गोपालचम्पू · अध्याय 1.33
[26] अथ शक्रं जितवन्तस् ते व्रज-युवराजादि-गोमन्तः प्रतिस्वं गो-वृन्दम् अन्वितवन्तः परं व्रज-राजादय एव व्रजम् आव्रजितवन्तः ।
[27] कंसस् तु केशि-ध्वंसनम् अपि शृण्वन् व्यग्र-मना विग्र इव गृहान् न निःससार । [28] अथ समापनम् ।
सोऽ यं तव व्रजाधीश सुतः सूतमनोरथः ।
केशिनं चात्र यश्चक्रे यमस्य प्रतिवेशिनम् ॥
इति श्री-श्री-गोपाल-चम्पूम् अनु केशि-ध्वंसन-शंसनं नाम द्वात्रिंशं पूरणम् ॥32॥
(33)
अथ त्रयस्त्रिंशं पूरणम्
सर्व-मनोरथ-पूरणं
[1] अथ निशीथिनी-कथायां कुण्ठः समुत्कण्ठश् च मधुकण्ठः स-गद्गदं जगाद-[2] तद् एवं रामानुजस्य रमणिनाम् अप्य् अमूषां दिनं दिनम् अप्य् अनुपरमणं रमणम् अतीव जीवन-समताम् अवाप । [3] यत्र समुत्कण्ठआप्य् अकुण्ठा जाता । यतः-
यदपि परस्पर-मिलनं हरि-गोपीनां चिरान् न विच्छिन्नम् ।
तदपि न तृष्णा शान्ता स्वाप्निक-पाने यथा पिपासूनाम्
[4] तत्र तु रमणं, यथा-
अन्योऽ न्यं रहसि प्रयाति मिलति श्लिष्यत्य् अलं चुम्बति
क्रीडत्य् उल्लसति ब्रवीति निदिशत्य् उद्भूषयत्य् अन्वहम् ।
गोपी-कृष्ण-युगं मुहुर् बहुविधं किन्तु स्वयं नोहते
शश्वत् किं नु करोमि किं न्व् अकरवं कुर्वीय किं वेत्य् अपि
[5] उत्कण्ठायां तु तद् एव पद्यं बहु-विधम् इत्य् अनन्तरम् एवं पठनीयम्-
गोपी-कृष्ण-युगं मुहुर् बहु-विधं किन्त्व् एतद् एवोहते
तच् चैतन्ब् न हि जागरस्थम् अपि तु स्वप्नादि-चित्त-भ्रमः ॥2ब्॥
[6] किं बहुना तद्-अनुभवे च तासां भावनेयम्-
उत्पत्तिर् अक्ष्णोर् अभितो न सत्-फला
याभ्यां न तस्यद्भुत-रूपम् ईक्षितम् ।
हा कर्णयोर् अप्य् अलम् अर्थदा न सा
याभ्यां श्रुतं नैव हरेः सुभाषितम्
हा चक्षुर्-आदीनि हरेः समागमे
यद्य् आगमिष्यन् श्रवणादि कर्म च ।
तद् आव्रजिष्यन् विषयीणि नाप्य् अमून्य्
अषूयया धिग् व्यतिदूयमानताम्
इति ।
[7] कदाचिच् च-
साङ्गालिङ्गन-लङ्गिमेऽ ङ्ग-वलया-सङ्गेऽ पि शार्ङ्गी तदा
गोपीनां स्फुरति स्म दूर-गतया प्रेमापगा-पूरतः ।
यस्माद् उत्कलिका-कलाप-वलना-वृत्तिं बहिर् लुम्पती
स्वप्नाभां दिशती शतीम् अपि दृशि स्फूर्तिं मुहुर् लुम्पति
[8] श्री-राधायां तु सुतराम् अनिर्वचनीयम् एव सर्वं तत्-प्रथमतया मिथस् तन्-मिथुनस्यापि । तथा हि-
राधाऽजानाद् असङ्गे दनुज-विजयिनः सङ्गम् आराद् असङ्गं
सङ्गे चैवं समन्ताद् गृह-समय-सुख-स्वप्न-शीतादिकानि ।
एतस्या वृत्तिर् एषाजनि सपदि यदान्यद् विचित्रं तदासीत्
कान्ताकान्त-स्वभावोऽ प्य् अहह यद् अनयोर् वैपरीत्याय जज्ञे
[9] तद् एवम् अतिभूमिताम् इते भाव-भूमनि तेन च सर्वाभ्यर्णताम् इव जाते वृत्त-जाते स्व-स्व-वधू-निरोधाय नियुक्त-पुर-जनी-जनेषु च गुरुषु तद्-उट्टङ्कनतः कृष्णस् तु तृष्णा-लज्जाभ्यां सज्जन्-मनाः स्व-मानसम् अन्व् एवं भावयामास-[10] हन्त किम् इदम् अन्तरा जातम् ? कौलीनं खलु कौलीनं जनं कौ लीनम् इव करोतीति मन्-मनः कञ्चन विचारम् आचारं च न सञ्चरति । लोकश् च शोकं प्रयास्यतीति निज-वर्ग्यम् अनु दुःखं पाणि-सर्ग्यं स्वयम् एवाकरवम् । तत्ः किं करवाणि ?
[11] पुनः स-प्रणिधानम् इदं विविनक्ति स्म-नेदम् अनाचारम् इव प्रतिभाति । भाति हि मम चित्तम् अनेन । न तु म्लानिं याति ।
[12] पुनर् अपि च पराममर्श-ताः पुनर् मम पराङ्गना एवानुभूयन्ते, न तु पराङ्गनाः । तस्माद् भवेद् अत्र विशेषः सन्दर्भ-विशेषः । यम् एव खल्व् अहम् इव लोकोऽ प्य् अयम् अनिर्णीय नूनं गर्ग-दुर्वर्णनयास्मद्-अपयानं निर्णीय च शीर्णीभवन् शङ्कया सङ्क-सुकताम् उरीचक्रे येन चामूर् अपि नूनं स्वं धिक्-कुर्वन्ति । यथा-
व्रजे जातेर् जाता व्रज-जन-समान-प्रकृतिता
ततः कृष्णे प्रेमा तम् अनु सहसा तं प्रति गतिः ।
ततस् तत्रासङ्गस् तम् अनु विपरीतं किम् अपि तत्
ततो व्यक्तं तच् च प्रणय सखि धिक् किं नु करवै
इति ।
[13] अथ तं पराङ्गना-पाराङ्गन-विचार-गर्भं सन्दर्भं पुनर् अस्मिन् निज-निजाभिलषित-कल्लोल-लोल-मत्-प्रेम-कल्लोलिनी-वल्लभे मद्-अङ्ग-सङ्गत-मरुल्-लवेनापि वेलति वल्लवावलये न सम्यग् अनुसन्धातुं सन्धां लभमहे ।
[14] किं च यदि च वास्तवतया न विद्यते दोषस् तथापि तत्-कथापि प्रथयति मम सङ्कोचम् इति व्रजाद् व्यवधातुम् इवावदधाति मे चित्त-वृत्तिः । [15] तद् एतद् व्यवधानम् एव चायताम् आयति-शुद्धिं विधास्यति । [16] ऋण-व्रण-कलङ्कानां काले लोपो भविष्यतीति न्यायेन मम सम्यग्-अनुसन्धानेन तेषाम् लोकानां पश्चात्-तापम् अनु सद्-उपदेश-ग्रहणेन च ।
[17] अथ तद् एतद् विभाव्य पुनः सोद्वेगं विभावयाम्बभूव-
हा गोष्ठं विपिनं पशून् व्रज-जनं दासान् सखीन् प्रेयसीस्
तातं मातरम् अप्य् अहो कथम् अमूं हास्यामि राधाम् अपि ।
मां यान्य् अङ्ग विना क्षणं कथम् अपि प्राप्स्यन्ति नात्म-स्थितिं
यान्य् अन्तर्-ज्वलन-प्रभानि विदधत् प्राप्स्यामि दाह-प्रथाम्
[18] पुनर् विभाव्यात्मानम् उद्दिश्याह-
अन्तःपुरीयसि वनेषु सखीयसि त्वं
वन्यान् मृगान् निज-तनूयसि गोप-रामाः ।
दृष्टश् चकोर-नयनाभिर् अमूभिर् इन्दु-
दर्शं कथं वहसि कृष्ण परत्र तृष्णाम्
[19] पुनः प्रेयसीर् अनुसन्धाय-
यस्मिन्न् आरोपिता हारास् तासां हन्त मया हृदि ।
साम्राज्यं हा करिष्यन्ति तस्मिन्न् अप्य् अस्र-बिन्दवः
[20] तत्र च श्री-राधाम् अनुसन्धाय हन्त हन्तेति प्रोच्य पुनर् आह-
हा चन्द्र-द्रव-युत-चन्दनेन सिक्ता
राधायां तनु-लतिका मया सहार्दम् ।
सैषा मद्-विरहज-लोचनोदगाहा
म्लास्यन्ती प्रतपति सम्प्रतीह मां च
या पूर्वम् उपलब्धासीन् नव-चन्द्र-कलोपमा ।
वह्नेः शिखेव सा जाता राधा दन्दग्धि हृन् मम
राधा प्रेम-प्राध्वम् अत्रागतोऽ हं
हा प्राध्वः श्यामाशु सोऽ हं कथं वा ।
तस्मात् प्राध्वं कृत्य धी-वृत्तयोऽ स्मिन्न्
एव प्राध्वं कुत्रचिन् नापरत्र
[21] इति क्षणं बाष्पायमाणेक्षणतया तूष्णीम् आसीत् । पुनश् च तथा तथा भावन-व्राते जाते-हन्त हन्त कथम् अहम् अहो क्लीबमानः पुनः शोक-प्रपञ्चम् अञ्चामि यतः सम्प्रति भिदुरं चित्तं न विदूरतां विन्देत इति विचिन्तयति स्म ।
[22] तद् एवं सावधानं सहसा रहस् तद् विमुञ्चन् सहचर-सहचारिताम् आपन्नः, किन्तु नातिप्रसन्नतया एतद् अनन्तरम् उदन्तस् तु प्रातर् एव प्रथयिष्यामि इति स-गद्गदं गदित्वा स्निग्धकण्ठः स-मधुकण्ठः स्व-वाससा वदनं वसानः स-शब्दं रुदन्न् अलब्ध-तद्-अवसानश् चिरम् आसीत् । चिरत एव तु तस्माद् विरम्य श्री-राधा-माधवादीन् अपि स्व-साधारणान् अधिगम्य तद् इदम् अवादीत्-
सुक्याकुर्वन्त एवाध्वं तद् इदं सुखम् आत्मनः ।
कथागतं तु तद् दुःखं कथकानेन बाधताम्
इति ।
[23] तद् एवं तयोः सदनम् आसन्नयोः श्री-राधा-माधवादयश् च पुनः स्वप्न-लब्धम् इव तद् दुःखं सुख-पर्यवसानम् उपलब्धं विधाय यथास्वम् आवासम् आसादयामासुः ।
[24] अथ प्रातःकथायां स्निग्धकण्ठ उवाच-तद् एवं कंस-गृह्यानन्यानन्याय-भाजो निगृह्यार्ववेशि-केशि-वधात् पूर्वम् अहर्-मुखे चालित-चक्षुर्-अरविन्दः श्रीमान् गोविन्दश् चेतसि चिन्तितवान्-प्रायः सर्व एव हिंसिताः कंस-पक्षीयाः केशी चाद्य श्वो वा पतिष्यति । केवलं कुवलयापीडः करी वरीवर्ति ।
[25] अन्ये लब्धान्तरे तत्-प्रधानतास्व् अव्यपेक्षतया न तत्र मम गन्तव्यम् अस्ति । यतः पितृ-मुखावृतकः खल्व् अहम्, न तु स्वतन्त्र-मन्त्रः । किन्तु योग्यं व्याजन्तरं मृग्यते । भवतु, यथाप्राप्तं तत् समाप्तव्यम् । तद् अलं तच्-चिन्तनम् अनेन ।
[27] तद् एतद् विचार्य च-हन्त हन्त तत्र प्रयाने च जाते न जाने कियान् कार्य-पर्यायावरोधः स्यात् इति । कथं व्रजं विना समयं गमयिष्यामि इति । [28] पुनः सास्रं चिन्तयाञ्चकार-
विना मां तातः प्राग् न पिबति जलं सा च जननी
विना माम् उच्छ्वासान् विसृजति बतासून् इव मुहुः ।
यथा तौ हा तद्वद् व्रजम् अनुगता विश्व-जनता
तद् आस्तां तिर्यञ्चोऽ प्य् अहह हृदि शल्यं विदधति
[29] तद् इदं चाग्रजम् अपि वेदयितुम् उत्सहे । यतः-
दुःखायते पुमान् कश्चित् कश्चिद् वा यः सुखायते ।
पूर्वस्मिन् न दयालुत्वं परस्मिंस् तु दयालुता
[30] तद् एवं प्रातर् विचारम् आचार्य तदैव दैवत आपतितं केशिनं च मृत्युं प्रापय्य गोचारणाय चरण-चर्यया वनं सञ्चरन्तं श्रीकान्तं क्वचिद् एकन्त-गतया हर्षितः श्रीमान् देवर्षिः सपदि साक्षाद् आसेदिवान् । स चासन्नम् आगच्चन्तम् अच्छ-परिच्छदं श्री-नारदं ददर्श ।
[31] दृष्ट्वा च गीर्देवता-देहम् इवाक्षर-रूपतां धरन्तं
गङ्गा-प्रवाहम् इव विष्णुपदाद् अवतरन्तम्,
कैलासम् इव वैष्णव-लक्ष-शिव-मूर्तिं,
निज-यशः-स्तोमम् इव विविध-गान-कृत-कर्ण-पूर्तिम्,
क्षीर-नीर-निधि-म् इवान्तर्वासित-नारायणआदि-नामानम्,
अमन्द-कला-सान्द्र-चन्द्रमसम् इवान्तरङ्गतया धृत-कृष्ण-धामानम्,
शारद-नीरद-समुदायम् इव शर्म-नेत्राप्य् अधारा वर्षन्तम्,
भक्ति-विशेषासक्ति-व्यक्त-निज-भक्त-प्रहासम् इव कृत-हर्षन्तं पराममर्श ।
[32] स च तम् एवं ददर्श-सदाचरण-सुष्ठुतायां साधु-पद्मवत्,
सदाशेष-सुखद-पद-पृष्ठतायां कृत-तद्-विध-तनु-श्री-कमठवत्,
जङ्घाल-सत्0कटक-शोभितायां विजय-ध्वजवत्,
सहजानूरु-नाम-शस्ततायां गरुत्मत-स्तम्भवत्,
काकुद्मतवितततायां निज-व्रज-तटवत्,
शुभ-शोभावलग्न-प्रह्लादकतायां नरसिंहवत्,
भुवन-कमल-रमणीय-नाभितायां सरोवरवत्, नारायणवद् वा,
वर-गुण-रसनापीताम्बरतायां नव्य-रव्य्-अंशुवत्,
सन्ततम् उदर-श्वसन-चलतायां पिप्पल-दलवत्,
हृदयङ्गम-स्वर्ण-रेखा-श्री-कटायां नीलमणि-निकष-पट्टवत्,
सद्-गुण-रत्नालय-हृदयतायां रत्नाकरवत्,
मर्यादा-पर्यापण-भुजतायां जिष्णु-रत्नार्गलवत्,
अङ्गदादि-लब्ध-प्रवेष्टतायां कौशल्या-गर्भ-मङ्गलवत्,
रोचमान-मुद्राकरतायां कल्प-वल्ली-पल्लववत्,
समुत्कण्ठ-स्वर-रूपतायां पाञ्चजन्यवत्,
द्विजताराधिराज-दास्यतायां द्विज-राजवत्,
नासया शुक-मुख-सक्ति-जेतृ-शोभितायां स्वयम् एव यद्वत्,
निज-सत्य-व्रत-भक्त-रोचन-विलोचनतायां नवीन-दिव्य-मीनवत्,
चन्द्रक-शोभ-केश-निर्माणतायां सनीरदागम-समय-नीरदवत्,
मकराङ्कालङ्कृत-श्रवणतायां मकरध्वजवत्,
सर्वदा सर्वत्रामृत-वर्षि-शिति-मूर्ति-कृत-पूर्तितायां पुनर् अमृत-रश्मिवत्,
रोहिणी-यशोदा-नन्द-नन्दनतायां रौहिणेयवत्,
नरसिंहता-संहित-संहननतायां प्नुअर् नरसिंहवत्,
मुहुर् अपूर्व-मान-रूपतायां पुनर् मीन-महीनवत्,
पटिष्ठता-विघटित-बलि-गरिष्ठ-भावतायां वामन-देववत्,
उत्पथ-वृषलाञ्छित-वृष-निन्दकतायां जिन-नन्दनवत्,
पयोराशि-निमज्जद्-उद्धर-गोत्र-समुद्धरण-धूर्यतायां पुनः श्री-कमठवत्,
धरणी-धर-हारि-विहारितायां वाराहावतारवत्,
कृतवीर्य-जात-दुर्जन-क्षत्र-क्षपणतायां भार्गव-रामवत्,
भावि-कालयवन-संयमनतायां विष्णुयशस्-तनयवत्,
लक्ष्मण-चरित-रचित-प्रचुर-सुखतायां पुनः श्री-रामचन्द्रवद् इति ।
[33] तद् एवम् ऐकरूप्य-श्लेषेण शब्द-श्लेषेण च मिथश् चिन्तित-सद्-उपमानयोर् अनयोः श्री-देवर्षिर् अमुं श्री-हर्षि-श्री-निधानं वेद-पारायणतः स्तूयमानं विधाय वीकाशं निवेदयामास-
शमितः शमितो येन दानवोऽ सौ सदानवः ।
स परोऽ परतां यातः सोदयोऽ नुदयो भवान्
अविलम्बेन ये डिम्बे हसताहसत त्वया ।
ते सर्वे पूतनापूर्वाः पूनाः पूताश् च सर्वतः
गुणैर् अगुणतां यातस् त्वम् असौ नन्दनन्दन ।
बिभर्षि वसुधां चित्रं स्थित्वापि वसुधोपरि
शशधर-मूर्तिः शुक्ला गङ्गा-विशदा सरस्वती श्येनी ।
कीर्तिस् तव तु बकान्तक शुभ्रा सर्वं करोति शुभ्राभम्
त्वत्-कीर्त्या श्वेतितः कंसोऽ प्य् एतत् कृष्ण मृषोदितम् ।
तत्-स्पर्शस् तस्य नास्त्य् एव किन्तु तद्-भीति-वैकृतम्
[34] तद् एवं स्थिते तु किञ्चिन् मम निवेदनम् अस्ति, तथा हि-
प्रेमा वशयति सर्वं खल्व् इति न मृषा प्रसिद्धिर् उद्भाति ।
कृष्ण त्वम् अपि स यस्मान् न भजसि पूर्वापरानुसन्धानम्
तस्माद् विमन-सम-धियंस् त्वाम् अहम् आगच्छमाच्छन्नम् ।
तां स्मारयितुम् अवश्यं या सम्भविता भवल्-लीला
लोकेऽ स्मिंस् तव भक्ता बहवः क्रमशश् च ते पाल्याः ।
तस्माद् अवश्यम् उदियुः पौर्वापर्येण ता लीलाः
केशिनं दितिजम् अश्व-वेशिनं
यो जघान स भवान् अथाभवान् ।
तान् विधातुम् अपरान् सतां परान्
उच्चकैः प्रभविताखिलाविता
तथा हि-
केलि-मात्रेण ते दैत्या यद्-भिदेलिमतां गताः ।
पचेलिमस् तेन तापात् कंसः प्रध्वंसम् एष्यति
क्रूरः स नेतुं सद्यस् त्वाम् अक्रूरस् तु प्रहास्यति ।
त्वं च मात्रादिकं हित्वा यात्रां तं हन्तुम् आप्स्यसि
[35] अथ स-वैवर्ण्यं निर्वर्ण्य तथावस्थितवति तस्मिन् भावान्तरम् ऋषिर् उद्भावयन्न् उवाच-ततश् च सुजन-रोष्टारं कंसं क्रोष्टारम् इव रोषितासि, यतः-
कूप-मण्डूकवत् कंसः कण्डूतिं खण्डयन् निजाम् ।
त्वत्-कर्कश-भुजाभोगि-सङ्घर्षं लब्धुम् इच्छति
[36] यं खलु मातरि-पुरुषं पुरुषोत्तर्मस् त्वम् इह जीव-ग्राहं ग्र्हीष्यसि । समूल-घातं हनिष्यस्य् अकृत-कारं करिष्यसि, कर-ग्राहं गृह्णंश् च विश्रान्ति-पर्यन्तम् अश्रान्ति-विक्रमतया विर्कक्ष्यसि ।
हर्षद्भिः पाणि-कर्षं निष्कर्षंस् तम अनेकपम् ।
द्रक्ष्यसे पुण्डरीकाक्ष त्वं व्यक्तं हरितां गतः
[37] तत्र सङ्क्षेपार्थ-निक्षेपश् चायम्-
अक्रूरं द्वार-मात्रं विदधद् अथ भवान् वृष्णि-धिष्ण्यानि गत्वा
भुङ्क्त्वा त्रैयक्ष-चापं सपदि कुवलयापीडकं पीडयित्वा ।
मल्लान् हत्वा परश्वो दनुज-जनि-तनुं कंसकं ध्वंसयित्वा
राज्यं दत्त्वोग्रसेनं प्रति निज-जनकौ मोचयिष्यत्य् अवश्यम्
[38] अत्र पौराः पौराणिकीम् इव गाथां गातारः-
उन्मीलन् नील-शुभ्रारुण-कमल-जिती खञ्जन-ध्वंसि-लीला-
चाञ्चल्ये सिंह-सङ्घ-प्रमथन-मदता-व्यञ्जिनी यस्य नेत्रे ।
चेष्टा दुर्दुष्ट-वृन्द-प्रशम-पटु-कला-कल्पिनी मज्जयन्ती
पीयूषे सज्जनालीर् नव-वयसि वरा श्यामलः कः समेति
[39] कृष्णः स्वगतम् उवाच-उग्रसेनाय राज्यं दास्यामीति युक्तम् एव खलूक्तम् । यतो मम व्रजागमनम् एव रमणीयम् । [40] प्रकाशं चाह स्म-ततस् ततः ?
[41] ऋषिर् उवाच-
ग्राम्याः पौरा नृपालाः सदसि नभसि तु स्वर्ग-सङ्गीत-विज्ञा
देवा देवादि-नाथा विधि-शिव-विधिजास् ते वयं च स्तुवानाः ।
रक्त-त्यग्-दन्ति-दन्त-च्छविर् अविकर-भागंसकौ लून-मल्लौ
द्रक्ष्यामो भ्रातरौ वां कवलित-बलवत् कंसकं त्वाम् अपीह
[42] तत्र मल्ल-सभा-गतानाम् इदं कोलाहल-कुतूहलं भविता-
किम् इदं श्यामलं रूपं मधुरं रौद्रम् एव वा ।
स्त्री चास्त्री च न यद् दिव्यं वस्त्रम् अस्त्रं यथायथम्
[43] पाप-कंसे चापवर्गम् इते-
वधार्हस्यापि कंसस्य स्त्रीणां दृग्-वारि-बिन्दवः ।
धरण्यां निपतिष्यन्ति द्रावयिष्यन्ति हृत् तव
[44] कृष्ण उवाच-हन्त तौ मम निज-जनकाव् इति भवता काव् उक्तौ ?
[45] ऋषिः स-हासम् उवाच-
प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः ।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥[भ्प् 10.8.14]
[46] कृष्णः साश्चर्य-स्मितम् उवाच- ततस् ततः ?
[47] ऋषिर् उवाच-वसुदेवादयस् तु नष्टं चिन्तामणिम् इव स्पष्टं विन्दमानास् त्वां हातुं न हि सहिष्यन्ते । [48] तव च तद्-अनुरोधाय यदूनाम् इतस् ततः पलायन-समवाय-दूनानाम् अवरोधाय च निश्चित-चित्तस्य कतिचिद् वासराणि भविष्यन्ति । [49] त्वद्-अनुषङ्गतस् तत्र सङ्गता तद्-अपेक्षिती-कृत्य व्रज-क्षिति-पति-प्रभृति-व्रज-जनतापि शाकट-वाट-पट-निवासम् असत्स्यति ।
[50] तथापि चिरतः कंस-प्रथित-व्यथतया प्राप्त-वितथतायायदु-राज-राजधान्याः स्फुरद्-उग्रसेनेनाप्य् उग्रसेनेन दुःसमाधानं समाधानम् । स्वयं बहु-प्रणिधानत एव स्याद् इति क्षणम् अपि क्षणम् अलभमाश् चिरायमाणे निज-व्रज-प्रयाणे विचार्य रामेण सम ऐकचर्य-चर्यया स्वजन-व्रजे व्रजे विराजमानं व्रजेशम् उपव्रज्य स्वस्य व्रजागमनम् अवश्य-कार्यतया निर्धार्य व्रजम् एव व्राजिष्यसि ।
[51] कृष्ण उवाच-हन्त ! ते किं त्यजन्त एव माम् आव्राजिष्यन्ति ?
[52] ऋषिर् उवाच-
नन्दादयस् तव परं महताग्रहेण
प्राप्स्यन्ति गोष्ठम् अथ तद्-वपुषात्मना न ।
दृश्यं भवेद् वपुर् इति स्फुटम् अस्य तस्मिन्
सङ्कोचिता समुचिता न तु तद्वद् आत्मा
[53] कृष्ण उवाच-हन्त किम् अहं वक्ष्यामि ?
[54] ऋषिर् उवाच-तत्रभवता तद् इदं सङ्गीर्णं गीर्णम् आचरिष्यते-
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥[भ्प् 10.45.23] इति ।
[55] तद् इदम् एव भवद्-आश्वासनं तेषां विश्वास्य शश्वायमानताम् आचरिष्यति ।
[56] कृष्ण उवाच-कदाहम् आगमिष्यामि ?
[57] ऋषिर् उवाच-यदा सुहृदां हृदयङ्गमं सुखम् उत्पत्स्यते ।
[58] कृष्ण उवाच-तच् च कदा ?
[59] ऋषिर् उवाच-तेषां सुखस्योत्पत्तये तु दूरं व्याप्तुम् उन्मुखं भविता ।
[60] कृष्ण उवाच-अहो बत ! वियतीव कियती व्याप्तिस् तत्र ?
[61] ऋषिर् उवाच-तत्-तत्-कार्य-जालतः काल-क्षेपअं क्षेपयत्य् अपि भवति यावत् कंस-पक्ष-लक्ष-विध्वंसनं, यावद्-भवत्-पुत्रादि-विचित्र-सम्पद्-गणश् च सम्पत्स्यते ।
[62] कृष्ण उवाच-अहो महात्मन्! महद् व्यसनं खलु मयि न्यसनम् आयास्यति । यथो दीर्घसूत्रता मम बन्धनाय निर्बन्धम् आपत्स्यते ।
[63] ऋषिर् उवाच-मा तापम् आपद्यथ, भवतः स्वभाव एवायम्, यत् कदाचिद् अन्त्रङ्गाणां परिवार-सङ्घानां सुख-भङ्गं स्वाङ्गानाम् इव विषह्य बहिरङ्गाणां दुःख-भङ्गं करोमि ।
[64] कृष्ण उवाच-भवतु, भावि-कथा प्रथ्यताम् । तत्र मदीय-दुर्वृत्तताम् अयं व्रज-दुःख-वृत्तं तावद् आस्ताम्, पुर-वृत्तं पुरस्ताद् अनुवर्त्यताम्, येनाहम् उपरक्तस् तत्र निष्प्रतिभतां व्यक्तम् आप्स्यामि ।
[65] ऋषिर् उवाच-साम्प्रतं तव गायत्र-व्रतम् एव स-गर्गेण वसुदेवादि-यदु-वर्गेण प्रथयिष्यते । यत्र च व्रजतः कर्णी-रथारोहिणी रोहिणी च तत्र नेष्यते, न तु व्रज-जनः कश्चित् । क्षात्र-विधान-पात्रतया तन्-निर्माणे तस्य निर्माण-दुःखं दुःखनन-मूलं भविता इति ।
[66] कृष्णः स्वगतम् इदम् अधिगतवान्-हन्त प्रसङ्गतस् तद्-दुःखम् एवासङ्गं लभते । मन्-मातृ-सङ्गिनी हि सा रोहिणी कथं तद्-भङ्गिनी भविष्यति इति ।
[67] ततः कथान्तरं पृच्छाम इति स्पष्टं पप्रच्छ-ततस् तद्-व्रताचारानन्तरं किन्तराम् आचरिष्यामि ?
[68] ऋषिर् उवाच-ततः सान्दीपनि-सन्दीपित-विद्या-सभाम् अवन्तीम् आसाद्यानवद्य-विद्या-समुदायाय भ्रातरौ युवाम् अकातरौ स-ब्रह्मचारितया गौरव-सङ्कुलतया गौरवं कुलम् एष्यथ । यत्र सकृन्-निगद-मात्रेण सर्वां विद्याम् अधीयन्तौ धारयन्तौ च सर्वतश् चमत्कारम् अर्पयिष्यथः । यत्रेदं सखेदम् उपश्लोकयन् महांल् लोक-सङ्घः परस्परं सविस्मयम् आलोकयिष्यति । यथा-
अङ्गं पल्लव-कोमलं प्रभवनं लक्ष्मी-परार्धाश्रितं
सेव्यत्वं सम-सेवकायुत-मनो-राज्याभम् उद्भ्राजते ।
यस्य श्री-रमणस्य सोऽ पि नितरां वागीश्वरी-लोभनोऽ प्य्
आचार्याण्य् उपदिष्ट-काष्ठ-घटनं शर्म-श्रिया निर्ममे
[69] तद् एवं चतुःषष्ठि-मात्रैक्र् अहो-रात्रैः सर्वास्व् अपि कलास्वधीतिना भवता गुरु-पत्नी-भिक्षित-पञ्च-जन-भक्षित-तत्-पुत्रानयन-मय-दक्षिणा-निवेदने चेदं लोका व्यतिवेदयिष्यन्ते । यथा-
वस्त्व् अस्ति यत् तद् गुरवे प्रदीयताम्
अदुर्लभं चेद् अथवा सुदुर्लभम् ।
नष्टं वपुर् यद् गुरुजस्य तद् वपुष्-
मन्तं यमात् पश्यतम् आनिनाय सः
ततश् च-
यमाद् अपि समानेता गुर्व्-अपत्यं त्वया यदा ।
विवदेरन् मुखे तर्हि मिर्येरन् नरयो हृदि
[70] कृष्णः स्वगतम्-न जाने, जनेन तद् वर्ण्यमानम् आकर्ण्य निरवलम्बतां संवलमानानां मय्य् अनुकम्पा-सम्पातवताम् अम्बादीनां का दशा भवता या सम्प्रति च मम हृत्-कम्पाय सम्पद्यते । [71] भवतु, प्रस्तावान्तरं विस्तारयामः इति स्पष्टम् आचष्ट-भगवन् ! कोऽ सौ पञ्चजनः ?
[72] ऋषिर् उवाच-जय-विजयवत् कस्माच्चित् कारणाच्-छङ्खासुरतां प्राप्तोऽ सौ प्रसिद्धः शङ्ख-विशेष एव । त्वं च तद्-अङ्गम् आदास्यसे । किन्तु-
यदा यदा ध्मापयिता भवान् दरं
नेत्रे तद्-आर्द्रे इव ते भविष्यतः ।
लब्धं यशोदा-स्तन-पानजं सुखं
कृपा-भरेण स्मरण-प्रथावतः
[73] कृष्णः सोद्वेगम् उवाच-एतद् वस्तूद्देशं विना कथान्तरं प्रस्तूयताम् ।
[74] ऋषिर् उवाच-किञ्चिद् अन्यद् अल्पं श्रूयताम् । वित्त-विद्यस् त्वं मथुरायाम् आगत-मात्रः श्रीमद्-व्रजाय कृत-यात्रस् तत्रत्य-पित्रादिभिः कृत-सङ्कोचनस् तद्-आज्ञा-लङ्घनं नायत्यां मङ्गलम् इति रचित-विचारतया चरित-शोचनः स्वानुकूल्य-कैवल्य-लसद्-उद्धवम् अतिविनीतम् उद्धवम् एवाभिनीतं मत्वा व्रज-जनानाम् आविजमानता-जननाय नियोजयिष्यसि । तेषां सङ्कोचत एव न च व्रज-जनम् आत्मोपहृतम् आहरिष्यसि ।
[75] ते ह्य् एवं रहस्यं मंस्यन्ते, कृष्णस्य व्रज-मात्र-तृष्णस्य व्रज-देशे प्रवेशे पुनर् लम्भनं विप्रलम्भतः स्तम्भनम् एव लप्स्यते । व्रज-जनस्यात्र प्रवेशश् च तथावेश एवेति । अथ व्रज-जनः स च स्वयम् अपि नयास्यति । ज्ञातीन् वो द्रष्टुम् एष्यामः [भ्प् 10.45.13] इति रहस्य-त्वद्-वचनस्य भवद्भिस् तु नागम्यताम् इति स्वारस्य-भङ्ग-प्रसङ्गः स्याद् इति ।
[76] तथा स्वारस्यम् अपि तादृश-तन्-मन्त्रणायन्त्रणया, न तु स्वतन्त्रतया । किं च, तव चेतसि यः कोऽ प्य् अन्यः सङ्कोचः सम्प्रति सम्प्रतीतिं विनारोचमानतां प्रतिपन्नवान् अस्ति । सोऽ पि व्रज-भूमाव् आव्रजनादि-वर्जने साहायकं मुहुर् निर्वाहयिता ।
[77] व्रज-जनं प्रति तद् इदं तु वेदवद् अपरतन्त्रं मन्त्रं निवेदयिष्यसि । सम्प्रति च भवतां सम्बन्धे जरासन्धादिभिः कृतानुसन्धे तत्रापि निर्ब् अन्धात् कटकेन धाटी घटयिष्यते इति ।
[78] तथास्मिन्न् उद्धव-द्वारा पित्रादिषु वाचिक-पत्रिका, यथा-
सम्बन्धाद् वः समन्ताद् अहम् अपि स तथा यामि तं वृष्णि-वृन्दे
युष्माकं प्राण-योग्य-प्रणय-भुवि तथैवावनं संविधित्से ।
किन्त्व् एषा मूर्तिर् अत्र स्वयम् अपि तु भवत्-पार्श्व-वर्ती ममात्मा
किं वा मूर्तिश् च तस्मिन् भवति हि भवतां स्फूर्तिर् एव प्रमाणम्
किं च-
आयास्यामीति किं जल्पेद् बद्धः प्रणय-रज्जूभिः ।
येन बद्धस् तु तस्येच्छाम् अनिच्छां चानुयाति सः
[79] श्री-वसुदेवादीनां देव-द्विड्-उपद्रवस्य विद्रवः खलु भवद्-अभिमत एवेति तु मया मतम् एव ।
[80] अथ पुरस्ताद् उद्धव-दर्शन-मात्रेण च ते परम-सुखं प्राप्स्यन्ति । यतः-
अपरिचयेऽ प्य् अवलोकाद् भक्तं भक्तः पिपर्ति कृष्णस्य ।
स्वरमात्रात् तद्-गानारम्भः सुजनं प्रमोदयति
[81] ततश् च तव विश्लेषान् नव-नवार्तास् ते त्वद्-वार्ताम् एव वार्ताम् अनुवर्तमानाः शीघ्रम् इव वियन्ति कियन्ति मासा वासराणीव तं कतिचिन् मासान् वासयित्वा पर्यवसाने तद्-द्वारा सम्भावनाम् एवापेक्ष्य मुद्रित-मुखेन स्वस्ति-मुखेन सन्देक्ष्यन्ति, यथा-
ईश्वरस् त्वम् इति सोऽ यम् अस्माकं
उद्धवः समुपदिश्य गच्छति ।
पुत्र तत् तु न वयं स्म मन्-महे
श्रीश ता किम् उ सुते न रोचते
किं च-
यद्य् अहो सुत भवान् अधीश्वरस्
तर्ह्य् अपि स्फुरतु ते पदाब्जयोः ।
प्रीतिर् अत्र च परत्र नः सदा
कृष्णताम् अनु यतः सतृष्णता
[82] कृष्ण उवाच-उद्धवस् तु किं मां वक्ष्यते ?
[83] ऋषिर् उवाच-
विना चन्द्रं शरल्-लक्ष्मीर् विना पुष्पं मधून्नतिः ।
विना पयोदं वर्षा-श्रीर् विना त्वां का व्रज-स्थितिः ॥इति ।
[84] कृष्णः सास्रम् उवाच-यद् व्रजे मम विलम्ब-संवलन-कारणं विशेषेण च वर्णय ।
[85] ऋषिर् उवाच-तत्र भक्तं भजमानस्य कवचं बिभ्राणस्य शत्रून् निघ्नानस्य तव व्यासङ्गान्तरम् अपि लब्धान्तरताम् आप्स्यति ।
[86] कृष्णः सोद्वेगम् उवाच-हन्त किं तत् ?
[87] ऋषिर् उवाच-यत् खलु वसुदेव-स्वस्रीयाणां युधिष्ठिरादीनां धृतराष्ट्रेण दुष्ट-भ्रष्ट-राष्ट्री-कृतानां पक्षस्य पुष्टीकरणाय भविता । ते च त्वाम् एव परमातिष्ठमाना भक्त-वश्यतां वावश्यमानस्य तव कैतव-रहित-भक्ति-भाज इति । यद्-अर्थं प्रथमतस् तावद् अभिजातम् अभिजातं चाक्रूरं दूततया दूरम् आपयिष्यसि ।
[88] प्रकृत-व्यासङ्गः पुनर् अङ्गीभूतः प्रभूत एव । यतः कंस-पक्ष-निर्हरणं तदापि त्वया कृताकृतम् एव वर्त्स्यति ।
[89] तथा हि-वराकेषु कंस-पक्षीयेषु चान्येषु तीर्थ-काकतां गतेषु यत् खल्व् अस्तिः प्राप्तिश् चेति तस्य तत्र कलत्र-द्वयम् अस्ति ।
[90] तत् पुनर् वैधव्येनान्धीभूतम् इव स्व-बन्धु-जन-दत्तानुसन्धीभवत्-पितृतया धृताश्वास-निर्बन्धं जरासन्धं गमिष्यति । यत्र च-
मिस्सिन्ग्!
विस्रस्त-केशवेशाद्योस् तयोः कंसस्य भार्ययोः ।
द्रक्ष्यन्ति विहसिष्यन्ति चाङ्गानि पथिका अपि
[91] ततस् तत्-प्रेरणया जरासन्धः प्राप्त-जरासन्ध इव काल-रूप्तावन्तः भवन्तम् एव त्रयोविंशति-सङ्ख्याभिर् अक्षौहिणीभिर् अभियास्यति ।
तादृशतां भृशम् अविद्वान् कीटक इव कृपीट-योनिम् ।
अभियाय चाभिया मथुरां मथ्नन्न् इवावरिष्यति
ततश् च-
इन्द्व्-अर्क-द्योत-केलिं कुतुक-कलनया निर्मिमाणाव् अधृष्यौ
जारासन्धं तद्-अन्धं तम इव कटकं त्रोटयन्तौ भवन्तौ ।
एकं तं मागधेशं तम इव घृणया बाढम् उत्सृज्य पर्व-
प्राप्तं सर्वं स्व-भक्तं स्व-महसि दधतौ भास्यतः शश्वद् एव
[92] एवं सप्तदश-स्वप्यति-सम्पातेष्व् अपयातेषु कूटीकृत-म्लेच्छ-कोटि-त्रय-प्रकट-कटकः समहायवनः काल-यवनः प्रातर् एवातिदूरतः सामुद्र-पूर इवालोकिष्यते, येन नीवृद् एव निवृतो भविता ।
[93] कृष्ण उवाच-भूरि-दूरतया शात्रव-पात्रता-रहितः स कस्माद् अस्माकम् अहितताम् आप्स्यति ?
[94] ऋषिर् उवाच-यदु-वर्ग-वादित-गार्ग्याराधित-भर्ग-वर-स्फुरद्-उपसर्ग-जनि-सर्गत एव यादव-दवं प्रति भय-दव-विसर्ग-निरर्गले तस्मिन् जरासन्धानुसन्धानाद् एव । स चात्रावश्य-मरण-वशत्याम् आप्स्यतीति मत्-प्रेरणाच् च ?
[95] कृष्ण उवाच-कथं तर्हि तस्य गर्हितस्य मरणं भविता ?
[96] ऋषिर् उवाच-गर्हितत्वम् एव तत्त्वतः खल्व् अहितं कारणम् । प्रकारं चामुं सहास्यम् उद्गास्यन्ति-
शीतं महस् तद् अनुसृत्य मुकुन्द-मूर्तेर्
म्लेच्छाधिराड् अधि तमः-कटु-कीट-तुल्यः ।
एष ज्वलज्-जलनवन् मुचुकुन्द-तेजः
सङ्गाद् अलं वलित-विस्मिति भस्मति स्म
[97] अथ कृष्णः स्वगतम् अधिगतवान्-न जाने योजन-शतकम् अर्दति तस्मिन् दुर्दम-दुर्जन-संमर्दे मत्-प्रमद-सत्र-व्रज-तुल्य-व्रजः परिक्षिप्ततया विक्षिप्त-चित्तः कुत्र वा व्रजिष्यति ?
[98] ऋषिस् तु तद्-अभिप्रयन् प्रथयति स्म-काम्यकतः पश्चिमायां दिशि गिरि-तट-गत-गरिष्ठाटवीम् अटिष्यति । किन्तु भवता यादवानाम् इव व्रज-भवनानाम् अरितस् तनिष्यमाण-सन्ताप-सन्तानाभावाय तद् इदं चिन्तयिष्यते ।
[99] सम्प्रति शरणागततया कृत-मद्-अनुसरणानां यादवानाम् अवनाय युक्ततया नियुक्त इवास्मि ।
[100] ततस् तत्र गरिष्ठं प्रकोष्ठान्तरं विधेयम् । तन्त यदि गोवर्धन-धरणतः-
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सो æयं मे व्रत आहितः ॥[भ्प् 10.25.18]
इत्य् अनुसृत्य कृत-रक्षाणां मत्-प्राणावलि-लक्षाणाम् इव व्रजाध्यक्षाणां यद्य् अरयस् ते च रयाद् विघ्न-निघ्नतां करिष्यन्ति । तदा सर्वम् एव खर्वं स्यात् । तेषाम् अटवीषु गो-कोटि-लक्ष-रक्षकाणां रक्षा च प्रकोष्ठ-घटनया दुर्घटा ।
[101] तथा-
रही-भूत-मरू-भूतं चक्षू-भूतं मनी-कृतम् ।
यस्य यत् तत् कथं तेन त्यज्यतां व्यज्यताम् अपि ॥
इति न्यायेन तत्र सम्प्रति गमनम् अपि तत्रकीय-सङ्कोच-विशेषत एव विशेषतः प्रसह्य मह्यं न रोचते । सङ्कोचान्तरं तु तस्य् अनान्तरीयकम् एव मन्ये । ततः सम्प्रति साक्षान् मम तत्र स्थितिम् अपि न लक्षयामि, तस्मात् तेषु बहिः-शश्वद्-उदासीनता-विन्यसनम् एव मयि तद्-उपासीनतायां प्रवीणताम् आचरति ।
[102] तत एव शत्रवस् तत्र मद्-बहिरङ्गताया जानाना गृह्णीरन् इति ।
[103] तद् एवं व्रजत उदासीनायमानस्य तव तादृश-चिन्ता-मात्रेणाचिन्त्य-शक्त्या द्राग् एव दूरतः समुद्रान्तः-पुरी-विशेषस्य व्यक्त्या तत्र च यदूनां झटिति प्रसक्त्या तम् उरीकरिष्यसि । तद्-अनन्तरम् एव काल-यवने कालवद् आचरिष्यसि । मुचुकुन्दं च प्रति मुकुन्दत्वं कुन्द-सुन्दर-दन्त-कन्दलित-मन्द-हास-मय-समय-रचन-वचन-विलासतः कृपाम् उल्लासयिष्यसि ।
[104] अथ मथुराम् एव रामेण सह सहचर-यदु-कुमार-वृतः प्रतिगत्य पत्यभाववतः पुरुषा म्लेच्चतस् तान् म्लेच्छ-योधान् निधनम् एव रोधयमानस् तद्-अमान-धनानि निज-राजधानीति द्वारकां हारयन्न् अपि म्लेच्छ-परिच्छदतया मनसि नाच्छतां मंस्यसे ।
[105] अथ पुनः पुनर् जात इव स राजा जरा-जातः पूर्व-पूर्ववद् एव मधुपुरीम् अवरुद्धानस् तद्-धन-हर्तॄणां भर्तॄन् युष्मान् एव प्रतभिगमिष्यति ।
[106] ततश् च तद्-धनानाम् अवरक्षणाय निज-जनानां रक्षणाय चाक्षाम-श्याम-शुभ्र-वपुषौ परम-पुरुषौ कुतुक-विशेषाद् अव्यञ्जित-रुषौ शुभवन्तौ भवन्तौ स-द्रवम् अपद्रवन्तौ तद्-धर्षत इव वस्तुतस् तु तद्-धर्षतः प्रवर्षणाख्यं गिरिम् आरोक्ष्यथः ।
[107] आरुह्य च तं तु द्रुहद्भिः प्रसह्य दह्यमानम् उज्झन्ताव् एकादश-योजन-समुत्तुङ्ग-शृङ्गाद् उत्प्लुत्य भूरि-दूरं युवां पतिष्यथः । पतित्वा च द्वारका-पतिताम् आगमिष्यथः ।
[108] स तु वां प्रतापम् अविदन् निज-पश्चात्-ताप-पाप-पादप-बीजायमानम् अभिशापं हृदि वापं वापं गृहम् अवाप्स्यति । गीर्वाण-श्रेण्याकाश-वाण्या तु हसिष्यते-
मृधे तु विजितं पुरा त्वम् असि यद्-द्वयेनामुना
स सप्तदश-बारकं विजित एव किं तद्-गिरा ।
अहो सकुतुक-द्रवे प्रकटम् अद्य चाजी यथा
जरा-सुत न यद्-ध्रुवं तम् अदसीयमानर्च्छिथ
[109] कृष्ण उवाच-लब्ध-दुर्गाणां यदु-वर्गाणां बलं वा तेषां बलम् एव वावलम्बनं विधाय तदापि किं व्रजं नाव्रजिष्यामि ।
[110] ऋषिर् स्वगतम् आह स्म-अहो तादृशि सङ्कोचेऽ प्य् एतादृग्-अस्योत्कण्ठा मादृग्-अन्तबुद्धिं कुण्ठयति इति ।
[111] स्पष्टं तु स्पष्टं कारणम् आचष्ट-एकस्मिन् कंसे ध्वंसिते बहवस् तत्-सम्बन्धि-बान्धवा जरासन्धवत् कंसायिष्यन्ते, कथम् आगमनं स्यात् ?
[112] कृष्ण उवाच-दर्शन-मात्रार्थम् अपि न स्यात् ।
[113] ऋषिः सरूक्ष-हासम् उवाच-नहि नहि ।
[114] कृष्ण उवाच-कथम् इव ?
[115] ऋषिर् उवाच-वसुदेवाद्य्-अनुज्ञां विनेति विज्ञापितम् एव ।
[116] कृष्ण उवाच-तर्ह्य् आगमनम् एव न भविता ।
[117] ऋषिर् उवाच-भविता, किन्तु काल-विलम्बितया । भवांस् तु व्रजागमनं मनसि-कृत्य विवाह-कृत्य-विमुखतया स्थास्यति, किन्तु तद् अपि व्यभिचरिष्यति ।
[118] कृष्ण उवाच-हन्त किं तत्र कारणम् ?
[119] ऋषिर् उवाच-रैवत-नामा कश्चित् प्राचीनः सुराजा द्रुहिण-विहिततया रौहिणेयाय यदा दुहितरं वितरिष्यति, तदा वसुदेव-देवक्य्-आदिभिर् ईडितैर् विवाहाय बहुधा विहिताम्रेडितैः कृतः स च प्रयत्नस् त्वया सपत्न इव नानुमोदिष्यते ।
[120] तद् एवम् एव वासर-शते गते कदाचित् कश्चिद् उद्विजमान इव द्विजन्मा विजने सन्तं भवन्तम् आव्रजिष्यति । आव्रज्य च स धन्यात्मा पितृ-परवत्याश् च पर-सात्कृति-मय-स्वभयावृततयापावृतायमानाया भीष्मक-कन्यायाः सन्यायां पत्रिकां सापत्रपम् इव त्वय्य् अर्पयिष्यति । तस्याः सङ्क्षेपतस् त्व् अयम् अर्थ-विक्षेपः-
तव स्वभावेनाकृष्टा स्वस्य वा त्वयि केशव ।
कृष्येय चेद् बलाद् अन्येनासून् मध्ये जहाम्य् अहम्
इति ।
[121] ततश् च मर्म-स्पृशा धर्म-दृशा विधर्माद् भयं भावयमानस् त्वम् अन्यथा-मन्यमानतां न लप्स्यसे । किं बहुना, विवाहम् अपि निर्वाहयिष्यसे ।
[122] यथा च लोके कथा प्रथाम् आप्स्यति ।
भीष्माद्रि-स्थित-रुक्मिणी-मणि-मय-श्रेणी-विलोक-स्पृहां
शार्दूल-स्थितिम् आश्रिता नृप-सुतास् तावन् मदान् निर्ममुः ।
यावच्-छङ्ख-निनाद-गर्ज-दलित-प्रागल्भ्य-तत्-तत्-सभा-
मध्य-ध्वंसि-नृसिंह-नव्य-तरुणश् चक्रे मनाङ् नोद्यमम्
[123] तद् एवं पर्ययम् आगतायां मर्यादायां तादृश-पर्यायतां काश्च्द् अन्याश् च धन्याः कन्यास् ताम् आधिविन्नां प्रणयन् परिणेतासि । ताश् च भवन्तम् अन्तरेण न शरीर-स्थितिम् अनुसरेयुः इति ।
[124] तत्र सत्यभामां तावत्-पाणौ प्रणेष्यसि, यत्र जाम्बवतीम् अपि संवलयिष्यसि, यत्र च जाम्बवान् कुकुद-मुदं लप्स्यते । तथा हि समासेन कथयिष्यन्ति ।
प्रसेने निःसेने निज-सहजनौ दिव्य-मणि-भाग्-
गले सिंह-ध्वस्ते रचयद् अभिशस्तं हरिम् असौ ।
यदा सत्राजित्-तर्ह्य् अनुमृतयमाणो मणिम् अमुं
स कन्यामृक्षेन्द्राद् अलभत स तस्माद् अपि पुनः
[125] मणिम् अन्वेष्टुं चिर-रात्राय कान्तारं गते तु त्वयि परम-कान्ते पुनर् निर्दरतया भल्लूक-दरं प्रविष्टे द्वारकायां सुष्ठु कष्टम् आपतिष्यति । यतः-
यर्हीतिर् भवतः कृष्ण तर्हीतिर् न तु दुर्लभा ।
अक्ष्णो रीतिस्तु लोकानां रीतिर् एव तदा मता
[126] प्राप्तायां सरत्नायां सत्यभामायां रत्नं पुनः स्वस्मिन्न् अर्पिते नारगीतेन सत्रा सत्राजितेय् एव प्रत्यर्पयिष्यसि ।
[127] यदा च पाण्डवानाम् उद्दण्डं दाह-वृत्तम् अतथ्यं कथ्यमानम् आकर्ण्य तूर्णम् एव हस्तिनापुरं प्रस्थितौ भविष्यथः ।
[128] तदा गर्भे सुहितस् त्वद्-अहितः शतधन्वा तु वां दूरगौ मन्वानः प्राप्त-रत्नं सत्राजितं सयत्नं सपत्नवन् निहत्य रत्नम् अपहृत्य तच् च कर्णटिरिटिराकारिणम् अक्रूरं प्रत्यपह्नुत्य ज्ञाति-हत्या-भीत्या कुशस्थलाद् अवगत्य विद्रोष्यति ।
[129] अथ स्वपुरम् आगत्य तद् अधिगत्य तम् एवानुपदितयानुसृत्य निहत्य च मणिम् असङ्गत्य पश्चाद् अक्रूरात् प्रतिपत्य स्वम् अभि दुर्जनाभिशापम् आर्जवान् मार्जयिष्यसि ।
[130] कृष्णः स्वगत्म् उवाच-
सङ्गः क्वायं व्रजस्थानां मद्-एक-प्राणता-जुषाम् ।
क्व वा यदूनां सत्राजिच्-छतधन्वादि-शालिनाम्
अथवा-
भवेद् यः प्रोष्य-पापीयांस् तस्य किं कर्म शर्मदम् ।
यद् यत् करोति तत्रैव स्नात्वा कालक एव सः
[131] स्पष्टं चाचष्ट-कथान्तरं प्रथ्यताम् । यद्-अनन्तरं गोष्ठस्था ममानन्तरस्था भविष्यन्ति ।
[132] ऋषिर् उवाच-तद् अप्य् आयास्यति श्रूयताम् । अथ भवता तास् तत्-तद्-उपायम् उपायंसतेति वर्ण्यमानम् आकर्ण्य मृगयायां परीता रवि-दुहिता च त्वां वरीता । एतन् निर्वर्ण्य च जना वर्णयिष्यन्ति । यथा-
सूर्ये जीवति तत्-कन्या तम् अनापृच्छ्य पश्यत ।
स्वयं वृतवती कृष्णं वराकी कान्यकन्यका
[133] अथ राजाधिदेव्या नन्दिनीं मित्रविन्दां स्वयंवरणेन भवन्तम् अनुविन्दमानां तत्र भ्रातृभ्यां विन्दानुविन्दाभ्यां निन्द्यमानां युद्धेन विन्दमानः परिणेतासि ।
[134] कृष्ण उवाच-राजाधिदेवी खल्व् आनकदुन्दुभेर् भागिनीति भण्यते, सत्राजिद् अपि गोत्रजतया तर्हि कथम् इदं लोक-गर्हितम् अर्हिष्यति ?
[135] ऋषिः स-हासम् उवाच-राजाधिदेव्या इव श्रुतकीर्तेर् अपि सुतां भद्राम् उपयंस्यसे ।
[136] कृष्णः ससङ्कोच-लोचनम् उवाच-तद् अपि कथम् ?
[137] ऋषिर् उवाच-यादव-प्रभवाणाम् अयम् एव कुल-क्रम-समाचारः ।
[138] कृष्णः स्वगतम् उवाच-न खल्व् इदं ज्ञातेयं, किन्तु कापेयम् एव । तथापि भद्रम् एवेदम् æ यस्माद् अनेन सम्बन्धेन व्रज-बन्धवस् तद् इदं मंस्यन्ते । नासौ तेषां गोत्रतया स्तोत्र-विषयताम् आत्मनि मन्यते, किन्तु गोत्रान्त-रमितानाम् अस्माकम् एव इति ।
[139] ऋषिर् उवाच-मित्रविन्दाम् अनु चेदं वन्दिष्यन्ते-
यथार्थ-नाम्ना साम्नाता मित्रविन्दा स्व-बन्धुभिः ।
स्व-मित्रं विन्दमाना या तद्-अमित्रान् निराकरोत्
[140] भद्राम् अनु वर्णयिष्यन्ति-
श्रुतकीर्तिः सुता-व्याजात् कीर्तिम् एव व्यजायत ।
कृष्ण-सात्कृतितः सा तु भद्राप्य् अजनि विश्रुता
[141] अथ नाग्नजितीम् अप्य् उद्वक्ष्यसि । यत्र सप्तानां वृषभाणां युगपद् बन्धः खलु तत्-पित्रा पण-बन्धतया स्थापयिष्यते । तत्र च-
यदा त्वं सप्त-वृषभान् उद्दितान् आचरिष्यसि ।
तदा त्वद्-गोपतां स्मृत्वा बाष्पं मोक्ष्यामहे वयम्
[142] कृष्ण उवाच-हन्त युष्मभ्यम् अपि रोचते खल्व् इयं मल्-लीला ?
[143] ऋषिर् उवाच-आस्ताम् अस्मद्-वार्ता । बाढम् अस्मत्-पित्रेऽ पि । यथा प्रार्थितं तद् भूरि-भाग्यम् [भ्प् 10.14.34] इत्य् आदिना । तत्र च या कापि तव प्रेयसी लीला, सा तु परम-श्रेयसी । यत्-सम्बन्धेन भवन्-मन्त्र-द्वयं मन्त्र-राजतया प्रचारितम् आवाभ्याम् । तथा हि-
नृपो न हरि-सेविता व्यय-कृती न हर्य्-अर्पकः
कविर् न हरि-वर्णकः श्रित-गुरुर् न हर्य्-आश्रितः ।
गुणी न हरि-तत्परः सरस-धीर् नः कृष्णाश्रयः
स न व्रज-रमानुगः स्व-हृदि सप्त शल्यानि मे
[144] कृष्णः स्वगतम् उवाच-साधीयान् ममानुभवः । स तु न सवाधीभवितुम् अर्हति । यतश् च न स्वानुभव एवायम् अनुभावश् च । तन्-मनो नान्यथा मन्यस्व इति ।
[145] स्पष्टं च पृष्टवान्-ततस् ततः ?
[146] ऋषिर् उवाच-तद् एवं काव्य-श्रेणीर् इव नाना-देश-वेश-भाषा-रसैर् एणीदृशः पाणौकृत्य पूर्व-पूर्ववद् रागिनीं मद्राधिपतेर् अपि कन्यां सन्यायतया वर्यां भार्या-वर्यां करिष्यसि । न केवला सा, तासाम् अधराः षोडश-सहस्र-परिमाणाश् चापराः ।
[147] तत्र मद्र-कन्यायाः परिणय-न्यायं भद्रम् एवं वर्णयिष्यन्ति-
अत्युच्चैर् बन्ध -वेध्याप्रकट-झष-तनोश् छेदम् आकर्ण्य पण्यं
कन्याया मद्रपातुः क्षितिपति-नियुतासाध्यम् एकस् तु पश्चात् ।
दूराद् आगम्य पश्चाद् अपि च विलुलुवे तां हरिर् यः स पश्चाद्
भूत्वा तान् युक्तम् आर्दद् युधि तद् अपि मताग्रीयता तस्य चित्रा
[148] कन्यानां षोडश-सहस्राण्य् उद्दिश्य च सहस्र-वक्त्रताम् एव देवताः प्राप्स्यन्ति ।
[149] तत्र दिग्-दर्शनम्, यथा-
अथ नरक-निकाय्यं नारकं मेनिरे तास्
तद्-अधिकम् अपि तं तु श्री-हरिर् मन्यते स्म ।
नरक-हरण-नामाप्य् अत्र यत्नातियत्नं
यद् अकृत यद् इहासीद् व्यग्रता-बिद्ध-बुद्धिः
[150] नरक-वध-प्रक्रियां चैवं वर्णयिष्यन्ति ।
भित्त्वा दुर्गाणि कृष्णः ससुत-मुर-युतं भौमम् उन्मुख्य राज्ये
तत्-पुत्रं स्थापयित्वा सुर-नर-दुहितुर् बन्धनाद् उज्जहार ।
देवाम्बा-कुण्डलाद्यो मणि-गिरि-वरुण-च्छत्रम् उद्धृत्य तच् च
प्रत्यर्प्य क्षुद्र-वृष्णः सह मणि-गिरिणाप्य् अग्रहीत् पारिजातम्
[151] तद् एवं तव स्वर्गस्थ-विघ्न-हन्तृतां तत्र च वृत्रघ्नः कृतघ्नताम् अवधाय वयम् एवं मन्यामहे ।
त्वाम् अर्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः ।
त्वां नार्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः
[152] युक्तम् एव तत्-
अजनाशम् असौ नष्टो जीवनाशं ननाश च ।
ऊर्ध्व-शोषं स चाशुष्यत् कृष्ण यस् त्वत्-पराङ्मुखः
[153] कृष्ण उवाच-ततस् ततः ?
[154] ऋषिर् उवाच-तद् एवं तत्र सर्व-स्वास्थ्य-मय-गार्हस्थ्य-चये प्रतिश्वस्तनं स्फुरद्-उपचये सति सुत-सम्पत्तिर् अपि मतिम् अतीत्य प्रत्यहं प्रतोष्यते । किं बहुना, भवद्वद्-वर्ष-षट्कान् अनन्तरम् एव यौवन-प्रपञ्चतस् तेषाम् अपि प्रजाताः प्रजास् तावत्य् एव दिष्टे दृष्ट-यौवना भविष्यन्ति । भवान् पुनर् ईदृशतया परं नव-वयाः स्थास्यति ।
[155] तथा च पौराणी वाणी-नातिदीर्घेण कालेन स कार्ष्णी रूढ-यौवनः [भ्प् 10.55.9] इति । तच् च कृष्णं मत्वा स्त्रियो ह्रीताः [भ्प् 10.55.28]इति च ।
[156] तत्र च कैमुत्यम् इदम् अवधिर-मात्रआणाम् अनवधिकम् अवधान-निधान-पात्रायते । यथा-
तत्र प्रवयसोऽ प्य् आसन् युवानोऽ तिबलौजसः ।
पिबन्तोऽ क्षैर् मुकुन्दस्य मुखाम्भोज-सुधां मुहुः ॥ [भ्प् 10.45.19] इति
[157] एतेन श्रीमद्-व्रजे तु तद्-अतिशयात् स्फुटम् एव तद्-अतिशयः सङ्गमितः ।
[158] कृष्ण उवाच-अहो महात्मन् ! महान् अयम् अत्ययः सम्प्रत्य् अपि दुरत्ययं दुःखम् अर्पयति । यत् तावद् विलम्बं तत्रावलम्बितास्मि । भवतु, प्रकृतं प्रक्रियताम् ।
[159] ऋषिर् उवाच-शम्बरेण जन्मत एव द्युम्नवत् तव गृहाद् अपहृतस्य प्रद्युम्न-नाम्नस् त्वत्-पुत्रस्य सम्पराये सम्बन्धं तद्-धनन-चरित्रं विचित्रतया गास्यन्ति, यथा-
कृष्णेऽ पि धृष्णग्-भवितात्र कः पुमान्
यस् तु स्वयं योद्धुम् अमुं व्रजिष्यति ।
यद् अद्य जातं खलु तस्य जातकं
हृत्वा ततो मृत्युम् अवाप शम्बरः
[160] अथ प्राद्युम्निम् अनु चाम्नास्यन्ति-
ऊषां बाणस्य कन्यां रहसि गतम् अननानिरुद्धं निरुद्धं
युद्धे बुद्धा तम् एतं द्रुतम् अभिगतवान् युध्यतोऽ ग्र्यान् निहत्य ।
ब्रह्माण्ड-ध्वंसद्-अक्ष-ज्वलन-वह-महा-शूल-भृच्-छूलपाणिं
तत्-पक्षं निर्जयंस् तद्-भुज-बलम् अलूनाद् यस् तु तत्रान्यकः कः
[161] कृष्ण उवाच-विस्मयः खल्व् अयम् । यद् विस्मरिष्याम्य् एव व्रज-वार्ताम् ।
[162] ऋषिर् उवाच-न हि न हि । सा हि तवाहिते मनसि राग-मयी जागरूकताम् एव पराम् आगमिष्यति ।
[163] हन्त ! यत् खलु निरन्तरम् अन्तर्गतम्, तत् कथम् अन्तर्गतम् इव जायेत । किन्तु पूर्व-निर्दिष्टं गुर्व्-अनादिष्टता-परं तस्मिन् निर्दिष्टि-विशिष्टिम् आचरिष्यति ।
[164] तदा च कदाचन रामेण सह रहस्य-वार्ता तव वर्तिष्यते । यत्र स्व-गमनम् अनालोच्य रामं शश्वद् अनुशोच्य व्रजस्थानां स्मृतितः प्रच्यवमान-बाष्पस् त्वया च तथानुशोचता प्रोच्यमानस् तव सन्देशं प्रवेशयन् माथुर-व्रज-देश-प्रवेशं गोप-वेशम् आवेश्य प्राप्स्यति । प्राप्य च स यथा कथा-विषयस् तथा समस्य वर्णयिष्यति-
व्रजस्थानां रामः स्व-सहज-वियोगार्चिषि हरेः
पुरा सत्यं जज्ञे पुनर् इह तु जातः सुख-कृती ।
यतस् तेषां ज्वालां स्फुरद् अमृत-वाचा प्रशमयंस्
तदीयां स्फूर्तिं दृग्-विषयम् इव चक्रे स्व-बलतः
[165] किम् अन्यद् वा विन्यसितव्यम् । तेन तथा ते नन्दिता यथा सर्वेऽ पि स्वयं सपर्व-प्रायतया तं प्रार्थयामासुः ।
[166] तद्-उपभोग-तृष्णया चिर-पालित-सुकुमार-कौमार-कुसुमानां सुर-वल्ली-समता-सुषमाणाम् इव लब्ध-चर-तदीय-संश्लेषाणाम् आभीर-कुमारी-विशेषाणाम् अङ्गीकाराय ।
[167] श्रीमान् बलदेवश् च यथावद् एव तथा वलयामास । वलयित्वा च व्रजं प्रति प्रवलितानुजागमन-विश्वासः स्व-प्रेयसीर् इहैव विहाय द्वारकाम् अपि निश्चिन्त इव चलिष्यति । आगत्य च द्वारकां त्वाम् अपि सान्त्वयिष्यति । यथा-कर्तव्यावशेषं विधाय व्रज-श्लेषम् अवाप्स्यति ।
[168] कृष्ण उवाच-कियान् अवशेषस् तावांश् च विशेषः कथ्यताम् ।
[169] ऋषिर् उवाच-क्रमश एव प्रकरमणीयः । तथा हि-व्रजं प्रति चलितवति सकल-गुण-तन्त्रे बलभद्रे पुण्ड्रक-मण्डल-पतिः कृत्रिम-वासुदेवतया चित्रित-रूपस् त्वां स्पर्धया वर्धमान-गर्वं साधु-क्रोध-समुद्बोधनम् एवं सन्देक्ष्यति-
वासुदेवोऽ वतीर्णोऽ हम् एक एव न चापरः ।
भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥[भ्प् 10.66.5] इति ।
[170] प्रतिसन्देक्ष्यन्ति तु तं यदवः, यथा-
पुण्ड्र-केश स भवान् अभूद् धरिः
काशि-राड् न किम् इहाभवच् छिरः ।
मित्रताम् अशिवतां तथासजन्न्
अन्यथा प्रथितवान् स तु त्वयि
वृत्तान्तेनामुना तु त्वद्-वृत्तान्तः सोऽ यम् ईक्षते ।
कृतान्तेनाचिरेण त्वं कृतान्त इव वर्तसे
इति ।
[171] कृष्ण उवाच-ततस् ततः ?
[172] ऋषिर् उवाच-ततस् तद्-वधानन्तरं त्वं तु तं तन्-मित्रं काशीराजम् अपि प्राप्तनाशी-करिष्यसि । तयोः शिवाद्य-पचितिर् अप्य् अपचितिम् एव करिष्यति । ततश् च-
यदा सत्रायिता तत्र काशीश-तनयस् तदा ।
तस्मात् कष्टायमानः सन्न् अष्टिम् उच्चिअर् अटिष्यति
[173] अथ रामस् तु द्विविदं राम-सेनाग्राम् अग्रामण्यं विदन्न् अपि हनिष्यति । यथा च कथयिष्यन्ति-
आश्रित्य रामं द्विविदः स्वेच्छया नरकं श्रितः ।
इति तन्-निष्कृतिं कुर्वन् रामोऽ न्यस् तम् अदण्डयत्
[174] श्री-राम उद्दिश्य च वन्दि-वृन्दानि वन्दिष्यन्ते-
हालालोहित-लोचने हल-भृति व्याकोष-शोणाब्ज-युग्-
गङ्गा-भ्रान्ति-भराकरा मधुकराः कोटिर् गताः कूटताम् ।
किं च क्षौणि-शठा हटाद् अघरिपोस् तेजः प्रसुप्तं यशस्य्
उद्बुद्धं किल वर्धितुं तद् इति ते वार्धिं गतिं सङ्गताः
[175] कृष्ण उवाच-हन्त महर्षे ! बाट-घटित-न्यायेनापि मम व्रज-सम्बन्धिभिः समं समन्वयः किं न भविता ?
[176] ऋषिर् उवाच-भविता । यतस् तद् एव वृत्तं क्रमतः क्रमते स्म ।
[177] तथा हि-यदा रामस् तीर्थ-यात्रां करिष्यति, यस्याश् चान्ते भीष्मादि-शान्तता-प्रान्ते दुर्योधन-वधः सम्पत्स्यते, तस्याः प्राग् यदा कदापि सूर्योपरागः सागरवत् पर्व-गरिमाणम् आगन्ता । यश् चैवं वर्णयिष्यते-
ग्रस्त-सूर्येण तमसा तमसा व्यापि तद् दिनम् ।
उदिते हरि-वक्त्रेन्दौ स्मेराजनि कुमुद्वती
इति ।
तदा तु-
कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् ।
एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः
इति । [भ्प् 10.82.21]
[178] श्री-वसुदेव-वचनात् कंस-वधान् नातिव्यवधान-काले कुरु-भुवि सुविमल-जातीया भारतीयाः प्रजाः प्रायः प्रयास्यन्ति । यत्र युधिष्ठिरोग्रसेनादि-संसक्तानां भवदीय-महिष्ठ-भक्तानां समागमः परमेष्ठि-गोष्ठीम् अपि कनिष्ठां करिष्यति ।
[179] किं बहुना, भवान् अपि तत्र भविता । व्रज-वासि-ततिर् अपि व्रजिता । यतः परिमिलनाय परस्परम् अधिकम् अभिकतां गतानां लक्ष्य-मात्रं त्वद्-आदिकं लक्ष्यते ।
[180] कृष्णः सास्रम् उवाच-ततस् ततः ?
[181] ऋषिर् उवाच-ततश् च-
यथार्क-तप्तो जल-बिन्दुर् इन्दुना
निदाघ-दग्धं विपिन्ं पयोमुचा ।
विषार्दितं वार्भवता विलोक्यते
सङ्गात् तथा त्वद्-विरही त्वया व्रजः
[182] कृष्णः स-गद्गदम् उवाच-ततस् ततः ?
[183] ऋषिर् उवाच-ततश् च-
माता तातः पितृ-सहचरा भ्रातरो बन्धु-वर्गा
दासा हृद्यास् तव निज-जनाः केचिद् अन्ये च तत्र ।
प्राप्स्यन्ति त्वां भवति च भविष्यन्ति तेऽ नन्य-चित्तास्
तेष्व् आवेशाद् बहुषु भविता नैक-चेता भवांस् तु
ततश् च-
त्वं व्रजेति निज-प्रेम गोपयन्न् इव वत्स्यसि ।
व्रजस् तु स्व-गुणैस् तत्र सर्व-प्रेयान् भविष्यति
तत्र च-
यदा यदा द्रक्ष्यति तां भवांस् तदा
पूर्णं समूर्णो लविता दृशोर् जलम् ।
भवन्तम् अप्य् एवम् अमी यथामुना
कण्ठान्तम् अन्तर् हृदयं निरोत्स्यते
[184] तद् एवं वैशाखम् आरभ्य वर्षा यावद् अतिहर्षात् त्वां निर्णिमेषम् एव निर्वर्णयन्तस् ते व्रज-वासिनः संवत्स्यन्ति । तद्-अन्ते सद्-अनूकटया लब्ध-मूक-स्थितिषु श्रीमन्-नन्दादिषु तेषाम् आनकदुन्दुभि-प्रभृतीनां परम-स्निग्धान्तः-करणतां विलोच्य जात-पुत्र-पौत्रावलोकनेन क्षिति-विपक्ष-पक्ष-प्रायतावकलनेन च स्वस्मिन्न् अविश्वस्ति-स्रस्तितः समाश्वस्तिम् अपि विलोक्य सर्व-श्लोक्य-चरितः सहायीकृत-बलरामोद्धव-रोहिणीकतया तैः सह निज-वृन्दावन-व्रज-दर्शनम् एकान्ते मन्त्रणा-पूर्वकं विचिन्त्य निश्चिन्त्य च श्रीमन्-नन्दादीन् स-सान्त्वं माथुरान् एव प्रस्थापयिष्यसि ।
[185] इदम् एव बादरायणिर् अप्य् आह ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः [भ्प् 10.84.67] इत्य् आदिना कृष्णे कमल-पत्राक्षे संन्यस्ताखिल-राधसः [भ्प् 10.65.6] इति पूर्वोक्तेस् त्वद्-आगमन-तात्पर्या एव तेषां कामा इति । प्रस्थापन-समयतस् तेषां विशेषावस्था-वर्णनं तु तत् तद् अस्माकं बुद्धिम् आस्तृणोतीत्य् अलम् अतिविस्तरेण ।
[186] कृष्ण उवाच-अस्मद्-अवस्थां तु वर्णय ।
[187] ऋषिर् उवाच-कुरु-स्थलात् कुशस्थलम् आगत्य स्थितः स भवान् पाण्डव-राजेन राजसूय-मन्त्रणायास्मद्-द्वारा निमन्त्रितं सन्न् इन्द्रप्रस्थं प्रस्थास्यते ।
[188] ततश् च सत्वरं गत्वा भीअ-प्रभृतये दिक्-सीम-विजय-यशांसि दत्त्वा भीम-द्वारा जरासन्धं हत्वा तत्-कृत-बन्धानि नृप-वृन्दानि मोचयित्वा विजितेन राज-व्रजेन युधिष्ठिरं रोचयित्वा राजसूयेन याजयिष्यसि । तत्र जरासन्ध-घातनं, यथा-
बन्धं बन्धं यम् अनु मुमुचे तं जरासन्धम् एनं
हन्याम् अद्धा स्वयम् अथ यदि श्रव्यम् एतन् न तर्हि ।
इत्थं कृष्ण त्वम् इह कलयन् भीमसेनेन युद्धाद्
धर्याद् दैत्य-प्रकृतिम् अमुकं घातयिष्यस्य् अस्य् उपेत्य
[189] मिलद्-अर्तन-गिरि-गर्त-वर्तमान-नृपाणां कृपया मोचनम्, यथा-
कारागारान्ध-तामिस्र-बन्धाद् अन्धायितान् नृपान् ।
स्वरूप-दृष्टिभिः सृष्ट-दृष्टीन् परिकरिष्यति
[190] राजसूयम्, यथा-
निर्जित्य क्षितिपति-मण्डलानि पाण्डोः
पुत्रैस् तान्य् अनुगमितानि सङ्घटय्य ।
चेदीशं सदसि निहत्य तद्-विरुद्धं
तेषां तद्-विरचयितासि राजसूयम्
यज्ञे तस्मिन् नृलोको नृपति-तद्-अधिपा विप्र-विप्रर्षि-वर्याः
स्वर्गस्थाः स्वर्ग-पालास् त्रिदश-मुनिवराः किं च वेधाः शिवाश् च ।
दृष्ट्या श्रुत्यापि तत् तद् बहुविध-भगवद्-रूप-वृन्दस्य विज्ञाः
पश्यन्तो रूपम् एतत् तव किम् अपि मुहुर् विस्मरिष्यन्ति सर्वम्
[191] तद् एवं राजसूयं सन्तान्य कुन्त्याः सन्तानान् सम्मान्य यदा द्वारकायां गन्तासि, तदा साधूनां शल्यं शाल्वं लोहमय-व्योम-चारि-पूर्या पराग् एव ताम् आवार्य दृष्ट्वा पूर्यमाण-पाञ्चजन्यः सन्नाति-प्रयत्नतस् तं देव-सपत्नं हनिष्यसि ।
ततश् च-
क्रुध्यन् क्रुध्यत्-सौभ-पुरं व्योमाध्व द्वारकारुधम् ।
ध्वंसयिष्यसि तद् यद्वत् त्रिपुरं त्रिपुरान्तकृत्
[192] अत्र च गायन्ति-
ऊडुम्बरे कृमिस् तावन् निजाडम्बर-गर्वितः ।
यावन् न दन्ति-दन्तानाम् अन्तः पतति तत्-फलम्
[193] कृष्ण उवाच-अद्यापि कति-विलम्बा व्रज-भू-गतिः ?
[194] ऋषिर् उवाच-आयताव् एवायाता श्रूयताम् ।
[195] तद् एतत् प्रोच्य महर्षिणा मनसि प्रोच्यते स्म-एषा च कलिलोकैर् विरलैर् एवावकलयिष्यते । अस्या हि बहिर्मुखान् प्रतवगुण्ठयितुम् अन्तर्मुखांस् तूत्कण्ठयितुं महर्षिभिः परोक्ष-प्रायी-कृतायाः खल्व् अस्मद्-आदि-संवादमय्याः श्री-भागवत-भारत-पाद्मादीनाम् एक-वाक्यता-करणत एव शक्या प्रतीतिर् इति । तद् इदं च किञ्चन मद्-उपदेश-निदिग्धं मधुकण्ठ-स्निग्धकण्ठाभ्यां प्राप्त-कृष्णोपकण्ठाभ्यां क्षीर-कण्ठाभ्याम् अपि स्व-कण्ठाद् एव चम्पू-द्वयम् अपूर्व-रचनया सम्पूर्णं कुर्वद्भ्याम् उत्तर-चम्पूत्तर-भागम् अञ्चद्भ्यां तत्-तच्-छास्त्र-मत-विस्तारणया प्रस्तोष्यते, तद् एव समस्य विचार्यते ।
[196] यदा शाल्व-युद्धम् उद्बुद्धम्, तदा पाण्डवानां दुरोदर-दण्ड इति वन-पर्व-कथा । शाल्वस्य तु प्राणान् दण्डयित्वा मधु-पुर-द्वारि वक्रता-चण्डं सविदूरथ-दन्तवक्रः खण्ड-खण्डशः खण्डितश् च, तेनानेन भवितेति पाद्मोत्तर-खण्ड-प्रथा । तद्-अनन्तरं च पुनर् व्रजागमनम् अस्य महादेव-देव्याः संवाद-रहस्य-मये तत्रैव स्पष्टं निष्टङ्क्यते । यत् खलु सत्य-सङ्कल्पतयानल्प-समज्ञा-विज्ञातानां आयास्ये इति द्योतकैः [भ्प् 10.41.17], आगमिष्यत्य् अतिदीर्घेण [भ्प् 10.46.34] इत्य् आदि-बहुतराद् भगवद्-भागवतानां प्रतिज्ञानुसारात् श्रीमद्-भागवतेनाप्य् उद्भावितम् । न केवलं प्रतिज्ञा-मात्रं तत्र प्रतीति-पात्रीकृतम्, किन्तु तद्-आगतिर् अप्य् अधिगतीकृतम् ।
[197] तथा हि प्रथमे द्वारका-प्रजा-वचने-यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया [भ्प् 1.11.9] इति प्रत्यक्षं लक्ष्यते । न च तत् तु कालान्तर-गतम् । कुरुक्षेत्र-यात्रायां हि स्फुटम् अस्य वचनं तस्य तत्-कालताम् एव रचयति । तथा हि-
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु-पक्ष-क्षपण-चेतसः ॥[भ्प् 10.82.41] इति ।
[198] विदूरथान्तशत्रुवधम् एवाववधिम् अत्र करोति नान्यद् इति । तद् एवं स्थिते तद्-अनन्तरं च लब्धान्तरतया तेनानेन तेषां प्रकृति-जागोचर-प्रकृति-स्वपदाविर्भावनं च तत्र पाद्म एवोद्भावैतम् । तद् अपि ब्रह्म-ह्रद-मज्जन-तद्-उन्मज्जनाद् अनन्तरं तद्-दर्शितवत एतस्य चैतदीयानां चाभिप्रायेण श्रीमद्-भागवतेनाभिप्रेतम् । अपि नः स्वगतिं सूक्ष्माम् [भ्प् 10.28.12] इति, न वेद स्वां गतिं भ्रमन् [भ्प् 10.28.14] इति, गोपानां स्वं लोकं [भ्प् 10.28.15] इति, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भ्प् 10.28.18] इत्य् अनेन । अतएव स्कान्दे-
वत्सैर् वत्सतरीभिश् च सरामो बालकैर् वृतः ।
वृन्दावनान्तरगतः सदा क्रीडति माधवः ॥
सदा स्थिति-प्रयोगश् चात्र वैकुण्ठ-नाथस्य ध्रुव-गजेन्द्राद्य्-अर्थम् अन्यत्र गमनेन वैकुण्ठ इव श्री-व्रजेन्द्र-नन्दनस्य मथुरादि-गमनेन सदा वृन्दावन-रमणम् अपि न बाध्यते ।
[199] अत्रेदं विचारयामः-
जननी-वेश-सम्बन्धाभासात् पूतनिकापि सा ।
जनई-गतिम् अव्राजीद् इति कैमुत्य-योगतः
उपकृष्णं कृष्ण-घोषः सुगो-गोपं तद् आप्स्यति ।
अतिदुःखं दुष्प्रतीपं तद् गोलोकं स-शर्म च
किं च-
साङ्गं यावद् वैभवं च व्रजः कृष्णं व्रजिष्यति ।
स-कृष्णम् अनुकृष्णं यो धास्यते च स-रामकम्
सद्वादश-स्कन्धम् एवं श्री-भागवतम् ईक्षते ।
यथा-शक्ति-बुधोऽ न्यस्य शक्ति-प्रति न विद्यते
[200] तद् एवं विमृष्य तु श्री-देवर्षिः स्पष्टम् आचष्ट- [201] यदा त्वं राजसूयतः सुखं सम्भूय स्वालय-चलनारम्भं सम्भावयिष्यसि, तदा वक्रभाव-चक्रतः शक्रम् अपि जिगीषुर् दन्तवक्रस् त्वां केवलं सर्व-चङ्क्रमण-चक्रवलं वितर्कयन् बलेन बलेन च विनाभूतेन त्वया केवलेन गदायुद्धम् अध्वन्य् अनिविच्छन् मधुपुरीम् आगन्तुम् उरीकरिष्यति । ताम् आगत्य च गत्यन्तरं चिन्तयन् मन्-मुखतस् तव द्वारका-संमुख-प्रस्थानं शाल्व-संस्थापनं चास्थाय सद्यस् त्वां प्रत्य् एव दुःस्थात्मतया प्रस्थास्यते ।
[202] तदैव च मनो-जुति-विभूति-मयेन मया कथनया निज-व्रज-गमनाय तद् एवास्पदम् आस्पदं कुर्वल्-लब्ध-मनोरथस् तादृश-दिव्य-रथश् च त्वं तत्-क्षणम् एव मथुरा-पुर-द्वारि प्राप्त-गति-प्रथस् तं गदावन्तं निष्क्रामन्तं द्रक्ष्यसि, स्रक्ष्यसि च त्वां प्रति क्रामन्तं तं प्रति गदां स्रक्ष्यन्ते च, प्रत्यस्त्राणीव त्वद्-आभिमुख्येन करूष-मुख्येन तेन चैद्येनैव सात्म-ज्योतिष्का निष्कास्य प्राणाः ।
[203] तत्र च श्लोकः खल्व् अयम्-
भीमस्याहं तुल्य-संविद्-गदाया
द्वन्द्वाघाते माधवं मागधाभम् ।
जित्वा राज्यं माथुरं साधयिष्याम्य्
एवं नङ्क्षत्य् एष को दन्तवक्रः
ततश् च-
दन्तवक्र-चिता-वह्नि-प्राये क्रोधे तव स्वयम् ।
विदूरथश् च भविता दूरतः क्रूर-कीटवत्
[204] तद् एवं दन्तवक्रं विदूरथम् अपि विदूरतस् तदा गदा-चक्र-घातं घातयित्वा स्व-वचन-सत्यङ्कारः स्वजन-हृद्-रुजाम् अगदङ्कारः स्वीय-मुखानाम् अस्तुङ्कारः श्रीमद्-व्रज-विराजमान-राज-कुमारः स्वक-व्रज-कुलम् एव भवान् मथुरा-भवान् अनुयोक्ष्यते । तत् तु सर्वं प्रगाढ-भावम् अवगाढं कुरुक्षेत्राद् आगतेर् अर्वाग्-भवद्-आगमन-मर्यादाभ्यन्तरीण-कालं कालम् इव चालयितुं पुनर् अपि सुदिनायमानतां प्रतिपालयितुं सम्प्रति यमुना-पारीणं जातम् इत्य् अवकलय्यानुकामीनेन निज-दिव्य-विमानेन समुत्तीर्य दिविषद्भिः कुसुमैर् अवकीर्यमाणः सहसा तद्-वासं चासत् तु मुद् योक्ष्यते ।
[205] उत्तीर्णे च त्वयि सर्वतः कीर्णेन निनिताशेषेण रथ-घर्घरित-विशेषेण त्वद्-आगमनम् एव मन्वानास् त्वत्-परिमल-वलनेन तु निश्चिन्वानाः सर्व-विधा एव त्वद्-एकाध्वानतः प्रधावनम् एव तन्वानाः श्रीमन्-नन्दाद्य्-अभिधानाः सन्निधानं विनापि शिखण्डि-मण्डलवद् अमी मार्तण्ड-मण्डल-स्थ-मेघ-खण्डम् इव दिव्य-रथारूढं त्वाम् अगूढं निशाम्य सम्य-गूढ-प्रमद-बहल-कोलाहलं कलयिष्यन्ति ।
[206] कलयन्तश् च स्तम्भ-स्वेद-रोमोद्भेद-स्वर-भेद-रोदन-विभेद-प्रलय-मयतया स्पन्दनम् अप्य् अविन्दमानाः स्यन्दनाद् दूरतस् तद्-अवस्था एव स्थास्यन्ति ।
[207] त्वं पुनः सहसा रथाद् अवतीर्य तेषां पथा यथा-वीर्यं धावन् सकल-गीर्वाण-विकीर्यमाण-कुसुमादि-वादित्रादि-कृतमानः सर्वथाप्य् असम्भावित-समानः परम् आसक्त्या सर्वान् अपि तान् अनर्वाचीन-शक्त्या च पृथक् पृथग् एव च युगपद् एव च सङ्गच्छन् समालिङ्गंस् तत् तद् अङ्ग-सङ्गतं स्वाङ्गम् अपिइ न ततो भिन्नम् अङ्गीकरिष्यसि ।
[208] ते च तथा शोकापनुदं दत्त-मुदं त्वां लभमानाः सर्वे जन्यवस् त्वद्-अनन्यं-मन्या भविष्यति । [209] तथा च गास्यते-
यदा यातः कृष्णः पुनर् अपि यदूनां नगरतस्
तदा गोपाः सोऽ पि प्रति-निजम् अधुर् मोद-निवहम् ।
व्यतिश्लिष्टा यर्हि प्रतिजनम् इदं नाजनि मनाग्
अयं कृष्णः कृष्णः किम् अहम् इति तर्हि स्फुटतरम्
यतः-
यद्वत् कल्यन्तिमानां सुकृत-विरहिणां सत्य-धर्मावतारः
पृथ्वी-स्थानां महावग्रह-हत-वपुषां वर्षुकाब्द-प्रचारः ।
आकूपार-ह्रदानां मुनि-हृत-पयसां नव्य-गङ्गा-प्रसारस्
तद्वद् गोष्ठ-स्थितानां तव विरह-रुजां हन्त ते सङ्ग-सारः
[210] अथ चिराय प्रतिमावत् लब्ध-त्वत्-परिष्वक्तिषु व्रज-जन-व्यक्तिषु पूर्वम् अव्यक्तीभावम् आपन्ना मधुमङ्गल-पूर्णाभ्यर्णा पौर्णमासी स-वृन्दा वृन्दा च समम् अप्रच्छन्नतां गच्छन्ती तु सुख-संमूर्च्छनान् मूर्च्छाम् इव गताभ्यस् ताभ्यः साभ्यसूयम् इव क्रमाद् बहिर् वृत्तिं यच्छन्ती तद्-वनिकायां तन्-निकायम् उपवेशयिष्यति ।
[211] तथा च कथयिष्यन्ति-
कृष्णं मध्य-गतं विधाय पितरौ तद्-भ्रातरः स्त्री-गणास्
तन्-मित्राणि कुटुम्ब-संवलनया चान्ये चिरात् प्राप्तितः ।
मुञ्चन्तः स्फुटम् अश्रु तस्य सुखदं चारूप-चारं चिरं
विस्मृत्य स्थगित-क्रियाः समभवन् मूकाश् च वैस्वर्यतः
[212] त्वं तु तत्र स्त्री-कुमारं पुत्र-पौत्रं कुब्ज-वामनं दासी-दासम् अपि सर्वं यथायथं तोषयिष्यसि । [213] दारुकस् तु दारुवद् एव दूरस्थितस् तत्-प्रेम-वश्यतया कौतुकम् इव द्रक्ष्यति ।
[214] ततश् च तत्रासीना पौर्णमासी कुपितेवालपिष्यति-अहह किम् इदम् अविदन्त इव कुर्वन्तः स्थ ? पथि परिश्रान्तम् इमं कथम् इव न विश्रान्तं कुरुथ ।
[215] तद् एवं जात-चमत्काराभ्यां तत्-परिश्रम-कातराभ्यां मात्गर-पितराभ्याम् उभयतः स्व-स्व-भजनाकृतालिङ्गनमय-प्रणय-चेष्टितः सर्वैर् एव च परितो वेष्टितः स्व-गोष्ठ-प्रकोष्ठ-मध्यग-शकट-घटा-घटित-वाटम् अवाप्स्यसि ।
[216] ततश् च ते सर्वे भवत्-परिचर्या-मय-परिसर्याकृतः सम्भरमम् एवाचरिष्यन्ति, न तु कार्य-क्रमम् । तथा हि-
मिस्सिन्ग्!
यर्ह्य् आगन्तास्य् अघहर चिराद् द्वारकातस् तदा ते
सर्वेऽ प्य् एते व्रज-जनि-जना श्रेष्ठ-मध्यस्थ-निघ्नाः ।
धावन्तोऽ पि प्रतिदिशम् अहो तत्-तद्-एकैक-कार्यं
कुर्वन्तोऽ पि स्थगित-कृतिताम् एव यास्यन्ति हन्त
यद्यपि गोपाः सम्यक् परिचरितुं त्वां न तर्हि शक्ष्यन्ति ।
तद् अपि न तत्-प्रमदामृत-भोगास् त्वामी सदैव पोक्ष्यन्ति
[217] तद् आरभ्य च-
किं भोक्तव्यं क्वासितव्यं स्वपनीयं क्व वामुना ।
इति मात्रादि-धी-यात्रा नात्रायास्यति तृप्तताम् ॥98॥
सखायन्ते सुखाधीना विस्मरिष्यन्ति सर्वकम् ।
स्मरिष्यन्ति तु तां त्वत्-कां पुनः संश्लेष-नव्यताम्
दासाश् च तव दाशार्ह पुनर् आशां स्व-मूर्तिषु ।
धास्यन्ति सेवा-सुधया विधास्यन्ति यद् आप्लवम्
गावः प्राग्वद् भवत्-स्फूर्ति-प्रभाव-स्थित-तद्-दशाः ।
तद्वद् एव सदैवामूर् धास्यन्ति प्रमदं त्वयि
शिशवः पशवश् चैव वयांसि च पयांसि च ।
येऽ न्ये हृद्या जना हृद्यास् तव तेषां तु का कथा
[218] कूर्मस्येव स्मरणानुभावेन तव तेन त्वदीयाः पूर्ववद् एव हि ते स्थातारः । तथैव व्रजाद् बलदेवः कुशस्थलीम् आसाद्य त्वयि निवेदयिष्यति । यथा श्री-हरि-वंशे-
तथैवाध्वग-वेशेन सोपश्लिष्टे जनार्दनम् ।
प्रत्यग्र-वन-मालेन वक्षसाभिविराजता ॥
उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥
प्रत्युवाच तदा रामो भ्रातरं साधु-भाषितम् ।
सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि ॥[ह्व् 83.53,55-6] इति ।
[219] तद् एवं स्थितेऽ पि तदा तव सदा व्रजावस्थिति-प्रतीतिस् तु तेषां नातिजनिष्यते । स्यन्दनं तद् अत्र तद्-अवस्थम् एव स्थापितम् अस्तीत्य् अनास्था-भावनया ।
[220] किं च, तव सवयसः प्रवयसः प्रतीदं प्रतीपम् आवेदयिष्यन्ति । प्रिय-वयस्यस्य नातिअसौमनस्यं मनस्य् अभ्यस्यते । यतो जनितानुराग-जनतासु तासु प्राग् इव नानुरागं जागरम् आगमयति । ताश् च तथा दृष्ट्वा लगित-दुःख-स्थगिततया शुष्का इव तिष्ठन्ति ।
[221] तद् एतद् आकर्णयन्तः प्राप्त-कदनान्तरतया विवर्णवदनान्ते त्वन्-मातर-पितरादयः कातरताम् अवाप्स्यन्ति ।
[222] त्वं तु जन्तु-मात्र-चित्त-ज्ञस् तद् विज्ञाय स्वयम् एव तान् विज्ञापयिष्यसि-कथं भवन्तो नाद्याप्य् आनन्दाद् उद्भवन्तो दृश्यन्ते । [223] सर्वे तु सगद्गदं गदिष्यन्ति-अस्माकम् आनन्द-कारणं त्वद्-अवधारण-पदवीं विन्दत एव ।
[224] अथ त्वं वक्ष्यसि-बाढं किन्तु येन भवद्भिः सन्दिह्यते, सोऽ यं शताङ्गः साङ्ग-भवत्-कार्य-सङ्गमनाय सङ्गे रक्षिततया लक्ष्यते । यथा वान्यथा ज्ञापयथ, तथा प्रथयिष्यामि । एतद् एव प्राग् एव निवेदितं मया-
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥[भ्प् 10.45.23] इति ।
[225] ज्ञातीन् इति युष्मन्-मध्यत एवासौ वासः सम्भविष्यति, द्रष्टुम् इति तत्र च युष्मद्-दर्शनम् एवास्माकं पुरुषार्थ इत्य् अर्थः । यद् वा द्रष्टुम् इति दर्शन-विषयी-भवितुम् इत्य् अर्थः । अथापि भूमन् महिमा गुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तरात्मभिः [भ्प् 10.14.6] इत्य् अत्र बोध-विषयी-भवितुम् इतिवद् एतद् उद्धवेन च भवत्सु समुद्बुद्धं चक्रे-
आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥[भ्प् 10.46.34-5] इति ।
[226] सात्वतां पतिर् अपि पूर्ण-षडैश्वर्य-सम्पत्तिर् अपि पित्रोर् युवयोर् व्रजेशित्रोः परम-सुख-श्रियं सदा स्वलालना-रूपं प्रियं विधास्यते । तत्राप्य् अच्युत एवावस्थास्यते, यतस् तत् ततो हेतोर् अद्यापि सत्यं शपथं करोति, कुर्वन्न् एव वर्तत इत्य् अर्थः । तद् अनेनैव नयेन भवतां प्रणयर्णं विनयेय, न तु मनाग् अपि गमनागस्त्वेन । तथा हि-
पित्रादि-प्रतिरूप-रूप-वसुदेवादि-प्रतीघातजाद्-
दुःखात् कंस-विनाशनार्थम् अगमं शीघ्रां निवृत्तिं विदन् ।
तत्रासीत् सुहृदां मनोरथ-ततिर् युद्धायतिर् दुर्हृदां
चैवं तद्-व्यसनं समाप्य यदि च प्रागां क्व वा याम्य् अहम्
इति ।
[227] ततः श्री-व्रजेश्वरानुमत्या प्रत्यासन्नाः सर्वेऽ पि प्रार्थयिष्यन्ते । एवं चेद् इह च तव द्वारका-वद् एव बहल-गृह-बृंहणाय स्पृहयामः । अन्यथा-करणं तु यद् अस्माकम् अधन्यतां वहतीति ।
[228] तद् एतद् आकर्ण्य भूमिं निर्वर्ण्य त्वं तु तस्मिन्न् असन्तुष्ट इव चेतसि चिन्तयितासि-गृह-शब्दः खल्व् एभिर् गृहिणी-पर्यायतया पर्यवसायितः । तत्र च हन्त मम स्वान्तं कीदृशं वामी विधास्यन्तीति ।
[229] अथ पुनर् विभावयितासि-भवतु, पूर्ण-ज्ञान-तूर्ण-विधाना च पौर्णमास्य् अत्र सर्वं शर्म निर्मास्यति, न त्व् अन्यथाकर्मतां धास्यतीति । वक्तव्यं तु वक्ष्यसि । तर्हि रोहिणी-माता रौहिणेय-भ्राता च द्वारकागाराद् आकारणीयौ । ताव् एव सर्वम् अर्वाग्-भाव्यं निवेदयिष्यतः ।
[230] अथ पुनर् दारुक-सारथिं प्रति प्रथयिष्यसि-भो सारथे ! सरथः प्रथमानयात्यन्तीनतया भवान् यदु-भवनम् आसाद्य सद्यः श्रीमद्-भ्रातरं तन्-मातरं च प्रापयेति । पुनर् विचार्य वक्ष्यसि-हन्त ! तम् उद्धवम् अप्य् आनयेति ।
[231] ततस् तद्-वन्दनारुके दारुके पवनम् अनुहरमाणेन यानेन मुहूर्त-मात्रार्धतैस् तैः सार्धम् आगते तस्मिन् विस्मित-मनसः श्रीमन्-नन्दादयः परमानन्दाशयतया सहसा भवद्-आगमनवद् एव सहसा महसा तोद्यमानातोद्य-व्रजं तन्-निजालयम् आनेष्यन्ति ।
[232] गतेषु च दिनेषु त्रि-चतुरेषु रामादयस् ते व्रजस्थाभिर् उचितम् एव तुभ्यं रोचयिष्यन्ति-
येषां प्रेम-गुणैर् यस् त्वं बद्धः सुष्ठुतया हरिः ।
तस्य तैर् विनिरुद्धा ये कुर्युस् ते कथम् अन्यथा
[233] सर्वे च मिलित्वा निर्णेष्यन्ति मान्याः कन्या-विचारम् । कात्यायन्याराधिकास् ताः कन्या धन्यादयः सन्यायताम् अर्हन्तीति ।
[234] रामोद्धवौ तु परम-निष्णातौ कृष्णवज् ज्ञात्वा तूष्णीम् एवावस्थास्यतः ।
[235] ततस् तद्-अर्थम् आरम्भे लब्ध-सम्भेदे व्रज-पति-जम्पती पूर्ण-मनो-गती पूर्णिमाभ्यर्णम् आसाद्य सद्यस् तस्यां वरिवस्या-पूर्वकं सर्वं निवेदयिष्यतः ।
[236] सापि वक्ष्यति-तद् अपि भद्रम् एव, किन्तु वर्याः परम-वर्या राधादयः कथं वा न स्वीकार्याः ?
