गोपालचम्पू · अध्याय 2.2
[56] तद् एवं यथा-कथा तथा लीला-प्रथाम् उपलभमानास् तद्-अन्ते च तस्याः सम्प्रति नास्तितायां विश्वस्ति-कृताश्वस्तिका निज-निज-भवनं सर्व एव सानन्दं पर्वतया जग्मुः । श्री-राधा-माधवौ च निज-शय्या-गृहं सुखमय्या स्पृहया गृहयाञ्चक्राते ।
इति श्री-श्रीमदुत्तर-गोपाल-चम्पूमनु
व्रजानुराग-सागर-प्रथनं नाम
प्रथमं पूरणम्
॥1॥
अथ द्वितीयं पूरणम्
अक्रूर-क्रूरता-पूरणम्
[1] अथापरेद्युः प्रभात-विराजमानायां स-व्रज-युवराज-व्रज-राज-सभायां कथा । यथा-
[2] मधुकण्ठ उवाच-अथ केशि-वधात् पूर्वस्यां क्षपायां लब्ध-क्षयायाम् अरुणे चारुने जाते स खलु कमलेक्षणश् चपलेक्षणतया क्षण-कतिपयम् इदं चिन्तयामास-
[3] अहो! स्वप्नः सोऽयम्, यत्र मञ्चात् कृत-स्रंसनः कंसः स मया समाकृष्ट इव
दृष्टः । सम्प्रत्याशु च तद् एव प्रत्यासन्नम् । यद् अद्य श्वः केशी मद्-अभिनिवेशी भवन् यमस्य प्रतिवेशी भविता । तद्-अनन्तरं कंस-ध्वंसनम् एव प्रसक्तम् । प्रसक्ते च तस्मिन् मम निगम एव गमनं समय-लब्धतया युक्ति-विस्रब्धम् । यतस् तस्य मत्-त्रस्तस्य न खल्व् अत्र यात्रा युक्ति-पात्रायते । तस्य चाद्यापि वृष्णिषु तर्जनायाम् अनारतस्य मयि च दुर्जन-विसर्जनायाम् अविना-कृतस्य विनाशनं
विना तत्र चात्र च मत्-पितुर् उभय-कुलं भयाकुलं स्याद् इति ।
[4] अथ पुनश् चिन्तयति स्म-हन्त! हन्त! यदि कार्य-पर्यायतस् तत्र सुविलम्बः संवलते, तदा मन्-मात्रादि-प्राणानां नात्राङ्ग-सङ्ग-मङ्गलं तर्कयामि । ततश् च,
मातुर् नेत्र-चकोर-चन्द्र-वदनस् तातस्य दृक्-चातक-
श्रेणी-वारि-भृद् अन्य-गोकुल-जनस्याप्य् अक्षि-पद्मांशुमान् ।
सोऽहं तान् परिहृत्य हन्त गमनं कुर्वीय चेत् तर्ह्य् अहो
चन्द्रादि-त्रयवन् ममापि भविता धिग् वात-चक्र-भ्रमः
[5] तद् एवम् एवम् अम्बुज-लोचने शय्यायाम् एव चिरं रचित-शोचने सहसा केशी सदेशी-बभूव । अस्य च निर्ग्रन्थनं प्रथम-ग्रन्थत एव कथया ग्रन्थनम् आससाद ।
[6] अथ श्री-गोपेश्वरी-लाल्यस् तु लाल्यमान-धवला-कलाप-च्छलात् पाल्यमान-यशास् त्रि-दशालय-मुने रहः-सहभावम् आससाद । यत्र च संशयानुशायातिशय-मय-मानं मुनिस् तं विभावितया भावि-तत्-तल्-लीलया सान्त्वयामास ।
[7] ततः समस्त-शस्त-पालः श्रि-गोपालस् तं विसर्ज्य प्रसज्यमान-मनस्-तापतयापि बहिर्-उपहित-सर्व-सुख-श्री-मुख-प्रकाशतया सखि-रामारामतया च सह-गो-व्रजं व्रजम् आजगाम । यथा-
दाम्ना दाम्ना सुर-सुमनसां स्वर्गिभिः पूज्यमानं
साम्ना साम्ना द्रुहिण-सदसां वीथिभिः स्तूयमानम् ।
नाम्ना नाम्ना स-पशु-पशुपां संमुखान् निर्मिमाणं
धाम्ना धाम्ना सुखदम् अखिलः प्राप तं दृश्यमानम्
[8] अत्र च सुराणां वचनम्-
इन्दोर् अभ्युदयात् परं विकसति द्राक् कैरवाणां गनः
सिन्धुः क्षुभ्यति कान्ति-पानम् अयते दूराच् चकोर-व्रजः ।
गोपाः पश्य मुदा मुरारि-कलनाद् एषाम् अशेषां दशां
गच्छन्तोऽप्य् अति-तृप्तिता-वशतया धावन्ति यावद् गति
इति ।
तद् एवम्-
आलोकः प्रीति-भाजां कृति-बल-निकरः किंकराणां हृद्-अन्तः-
सारः सख्य-स्थितानां हृदि लसद् असवस् तात-मात्रादिकानाम् ।
आत्मा रामान्तराणां हरिर् इह समगात् केशिनं घातयित्वा
गेहं यर्ह्य् एष तर्हि प्रति-निजम् अगमंस् ते च देहं प्रसिद्धाः
स्वेनाम्बा निरमञ्छयत् तम् अथ दृङ्-नीरं व्यमुञ्चत् पिता
सर्वेऽन्ये परिफुल्लद् अङ्ग-वलितां रोमाञ्चिताम् आञ्चिषुः ।
अन्यच् च क्वचन स्फुरद्-वचनतातीतं तद् आसीद् यदा
हत्वा केशिनम् आव्रजत् कलकलान्दोलि-व्रजं स प्रभुः
[9] ततश् च प्रातर् अतुलोत्पात-कातरतया नातिसम्भालित-लालन-वितरौ मतर-पितरौ पुत्रं परि समाश्लेषितरौ गृहापन-स्नेहालपन-स्नपन-दिव्यवासः-पटवास-समर्पण-लेपानुलेप-प्रथनया तं क्षण-कतिपयं विश्रमयाम् आसतुः ।
[10] यतस् तं सदा कोमलम् एव कलयाम् बभूवतुर् युद्धादि-समये तु नारायण-व्यक्तीकृत-तात्कालिक-शक्ति-मयम् इति ।
[11] अथ गवां दोहनावसरावरोहः स्याद् इति सर्व-सुख-पालः श्रील-गोपालः स्वयम् अग्रजेन समग्रीभूय तदीय-सामग्रीकर-किङ्कर-निकरम् अहूय तासाम् अग्रीय-भू-भागम् आगतवान् । आगत-मात्रे च तत्र स-राम-श्याम-गात्रे-
हुङ्कार-घोष-रचिताखिल-शब्द-मोषः
स्राग्-अब्द-कान्तिम् अमुम् आस्तृत-धेनु-सङ्घः ।
वत्सान् विनापि बलवत् स्नवम् एष तैस् तं
सद् वत्सलः सह-बलः शबलं चकार
तत्र तु-
सर्वं चकार स हरिः परितः पुरावद्
दध्रे सुरर्षि-वचसा तु विदूनमन्तः ।
यद्य् अप्य् अदस् तद् अपि तस्य निज-व्रजाय
प्रत्यागतिर् हृदि कृता स्थिरतां पुपोष
12] तथा हि, तस्य भावानाम् उद्भावना-
कंसं हन्तुं प्रयाणि स्फुरति पितृ-मुख-प्रेम तद्-विघ्न-रूपं
देवर्षेर् वाङ् न मिथ्या कथम् अथ विरहं हा सहेय व्रजस्य ?
निर्णीतेऽप्य् अत्र जाते कृतम् असुखमयेनास्य चिन्तामलेन
स्मर्तव्यं तत् तु नित्यं यद् इह सुख-मयं वैभवं भावि-सङ्गे
इत्य् अचिन्त्यत चानेन रथः कश्चन चैक्ष्यत ।
महतां हृदये याति प्रतिबिम्बं हि बिम्बताम्
[13] रथ-स्थ-पुरुषस्य दर्शने तु-
रथी निरस्त्रः स्याद् दूत इति कृष्णेन तर्कितम् ।
कंसात् कस्माद् असाव् आगाद् इत्य् अन्यैर् अपि शंकितम्
[14] तदा च वारुणीम् अनुरक्तः पतन-सक्तः स दिन-नाथः कृत-नदी-नाथ-पाथः-क्वाथः स्वम् आलोकं लोकम् अपि तमसि वेशयामास ।
सत्यं सूर्यस् तुर्य-
प्रहरस्यान्तं ययौ किन्तु ।
सबल-हरिः प्रतिहरितं
हारित-तिमिरं व्यधान् निजं किरणम्
[15] तत उन्मुखतां यातेषु गोप-जातेषु समम् उन्नत-कर्ण-सङ्घातेषु च गो-व्रातेषु तद् अवलोकन-सतृष्णौ बल-कृष्णौ रथ-स्थः स दूरत एव साक्षात् परिचितिं विनापि परिचितवान् ।
यतः,
चक्षुर् एव परिचायकं भवेद्
रूप-मात्र इति गीः सतां मता ।
तादृशाम् अनुभवे तु कर्णयोर्
दृष्टि-शक्तिर् अपि कृष्टिम् ऋच्छति
अस्तु तावद् अनयोह् सुरूपता
नील-रत्न-विधु-लोभि-शोभयोः ।
अङ्घ्रि-चिह्नम् अपि चित्र-संनिभं
दूरतोऽपि तम् अमूमुहन् मुहुः
[16] तयोस् तादृश-रूपम् अपि निरूपितवान्, यथा-
एकः श्याम-द्युतीनाम् अभिमत-विभवस्याधिदेवावतारस्
तत् सध्र्यङ् शुभ्र-शोभा-समुदय-सुभगाभोग-सार-प्रसारः ।
तत्रादिर् वस्त्र-कान्ति-प्रचिति-भगवती-कृष्ट-लक्ष्मी-प्रचारः
किं चान्यः कान्त-वासश् छवि-शवलनया सृष्ट-पूर्वानुकारः
तथा-
आद्यः कृष्णाम्बुज-श्री-विजयि-मुख-महा-शोभया दत्त-मोदस्
तत् सध्र्यङ् पुण्डरीक-द्युति-परिचय-जिद्-वक्त्र-रोचिर्-विनोदः ।
तत्रादिर् नेत्र-शोभा-विरचित-रुचिमत्-खञ्जन-द्योतनोऽदः
किं चान्यश् चक्षुर् अन्तारुण-कुसुम-रजः-पिञ्जरालि-प्रतोदः
तथा-
आद्यः श्री-कुण्डलान्तर्-झष-मुख-सुख-कृद्-द्योत-गण्ड-स्थलीकस्
तत् सध्र्यङ् शश्वद् एक-श्रुति-किरण-लसत्-कर्णिकाभावलीकः ।
तत्रादिश् चाप-वद्-भ्रू-मिल-तिल-कुसुम-घ्राण-वाणच् छवीकः
किं चान्यश् तद् द्वितीय-द्युति-जित-विलसत्-काम-चेतो-गवीकः
तथा-
आद्यः स्वर् नाथ-रत्न-द्युति-भुज-भुजग-द्योति-रत्नैर् विचित्रस्
तत् सध्र्यङ् पुष्प-रागाभिद-मणि-रचित स्तम्भ-जिद्-बाहु-चित्रः ।
तत्रादिः श्रील-नीलच्-छवि-निकष-दुरःस्वर्ण-रेखा-पवित्रः
किं चान्यश् क्रोड-भासाशिव-गिरि-मणि-भू-कान्ति-सम्पल्-लवित्रः
तथा-
आद्यः साङ्गाधराङ्ग-च्छवि-कवि-कविता-वर्धि-नानर्धि-युक्तस्-
तत् सध्र्यङ् तद् वद् एव प्रति-लव-रुचिरः सर्व-विद्वद्भिर् उक्तः ।
तत्रादिः पद्म-जिद्भ्यां निज-कटक-वरायेव पद्भ्यां प्रयुक्तः
किं चान्यस् तत्-सहायाव् इव निज-चरणौ चालयन् भी-प्रयुक्तः
तथा-
आद्यः सार्द्राङ्ग-नील-प्रगुण-तरु-लता-हस्तता-शस्त-खेलस्-
तत्-सध्र्यङ् कन्दुकार्थं कृतहलतया शाखया लब्ध-मेलः ।
तत्रादिः सङ्कुचद्-धीर् अवयव-निचय-व्याप्तये क् प्त-चेलः
किं चान्यस् तस्य तद्वन् मिलन-कृति-कृते वीक्षितागामि-वेलः
इति ।
किं च-
शिती स-तडिद्-अंशुकौ सद् अवतंस-वाम-श्रुती
पुरु-प्रभव-रोहिणी सुख-सुतौ बलाख्यान्वितौ ।
स-केलि-मित-धेनुकौ परिहृतान्य-जन्मास्पदौ
ददर्श बल-केश्वौ कलभवत् स वत्सान्तरे
अपि च-
असित-मणि-सुवर्ण-वर्ण-वासः
कटि-घटितामल-शृङ्ग-वेणु-सङ्गौ ।
कर-धृत-पटु-पट्ट-शुल्व-यष्ठी
मुसलि-हरी हरतः स्म चित्तम् अस्य
[17] दर्शन-मात्रतश् च निश्चलन-फल-यात्रः कम्प-सम्पत्-पात्र-शङ्कुवत्-पुलक-सङ्कुल-गात्रतया सहसा सह-सारं रथाद् अवततार । [18] अवतीर्य च विकीर्यमाणाङ्ग-तया साङ्गम् एव प्रणनाम । तन्-मात्र-परिमाणतया विशश्राम च । निज-पितृव्यतादितायां तु बभ्राम । यतः,
प्रभावानुभवी यः स्यात् प्रभावस् तस्य कारणम् ।
गुरु-लाघव-भावाय सर्वम् एवान्यथान्यथा
[19] तद् एवम् अविरामं प्रणामम् एव प्रसजति तस्मिन् गवः पराः पयः स-वयः-समवायेन दुह्यन्तां नीयन्तां च तद् गृहान् इति निदिशन् नतीवादर-सङ्करतया सङ्कर्षण-सहायः कृपा-पूरतः पुरतः संहाय स चायं सिंहायमान-संहननः साभ्युत्थानं कराभ्यां तम् उत्थापयामास । [20] स तु गद्गद-गदान् न तु स्व-नाम गदितुं
शशाक ।
[21] ततश् च प्रवयः-पशुप-चयेषु विरचित-तत्-परिचयेषु तद् व्यग्रता-कातरौ तौ
भ्रातरौ पितृव्यता-व्यवहारम् अपि विस्मृत्य तम् आलिङ्गनेनादृत्य निज-निज-पाणिना तत् प्राणी विधृत्य स्वालयम् एवानिन्यतुः । [22] हरिस् तु सद् व्यवहारं समाहरन्न् अग्रजम् एव तत्र निजाग्रेसरं चकार ।
[23] अथ स याथातथ्यम् आतिथ्य-प्रथम-भागं स्वागतादिकं प्रथयित्वा सहानु-जन्मा रोहिणी-जन्मा रस-सम्पन्मयं भोज्य-प्रचयंअ तस्मै बलयामास । भुक्त-वते तु तस्मै मुख-वासनं मुख-वास-मुखं स-सुखं समर्पयामास । तद् अनन्तरम् एव च श्रीमद् व्रज-राजं प्रति तं भाजयामस ।
तत्र च-
अक्रूरं प्रणतं मिलन् व्रज-पतिः कंसोत्थ-दुःखं स्मरन्
सास्राशीर्-वचसाखिल-क्लम-हरं यद् यद् गुणैस् तुष्टुवे ।
सारल्येऽप्य् अलम् अस्य तादृशि मनः-क्रौर्यं तदीयं स्मरच्
चित्तं क्षुभ्यति जाज्वलीति मम हा भष्मीभवत्य् अद्य च
[24] अथ तेन विश्रामायादिष्टं वासम् आसज्य पर्यङ्कोपविष्टं सम्मानिततया
सुखाविष्टं पुनस् ताभ्यां कृत-जननी-संभृत-भोजनाभ्यां सह रहसि निविष्टम् अक्रूरं स्वयं कृष्णस् तद् दर्शनतः समुद्बुद्ध-कंस-वधादि-तृष्णस् तद् इदम् इष्टं पप्रच्छ । यत्र च क्रम-चातुरी माधुरीभिर् इयं सर्व-सुख-धुरीणतां वहति-
किं तात सौम्य सुखम् आगतम् अत्र शं वः
किं तत्र कंस-हतके न हते चिरस्य ।
तौ जीवतः किम् इव वा पितराव् इदानीं
किं वा तवागमन-मङ्गल-बीजम् आसीत्
