गोपालचम्पू · अध्याय 2.6
(आर्या)
[87] तद् एवं मधुरोपसंहारेण व्याहारेण सर्वम् आनन्दयन् ताव् अमन्द-प्रेमानन्द-
मन्दिरतया वन्दिनाव् अमू तेन सह यथा-स्वम् आवासं विन्दतः स्म, श्री-राधा-गोविन्दौ च कन्दर्प-मन्दिरम् इति ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
कंस-विध्वंसनं नाम
पञ्चमं पूरणम्
॥5॥
अथ षष्ठं पूरणम्
श्री-नन्द-विसर्जनम्
[1] अथ श्री-गोविन्द-कृतम् अहसि व्रजेन्द्र-सदसि प्रातः-कथा प्रथाम् आप । यत्र मधुकण्ठ उवाच,-
[2] तद्-एवं कंस-मारणानन्तरम् उच्चावच-वारणाय यत्र कुत्रचिद्-गत-यादव-कुलाकारणाय समुद्भूत-कंस-पक्ष-निर्हारणाय च व्रजागमनायालब्धावसरे कंस-हरे तत्-पर्यन्त-वृत्तं प्रतिलवम् अपि श्रवसि वृत्तं कुर्वताम् उपनन्दादीनां सानन्दानाम् अपि विलम्बाशङ्का-शङ्कु-सङ्कुलानां सन्देशः प्रविवेश; यथा-
हरेर् माता भक्तं तद्-अवधि न भुङ्क्ते तद्-अनुगास्
तथा तस्मिन् गोपाः प्रति-मुहुर् उपायातिविधुराः ।
किम् अन्यद् वक्तव्यं व्रजम् अनुगतं यत् पशु-कुलं
वनस्थं यद् वा तन्-निखिलम् इह शिर्यद् विलपति ॥ इति
[3] अथ कुतश्चिन् मनः-स्थ-संकोचतः सम्प्रति प्रति-गमनाद् विरम्य भावि-लीला-सूचन-देवर्षि-वचन-स्मरणात् तद्-एव च नियम्य सहमानतां वहन्न् अपि तद्-एवं निशम्य सम्यग्-उत्सुकतया गम्यम् एवेति मनः पुनः सङ्गम्य सोऽअयं व्रज-प्राण-व्रजः स्वाग्रजं रहो निर्व्याजं व्याजहार,- æआर्य ! तत्र-भवतात्र साहाय्यं धार्यताम् । अहं पुनर् व्रजम् एव व्रजानिऽ इति ।
[4] स पुनः सास्रम् उवाच,- भ्रातर् भवन्तं विना मम सर्वं विनाशम् आयातीति न मया किम् अपि स्यात् ।
[5] श्री-कृष्ण उवाच,- तर्हि किं कार्यम् ?
[6] स उवाच,- यदूनुग्रसेनानुगतान् विधाय द्रुतम् उभाभ्याम् एवावाभ्यां गोकुलं गन्तव्यम् । तद् इदं मयापि भव्यं निवेदयैतव्यम् आसित्, दिष्ट्या स्वयम् एव दिष्ट्या तद् उट्टङ्कितम् ।
[7] अथ श्री-कृष्णस् तेन साकं श्री-वसुदेव-विना-कृत-यदु-कुल-विराजमान-यदु-राज-सहायां गत्वा क्षणाद् अवसरं च मत्वा तद् इदं निवेदन-मुद्रया वेदयामास,- æमम किञ्चिद् विज्ञप्तिर् अस्तिऽ इति ।
[8] सर्वे स-सम्भ्रमम् ऊचुः,- कामम् आज्ञाप्यताम् ।
[9] श्री-कृष्ण उवाच,-æसम्प्रति भवन्तः सर्वे स्व-भवनम् एव समागतवन्तः, राज-महाशयाश् च निज-राजासनम् एवासनं विधाय यथा-पूर्वं भवतां पर्व वितनिततारः । मया पूर्वम् अपीदं निवेदनंचक्रे, यन्-मह्यं राज्यं न रोचते, किं तु मम वृन्दावनम् एव सुख-वृन्दाय कल्पतेऽ इति ।
[10] तद् एवम् अवधाय मुखावलोकनं व्यतिविधाय सत्सु सभासत्सु विकद्रु-नामा यदु-बृद्धः समृद्ध-क्षोभम् आचचक्षे,- पूर्वम् अस्माकम् एकः कंसक एव ध्वंसक आसीत् । तद्-बलाद् अन्ये पुनर् अस्माभिर् न गण्येषु कृताः, भवता प्रमापिते तु तस्मिन् प्रचुर-प्रमाणस् तद्-विधा जाताः, यतो जरासन्धादयस् तत्-सम्बन्धाहित-निर्बन्धाः कोटयः प्रसारित-शस्त्र-कोटयः सन्ति । तस्माद् भवन्-मात्राश्रय-प्रणयनीय-प्राण-त्राण-यात्रा यदवः स्वयं यथावद् अवस्थाप्यन्तां संस्थाप्यन्तां वा ।
[11] किं च æअस्यास् त्वाम् अष्टमो गर्भःऽ [भा 10.1.34] इति गीर्-वाण-वाणी-सन्दर्भ-साक्षितया भवान् अस्माकम् एव सत्यम् अपत्यम्, न तु गो-पत्य्-अधिपानाम् इत्य् अस्मत्-प्रत्यवस्थापनम् एव भवता प्रत्य्हम् आचरणीयम् । तेषाम् अपकार-कारकश् च कश्चन सम्प्रति भातीति यथा-भव्यं स्यात् तथा व्यवहर्तव्यम् इति किम् अधिकं मर्म-व्यञ्जनया साधूनां शत्रुजित्सु परम-धर्मवित्सु ।
[12] अथ तद् एतद् अनतिक्रम्यं निशम्य सम्यग् वाचं संयम्य दुर्मना इव तस्माद् अपगम्य श्री-वसुदेव-देवकीभ्यां धर्म्यं हर्म्यम् आगम्य श्री-रामेण समम् एव ताव् अनु निवेदयामास,- श्री-मत्-पितराव्-आज्ञा-वितरायावधानम् अत्राधत्ताम् ।
[13] ताव् उचतुः,- हन्त ! तत् किम् ?
[14] श्री-कृष्ण उवाच,- यद् व्रजलोकं विलोकं विलोकम् आयच्छावः ।
[15] अथ तद्-एतद् अवधार्य तौ तूष्ञीकाम् एवापुष्ञीताम् । तौ हि पूर्वम् उग्रसेन-मुकुट-बन्धम् अनु तद्-वचन-प्रवन्धम् आकर्ण्य वैवर्ण्यम् एवासन्नौ स्तः । यः खल्व् अव्यभिचारितया वैशम्पायनादिभिर् अपि हरि-वंषादिषु प्रचारित एवास्ति; यथा दर्शितम्,- æअहं स एव गो-मध्यःऽ इत्यादि । जानाते स्म च ताव् अस्य मनोवृत्तं यद् व्रज-गमने लब्ध-सङ्गमने सर्वम् असौ विस्मरतीति ।
[16] ततश् चिराद् एवम् उचतुः,- æततः परिहृताव् एव चिर-लब्ध-श्वास-रूपाभ्यां युवाभ्याम् आवाम्ऽ इति तत्राक्रूरस्य जनन्या च विचारतः क्रूरम् इदं प्रोक्तम्,- æयद्य् अत्र व्रज-जनानां गमनागमनम् अस्ति, तर्हि व्रज एवायम् अस्तीति गमनं वास्य कथं निरोध-विषयीक्रियते ?ऽ इति ।
[17] अथ सर्वे तस्या मुखं पश्यन्तश् चिरं विमृश्य तस्थुः ।
[18] तद्-एवं सति पुनर् विविक्त-मिताभ्यां रामाजिताभ्याम् अक्षीणम् अषड-क्षीणम् इदं निर्णिक्तं विविक्तम्,- तद् इदम् आवाभ्यां सरलतया परम् अनयोर् गुरु-चरणयोर् निवेदितम् । तत् पुनर् अमूभां स्वानिष्टं वितर्क्य प्रत्यादिष्टं गुर्वाज्ञालंघनन्ं तु न मङ्गलाय कल्पेत । यद्-आज्ञा-पालनाय परम-मर्यादः स खलु रघु-वर्यः प्राज्यं राज्यम् अपि परित्यज्य नव-भार्यया सह राक्षस-चर्याभीषणम् अपि वनं बाढम् अवगाढं चकार । तद्-आज्ञा-लंघनस्य परामृश्यते च फलम्- जरासन्धादयस् त्व् अस्मत्-सम्बन्धेन कृतानुसन्धे व्रजेऽप्य् उत्पातं पातयिष्यन्तीति प्रस्तुतम् अस्तु तावद् अप्रस्तुतम् अन्यद् अन्यद् अपि, तस्माच् श्री-व्रजेश-चरण-समाधानम् एव साम्प्रतं साम्प्रतम् इति ।
[19] तद्-एवं मन्त्रं विधाय श्री-व्रजेशितुरनसां समूह सन्निधाय ताभ्यां तस्य परिसरः समाजग्मे । समागम्य च प्रणम्य सम्यगासनम् आस्थितयोस् तयो राम एव तस्मिन् सदसि यद् वृत्तं तत् प्रवृत्तं चक्रे ।
[20] तत्र स्वयं कृष्णस् तु पितृ-पितृव्यादीन् अपि स-विनयं पश्यन् किञ्चिद् विहसन्न् इव तस्य शेषम् आह स्म,- हन्त! कादाचित्कीम् आकाश-वाणीं प्रमाणीकृत्य मयि निज-देवकी-पुत्रताम् अपि ते सूचयन्ति, तद्-अन्तर्गतं स्व-मतं कारणं तु नावतारयन्ति इति ।
[21] अथैतावत् कथितवति मधुकण्ठे स्निग्धकण्ठश् चिन्तयति स्म,- वस्तुतः खल्व् अयम् अनुगताचिन्त्य-शक्तितया श्री-देवक्यां चतुर्-भुज-रूपेन श्री-योशोदायां तु द्वि-भुज-रूपेन स्फुरति स्म æफलेन फल-कारणम् अनुमीयतेऽ इति न्यायेन । यदा तु कंस-भयाच्-चतुर्-भुज-रूपाच्छादनाय देवकीच्छाजायत, तदा तु श्री-योशोदायां स्फुरितं द्वि-भुज-रूपम् एव चतुर्-भुज-रूपम् अन्तर्भूतं विधाय तत्राविर्भूवेति पूर्व-चम्पूम् अनु (3.102) श्री-भागवतानुगत-युक्तिभिर् उक्तिभिः स्थापितम् । तत् तु न पूर्वम् उभयत्रापि ज्ञातम् आसीत् इति ।
[22] अथ स्पष्टं स-स्मितम् आचष्ट,- कथं ते स्वयम् अपि कारणम् अवतारयेयुः ? अवतारिते तु तस्मिन् वसुदेवेनापहृतापत्यस्य गो-पत्य् अदिपस्य न्यायः सत्यः स्याद् इति । भवतु, व्रज-पतिना तत्र किं प्रतिपन्नम् ?
[23] मधुकण्ठ उवाच,- तच्-छ्रुत्वा तु व्रज-नृपतिर् बहिर् अविहतं विहस्य तद् अन्यथा अध्यवस्यति स्म, æअस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसेऽबुधऽ [भा 10.1.34] इति
कंसं प्रत्याकाश-वाणी-
æकिं मया हतया मन्द जातः खलु तवान्त-कृत् ।
यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपनान् बृथा ॥ऽ[भा10.4.12]
इति देवी-वाण्या व्यविचारिता । अव्यलीकता-पर्यवसित-भाषिणानकदुन्धुभिना च मां प्रति निर्द्वन्द्वम् इत्थम् एवोक्तम्,
æदिष्ट्या भ्रातः प्र-वयस इदानीम् अप्रजस्य ते ।
प्रजाईशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ऽ [भा 10.5.23] इति ।
तस्मान् नूनं æप्राग् अयं वसुदेवस्यक्वचिज् जातस् तवात्मजःऽ [भा 10.8.14] इति मां प्रति व्यञ्जित-तत्त्व-वर्गस्य गर्गस्य खल्व् इदं प्रपञ्चनम् एवान्तः कारणम् उदञ्चति ।
[24] भवतु, पित्रोः पुनर् इदं सुख-सम्विदम् एव तनुते, यन् निज-पुत्रं प्रति धन्याः पुत्र-भावनाम् आचरन्तीति ।
[25] विशेषतश् चानकदुन्धुभिना मम तज्-जन्या च भवज्-जनन्या न द्वैतम् अस्तीति तैस् तद् भद्रम् एवोच्यते । किं तु,
यात्र स्याद् असुराद् भीतिः सा तत्र विरह-ज्वरात् ।
भावद् वयं भवत्य् एवेत्य् आकुलं सुत मन्मनः