[237] तौ तु स-वैलक्ष्यं वक्ष्यतः-काः खलु राधिकाद्य्-अभिधाः ?
सा वक्ष्यति-धन्यानां वृषभान्व्-आदीनां कन्या एव ।
पुनस् तौ वक्ष्यतः-सुध्य्-आदि-गुरो ! न बुध्यामहे । निःशोध्यं तु बोध्यताम् ।
सा तु स-हासं वक्ष्यति-यथा कात्यायन्य्-आराधिकानां कन्यात्वम् एवम् अन्यासां राधिकादिकानाम् अपि ।
तौ पुनर् उत्फुल्ल-नयनं वक्ष्यतः-विस्पष्टं कथ्यताम् । यदि विषय-मयेऽ प्य् अस्मादृशि कृपा-विषयताचर्यते ।
सा वक्ष्यति-भवन्तः खल्व् इदं नानुभवन्त इव सन्ति । यत् पुनर् अद्यापि कन्या एव ता धन्याः । माया-कल्पित-च्छाया-प्राया एवान्यत्र परिणायिताः । तच् च स्वप्नवद् एव । यस्मान् मर्यादालङ्घन-पर्यायतया ता एव च शय्यादौ पर्यवसायन्ते इति । किं तद् इदं किञ्चन भवन्ताव् अनु स-वेदनं निवेदयामि । तास् तद् एकानुरक्ता मादृश-सान्त्वनया परम् अद्यावधि धैर्य-सम्पृक्ताः । सम्प्रति तु त्यक्त-मात्रातिरिक्त-प्राण-गात्रा भविष्यन्ति । तासां तद् इदं न केवलम् अहम् एव विदत्य् अस्मि, किन्तु सर्वापि व्रज-जनता । तच् च पूर्वम् अपि किञ्चित् किञ्चिद् विशेष्तस् तु कृष्ण-कृत-वृष्णि-स्थान-प्रस्थान-गत-तद्-अनवस्थावस्थायाम् । यत इदं मुनयोऽ पि वर्णयिष्यन्ति ।
[238] तत्र पूर्वं यथा-कुज-गतिं गमिता न विदामः; कश्मलेन कवरं वसनं वा [भ्प् 10.35.17] इत्य् आदिना । उत्तरं तु, निवारयामः समुपेत्य माधवं; किं नो æकरिष्यन् कुल-वृद्ध-बान्धवाः [भ्प् 10.39.28] इत्य् उक्त्वा, विसृज्य लज्जां रुरुदुः स्म सु-स्वरं; गोविन्द दामोदर माधवेति [भ्प् 10.39.31] इत्य् आदिना, कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः [भ्प् 10.47.9] इत्य् आदिना, गत-ह्रियः [भ्प् 10.47.10] इत्य् आदिना,
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि ।
यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥[भ्प् 10.65.11] इत्य् आदिना,
या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा इत्य् आदिना च ।
[239] अत्र पतीन् पुत्रान् इति यद् उक्तं, तत् खलु गौणीम् एव वृत्तिम् अनुक्रम्य, न तु मुख्याम् इति भवत्-प्रश्नानुक्रमेण प्रख्यासामि । तत्र यद्य् अन्यथा मन्यध्वे, तर्य् एवम् आचक्ष्महे-नरकादानीत-गुरु-कुमारतया जित-धर्मराज-धामा राजद्-अघजिन्-नामा सोऽ यम् एतद् अनुरक्त-जनोऽ प्य् अधर्मस्य कलयापि स्प्रष्टुं द्रष्टुं च न शक्यत एव । किन्तु लज्जा-मात्रं तस्य तस्य च मर्यादा-पर्यापकम् इति वस्तुतस् तु न केवलं रागत एव तास् तादृशीं गति-मार्गताः किन्त्व् अनादि-सिद्ध-स्वभावतया तद्-वधू-भावतश् चेति मन्त्र-द्रष्टारोऽ पि निष्टङ्कयन्ति । तद् एतद् बलरामोद्धवौ च सुष्ठु जानीत इति ताव् अपि प्रष्टव्यौ, अन्यथा तासु तत्-सन्देश-हरता तयोर् न देश-रूपताम् आसीदेत् ।
[240] पुनस् तौ वक्ष्यतः-वत्सः किम् इदम् अनुसन्दधाति ?
सा वक्ष्यति-स च पूर्वं किञ्चिद् अनुसंहितवान् आसीत् । उत्तरं तु सम्यग् विदन्न् एवास्ते । किन्तु सम्प्रति लज्जया नावधानं सज्जयति ।
तौ वक्ष्यतः-तासां तद्-अर्थ-प्राण-जिहासां किम् असौ जानाति?
सा वक्ष्यति-उक्तम् एव सम्यग् विदन्न् आस्त इति ।
[241] यतः पूर्वम् अप्य् उद्धवे तथा समुद्बुद्धं कृतवान्, यथा च तद्-वचनं सत्य-वचसश् च गास्यन्ति-
गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह ।
गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥
ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ।
माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ।
ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् ॥
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्यो æङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥[भ्प् 10.46.3-6]
[242] अत्र मत्-सन्देशैः इति मय्य् आवेश्य मनः कृष्णे विमुक्ताशेष-वृत्ति यत् अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ [भ्प् 10.47.36] इति पर्यवसानैर् इत्य् अर्थः । माम् एव दयितम् इति, मे वल्लव्यः इत्य् अत्र तु विशेषोऽ प्य् अस्ति, तस्मात् तद् एक-व्रत-जीवन-व्रतानां तद्-भार्याणां नान्या गतिर् न्याय्या ।
[243] कृष्ण उवाच-ततस् ततः?
[244] ऋषिर् उवाच-ततस् तौ भावयिष्यतः । सत्यम् अस्माकं प्रकटतरेऽ पि लोक-धर्म-घटनानर्ह-प्रतिकारेऽ पि तासां विघटन-दुःखे यद् अद्यापि स्नुषाकरण-स्पृहा नापयाति, प्रत्युत सातत्यत एव तासु स्नुषाभानं विभाति । धर्मान्यथा-भावे लक्ष्यते । यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म ।
[245] अथ तौ स्पष्टं वक्ष्यतः-रहस्यम् इदं लोकाः कथं मंस्यन्ते ।
सा वक्ष्यति-मायायाः स्वभाव-व्यापितिर् इयम् अव्यभिचारितया लक्ष्यते, यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म ।
[246] यतः सर्वेषाम् अपि सत्-सङ्कल्पानाम् उपरि प्रभवतोर् भवतोर् निगूढा या तद्-अर्थम् उत्कण्ठा, सा ह्य् अधुना परां कोटिम् आरूढा झटिति रूढ-कार्या भवेद् एव । तौ वक्ष्यतः-स्वीयाम् अनन्य-सम्बन्धितां ताः कथं विदन्ति ।
[247] सा वक्ष्यति-पूर्वं स वो हि स्वामी भवति इति दुर्वाससो वचनेनापि सम्यङ् नाविदुः किन्तु पश्चाद् विदुः ।
[248] तौ वक्ष्यतः-कथम् इव?
[249] सा वक्ष्यति- उद्धवेन श्री-कृष्णाभिप्रायम् अनुव्यक्तीकरणात् । अतएवोक्तम्-अपि बत मधु-पुर्याम् आर्य-पुत्रो æधुनास्ते [भ्प् 10.47.21] इति ।
[250] तौ वक्ष्यतः-तासां श्वशुरं-मन्यादीनां येऽ नुगतास् ते प्रायेणानुतापं प्राप्स्यन्ति ।
[251] अथ सा तु पुरुषम् इव वक्ष्यति-तत् किम् आसां परम-साध्वीनां माध्वीकवन् मधुर-स्निग्धतावलितानां दुष्कर-तरण-दुःख-भास्कर-पुष्कलताप-शुष्कता सोढव्या । तथा सर्व-धुरीणता-प्रवीणस्य निज-कुल-धुरन्धरस्य गोवर्धन-धरस्य दुर्धर-लज्जा-भार-सज्जनम् अनुमोदनीयम् । वस्तुतस् तु तेषाम् अपि न सुख-भङ्ग-प्रसङ्गः यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भ्प् 10.14.35] इति श्री-शुक-वचनाद् अपि । तथा च न वचन-मर्माभिर् आचरणीयम्, यथा सर्व-सुख-सचनम् एव स्यात् ।
[252] तद् एतन् निरूप्य सा पुनः सहासं वक्ष्यति-साम्प्रतं प्रततं कुतुकान्तरं भवद्व्यां किल नावकलितम् । यत् खलु युष्मन्-नन्दन आनन्द-द्यूते तासां पतिंमन्यांस्त् तत्-पित्रादि-पर्यन्तं सर्वं जितवान् । लज्जाम् एव सज्जन् न तद्-गृहम् आनीतवान् इति ।
[253] तद् इदं गुप्तम् अपि कृतम् आदि-वराह-नामा भगवान् अपि स्व-पुराणे साक्षितया लक्षयतीति सर्वथात्र नान्यथा मन्तव्यम् । यथा-
द्यूत-क्रीडा भगवता कृता गोप-जनैः सह ।
पणावहार-रूपेण जिता गोप्यो धनानि च ।
गोपैर् आनीय तत्रैव कृष्णाय विनिवेदिताः ॥इति ।
[254] तौ वक्ष्यतः-तत्-पित्रादीनां तन्-मित्रादीनां वा को व्यवसायः ?
[255] सा वक्ष्यति-तेऽ पि मयोपदिष्टं तत्त्वीकृत्य पृष्ट-कृत्यास् तद् इदम् उद्दिष्टवन्तः-
अहो पर-स्पर्श-सुभीरु यद् वपुर्
यत् कृष्णसार-प्रणयैक-शर्म च ।
तासां मृगीणाम् इव तत्-परं प्रति
प्रदित्सवो व्याध-मनांसि बिभ्रति
[256] तौ वक्ष्यतः- राधिकाद्य्-आराधिकानां का वार्ता ?
[257] सा वक्ष्यति-मत्-पृष्टाभिस् ताभिर् अप्य् एवम् आदिष्टम्-
यथा सीता-देव्या दश-मुख-कृतार्तिर् विपद् अभूद्
यथा वा रुक्मिण्या विवहन-विधिश् चेदिप-कृते ।
तथा राधादीनां पर-गृह-गतिर् या बत विपत्
कथं तस्या नित्या स्थितिर् अभिमता हन्त सुहृदाम्
[*9]
[*9] थिस् वेर्से इस् रेपेअतेद् इन् उत्तर-चम्पू, 31.43.
[258] तौ वक्ष्यतः-अथ राधिकादीनाम् आर्तानां का वार्ता ?
[259] सा वक्ष्यति-
देयम् अधीनं कार्त्स्न्येनाभिव्याप्त्या च तत्र कृष्णे स्वम् ।
तद्-रूपं रचयित्वा सातिप्रत्यय-पदानि ता दधिरे
[260] तौ वक्ष्यतः-ताः किं साक्षाद् अनुयुक्ताः ?
[261] सा वक्ष्यति-अथ किम् ? यतस् तासां मर्म-प्रकटन-कर्मठतया मया पृष्टम्-भो विपश्चितः काश्चिद् एवं वदन्ति । ताः खलु कृष्णे प्रेम-मात्राखर्व-सर्वस्वाः । प्रेमा च बलवद् विरोधि-सद्-भाव-मिलद्-भय-प्रयास-प्रच्छादन-परिच्छदतया यथा वर्धते, न तथान्यथा ।
[262] तर्हि कथं तासाम् अप्य् अन्यासाम् इव पतितया तत्-सम्पत्ति-कामना-निकामम् अन्तरनुवर्तत इति ?
[263] तद् एतद् आकर्ण्य पाटल-पटल-सवर्ण-वर्णिन्यस् ता वर-वर्णिन्यस् तद् इदम् अवर्णयन्त ।
[264] हन्त ! तासाम् एव सविरोधस् तद्-अवरोधः सम्भवता-दृतीयमाना द्वितीय-पति-भावना च, न पुनर् अन्यस्याः कस्याश्चिद् अपि । या खलु तद्-अवरोध-विरोध-वाञ्छा । सा वा कथं प्रेम-प्रथन-मयी स्याद् इति न बुध्यामहे ।
[265] अस्माकम् यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम् [भ्प् 1.11.34] इत्य् एव बोध-विषयो भवति । किन्तु-
बुधिताः पैतृक-जनता
बुद्धाः श्वशुराभिमानिनो लोकाः ।
मानिताः सर्वेऽ प्य् अस्माभिर्
न मतो धर्मस् तु केनापि
[266] यद् अस्माकं बाल्याद् एव तस्मिन् निज-र्मणता-भावनां दूरीकर्तुम् आग्रहम् उरीकुर्वन्ति, तस्माद् अस्मान् मा स्नेह-पेषं पिण्ढि, किन्तु स्वाभीष्टम् एव विशण्ढि ।
[267] अथ तौ वक्ष्यतः-भवत्या किम् उद्भावितम् ?
[268] सा वक्ष्यति-ततो मया हसित्वा शवसित्वा च ताभ्यः प्रत्याशा-मात्रं प्रत्यासादितम् अस्ति । यदि भवतोर् इच्छा समृच्छते, तास् तु दैवतस् तावन्-निज-प्राण-वलल्भस्य वलल्भत्व्नेआलाभाल् लब्ध-महा-दुःखास् तत्र च स्वस्यान्य-हस्त-पतिततया जुगुप्सितं-मन्यता शुष्कास् तत्र च प्रियाप्रिय-विप्रकर्ष-सन्निकर्षतः प्राप्त-मनो-धर्षास् तत्र च निरन्तरं शङ्कमानैः पतिं-मन्यादिभिर् मङ्क्षु मङ्क्षु-कृत-निवारण-भर्त्सनादि-निकर्षास् ततस् तत एव च दुःसह-प्रेष्ठ-विरह-तीव्र-ताप [भ्प् 10.29.10] इत्य् आद्य्-उक्ततादृग्-अवस्थाभ्योऽ पि महानुरागतः पीडनाद् बहुल-दहनाकार-कारागार-वसतिं-मन्यतया निगीर्ण-सर्व-क्षणं क्षणम् अपि कल्पं मन्वानाः सम्प्रति तदीय-महा-विरह-वह-समयम् अतीत्य चात्मानं तद्-उपेक्ष्यताम्
अप्य् उत्प्रेक्ष्य लज्जा-मात्र-पर्यवसानम् आसज्य च धिक्-कृतं-मन्या दशमीम् अपि दशां तन्वानाः । किं बहुना, बहिर्-अन्तः-सुकुमारतायाम् अपि कौमारत एव व्याधानुबिद्ध-स्निग्ध-कानन-प्रत्यासत्त्य्-अपरित्यागि-मृगीवत् प्रखर-दरापार-पर-पारवश्य-लब्ध-विचित्र-दुर्गति-सम्प्लुततया पश्यतां शृण्वताम् अपि हृदयं धुन्वाना रसोऽ यम् इति मन्यमानेन निष्करुण-कौतुकेन केनचिद् एवोपेक्षितुं शक्यन्ते, न पुनर् अन्येन ।
[269] तौ सास्रं वक्ष्यतः-सम्प्रति ताः कां गतिं मतिं चासादयन्ति ?
