तर-विज्ञेषु च तत् तेजसा गूढाः
।महसाधः-कृताशेषं श्री-वृन्दावनस्य पूर्वोक्त-प्रकाश-विशेषं पराभिर् माभिर् अकुण्ठं गोलोकाख्य-वैकुण्ठं तत्र च गोकुल-कमलं यमुनाया उत्तर-पाराद् दक्षिण-पारम् अवाप्य प्रापुः इति ।
[103] तच् च निरामयं कुत-पुनर्-विरह-व्याधि-विलयं स्व-पदं निज-नित्यास्पदं पुत्र-दार-सहिताः इति पूर्व-सूचित-तत्-पुत्रतोचित-रूपेणात्र स्थितिर् एव यदु-पुर-समुचित-स्वरूपेण तु द्वारवती-प्रवेश इति सर्वम् एव सदेश-रूपम् । किन्तु गोपनार्थं लोकेषु चमत्क्रियारोपणार्थम् एव च सेयं विमान-प्रक्रिया । पारेऽवारे वा वसतु । स तु घोषस् तां विनापि ब्रह्म-ह्रद-मज्जनानतरवत् तत्र सज्जनं
लभेत ।
नाध्यातिष्ठेद् यदि यदु-पुरात् प्राप्य गोष्ठं स भूयः
सर्वं तर्हि प्रतिहत-रसं सर्वथा स्याद् वृथा च ।
जन्मानन्दः प्रतिलव-वयः श्री-चितिः स्नेह-वृद्धिर्
लीला-पूर्तिर् विरह-मथितः सान्त्वनं चात्र तस्य

2.3.5

[104] अथ वृन्दा पप्रच्छ-यद्य् एवं पश्चाद् अपि सर्व-व्रज-प्राणस् तत्-त्राणम् आचरितवांस् तदा पुरा मथुरा-प्रस्थान एव न कथं वा रचितवान् ?
[105] पूर्णिमा प्राह-रस-पोषाय प्रतिकल्पम् ईदृशम् एव लब्ध-सातत्येन लीला-नैयत्येन स्थापितम् अपि तद् इदं पृच्छत्या भवत्या निजम् उत्कण्ठितम् एव मच्-छ्रोत्रयोर् उपकण्ठीकृतं वादरायणादिभिर् अपि कृत-लालसा-संक्रमस्य श्री-भगवल्-लीला-क्रमस्य वैयर्थ्यं तु न समर्थनीयम् ।
पुनर् उदयज-शर्म-पोष-धर्म
स्वयम् उपशर्म हरेः प्रवास-मात्रम् ।
व्रजम् अपि तद्-ऋते रसस्य पूर्तिर्
यदि वलयेत तदा तद् एव न स्यात्

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc