गोपालचम्पू · अध्याय 2.1
--ओ)0(ओ--
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥1॥
संवत्-पञ्चक-वेद-षोडश-युतं शाकं दशेष्व् एक-भाग्-
जातं यर्हि तदाखिलं विलिखिता गोपाल-चम्पूर् इयम् ।
वृन्दा-काननम् आश्रितेन लघुना जीवेन केनापि तद्
वृन्दा-काननम् एव सम्भृति-कलां धत्तां समन्ताद् इह ॥2॥
प्रायः सर्वा हरेर् लीलाः क्रमशः सूचिता मया ।
यथा-स्वं लब्ध-रुचिभिर् उपास्यन्तां महात्मभिः ॥3॥
इति श्री-श्री-गोपाल-चम्पूम् अनु
सर्व-मनोरथ-पूरणं नाम
त्रयस्त्रिंशं पूरणम्
॥33॥
कैशोर-विलासः सम्पूर्णः ।
सम्पूरिता चेयं श्री-श्री-गोपाल-पूर्व-चम्पूर् इति ।
उत्तर-चम्पूः
अथ प्रथमं पूरणम्
श्री-श्री-राधा-कृष्णाभ्यां नमः
मङ्गलाचरणम्
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम्
सम्पूर्णासीद् आशु गोपाल-चम्पूर्
एषां यस्माद् आश्रयाद् एव पूर्वा ।
एष तस्माद् उत्तराप्य् उत्तरा स्याद्
एवं देवं तं कमन्यं भजेम
[स्वागता]
[1] अथानुपूर्व्या पूर्व-कथानुकथनीया । [2] अस्ति किल कलित-निखिल-वृन्दावनं वृन्दावनं नाम वनम् । [3] यत्र ज्योतिश्चक्रम् इव व्योम्नि, धर्म इव धर्मिणि, तत्त्व-निर्णय इव वेदे, शुखम् इवाभीप्सित-लाभे, रस इव विभावादि-वर्गे, षड्गुण्यम् इवात्मनि, स्वयम् इव स्व-प्रेमणि, नारायण इव पर-व्योम्नि, शर्वेषाम् आश्र्यः स च कृष्णः स-तृष्णग् जनानुभवनीयतया निजां
निजाश्रयणीयताम् उरीकरोति ।
[4] यत्र चान्तर्धान-विद्यया विद्यमानम् अस्मद्-आदीनाम् आलोकम् अतीतं धाम गोलोक-नाम समामनन्ति । यत्र च गोलोके सकल-चिन्तामणीयमान-चिन्ता-लेशः केशवः सर्वानन्द-भासिनां तद्-वासिनां प्रेम-नाम-पञ्चम-पुमर्थ-सम्पत्-पर्युदञ्चन-प्रपञ्च-सञ्चय-व्यसनम् अमुञ्चंस् तद्-वशत एव यथायथं पुत्रादितया विलसन् न कुत्रापि व्यभिचरति ।
[5] तादृशात् तस्माद् एव च निष्क्रम्य रम्यतया तैः समम् असमं प्रकाशमानः स खलु खल-नाशनस् तद् इदं जगद् अपि कदाचित् प्रमदयति, दिव्य-नृत्य-नायक इव नेपथ्य-स्थानाद् अथ तद्वत् तत्र प्रविशति च ।
[6] तद् एवं स्थिते वाञ्छित-सदन्त-वक्र-दन्त-दन्तवक्र-संयद्-उदन्ततः परतः पुनस् तेषां वक्ष्यमाण-प्रमाण-लक्ष्यतया तत्-प्रदेश-प्रवेशः स यदा बभूव, तदा कदाचिद् अनवद्य-हरि-भक्ति-विद्या-विशारद-सर्व-मनोरथ-पारद-श्री-नारद-कृपा-कूपार-तरङ्ग-लब्ध-तत् प्रसङ्ग-सारौ मधुकण्ठ-स्निग्धकण्ठाभिद-सूत-प्रभव-नव-कुमारौ श्रीमद्-व्रज-महेन्द्र-तत्-कुमारादिभिर्
विराजमानं तद् एव सदनम् आसदताम् ।
[7] तदा च तद्-आचरित-नियोगं परि तद्-एक-वृत्तितया तन्त्री-नियन्त्रित-गीत-यन्त्र-तुल्यौ परम-कुल्यौ परस्परं कथकतां कथङ्कथिकताम् अपि मुहुः संप्रथय्य सर्व-शर्म-शीलां श्री-कृष्णस्य व्रज-लीलां कथायाम् उन्मीलयामासतुः ।
[8] तत्र च तस्य पितृ-पैतामहं वृत्तं पूर्वं तौ वृत्तं कुर्वन्तौ तच्-चरित-भव्य-मय-नव्य-काव्यस्यापि तद् इवाचरितवन्तौ जन्म-वृत्तेन च जन्म-वृत्तम् इव ।
[9] समनन्तरं च यद् विचित्रं तस्य चरित्रं सक्रमतया समवर्णयताम् ।
[10] तच् चेत्थम् उत्तर-कथा-प्रथनार्थम् अनुस्मर्यते । अहो! येन खलु पूतना पूतनारी बभूव, शकटः स कटवल्-लघुतया पतनम् अवाप, तृणावर्तस् तृणावर्तवद् विघटिताङ्गतां गतवान्, अर्जुन-युगलं चार्जुनवत् कृतम् अनुग्रहं जग्राह । तत्र वत्सकस् तद् वत्सकः, बकस् तु बक एव । [11] व्योमश् च व्योमवद् एव भवितुं युक्तः ।
[12] आस्ताम् अपीदम्, तद् इदं तु तत्रातिचित्रं, यदहो! अघोऽप्य् अनघ आसीत्, कालियश् च मुक्त-कञ्चुक इव जीवन्न् एव निर्मुक्ततयाभिधीयत इति ।
[13] तद् एवम् अपि परम-वीर्य-शाली शालीनता-वशंवदतया निज-ज्यायसि यशः संवलयन् धेनुक-प्रलम्बौ तत्-प्रतापानल-ज्वालायां लम्बमानौ यच् चकार, तेन लब्ध-मधुराचारता-प्रचारश् चायं नश् चेतसि विकार-सारम् आसादयति ।
[14] अहो! निज-जनेषु सौहृद्य-हृद्यतां तस्य पश्य, यः खलु तानवन् दव-हुताशनम् अपि निजाशनम् आचचार ।
[15] वर्ष-गणनया पौगण्डोऽप्य् अविकलाङ्गतया वाम-भुजं गिरि-च्छत्रं परि प्रचण्डं दण्डं चकार । हंहो! तस्य बहल-कुतूहलताम् अपि कलय, योऽयं कुदर्शनतां प्राप्तम् अपि सुदर्शनं सुदर्शनम् एव निर्मितवान् । शङ्खचूड-नाम्नः खल्व् अस्य मनि-चूडता न युक्ता स्याद् इतीव यक्षतया वित्तस्य यक्ष-वित्तस्य तस्य शङ्ख-मात्रावशेषतया चूडामणिम् अपजहार,
अरिष्टं रिष्टं चकार, केशिनः प्रत्ययम् आकृष्य तद्-अर्थेन चात्मनि कृतार्थतां प्रकृष्य केशवतां निर्देशयामास ।
किं च-
या जन्म-श्रीर् अजनि गदिता या च कौमार-शोभा
या पौगण्ड-द्युतिर् अघ-रिपोर् या च कैशोर-लक्ष्मीः ।
एका सा सा हृदयम् अहरन् नस् तदा द्राग् इदानीं
संहत्यामूस् तद् अथ बलवल्-लोभतः क्षोभयन्ति
पित्रोर् वात्सल्यम् आदि-स्थित-वयसि मुकुन्दस्य पौगण्ड-भावे
सख्यं तेषां बहूनां किम् अपि मृग-दृशां नव्य-तारुण्य-लक्ष्म्याम् ।
स्मारं स्मारं मनो नश् चलति न पुरतः किन्तु तत्राथ भूयः
सम्भूयास्ते गृहान्तर्-निधिम् इव वणिजः सुष्ठु दूरं प्रयातु
इति ।
[16] तद् एवम् अपि तत्-तुलया तत्-पोषार्थम् उद्यमान्तरं कुर्वन्तः परामृशामः । यद्यपि तत्र तत्र मोहनता-धुर्यं तन्-माधुर्यं तौ सूत-सुतौ यथायोगं व्यञ्जितवन्तौ, तथापि न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते इति-रीत्या व्रज-सतृष्णेन श्रि-कृष्णेन भक्त-दुःख-भार-निःसार-विशारदस्य श्री-नारदस्य संवादमनु तस्य यदु-निगम-गमनं
पुनर् व्रजागमनं गोलोक-धाम-सङ्गमनम् अपि समासाद् वर्णितवन्तौ ।
[17] तत् तत् सर्वं वर्ण्यमानम् अवकर्ण्य दिनान्तरे लब्धान्तरे पूर्ववद् एव पूर्वाह्ने श्री-कृष्ण-सनाथ-सभा-भासमानः श्री-व्रजनाथ-प्रधानः स-व्रज-जनस् तद्-गमनादिकस्य व्यासं ताव् एव पप्रच्छ-
यतः-
यद् अप्य् अन्तः-पीडा प्रतत-निज-दुःख-श्रवणतस्
तथावद् भाता स्यात् तद् अपि मनुजास् तन् न जहाति ।
व्रणं शुष्की-भावं गतम् अपि निजं ते स्मृततया
बलात् पीडं पीडं निविडम् अनुभूतं विदधति
अथवा-
चिराद् बन्धौ लब्धेऽप्य् असुखम् अभितो याति न तदा
गृहीत्वा तत्-कन्ठं न यदि विलपेत् तत्-प्रियतमः ।
सदा शालीनस् तु स्वयम् इदम् अकुर्वन् व्रज-जनस्
तथा कृष्णस् ताभ्यां सदसि कथकाभ्याम् अकथयत्
[18] अथ पृष्टौ च तौ सुख-दुःख-स्पृष्टौ श्री-रामचन्द्र-सभायां कुश-लवाव् इवास्यां श्रि-कृष्णचन्द्र-सभायां प्रतुष्टुवाते । तत्र प्रथमतः स्निग्धकण्ठः समुत्कण्ठतया बभाषे ।
[19] तत्र च मङ्गलाचरणम्-
गीर् देवीम् अनुयामः
सकल-श्रुति-सार-भागवत-रूपाम् ।
यद्-रस-सिद्धान्ताभ्यां
नवम् अपि काव्यं प्रमाणतां याति
[20] अथ पूर्व-चम्पूम् अनुस्मृत्य कथा-
दिनं दिनं चैवम् अनन्दि स व्रजः
कृष्णेन कृष्णः स भृशं व्रजेन च ।
सिताख्य-पक्षः सित-कान्तिना यथा
सिताख्य-पक्षेण यथा सित-द्युतिः
[21] तद् एवम् अपि-
कृष्णायासीत् तस्य तृष्णा समन्तात्
तृष्णायै वा कृष्ण इत्य् अत्र भेदः ।
नाभूद् इत्थं पुरुषं स्व-प्रकृत्या
युक्तं विज्ञास् तत्र दृष्टान्तयन्ति
पिपासूनां नीरं क्षुद्-उदयवताम् अन्नम् अभितः
प्रतप्तानां शितं हिम-जड-हृदां तप्ति-निकरः ।
यथा तद्वत् कृष्णः समजनि यदा गोकुल-भुवाम्
तदा वैयग्र्यं स प्रतिजन-सुखाय प्रतिगतः
तातस्-तद् भ्रातृ-वर्गस्-तद् अखिल-भगिनी-भर्तृ-जामातृ-मुख्या
माता मातुः पितुश् च स्वसृ-मुख-महिलास् तद्वद् अन्ये च ये ये ।
सऋवेषाम् एव तेषां युगपद् अपि वसन्न् अन्तरे वासयंश् च
स्वान्तस् तान् वासुदेव-श्रुति-भणितम् इव व्यञ्जयामास कृष्णः
सुरपति-मणि-मानिताङ्ग-लक्ष्मीः
शरदिज-सारस-सार-हारि-नेत्रः ।
निखिल-मति-गतिः कथं न स स्यात्
पितृ-जननी-सुख-माधुरी-धुरीणः
ध्याने कूर्मवद् ईक्षणे शकलिवद् घ्राण-ग्रहे धेनुवत्