[25] अथाक्रूर उवाच-तस्य यादव-वीरेषु वैरानुबन्धः खलु भवता कृतानुसन्ध एव; विशेषतस् तु देवकी-विवाह-गताहम् आरभ्य यः स च भवच् छ्रवसि सचमान एवास्ते । मद्-विधस् तु तत्र वर्त्म-शत-पर्विका-स्तम्ब-वद् एव वर्वर्ति । वसुदेव-सहोदर-देव-भाग-पुत्रः परम-शुद्धः स उद्धव-नामापि भवद्-विरह-व्याधिः पवन-व्याधितयाभिधीयत इत्य् उर्वरित इवास्ति ।
[26] श्री-कृष्ण उवाच-तद् एतद् अपि ज्ञायते । साम्प्रतस् तु सप्रतीकं कथ्यताम् ।
[27] अक्रूरस् तु परितो निरीक्ष्य तद् इदं सूक्ष्माक्षरम् उवाच-अथ श्री-नारदस् तु त्वादृशि विजय-सुख-सारदस् तदृशि दुर्जन्म-पारद इति स तव व्रज-प्रेमावृतस्य तस्य च भयेनास्तृतस्य युयुत्सायाम् उत्साहनाय देवक्याः सप्तमाष्टम-गर्भतया युवाम् अनुचितम् इव सूचितवान् ।
[28] आदौ देवक्या गर्भः खलु रोहिण्यां मायया लब्ध-सन्दर्भः कृतः श्री-वसुदेवः पुनस् तां मायाम् अपि यशोदायां लब्ध-सम्भवां विज्ञाय देवक्याः सम्भूतं त्वां तत्-पर्यङ्के निधाय तां तस्यां लब्ध-सम्भवां चकार इति ।
[29] श्री-कृष्ण उवाच-ममेदम् आश्चर्यम् इव भाति ।
[30] अक्रूर उवाच-श्रीमद् आनकदुन्धुभि-मुखाद् अप्य् अद्वन्दीभवन्न् अहम् अनेन सफलित-कर्ण-द्वन्दी-भवन्न् अस्मि ।
[31] अथ श्री-कृष्णः क्षणं विलक्ष्य इव निरीक्ष्य सहसा तद् इदम् अन्तश् चिन्तितम् अवाप-आं आं तद् इदम् अलुप्त-ज्ञानस्यापि मम व्रज-स्नेहावेश-वशात् पुरतः स्फुरन्नासीत्; सम्प्रति तु विस्मृत-स्वप्नवन्निमित्तं प्राप्य स्फुरति स्म-[भ्प् 10.8.15,14] बहूनि सन्ति रूपाणि नामानि च सुतस्य ते इति, प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः इति च व्रजावितारं श्रीमत्-पितरं
प्रति गर्ग-सिद्धान्त-वर्गम् एते न पर्यालोचितवन्तः सन्ति ।
[32] यत् खलु व्रजावित्र्यां श्रीमन्-मदीय-सवित्र्यां लब्ध-जठर-वासया मायया सह द्वि-भुजतया लब्ध-हृत्-कमल-वासस्य मम श्री-देवक्या हृदय-सम्भवद्-उदयमद्-रूप-विशेष-चतुर्भुज-रूपाच्छादन-प्रार्थनायां तत्र सञ्चारः सम्पन्न इत्यस्याप्रतिपन्नतया तन्-मात्र-प्रतीतिम् अगतवन्तः ।भवतु, मया तु पितृव्यतायाः पितृतायाश् चानुसर्तव्यतया कर्तव्य एव तयोर् उद्धारः इति ।
[33] स्पष्टं चाचष्ट-ततस् ततः ?
[34] अक्रूर उवाच-ततश् च वसुदेव-वध-समुद्यतं तम् अधमं सान्त्वतः शमयित्वा भ्रमयित्वा च स तु क्रतु-भुग्-मुनिर् यथायथं गतः । तत्र गते तूच्छृङ्खलः कंसः कालायस-शृङ्खलया सनिर्बन्धं तव पितरौ बबन्ध इति ।
[35] अथ भ्रातराव् उभाव् अपि सास्राव् अश्रावयताम्-तर्हि किं पित्रोर् एव सन्देश-प्रवेशाय भवद् आयातं जातम्?
[36] अक्रूरः स-लज्जम् उवाच-नहि नहि । किन्तु कंसस्य तौ खलु निज-यातनाम् अपि सहेते । न खलु भवच् छ्रवसि च तत्-पातनाम्, किन्तु तद् इदम् अहम् एव निवेदयामि-
भवद्भ्यां यदि जाताभ्यां गताभ्यां योग्यताम् अपि ।
पित्रार्तिर् न निवर्तेत पुत्रीया कुत्र वर्तताम्
इति ।
[37] श्री-कृष्णस् तु तत्रोद्वेगं हृदि निगूह्य सावज्ञम् उवाच-कंसः किं नाम शशंस ?