[26] भवतु, तथाप्य् एषाम् एव साहाय्यं कार्यम्, यतः सर्वज्ञानां मतम् अवधार्य कार्यम् एतद् विचार्य खलु मया कंस-बधाय तवागमनं न विस्रंसितम् । श्रूयते हि - पूर्वं मुनि-हिताय दशरथेनाभ्नव-तनयस्य राक्षस-क्षयाय प्रस्थापनम्; यः खल्व् अन्यदा तद् वन-गमन-क्षण एव क्षीण-प्राणताम् अवाप इति क्षणं रोदनं विष्टभ्य तम् एतं बाहुभ्याम् अवष्टभ्य् च तद् एतन् मुखम् ईक्षामास ।
[27] ततः स चैष तम् एनं सचमानः स-गद्गदं जगाद,- तात ! दुष्टा नष्टा एव भविष्यन्तीति न तत्र सन्दिह्यताम् । तथैव हि दैव-फलं मम तात-चरणेषु वर्गश एव गर्गः प्रति-ञातवान् अस्ति । कदाचिन् मयि चैकान्ते वनान्ते देवर्षि-वर्य इति । तथा मम च वासस् तात-महाशयानाम् उपासनमय एव सम्पत्स्यते, तच् च गोपानाम् उप-समाजम् एव, न तु यादवानाम् एव दवीयः । ते खल्व् अस्माकं ज्ञातयः, एते तु सुहृद इति ज्ञातिभिः सुहृदां खल्व् एतादृश एव भेदः । सुहृत्सु तद्-धिताय कदाचिद् वासः सदा तु ज्ञातिषु तद्-आलोक-सुखाय भवति इति ।
[28] एवम् उक्तवति रामानुजे राम-नामापि स्वं तत्-सदृशम् एव परामृशन्न् आह स्म,- पितुर् युवाभ्यां स्निग्धाभ्यां पोषितौ ज्वालितौ भृशम् आवाम् इति किं वक्तव्यम्; यतः पित्रोर् आत्मनोऽप्य् अभ्यधिका प्रीतिर् आत्मजेषु भवति इति ।
[29] अथ कृष्णश् च तद् एव स्थापयन् प्राह स्म,- आस्तां तावन्-मम तनूजस्य वार्ता, अस्य च श्री-मन्-मद्-अग्रजस्य भवान् एव धर्मतः पिता; यतः-
स पिता सा च जननी यौ पुष्ञीतां स्व-पुत्रवत् ।
शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ [भा 10.45.22] इति ।
[30] तस्माच्-छ्री-मद्-आर्यस्य चास्य भवच्-चरण-परिचर्या परं वर्या; किं तु सुहृदाम् एषां सुखम् अभिमुखं विधाय श्री-चरणम् आगमिस्यामः ।
[31] व्रज-राज उवाच,- वत्स ! तावद् वयम् अप्य् अत्र वत्स्यामः ।
[32] श्री-कृष्ण उवाच,- तात ! तथा विधेयं यथा भवद्-व्यतिरेकाद् एकाकितया माता मा तापं यासीत् ।
[33] व्रज-राज उवाच,- ताम् अपि भवतः समीपम् एवापयिष्यामः ।
[34] श्री-कृष्ण उवाच,- ततः सर्वम् अपि गोकुलम् उत्सन्नताम् आपन्नं स्यात् ।
[35] व्रज-राज उवाच,- तर्हि सर्वम् अपि व्रजं निकटं घटयिष्यामः ।
[36] श्री-कृष्ण उवाच,- सम्प्रत्य् अस्माकं बहुलाः प्रत्यहं संख्याधिकय-प्रत्यतः सुष्ठु बहुला जाताः । तासाम् उप-नगर-वनं किम् उप-जीवनं स्यात् ? गावश् चास्माकं कुल-देव्य इति ता एव सेव्यताम् अर्हन्ति । यदि वा मद्-अर्थं सर्वं भवताम्, मां विना तु ब्यर्थम् इति समर्थनीयम्, तर्हि च मत्-प्राणा एव ता इति ता एव प्राणनीयाः ।