स्पर्शे पक्षिवद् अस्य पोषण-परौ शश्वद् व्रजेशाव् अमू ।
नित्यं नित्यम् उदञ्चद्-उत्कलिकिकाम् आशां चिराद् वर्धितां
कैशोरे प्रतिपद्य सुष्ठु फलितां जाड्यं मुदा जग्मतुः
सद्-भ्रातृतां स्वमनु तस्य समीक्स्य रामः
फुल्लाङ्गतां प्रतिदिनं गतवान् यथा तु ।
शेष-प्रमाण-तनुतां तनुयाद् असौ किं
दिष्ट-क्रमाद् इति जना मतिम् इष्टवन्तः
मुख्यः प्राणस् तद्-विभेदाश् च यद्वत्
कृष्णस् तद्वच् छ्रील-दामादयश् च ।
एकात्मनः शश्वद् उद्दिश्य चैकं
कार्यं यत् ते यान्ति तत्-तद्-विहारम्
येषां सेव्यः समजनि स हरिः सेवकानां निजानां
तेषां प्राण-प्रतिकृतिर् अभवद् देह-सादृश्य-भाजाम् ।
साहाय्यं तं प्रति तम् अपि विना ते न तिष्ठन्ति सोऽपि
न्यस्थात् तत्र स्वम् इति बुधमता तेषु दृष्टान्ततेयम्
वत्स-गोष्ठ-विपिनादि चेद् भजेद्
घ्राण-तर्पणम् अघारि-सौरभम् ।
तर्हि तत्र धवलावलिर् भवेद्
द्राग् अजागर-धरा न चान्यदा
श्रद्दध्यान् न जगद् यद् अस्य तु गुणैर् वन्याश् च ते प्राणिनः
सन्ति द्राग् अनुगाः परस्परम् अपि प्रीणन्ति यद्-द्वेषिणः ।
यद्य् एवं स्वयम् एव सोऽपि भगवान् श्री-युक्त-वैयासकिः
श्रीमद्-भागवताख्य-वज्र-लिपिभिर् निष्टङ्कयेन् नाग्रतः
तत् तद् यद्यपि शर्म-जातम् अभवद् गोष्ठे तथाप्य् अच्युत-
द्वेषाय प्रहितान् मुहुर् निज-भटात् कंसेन भीर् उत्थिता ।
तस्माद् अत्र न तर्हि शान्ति-रजनीत्य् उन्नीय लीलाम् इमां
चित्तं धूत-भयाम् इहानवरतं निर्वक्तुम् अन्विच्छति
[21] अथ तद् दुःखं स्मरन्तं व्रजेश्वरं प्रति सान्त्वनं समापनम् आह स्म-
गोष्ठे दुःखागदङ्कारः कुलालङ्कार एष ते ।
सर्वां शङ्कां पुनर् धुन्वन्न् अर्वाग्-अङ्कागतस् तव
इति ।
[22] तद् एवं श्री-व्रजेश्वर-सभान्तः प्रातः-कथा कथिता । यस्यां सव्यवधान-देशे निवेशेन श्री-व्रजेश्वर्यादयः श्री-राधादयश् च प्रति-निज-कर्णम् अभ्यर्णित-वर्ण-वर्णं चक्रुः ।
[23] अथ पूर्ववद् एकान्ते कान्ते विराजमान-श्री-कान्ते श्री-राधिका-निशान्ते निशान्तस् तत्-
कथा-शेषः संश्लेषम् अवाप ।
[24] यत्र च स्निग्धकण्ठ उवाच-
स्वयं लक्ष्मीर् अप्य् अच्युत-हृदि गताप्य् अन्य-वपुषा
तपस् तप्त्वा यं क्वाप्य् अलभत न रासादि-महसि ।
तम् एतं गोविन्दं वशितम् अनुविन्दन् व्रज-रमा-
गणः शर्माविन्दत् कियद् इति कथं कः कथयतु?
प्रसादं यं स्वप्नेऽप्य् अलभत न लक्स्मीर् अपि हरेस्
तम् एतं श्री-गोप्यः समदधत रासादि-महसि ।
अहो यस्या भाग्यं स्पृहितम् अपि ताभिर् न कलितं
किम् अस्या राधायाः कवयतु कविस् तन्-मय-सुखम्?