[38] अक्रूर उवाच-शंसनं तस्य कति प्रतिशंसानि । तात्पर्यं तु पर्यग् इदम् एव पर्यवसीयताम्-भूत-राज-धनुर्-मह-व्याजतः स्व-समाजं साहाय्यम् आनाय्य दुर्मन्त्रणयास्मान् प्रतार्य तत्-कुतूहल-कलनाय प्रजान्तरवद् भवन्ताव् अपि निज-व्रजवन्ताव् अस्मद्-द्वारैवाजुहाव यद्-अर्थं तद् एव इति ।
[39] रामः स-सहासम् आह स्म-बृंहित-क्षुधि सिंहे मत्त-मतङ्गज-बृंहितं
खल्व् इदम् ।
[40] श्री-कृष्ण उवाच-भवतु, वयम् अपि समागम्य तम् अपि वलिम् अर्पयित्वा भूतेशं तर्पयिष्यामः । किन्तु, तद् भूत-राज-सभा-जनं कदा ?
[41] अक्रूर उवाच-चतुर्दश्याम् इति ।
[42] तद् एवं शेषं विशेषम् अपि पृष्ट-वेषं विधाय श्री-कृष्णः प्राह-विचाराद् अस्माकं परम-मङ्गलम् एव यस्माद् इदं तस्माच् छ्रीमत्-पितृ-चरणेषु गोचरम् आचराम ।
[43] तद् एवम् उक्त्वा तं तस्मिन्न् एव मुक्त्वा स रामस् तत उत्थाय पितृ-परिसरम् आजगाम । अथ तद्-आदेशाद् उपवेशनानन्तरं तेन वीक्षित-मुख-कञ्जः समञ्जद् अञ्जलि वचसा तद् इदं व्यञ्जयामास-तात! मङ्गल-वृत्तं किम् अपि वृत्तम् अस्ति, किन्तु युगपद् एव पर्वेव सर्वेभ्यः श्रावयितव्यम् ।
[44] अथ व्रज-राजः सन्देह-मन्देहतया सानन्दम् इवोपनन्दादीनान् आययामास । यत्र
च किञ्चिद् अपि विहितापिधान-विधानाः श्री-व्रजेश्वरी-प्रधाना लब्धानुसन्धाना
जाताः । ततः सुखम् उपविष्टेषु तेषु शिष्टेषु श्री-विष्टर-श्रवाः किञ्चिद् विहसन्न् इवाचष्ट-अस्मान् प्रति सम्प्रति भोज-क्षिति-भृद्-इष्ट सन्दिष्टवान् अस्ति । यत् प्रजा-निभाः प्रजा यूयम् इह महेश-धनुर् महामहे सहेशाः सह-शावकाः सावकाशम् आगच्छत । विशेषतस् तु निज-वीर्यतः समीर्यमाण-निज-दर्शन-तृष्णौ राम-कृष्णौ
च इति ।
[45] व्रज-राज उवाच-भवन् मन इदं किं मनुते; यद् भवति वसुदेवाद् भवति चास्मिंस् तस्य प्रीतिर् भवति इति ।
[46] श्री-कृष्णः स-स्मितम् उवाच-यद्य् अन्यथा स्यात् तथापि वृथा-पथ एव तन् मनोरथः । यद् भवत्-प्रभाव-बल-संहितस्य मम कः खल्व् अहितम् आहितं कुर्वीत । [47] यत एव खल्व् आबल्य-वल्यमाने बाल्येऽपि मम पूतनादयस् ते धूतताम् आपन्नाः । किम् उत तद्-वलतः एव वलितां वलमानाभ्यां बक-वत्सक-मुखानां सुखाद् एव प्रतिरित्सनं जातम् इति ।
तत्र च-
बक एकङ्गिलस् तावद् अघः सर्वङ्गिलः स्थितः ।
इन्द्रः सर्वङ्कषस् तेषु कंसकः कं समीयति ?