[37] किं च, यदवोऽपि नाहितं व्याहरन्ति; स्फुटम् उपलब्ध-कंस-संबन्ध-जरासन्ध-निर्बन्धाद्-अक्षौहिणी-लक्षित-दुर्-जन-लक्षाणि मथुराम् अवरोत्स्यन्ति; तर्हि गर्हितम् एव भवेत् । तत्रास्ताम् अस्मत्-सामीप्यम् अस्मद्-असामीप्यतश् च भवद्-अवस्थानं यद्य् अस्मत्-संबन्धं विना लब्ध-सन्धं भवेत् तर्ह्य् एव कृच्छ्रं नर्च्छेत् । गूढ-पुरुष-द्वारेण ज्ञाते ह्य् अस्मत्-संबन्धे जरासन्धादयस् त एते कंस-वन् न भयानुबन्धा इति छल-बलम् एकम् एकं न प्रस्थापयिष्यन्ति । किं त्व् अक्षौहिणीभिर् द्रवन्तः सर्वं व्रजम् अप्य् उपद्रावयिष्यन्ति । तस्माद् अस्माभिर् युष्माभिश् च गोपयितव्य एव गन्धश् च व्यति-संबन्धस्य; एते च मया यादवा दुर्गान्तरे दवयितव्याः; भवन्तस् त्व् असंख्या न तथा कर्तुं शक्याः । संख्याम् अतिचरन्तीनां वनेचरन्तीनां गवाम् आवरणं
तु सुतराम् एव दुष्करम्; तस्मात् तेषां दुर्ग-वद्-अस्मद्-औदासीन्यम् एव भवतां रक्षायां प्रावीण्यम् अर्हति ।
[38] किं तु तावद् एव तद् विधेयम्, यावत् सर्व-विपक्ष-पक्षापक्षयं विधाय स्वयम् एव श्री-मद्-व्रजम् आव्रजामः । आव्रजिते च तस्मिन् न पुनर् अन्यत्र व्रजनम् अपि स्यात्, यतो निरुपधि-स्नेह-व्यग्र-भवद्-अग्रिम-स्व-जन-वर्ग-दर्शन-सुख-मात्र फल-पात्रतया निरुपाधिर् असौ पुरुषार्थः कथं बाधितः स्यात् ? तद्-एवं व्यस्य यन् निवेदुतं तद् तद् एवेदं समस्य निवेदयामि,
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा 10.45.23] इति ।
[39] तद्-एतत्-पर्यन्तं मधुकण्ठः प्रोच्य भ्रातरम् अवलोच्य प्राह स्म,- अत्र æतातऽ इति निजान्तः-स्थापित-पुत्रता-भावनाया योग्यम् एव सम्बोधनम्; æज्ञातीन्ऽ इति, तत्रापि æस्नेह-दुःखितान्ऽ इति स्नेहस्य निरवधिकत्वात् प्रति-क्षणं दिदृक्षुषु तन्-मुख्येषु तेष्व् एवावस्थानं प्रति-क्षणम् एव स्व-वीक्षण-दानं च विवक्षितम् । æवयम्ऽ इति æअस्मदो द्वयोश् चऽ इति पाणिनीय-स्मरणाद् अस्तु तावन् मम वार्ता, किं त्व् आवां द्वाव् अप्य् एष्याव इति व्यञ्जितम् । æद्रष्टुम्ऽ इति तेषाम् इवात्मनोऽपि तद्-दर्शन-मात्र-पुरुषार्थता समर्थिता । æअथापि भूमन् महिमा गुणस्य ते, विबोद्धुम् अर्हतिऽ [भा 10.14.6] इत्य् अत्र बोध-विषयी-भवितुम् इति-वद्-दर्शन-विषयी-भवितुम् इत्य् अर्थान्तरेऽपि तद्-वद् एव सिद्धान्तितम्; æसुहृदाम्ऽ इति यदूनाम् अज्ञातित्वम् उपकार्यत्व-मात्रं च ध्वनि-पात्रं कृतम्
। तत्र च æसुखं विधायऽ इति क्त्वा-प्रयोगेण सावधिक-निर्देशात् तद्-भयादि-नाशनानतरं पुनस् तद् अनपेक्षत्वम् अपि लक्षितम् इति ।
[40] तत्र स्निग्धकण्ठः सोत्कण्ठं पप्रच्छ,- अथ तत्र किं व्यवसितं श्री-व्रजेश-चरणानाम् ?
[41] मधुकण्ठः प्राह स्म,- व्रज-राजश् च तदीय-वाचो-युक्ति-रचनम् अनभिरुचितम् अपि बाढम् उचितम् इति मत्वा मनसि स्व-ललाटं हत्वा वाष्प-स्पृष्टम् अस्पष्टम् आचष्ट,- भवन्-माता तु वामा कथम् इयद्-बुध्यताम् ?