इति ।
[25] अथ क्षणम् उष्णीभूय तुष्णीम्भूय च पुनर् आह-तथापि भ्रातर् मधुकण्ठ! तद् इदं मुक्त-कण्ठं पुनर् अनुवदितुं शक्तिर् न प्रसक्तीभवति । यतः,
कुलीनानां श्लाघ्यैर् निज-कुलज-लोकैः परिवृतिस्
तथार्याणां रीतिर् यद् अपि किल तासाम् अविचला ।
तथाप्य् उच्चैस् तत्-तद्-विचलन-कृतिर् ध्वस्त-निखिला
मुकुन्द-प्रेमार्तिर् मम हृदि विमोहं प्रथयति
[26] पुनः सास्रं श्री-राधा-मुखम् ईक्षमाण उवाच-
खरांशोर् अंशु-स्पृग्-वपुर् इव खरांशोर् मणि-ततिर्
विधोः कान्ति-स्पर्शि-स्थितिर् इव विधो रत्न-विततिः ।
मुहुर् ज्वालां हन्त द्रवम् अपि वहन्ती तद् अभवन्
मुरारेर् दिङ्-मात्राद् भ्रमयति तद् एषा मम मनः
[27] तद् एवम् एवावृत्या पुनर् अपि तत्-तद्-विषयम् उवाच, यथा-
यदा दृष्टिं यातः कथम् अपि हरिस् तासु स तदा
परं स्फूर्ति-भ्रान्तिं रचयति पुरावन् न तु परम् ।
यदा स्पृष्टिं प्राप्तः क्वचिद् अपि तदापि प्रथमवत्
तद् एतद् वैयग्र्यं मम हृदयम् उच्चैर् दलयति
तद् एतद् वैयग्र्यं वृषरवि-सुतायाम् अधिगमाद्
विदूरं यद् गुप्तं हसति किम् उ वा रोदिति यदा ।
तदा तस्या हासे स्फुरति निखिलं हृष्यतितरां
तथा रोदे ग्लानिं कलयतितरां ह जगद् अपि
यदा रासानन्द-प्रभृति-हरि-लीलाः सुवलितास्
तदा गोप्यः सत्यं परम-परमं शर्म समयुः ।
परं यातायातं रचयद् अभितस् तद्-विरहजं
महा-दुःखं तासां हृदयम् असकृन् मर्दयति नः
प्रियाणां सर्वासां परम् उपरि राधां प्रणयवान्
असाधारण्येन स्व-हृदि स पुरा लालयति यत् ।
तद् एतन् नः सर्वं सुखम् अहह हा नाथ रमणेत्य्
अदः स्तोक-श्लोकः पिबति किम् अहं वच्मि करवै?
इदं स्मारं स्मारं ज्वलति मम धीर् यद् व्रज-मृगी-
दृशां लज्जालूनां हरिम् अनु रतिर् व्यक्तिम् अगमत् ।
तद् आस्तां राध्यायाः स-विधम् इव तं तत्-स्फुरण-कृत्
प्रमायास् तं द्रष्टुं दृशि कुटिलता मं विदहति
अन्यत् पश्यति कृष्णम् अन्य-वचने कृष्णं ब्रवीत्य् अन्य-वाक्
श्रुत्यां कृष्णम् अहो शृणोति सततं या गोप-सुभ्रू-ततिः ।
तस्यां किं बत गोपन-प्रवलतां यद्य् अश्नुवाना स्फुटं
राधाया जडता न हि प्रबलतां यायाद् अमूदृश्य् अपि
[28] अथ वल्लवी-वल्लभस्यापि तथा कथा प्रथनीया-
एका श्रीर् यद्-वशे भाति तद्-वशे सुख-सन्ततिः ।
श्री-कोटीर् वशयन् कृष्णस् तत्-कोटिं स्फुटम् अर्हति
[29] तथापि लीला-रस-विशेष-वशतया तदानीम् अन्यथा-प्रथयापि सन्तः समपश्यन्त, यथा-
म्लानौ म्लानिं रुचौ रोचिः
प्रेयसीनाम् अनुव्रजन् ।
वीक्षितः सोऽयम् अन्तर्ज्ञैर्
वृर्त्तीनाम् वृत्तिमान् इव
गाम्भीर्यान् मुर-शत्रो
स्फुटम् अब्धेर् इव न भाति कार्श्यादि ।