[48] तद् एतन् निशम्य मिथो निशाम्य च सम्यग्-प्रतिपत्ति-पराहतेषु तेषु मात्रादिषु च कृत-यात्रा-भङ्ग-प्राणालिषु पुनर् उवाच-गो-कोटिभिर् घटित-कोटीनाम् अस्माकम् अन्यस्मिन् नटितुम् अपि घटना न दृश्यते । राज्ञाम् आज्ञाम् अतिक्रम्यापयाने च तद्-आगमन-मयं भयं भवत्य् एव; किम् उत स्थाने । ततः सङ्कोचं विना तत्रास्मद् गमनम् एव तस्य शमनम् उपलभामहे ।
तद् एतद् आकर्ण्य स-वैवर्ण्यम् उपनन्दं प्रति श्रीमान् नन्दः प्राह स्म-किं कर्तव्यम् ? इति ।
[49] स चोवाच-तत्र गम्यम् इति सम्यग् एवाह वत्सः । अगतिर् नाम कामं तस्य क्रोधम् अस्य च भयं बोधयति । गतिस् तु तं तद् अप्य् अपगमयति । किं च, यद्-अपूर्वम् अपूर्वं पूर्वम् अपि रक्षां कुर्वद् आसीत् तद् एव सर्वम् अर्वाञ्चम् अप्य् आप द्वारं तारयिष्यति ।
[50] अथ तद् एवं युक्तिं वलयति गोपाल-वलये प्रभाव-भाव-पूर्ण-पूर्णिमा च तूर्णम् एव तत्रागता ।
[51] ततश् च व्रज-राजेन कृते प्रश्ने सा स-स्नेहम् उवाच-भवन्-नन्दनस्य मथुरा-प्रयाणे सर्वानन्द एव स्यात् । कंसादयः सर्व एव नृशंसा ध्वंसाय सम्पत्स्यन्ते, किन्तु व्रजागताव् अस्य विलम्ब-संवलनं पश्याम इति यथा-युक्तम् अध्यवस्यन्तु ।
[52] उपनन्द उवाच-अविलम्बागमनम् अपि श्रेय एव वैरि-शमनं तु यदि स्याद् इति गमनम् एव वरं रमणीयम् । ततः सर्वेऽपि गत्य्-अन्तरम् असङ्गत्य सङ्गतम् इदम् उच्यत इति प्रोच्य किञ्चिद् अप्य् अननुशोच्य श्रीमन् मुखं विलोच्य श्री-कृष्णं प्रश्न-विषयं कृतवन्तः । तत्र गन्तव्यता कदा मन्तव्या ?
[53] श्री-कृष्ण उवाच-गतिं च प्रातस् त्रयोदश्यां युक्ति-वश्यां पश्यामः, चतुर्दश्यां खलु महस् तन्-महनीयताम् आप्स्यति ।
[54] तद् एवं स्वान्तः-परिदेवनेऽहम् एव इह पश्यति व्रज-नरदेवे सर्वेऽप्य् ऊचुः-सर्वं घोषम् अनुघोषना सद्य एवासाद्यताम्, यथा प्रातर् एव गोपाः सोपायना राज-सभाम् अभियान्ति इति ।
[55] अथ श्रीमन्-नन्दराजश् च समाजं व्याजहार-भगवत्या सन्मते भवतां मते सर्वम् एव मङ्गलम् सङ्गंस्यत् इति भद्रम् आदिश्यन्ताम्, दिश्या दिश्या गोपाः प्राभृत-प्रभृति-कृते ।
[56] तद् एवं लब्धानुमतिर् वृन्दावन-पतिर् निज-परिचारकान् आदिदेश-कथ्यताम् इदम् उत्तारं क्ष्त्तारं प्रति इति ।
[57] तद् एवं विज्ञाय व्रज-राज्ञी तु मोहेनाज्ञीभवन्ती न किञ्चिद् अपि वक्तुं व्यक्तुं वा शशाक इति वदन् मधुकण्ठश् च निरुद्ध-कण्ठस् तद्वद् एव आसीत् ।
[58] अथ कथायाः सभायाम् अपि तद्वद् एव मोहं गच्छति स-समाजे व्रज-राजे तस्य चरण-राजीव-युगं युगपद् गृह्नन् व्रज-युवराजः पुनस् तम् आजीवयन्न् उवाच-तात ! कथं कातरायसे ? यथा-पूर्वं कथा-मात्रं खल्व् इदम्, सोऽयम् अहं पुनर् भवद्-अनुध्यान-रम्यतया कंसं निर्दम्य चिरात् पुरागम्य भवद्-दृष्टि-पथानुवर्ती-भवन्न् एवास्मीति ।
[59] ततः स-पुलक-पालितम् अङ्कं पालयति व्रज-भूपाले सर्व एवाखर्वम् आनन्द-गर्वम् उवाहेति कथायां शान्त-प्रथायां मधुकण्ठ उवाच-
कुत्र वा रमतां पुत्रस् तवान्यत्र व्रजाधिप ।