[42] श्री-कृष्ण उवाच,- तां प्रति च यथेष्ट-प्रणाम-पूर्वकं निजेष्ट-द्वारा मयेदं सन्देष्टव्यम् इति प्रोच्य स्व-हस्त-लिपिभिस् तत् पत्रं विरोच्य श्रीदाम-हस्त-विन्यस्तं कृतवान् ।
[43] श्रीदामा च श्री-व्रज-राज-शुश्रूषायां कृतानुसन्धस् तन्-मुखबन्धम् अतीव तद्-दीनन्-मन्यतानुबन्धम् अनुसन्धाय तं विहाय निवेद्यम् एव स-गद्गदं गदति स्म,- यथा सम्प्रति वयं दुष्ट-जनात् कष्टम् आशंक्य स्पष्टम् एव नायास्यामः; किं तु श्रीमत्-पितृ-चरण-परिचरण-प्रभावान् ममाषड-क्षीणम् अक्षीणम् आगमनं प्रत्यहम् अपि विद्यत एव ।
तथा हि-
आद्येऽह्नि क्षीर-भक्तं घन-दधि-वलिता रोटिका तस्य पश्चात्-
तत्-पश्चाद्-दुग्ध-पूपं तद्-अनु बहुविधान्नाद्यम् अन्येषु चान्यत् ।
मातर् मह्यं निकाय्ये महति रसयते पर्यवेषि त्वया यन्
न स्वप्नस् तन् न वा तत् स्फुरण-मयम् इति स्मर्यतां किं तु सत्यम्
किं च,
यवन्न् आश्नासि मातस् त्वम् इति निशमये हन्त नाश्नानि तावद्
यद्य् अश्नामीव तर्ह्य् अप्य् अनुभवद् असु मे येऽसवः शोषमीयुः ।
गोष्ठं गच्छानि पश्यान्य् अपि निज-जननीं तद्-विधाम् एवम् एव
ह्य् उद्यत् तेजः-प्रकाशाद् रिपु-गणम् अचिराद् उत्-सहिष्ये विजेतुम् ॥ इति
[44] अथ तद्-एतन् निशम्य सम्यग्- अस्राविलं सन्देश-हरश् च व्याजहार,- सत्यं श्री-व्रजेश्वरी-चरणाश् च स्वप्न-वद् इदं साम्प्रत-भवद्-भोजनादिकं स-रोदनं वदन्ति स्म । भवद्-दुःखम् आशंक्य स्वाभोजनम् अपि गोपयन्ति स्म इति ।
[45] अथ तद्-एतद् अवधार्य साश्चर्यतया स्थितेषु तेषु व्रज-महीक्षीद्-आर्द्र-वीक्षितम् आचचक्षे,- भवतः प्रेम-वश्यानां वयस्यानाम् एषां वर्तने का वार्ता ?
[46] श्री-कृष्ण उवाच,- श्रीमन्-मातृवद् एव ते चामी ममेप्सित-सखि-जना वीक्ष्यया माम् उपलप्स्यन्ते; किं तु मातुर्-वत्सलता-स्वभावतया कदाचिद् अन्यथा-प्रथा भासिष्यते, न पुनर् अमीषां प्रणय-भाजाम् इति ।
[47] व्रजेश्वर उवाच,- प्रथमतस् तावद् एत इव गावः कथम् एतावतीं प्रक्रियां श्रावणीं कुर्वन्तु ?
[48] श्री-कृष्ण उवाच,- यद्य् अपि तास्व् अपि मम तथा-स्फूर्तिर्-जूर्तिम् अपनयेत् तथापि प्रकारान्तरम् अपि बहिर्-वृत्ति-समाधानाय विधास्यामि । यथा- तासां गन्धानु-सन्धानम् एव प्रधानं रव-गण-श्रवणं च; रूप-निरूपनं तु तत्-प्रधानकम् एव । तस्मात् स्तोक-कृष्णोऽयं तद्-अभ्यस्त-मद-स्तोक-सौरभ्य-परिरभ्यमाण-वस्त्र-संवस्त्रणया कृत-मन्-मुरली-खुरलीकतया च तथा सुबलश् चायं बल-वसनावलम्बतया तदीय-शृंग-संगितया च तासां मद्य्हम् अध्यासितं कुरुताम् । ततश् च ममाखिल-गुण-निधय एते सर्वेऽप्य् अनयोः प्रति-निधयः स्युर् यत्र वन्याश् च ते धन्याः सर्वाभि-वाद्या मृग-नगाद्या मत्-स्फूर्ति-पूर्तिम् आगच्छेयुर् इति सर्वम् एव समञ्जसं भविता इति ।
[49] अथ निज-परिचारकान् शूद्राभीर-कुमारकान् हत-विचारकान् निशाम्य वैवश्याद् वैश्याभीर-राजि शाम्यद्-वचन-शक्तिभाजि स्वयम् एव सोऽयम् अस्र-तोय-धरः प्राह स्म, ( मम सखीयमानानाम् एषाम् अखिलानां तेषाम् इव यद्यपि गतिस् तथापि तातानुगतिस् तु विशेषतः स्तुतिम् आसीदति इति ।