किन्तु तदन्वयि-जीवन-
धाराणां तेन तच् च तर्क्येत
यद्यपि तासां लाभे
हरिणा न स्वैरिता याता ।
तद् अपि स्वस्मिन्न् अभिमति-
मात्रे शश्वत्-कृतार्थतां मेने
आस्तां व्रज-सुभ्रूणाम्
अभिसृति-सङ्केत-धाम-मिलनादि ।
स्वैर-स्थितिर् अपि तासाम्
अवकलिता कृष्णम् उन्मुदं कुरुते
बलि-मुषिता निज-लक्ष्मीर्
इव लब्धुं ताः सदोत्कृतां यातः ।
कृष्णश् चिन्तामणिवत्
तासु च राधाम् अचिन्तयन् नितराम्
निमेषः कल्पः स्याद् अपि नयन-पक्ष्माचल-वरस्
तथा दृग्-वार्य्-अब्धिर् व्रज-वर-रमाः पश्यति हरौ ।
तद्-ईदृग्-भावः किं समचरद् अमूभ्यस् तम् अथवा
ततोऽमूर् इत्य् एवं द्वयम् अपि न निर्णीतिम् अयते
किम् एषा स्फूर्तिर् मे व्यतिमिलन-कर्त्री वनितया
तया किं वा साक्षात्-कृतिर् इति विवेकाविदुर-धीः ।
हरिः स्वान्त-ज्वाला-वलयित-वपुः क्वापि वलवत्-
प्रफुल्लाङ्गः क्वापि प्रतिमुहुर् उदग्रं भ्रमम् अगात्
[30] तद् एवं दुःख-निगीर्णं यथा-कथञ्चन यद् वर्णितम्, यच् चान्यद् इतोऽप्य् अतितरां वर्णयितुम् अभ्यर्णीक्रियते, तत् खलु सर्वायत्यां परम-सुखागत्याः प्रत्यासत्तये सम्पत्स्यते, दुर्गम-कूप-मरु-भू-भुवाम् अनूप-गमनाय दुर्ग-लङ्घनवत् ।
[31] न च वर्णनायां तस्यै सम्पत्स्यत इत्य् एव वक्तव्यम् । पश्यत पश्यत, तद् एतद् राधा-माधव-निर्बाध-व्यतिमिलन-निर्वर्णनायां सम्प्रत्य् अपि सम्पद्यते; यत एव च यत् किञ्चित् तद् वर्णयितुं शक्यते ।
[32] तच् च वर्णनं यथा-एवं कृष्ण-कृष्ण-प्रियाणां कृत-संमोहेन महा-भावाधिरोहेण समं पूर्णं कैशोरम् अपि तूर्णम् आयातम् । तत्र श्री-कृष्ण्स्य यथा-
श्री-गोपाधिप-दुग्ध-सिन्धु-जनितं सत्-कीर्ति-शुभ्रं स्फुरत्-
कृष्णाभावलितं सुदीर्घ-नयन-ज्योतिर्-विधूताम्बुजम् ।
गोपी-नेत्र-चकोर-जीवन-रुचिं काम-प्रचाराकरं
कैशोरामृत-पूर्णम् अव्यय-कलं गोविन्द-चन्द्रं भजे
[34] तासां यथा--
वक्त्रेन्दु-स्फुट-नेत्र-कैरव-रुचिः पाण्डूभवद्गण्डभूर्
वक्षो-जन्म-सहस्र-पत्र-मुकुलामन्दावलि-भ्राजिता ।
नव्य-स्तव्य-नितम्ब-बिम्ब-पुलिन-श्री-करिणी श्री-हरेर्
आभीरी-नव-यौवन-स्थितिर् अधाज् ज्यौत्स्नीव नेत्र-प्रथाम्
[35] तद् एवम् उभयेषां नव-यौवन-सागर-परमानुराग-सुधाकरयोः परस्परं भूरि-परिपूरिता-करयोः सर्वत्र प्रचारः सञ्चरति च तस्मिन् यद् एव तासां पूर्वं कृष्ण-कर्तृक-परिणयनापनयनाय गर्गः किल व्यञ्जितं चकार, तद् एव लोकम् अस्तोक-शङ्का-सञ्जितम् आचचार ।
[36] यदि कृष्णेन समम् आसाम् अङ्ग-सङ्गः स्यात् तद्-आर्वाग् एव सर्वम् एव गोकुलं तद्-विरहाकुलं स्याद् इति । [37] गर्ग-वचनम् एव च मातर-पितरादिभिः कृष्णाय तासां वितरं विघ्न-निघ्नं चकार ।