भक्तानुकम्पा-सम्पाती पश्य ते वश्य एव सः
[60] अथ श्री-कृष्ण-कृत-महसि राधा-सदसि च रात्रि-कथायां मधुकण्ठः स-गद्गदम् उवाच-अयि सम्प्रति श्री-माधवेन हृत-विरह-बाधे ! श्री-राधे ! पुरा वृत्तम् अवधीयताम्-
स्फूर्जथु-प्रतिमम् ऊर्जितं तदा
घोषणं सपदि घोषम् अन्वभूत्
यद् बभूवुर् अपराः पराहता
हा हता इव च राधिकादिकाः
[61] तथा सति-
काश्चिन् म्लानाननास् तच्-छ्रवण-दहनज-ज्वालया काश्चनासन्
क्षीणाङ्ग-स्रस्त-वेषा जड-निभ-वपुषः काश् च काश्चिद् विचित्ताः ।
ता एताः केन वर्ण्याः य इह निज-हृदि स्पृष्ट-तद्-भाव-कष्टः
किं वा तत्-स्पृष्टि-शून्यः स च स च यद् अलं जाड्यम् एव प्रयाति
अथ निशि रमणीनां मूर्च्छनं निर्ममे या
चिद्-उदयम् अपि कल्ये घोषणा सैव चक्रे ।
वपुषि दहन-तप्ते भेषजं तेन तप्तिर्
विषम् अपि विष-दुष्टे श्रेष्ठम् इष्टं भिषग्भिः
[62] लब्ध-चेतनानं चासां कंसाद् अशङ्कायाम् अपि प्रस्तुतातङ्कायां देवता-कलितम् इव रक्षणाय फलितं किञ्चिद् अन्यद् इदं-भाव-प्रभाव-चेतितं पौर्णमास्या च पुरतो निश्चितीकृतं चेतसि स्फुरति स्म ।
यस्मिन्न् अघः कालिय-काद्रवेयः
केशी तथारिष्ट-वृषश् च नष्टः ।
कंसश् च तस्मिन् मृत एव स स्यान्
न तत्र शङ्का-लवकोऽपि भाति
इति ।
[63] तद् एवं विश्वस्य संमतं विश्वस्य पुनश् चिन्तयति स्म-
बकी-रिपोः कंस-जयेऽपि सिद्धे
शङ्केमहि स्वार्थ-विनष्टिम् एताम् ।
भवेद् असौ यादव-राजधान्यां
राजेति गोष्ठे कथम् अत्र तिष्ठेत् ?
ग्रामीणा वयम् इह गोप-वर्ग-कन्या
नागर्यः पुरम् अनु सन्ति राज-पुत्र्यः
कृष्णस् तु ग्रहिल-मना गुणेषु तस्माद्
अस्यान्तः कथम् इव नः प्रतिस्मृतिः स्यात् ?
निमेषः कल्पः स्याद् यद् अपकलने यस्य विपिने
गतौ यत् कृच्छ्रं तत् कलयति न आत्मा न तु परः ।
मधोः पूर्यां तस्य व्रजनम् अथ राज्याय यद् इदं
कथं तद् वास्माकं बत किम् अपि धैर्यं कलयतु ?
अस्माकं राग-जातिर् वत लषति न नः शर्म तस्यापि राज्यं
किन्त्व् एकान्त-स्थम् इच्छत्य् अनुलवम् अपि तं सेवितुं प्राण-कान्तम्
आत्माप्य् अन्तर्धिया तद्-दृग्-अमृत-विरहं मीनवच् छङ्कमानस्
तत् प्राग् एवाति शुष्यन् गणयति न परं नापरं किञ्चनात्र
हा तस्य स्मित-चारु-वक्त्र-वलयं खेलाञ्चि-नेत्राञ्चलं
चित्तानन्द-विधायि-गीर्-विलसितं लीलाकुलं लोकनम् ।
साक्षात्-कृत्य न जातु तत् तद् उपमां चासोढ या विघ्न-धीस्
त्यागार्तिं यदि सा सहेत गरलं तत्रामृतं वेत्ति न
[64] तद् एवं चिन्तातुराः पूराय कृत-यात्र्ं श्याम-गात्रं विलोकयितुं निष्कलङ्काशङ्काः सर्व एवाभिद्रवन्ति स्म । यात्रा-विधानं तु प्रातर् अभिधानं यास्यति ।
[65] तद् एतद् अभिधाय मधुकण्ठः प्रतिपत्ति-विपत्तितः स्तब्धतां लब्धवति माधवे राधां तु समुद्यन् मूर्च्छा-बाधां निरीक्ष्य मङ्क्षु पुनर् आह स्म-
राधे पूर्व-कथा सेयं न तु साम्प्रतिकी स्थितिः ।
पश्य त्वद्-वचनं म्लानं पश्यन् म्लायति सोऽप्य् असौ
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0