[50] अथ मधुमङ्गलम् अपि तद् इदं स्नेह-सङ्गतम् आह,( हन्त! भवन्तश् च तत्र यान्तु । यद्-भगवती-सेवां मन्-मङ्गलाय मत्-प्रतिनिधितया कुर्वाणाः पुनस् तद्-अपूर्व-जननात् पूर्ववत् तद्-अखर्व-पर्वणे सम्पत्स्यन्ते इति ।
[51] तद्-एवं विस्रम्भ्य तत्-तत्-अङ्ग-सौरभ्य-परिरभ्यमाण-वसनादिना तौ स्तोक-कृष्ण-सुबलौ विशेषतस् तत्-तद्-गुण-वासितौ विधायान्यान् अपि यथा-न्यायं निजालंकरणादिनालंकृत्य सेवादिकारिणं च यथावद् आदृत्य कृत्य-विशेषान् श्री-मत्-पितृ-चरणेषु गोचरतां निनाय; नीत्वा च तद्-अनुज्ञां गृहीत्वा स्वयं तत्रैव स्थित्वा मन्त्र-सदनाद्-बहिः स्थितान् माथुर-विप्र-जनान् अन्तर्-नित्वा तद्-द्वारा सर्वान्न् एव यदून् व्ज्ञापयामास,( त एते व्रजाय व्रजिष्यन्ति इति ।
[52] ते च श्री-वसुदेव-नरदेव-प्रमुखास् तत्रैव सुखाद् आगताः, आगम्य च रम्य-परिच्छदादिना तान् अभ्यर्च्य चानुव्रज्य च चर्च्यमान-तद्-भद्रतया पुरमयामासुः ।
[53] स तु यशस्वी स्वयम् अस्वीकृत-राज्यतया किम् अपि तत्रत्यं तान् प्रत्य्-अनपवर्ज्य
किं तु प्राग्-वलि-वलित-बलि-कंस-हृत-धृत-कुप्य-भाजनानि यानि तान्य् एव विसर्ज्य केशवः केवलतायां मिथः क्षुभितता-भीतस् तैर् एव सह श्री-व्रजम् अहनीयान् अनुज्ञाप्य मनसि कयाप्य् अवस्थया व्याप्यमानः पुरम् आजगाम, रामस् तु तान् दूरम् अनु-वव्राज ।
{54} व्रजेश्वरस् तु प्रलीन-मनस्तायाम् अपि जीवन्-मुक्त-वद् एव संस्कार-वशाद् इदं जगाद,( वत्स! निजानुज-वत्सल ! स केवलतया मनोबलं हास्यति; तस्माद् अनुजं तम् एवानुयाहि इति ।
[55] अथ स्व-सम्बन्धाद् अधिक-दुःखानुबन्धाद् आशंकमानः संकर्षणः स-धैर्यं सर्वान् अनुज्ञाप्य शीघ्र-गत्या स्व-भ्रातरं प्राप्य क्वचिद् एकान्तम् अनुयाप्य निज-निज-बाहुभ्यां परस्परं ग्रीवां परिधाप्य तेन सह रुरोद । तद् अलम् अति-विस्तरेण ।
यतः-
कंसस्य ध्वंसनान्ते व्रज-वसति-गने गच्छति स्वीय-गेहं
तं कृष्णं तं च रामं तम् अपि पशुपति-क्स्मा-पतिं तांश् च गोपान् ।
श्रीदामाद्यांश् च तांस् तान् अपि च तद्-अनुगान् नव्य-विच्छेद-भीतेर्
अन्तः स्मृत्वा मद्-अन्तर्-विरस-वशतया सर्वम् अर्वाग् जहाति
[56} तद्-एवम् उट्ट्ंकयन्-मधुकण्ठः श्री-व्रजाधिपादीनाम् आधिम् अवधाय पुनर् अभिदधे,(
यः स्वां कृष्णः पुरा तृष्णां वर्धयामास धृष्णजम् ।
स साक्षाद् भवताम् अंके स्वं केलिं वहति प्रभो
[57] अथ श्री-कृष्णश् च तच्-चरणारविन्दं शिरसा विन्दन् स-निर्वेदं निवेदितवान्,(
अहह वहलमन्तुं जन्तुर् एष प्रलापी
रचितमचित-तातः क्षन्तुम् अर्हस् त्वम् एव ।
कथम् अपि निजम् अङ्गं व्याधिना दुःखदं स्यत्
तद् अपि न हि तद्-अङ्गी त्यक्तुम् इच्छेत् कदापि
ततश् च,
आलिङ्ग्यत व्रजेशित्रा पित्रा स-पुलकं सुतः ।
सर्वैश् चानन्द-गर्वेण रोम-पर्वेह सन्दधे
[58] तद्-एवं प्रातः-कथां मधुकण्ठः समाप्य श्री-माधव-पद-सीम्नि राधिका-सदसि कथयामास,(