[38] यत्र च साक्षाद् योगमाया कृष्णं वरिवस्यन्ती स्वात्मनो गोपनाय पूर्णिमा नाम्ना तपस्यन्ती कृच्छ्र-वश्यन्ती गत्य्-अन्तरम् अपश्यन्ती तासाम् अन्यत्र विवाहं मृषाभाव-वहम् एव निर्वाहयामास । सर्वत्रानल्प-स्वप्न-कल्पनायाम् अपि प्रायतया जागर-प्रायतया प्रचारणत् । तथा तासां पत्य्-आभासाङ्ग-सङ्गमं च भङ्गम् आसादयामास । तथैव हि नासूयन् खलु कृष्णाय [भ्प् 10.33.37] इत्यादि-रीत्या
शुकेनेव श्री-शुकेन दिग्-दर्शिता ।
[39] तद् एवं सति स च ताश् च परम-तर्ष-कृताकर्षतया प्रच्छन्नतया च परस्परं सङ्ग-महर्षम् अपि कथञ्चिद् आचितं चक्रुः ।
[40] अथ पूर्वोक्त-रीत्या तासां सन्निहित-लोकेषु प्रतीत्या महानुरागस्य क्रमाद् अवगमाद् गुरुभिर् मनसि भावित-भावि-कृष्ण-सङ्गमाशङ्कतया वचसि तु विभावित-वधू-जन-वन-गमन-कलङ्कतया निर्मिते निरोधे मिलद्-उद्बोधे बलानुजन्मा द्वि-जन्मानं नर्म-प्रिय-सखतयानुवर्तमानं नाम्ना मधुमङ्गलतया समाम्नातं तत्-प्रसङ्ग-सङ्गतं चकार- कथं राधादीनाम् आगमन-वधा
बहून्य् अहान्य् अधिकृत्य दृश्यते? इति ।
[41] मधुमङ्गल उवाच--पुरूणां गुरूणां निरोध एव निदानतया तत्र बोध-विषयी-भवति ।
[42] श्री-कृष्ण उवाच-अहो! तत् तद् अपि रहो-वृत्तं किं गुरूणां कर्णेषु वृत्तम्?
[43] मधुमङ्गल उवाच-
नान्तर् बहिर् अपि यस्यां
स्फुरति ज्ञानं मनो-विकृतौ ।
एकस्यापि न तस्या
न व्यक्तिः स्याद् अमूदृशां किम् उत?
[44] श्री-कृष्ण उवाच-पूर्वम् अपि पुर्वहिर् अन्तर्-गमने तासु नव-यौवनं गतासु गुरु-निरोध पुरुर् एवासीत् । अधुना तु कीदृग् अधिकः?
[45] मधुमङ्गल उवाच-यद्यपि नास्मन्-मुखतः सुखतया निःसरति रति-प्रतिकूलम् इदं, तथापि भवत्-प्रश्न-प्रथात एव कथा-विषयीक्रियते । तथा च श्रुतं मया खल्व् इदम् विश्रुतं कुल-पालिकानां तासु गालि-दानम् अवकल्यताम् ।
किं धिग् ध्यायसि हन्त निश्वसिषि किं वर्त्मानि किं प्रेक्षसे
किं सख्या मुखम् अत्र पश्यसि कुचौ किं दृग् जलैः सिञ्चसे? ।
मूर्च्छाम् ऋच्छसि किन्तरां किम् असकृत् कृष्णेति वर्ण-द्वयं
तस्यां जल्पसि किं पुनः पुलकितां कम्पं च तन्तन्यसे
इति ।
[46] अथ कुल-पालिका-पालिकानां तासां दूनताकर्या ननान्दुः प्रतिस्वं मातरं प्रति वचन-चर्या दिग्-वर्णनं चावकर्ण्यताम्--
दृग्-वीथीं कुल-पालिकाः श्रुति-पथम् तासां कथा-नासिका-
वर्त्मानेक-सुगन्धि-धूप-रचना वव्रुर् मया योजिताः ।
तस्याः कृष्णमयी दशा मनसि या सा केन यत्नेन वा
गच्छेदावृततां ततो जननि किं मह्यं वृथा कुप्यसि?
इति ।
[47] तद् एवं वर्ण्यमानम् आकर्ण्य क्षणं स-म्लान-वर्णं निवर्ण्य च पुनर् असाव् अस्या वर्ताया विशेषानुवर्तनाय मधुमङ्गलं प्रस्थाप्य चिन्तां चान्तः प्राप्य विचारयति स्म ।
[48] तम् एतं जन-रवं मम गुरवश्चानुभवमानीतवन्तः सन्ति, प्रायशः परम-यशसः पितरश् च तत्र कर्ण-वितरं करिष्यन्ति । तर्हि किन्तराम् अन्तरायम् इमम् अन्तरयिता? इति क्षणं शून्यायमान-मनाः पुनश् चिन्तयामास । --
[49] इतो व्यवधानम् एव खलु कलुषतां गतस्य मम निधानं भवति । तथा हि-
कलङ्को यत्र स्याद् अपरिहरणीयार्थ-कृतकस्
ततो दूराद् भाव्यं कुल-जनि-जनेनैवम् उचितम् ।
स कालाल् लुप्तः स्याद् भवति हि च तत्र प्रतिविधिस्
तद् अस्मान् मे गोष्ठाद् व्यवहितिर् अकष्टं प्रसजति
येषां पित्रादीनां
स्नेहो मम जीवनं गोष्ठे ।
अहह कु-दैवाद् अभितः
सङ्कोचस् तेभ्य एव सञ्जातः
[50] अथ पुनर् अन्यथा चिन्तयामास-
प्राणास् त्यजन्तु देहं
देहः प्राणान् अपि त्यजतु ।
हरि-गोप्यस् तु मिथस् ताः
प्राणाः कथम् इव मिथस् त्याज्याः?
[51] पुनस् तद् अपि चान्यथा चकार-
एकस्मिन्न् आवासे
दम्पत्योर् भवति दुःसहो विरहः ।
तस्माद् दूरे गमनं
समयं गमनीयतां नयति
[52] किन्तु हा वृषभानु-भानु-कीर्तिदा-कीर्तिदायिनि! हा जन्मत एव मन्-मनस्तया सन्-मनस्ता-धायिनि! हा कुमारताम् आरभ्य काय-वाङ्-मनः-सुकुमारता-पर्वणा सर्व-हर्षिणि! हा मद्-विनाभाव-भावना-ज्वाला-जाल-समुत्कर्षित-तर्षिनि! हा गत्य्-अन्तर-रहिततया कथञ्चित् किञ्चिन् मां सङ्गम्य च मुहुर् असङ्गम्य दुःख-दग्धे! हा दयिते! दयिते मयि विस्रब्धे सम्प्रति दुष्ठु-निष्ठुरतया मया
त्यक्तुम् इष्यमाणा कथं जीविष्यसि? हा सर्व-सुखाधिके! रधिके! कुत्र वामुत्र गमिष्यसि? इति ।
[53] अथ मधुमङ्गलः सङ्गम्य तद् इदम् अरम्यं निवेदयामास-
निरचिन्वंस्ते सर्वे
राधादीनां निरोध-सातत्यम् ।
यस्माद् गृह-पाल्यस् ता
हरिणीर् एता निरुन्धते परितः
इति ।
[54] तद् एवं पर्यग् अपर्यवस्य-दिदन्तया चिन्तया लब्धुं चामूर-सम्भावनया भावनया समयं गमयितुम् असमर्थः स्खलद्-अर्थः स-तृष्णः स तु कृष्णः स-वयोभिः समम् एव रममाणस् त्रि-यामां विरमयति स्मेति कृतं हृन्-मर्म-भङ्ग-करेणातिप्रसङ्गेन [55] तद् एतद् उक्त्वा कथकः समापनम् आह-
राधे न युक्त मुक्तं स्यान् मुक्त-शातम् अथापि वाम् ।
मिथः प्रेम-भरं व्यक्तं वक्तुम् उद्यतवान् अहम्
पुरा कथेयं कथिता मुरारे राग-बृंहिणी ।
पश्य सोऽयं प्राण-नाथः प्रसादं तव वाञ्छति
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0