[59] ये खलु तस्य व्रजाव्रजनाय व्यञ्जिता विघ्नास् ते सर्वे प्राग्-उक्त-लज्जा-निघ्ना एव मन्तव्याः । तद्-एव पुरस्ताद् व्यञ्जयन् मथुरायाश् चलन्तं सुबलं बलानुजः स्व-वल्लभारोचक-वाचिक-वलितं चकार । यथा(
सत्यं सन्त्यज्य युष्मान् नियत-मद्-अनुग-प्राणना निष्प्रमाणा
धर्म्यं मे नास्ति किंचित् तद् अपि स-वयसः श्रूयतां मन्-निवेद्यम् ।
युष्माकं यातिसेतुर् मयि रतिर् अतुला सा तु मां ह्रेपयन्ती
तत्-तुल्यासक्ति-रिक्तं ह्नुत-तनुम् अकरोन् नास्मि दूरः कदापि
पुर्याम् अस्यां यद् अस्मि प्रकटम् अपि हि तं हन्त कुर्यां कथं तत्
किं तु च्छाया-सदृक्षः स्फुटम् इह विहरेत् तत्र तु स्वेन नित्यम् ।
आवेशो यत्र यस्य स्फुरति स नियतं तत्र भाति स्वयं यत्
स्फूर्तिं स्वां सोऽयम् अस्मीत्य् अनुभजति यथा तेन नान्येन तद्-वत्
सोमाभे दर्श-रात्राव् अपि निज-रुचिभिः पूर्णिमा-भ्रान्तितस् त्वं
मद्-विश्लेष-ज्वरार्ति-प्रथि-नवम-दशा दुर्वशाङ्गी यद्-असीः ।
तर्हि त्वाम् अङ्ग-कान्ति-स्फुरद् असित-मणि-श्री-चय-व्याप्त-सर्वः
सोऽहं शिश्लेष तत्-तद्-विनिमित-दशया यत्र चित्रं जगस्थ
सोमाभे मानम् ऐच्छः प्रतिपदि ललिते माम् अयास्र् वनान्ते
पाल्यासीर् वास-सज्जा परिचरसि पुरा राधया माम् विशाखे ।
एतद् दिं-मात्रम् उक्तं भवद्-अवगतये ज्ञेयम् अन्यत् कथं वा
स्वप्नं तत् तत् विदित्वा ग्लपयथ निजकं मानसं माम् अपीह ?
पद्मे भद्रे स-शैव्ये त्रितयम् अपि भवद्-रूपम् उद्भ्रान्त-चित्तं
मद्-विश्लेषात् तमालं परि विलुठितवद् यत्र तत्राहम् आसम् ।
आलिङ्गन् युष्मद्-अङ्गान्य् उदनमयम् अहो यावद् अभ्यस्य तावत्
क्रुद्धा बृद्धाः कुतश्चिद् वत यद्-उपगतास् तन् न मे याति दुःखम्
आन्येद्युः श्रील-राधे मम पुर-गमन-स्फूर्ति-सञ्जात-मूर्तिं
त्वाम् आलिङ्ग्यानुचु म्बन् गिरि-वनम् अनयं तत् कथं व्यस्मरस् त्वं ?
तत्रागम्याथ सर्वाः कल-कल-विरुतं यर्हि चक्रुस् तदानीं
तत्रावां हा यथास्वं पृथकद् अपगतौ न स्मरस्य् एव तच् च
स्वप्ने यद् राधिके त्वं मम शयनम् इहाप्य् आश्रिता राज-पुर्यां
स्वप्नस् तन् नस्ति नूनं परिमलितम् अभूद् यत्-त्वया तस्य वासः ।
आस्तां तत् स्पष्टम् अद्याप्य् अनु मद् अवयवं पद्मिनी-रत्न-गन्धं
विन्दन्न् अन्धोऽपि लोकः स्मित-शवल-मुखः शीर्षम् ईषद् धुनीते
आस्तां प्राग् अद्य सद्य-स्तन-शशि-कलयालंकृत-श्री-रसौ यद्-
वृत्तं तद्-युष्माकाभिः स-शपथम् अभितः पृच्छ्यतां श्यामलैव ।
यद्य् अप्य् एवं तथापि स्फुट-गतिम् अचिराद् आगतिं चेन्-मदीयाम्
ईहध्वे सर्व-विघ्न-प्रशमन-रचना स्याद् यदा तर्हि कुर्याम्
[60] तद्-एव एतावत्-प्रथाम् एव कथां समाप्य पुनर् मधुकण्ठः प्रोवाच,(
राधे सोऽयं सत्यवादी त्वाम् अलंकृत्य शोभते ।
त्वद्-गन्ध-बन्धनः पुष्पन्धयः स्वर्णाब्जिनीम् इव
ऊषा-निरुद्ध-वद् राधे ययोः स्वाप्नश् च सङ्गमः ।
षाक्षाद् आसीत् तयोर् वा किं विश्लेषः स्थातुम् अर्हति ?
इति विसृमरसान्द्रानन्दशस् तं समस्तं
सपदि कथक-वर्यौ ताव् अनुज्ञाप्य यातौ ।
हरिर् अपि निज-कान्ता-सङ्ग-सर्वाङ्ग-शोभः
सुभग-शयन-लक्ष्मीम् अञ्जसालं चकार
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0