[270] सा वक्ष्यति-
कुर्वन्ति मौनं क्रन्दं वा शून्यं पश्यति वर्त्म वा ।
कृष्णं वाञ्छन्ति मृत्युं वा तासाम् एवंविधा गतिः
[271] पुनस् तौ सास्रं वक्ष्यतः-सम्प्रति ताः प्रति वत्सस्य का विधित्सा ?
[272] सा वक्ष्यति-तद् एतत् पश्चाद् अपि निश्चीयताम् । यत् खलु प्रेयसां प्रेमाक्षेमं तद्-भावनामय-प्रेमानुरूपम् एव स्व-स्थेमानं लभते । न तु स्वाग्रह-ग्रहिलताम् इति ।
[273] तौ वक्ष्यतः-मन्यामहे तथाप्य् अस्मत्तः सङ्कोचं रोचयिष्यति ।
[274] सा वक्ष्यति-भवतां हृदि सदा विद्योतमानः सोऽ यं तद् अपि वेत्ति, तस्मान् नितान्तं नान्यथा करिष्यति । किं बहुना, भवद्-आश्रवम् अनु सर्वेषाम् एव संश्रवः प्रतिभाति । किम् उत तस्य ?
[275] तौ वक्ष्यतः-तर्हि गर्ग-निषेध-वेधस्य का चिकित्सा ?
[276] सा स-हासं वक्ष्यति-स खलु लीला-नैयत्यम् एव तत्रत्य-दोषतयाध्यस्तवान् । स्व-यजमान-हित-समीहित-सहिततया, न तु परम-शुभ-निवेश-वेश-रूपाणाम् आसां क्लेश-लेश-प्रवेशदा सदेशता सम्भवति ।
[277] तौ वक्ष्यतः-सम्प्रत्य् अस्माभिः किम् इव सोपानम् उपेयम् ?
[278] सा वक्ष्यति-सोपानं मया चोपेयम्, भवद्भिस् तु सर्व एव व्रज-जना भोजनाय प्रणयेन निमन्त्र्य निमन्त्र्यन्ताम् । तर्ह्य् अन्तः-पटी-क्षेपान् नटीनाम् आकार इव तत् प्रकटीभविष्यति ।
[279] तौ वक्ष्यतः-यथाज्ञापयन्ति विज्ञानाचार्य-वर्याः ।
[280] कृष्ण उवाच- ततस् ततः ?
[281] ऋषिर् उवाच- ततः सा प्रत्यक्षत एव ताव् अभि बहुलम् अभिवदन्ती गृहाय प्रहापयिष्यति ।
[282] अथ कथकस्य मनः-कथा-ततश् च पूर्णिमा मनसि विविवेच-श्री-कृष्ण-लीलायाम् अनादि-सिद्धं श्रीमद्-भागवतम् एव मुख्यं प्रमाणम् ।
[283] तत्र या खलु रास-योगे योग-मायाम् उपाश्रितः [भ्प् 10.29.1] इत्य् अनेन नित्य-व्यक्ति-स्वरूप-शक्ति-वृत्ति-विशेषका या योगमाया तन्-निर्वाहकतया बादरायणिना समुदीरिता, सा पुनर् अहम् एव । तत्र तेन रासं प्रकाशं परीक्षित्-परिषदि वर्णयित्वा तत्र प्राप्तम् अवर्ण-त्रितयं निरस्य रस्यतया समाहितम् । तथा सम्प्रति व्रजेऽ पि तत्-प्रसक्तम् इति ज्ञात्वा मयापि समाधेयम् । तत्र तेजीयसां न दोषाय [भ्प् 10.33.29] इतिवद् अत्रापि यद्यपि नरकाद् आनीता इत्य् आदिना तल्-लेप-सम्भावनापयापितैव ।
[284] अथ पर-दार-वार-समाहार-कारणान् आचारश् च यथा गोपीनां तत्-पतीनां च [भ्प् 10.33.25] इत्य् अनेन यं परिहारम् आपितस् तथात्रापि ताश् च न केवलं रागत एव तादृशीं गतिम् आगताः इत्य् आदिना तासु तदीय-नित्याङ्गना-भाव-व्यङ्गतः स च साङ्गी-कृतः ।
[285] तथापि नासूयन् खलु कृष्णाय [भ्प् 10.33.37] इतिवद् असूयाभासवत्तया सम्भावितास् तत्-पतिं-मन्याः समाधातव्याः । तच् च तद्-रहस्यं पूर्वं गुप्तम् आसीद् इति माया-द्वारा यथा-गुप्तं समाहितम् । साम्प्रतं तु व्यक्तम् अभूद् इति तथा तद्-द्वारा व्यक्तम् एव समाधेयम् । येन च सर्वेषाम् अपि सर्व-समाधानम् आधेयं भविता, अन्यथा तत्-तत्-करणं वृथा-परं स्यात् इति ।
[286] अथ स्पष्टम् आचष्ट--[287] ऋषिर् उवाच-दिनान्तरे तु सर्व-निमन्त्रणायां यथा-वृत्तान्ते वर्तिते सर्वाः साधारण-महोदयाः श्री-राधादयश् च तत्रागमिष्यन्ति । किन्तु पूर्वत एव जन-सङ्गीत-व्रजेश-निर्मितानङ्गीकारताम् आत्मनो दुःख-भङ्गी-सङ्गितां मंस्यन्त एव । तव च रूक्षता-वीक्षणेन ताः सूक्ष्माङ्गतां गमिष्यन्ति । तत्र साम्प्रतम् अन्यासां स्वसमान-कन्यानाम् अङ्गीकारेण हृत्-कमलेऽ पि भङ्गिताम् आपत्स्यन्ते ।
[288] तथा च भावी श्लोकः-
दाव-त्रस्ता मृग-दुहितरश् चन्द्रहीनाश् चकोर्यः
स्रस्ता वृक्षान् नव-कलतिका नीर-रिक्ताः शफर्यः ।
ऊर्ज-प्रान्ताद् बहिर् अपगता हन्त नव्याब्ज-नाल्यो
यद्वद् दृष्टा हरि-विरहिता राधिकाद्याश् च तद्वत्
[289] तद् एवं तासां कृच्छ्रायमाणानाम् अमिताभ्यमित-तादृश्वरी श्री-व्रजेश्वरी तु बाष्प-पूर्ण-नयना पौर्णमासीं निर्वर्णयिष्यति । सा तु वदिष्यति-सर्वे सर्वतोऽ प्य् अन्विच्छन्तु । यथाद्यतन-निमन्त्रणतः कश्चिद् अपि न पश्चिमताम् अञ्चति ।
[290] कृष्ण उवाच- ततस् ततः ?
[291] ऋषिर् उवाच-ततस् तद्-आकर्णन-मात्रतः सर्वे सर्वतो निर्वर्णनाय सङ्गत्य सत्वरम् एव चागत्य यथावत् कथयिष्यन्ति । तेषु काश्चिन् महिलास् तु किञ्चिद् अप्य् अप्रस्तुत्य श्री-राधिकादिकाः प्रत्यपूर्वतापूर्वं द्रक्ष्यन्ति । ततः पौर्णमासी वक्ष्यति-किम् इव पश्यथ ? किम् इव च किञ्चिन् न कथयथ ?
[292] ता वक्ष्यन्ति-किम् इव वक्ष्यामः, यतः सर्वैर् आहतं मन्येत ।
[293] पौर्णमासी वक्ष्यति-तथ्यं चेत् कथ्यताम्, मयि कृष्ण-मातरि च ।
तास् तु नीचैर् वक्ष्यन्ति-तत्राप्य् एतासां राधिकादिकानां धृत-तुल्यता-पूर्तिईर् अपश्यामः ।
पौर्णमासी स्पष्टं वक्ष्यति-अन्याश् च पुनर् अच्छं गच्छन्तु ।
[294] कृष्ण उवाच- ततस् ततः ?
[295] ऋषिर् उवाच-ततो बहल-कुतूहल-वहा बहुला महिलास् तत्र तत्र गत्वा ज्ञात-तादृश-तत्त्वाः पुनः पौर्णमास्य्-अन्ते लब्ध-सत्त्वास् तद्वद् एवावर्तयिष्यन्ति । वार्ता चैषा व्रज-राज-सभा-पर्यन्तं पर्यवसिष्यति । व्रज-राजश् च पौर्णमासीम् अनु तूर्णम् आसाद्य प्रसाद्य च वक्ष्यति-भगवति परम-विस्मापनम् इदम् अस्मान् बोधय ।
[296] पौर्णमासी वक्ष्यति-भवत्-कन्या-भावाभिमानिन्याम् आर्यायाम् इदम् आश्चर्यं पर्यवस्यति । भवांस् तु सर्व-व्रजस्थं स्त्री-पुंस-व्रजम् एक-सभानुगतं करोतु ।
[297] श्री-कृष्ण उवाच- ततस् ततः ?
[298] ऋषिर् उवाच-तद् एतद् अवधार्य ज्ञात-कार्य-गतिना व्रज-भूपतिना तद्-अभिहिते तथा-विहिते तव हितवती पौर्णमासी महितायां तस्याम् एव सभायाम् आहित-ब्रह्मासनम् आसीना किम् अपि प्रणिहितवती भविता । तद्-अव्यवहितम् एव च सिंह-पृष्ठाहितम् अहित-विग्रहा महायुधाष्टक-वेष्टिता देवी-गण-सेविता देवी नभसः सरभसम् अवतरिष्यति । अवतीर्ण-मात्रा च पौर्णमास्या व्रजेश्वरयोः कृष्ण-कृष्णाग्रजयोर् अन्येषाम् अपि भूमि-स्पृशाम् अभूमि-स्पृग्-मानिनी यथा-न्यायम् अभिवादनादिकम् आकाशत एव प्रकाशयिष्यति ।
[299] ततः साश्चर्यं पर्यवोलोकमानेषु तेषु देवी वक्ष्यति-कथं वेह सन्देहः क्रियते ? पूर्वत एव तावद् उभय-विधा एता नापूर्वतया मन्तव्याः । पूर्वासां सजातीया द्वितीया हि योगमायाज्ञया गर्ग-विघ्नं निघ्नत्या मायया मया निर्मिताः । संज्ञायाश् छाया-वत् रत्यास् तन्-माया-कल्पितावच् च ।
[300] ताश् चेमा गृह-गृहात् संगृह्णामि इति तथाह्नाय सापह्नवं कुल-वधू-मध्ये विधाय पुनर् वक्ष्यति-लक्ष्यतां कुल-पालिकाभिर् उभय-विलक्षणता । यत् परम-लक्ष्मी-लक्ष्माणि प्राग्-आगतानाम् एव लक्ष्यन्ते नार्वाग्-आगतानाम् । तथा मणि-तत्त्व-दृशाम् इव तादृशां दृष्टिभिर् एव नेत्रानन्दक-सौन्दर्य-विशेष-वृष्टिस् ताभ्य एव लभ्या, न त्व् अन्यासां, न च पुनर् आभ्यश् चाक्चिक्य-चिक्वण-काच-तुल्याभ्यः ।
[301] कृष्ण उवाच- ततस् ततः ?
[302] ऋषिर् उवाच-अथ सर्वाभिस् तथा तद् आश्चर्यं साक्षात्कार्यमाणम् अवधार्य तद्-आर्याणां समज्यायां निवेदयिष्यते-हन्त यथावद् एव देवी वदतीति । ततः श्री-व्रज-राज-वचनं-तर्ह्य् अधुना किं विधेयम् ?
[303] देवी वक्ष्यति-भोजने निर्वृत्ते मन्-निर्वर्तिताः स्व-स्व-पति-गृहम् अनुवर्तन्ताम् । परास् तु कृष्ण-मात्र-पति-सम्मति-परायणाः स्व-स्व-पितृ-गृहम् । मया तु यमुना-तटेष्ट-प्रशस्तालये स्थास्यते, यथा यदा मातृ-चरणैर् आज्ञाप्यते, तथा तदा व्यवहर्तव्यम् ।
[304] कृष्ण उवाच- ततस् ततः ?
[305] ऋषिर् उवाच-तद् एवम् आप्रच्छन-पूर्वकम् आपृच्छ्य प्रच्छन्नायां देव्यां सर्वेषु बल्लव-वलयेषु प्रच्छन्नेषु वर्णानां वर-वर्णिनीभिर् वर्ण्यमानं तद् आकर्ण्य भवत-पतिव्रतास् तु तत्-क्षणाद् एव जूरित्-परित्यक्त-मूर्तिका व्यक्त-निज-कान्ति-स्फूर्तिकाश् च भविष्यन्ति । तथा हि-
राहु-ग्रासाद् इव शशि-कला वारिदाद् ऋक्ष-माला
वर्षाधर्षात् पुलिन-रुचयः स्पर्शनाद् दीप-लक्ष्म्याः ।
निष्क्रम्यामूः पर-परिभवात् तत्-क्षणं विन्दमानाः
कान्तिं स्वीयां नयन-कदनं मोचयेयुर् जनानाम्
तत्र च-
तारासु चन्द्र-वलयस्य कलाः कलासु
तस्यातिचारु दधते स्फुरणं यथा श्रीः ।
गोपाङ्गनाह्वय-रमासु विशाखिकादि-
सख्यः सखीषु च तथा वृषभानु-पुत्रीः
[306] कृष्ण उवाच- ततस् ततः ?
[307] ऋषिर् उवाच-ततो देव्यादेश-वेश-वशा यथायथं ते विहितवन्त एव । तथापि विधिं विना न सङ्ग्राह्यास् ता इतिइ श्री-व्रज-राजादिभिर् विहिते च तस्मिन् विवाह-विचारे भवांस् त्व् अग्रजस्य विवाहार्थम् आगृह्य तं तद्-अर्थ-रक्षित-कौमारा द्वारकात आगत्य कदाचित् तेन प्रसादी-कृत-स्व-विहाराः । काश्चिन् नित्य-किशोरिका विधिना च विवाह्य नैरपेक्ष्यम् इवावगाह्य विगत-पूर्वाशङ्कः परम-ललित-माधव-समयम् आलम्ब्यालङ्कृत-पूर्ण-मनोरथाङ्कः श्री-व्रज-राज-गृहिणी-मुहुर् आग्रह-गृहीततया शनैर् एव स्व-विवाहम् अङ्गीकार-सङ्गिनं करिष्यति ।
[308] तत्र बहु-महसा श्री-राम-विवहने जाते तं जातं समासतः समासां समम् एव त्वत्-कृत-विवाहम् एव वर्णयिष्यन्ति-
गो-धुङ्न्यर्बुद-गेह-गेह-बलवद्-वाद्यानवद्य-ध्वनि-
प्रोल्लासित-व्रज-मण्डले दिविषदां वादित्र-चित्रे महे ।
आदान-प्रतिदान-दान-वचनोदारैः सदारैर् नरैर्
निर्व्यूढा मुरजिद्-विवाह-पटली ज्ञाता न तत्-तद्-भिदा
[309] तद् एवम् अङ्गीकारेण च-ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता 4.11] इति भवतः समाधिः समाधीयेत ।
[310] अत्र ये यथा इति ये यद्-इच्छयेतेत्य् एवम् एव विविक्षितम् । यतश् च साधारण-जनम् अन्वनुराग-लङ्घित-लोक-धर्म-मर्यादा-सङ्घानाम् अङ्गनान्तराणाम् अप्य् अन्तर्-वृत्तिस् तत्-तद्-गृहिणी-पद-स्पृहिणी दृश्यते । किम् उत भवन्तम् अनु सन्तत-प्रियाणां माया-मयात्ययाद् एव लब्धान्यथा-भाव-प्रायाणाम् ? [भ्प् 10.21.9] इति तद्-वाक्य-व्यक्त-तादृशाभिप्रायाणां स्वतस् तादृशाभिप्रायत्वे सत्य् अपि भ्रमर-गीतायाम् अपि बत मधु-पुर्याम् आर्य-पुत्रो æधुनास्ते [भ्प् 10.47.21] इत्य् आदौ, भुजम् अगुरु-सुगन्धं मूर्ध्न्यधास्यत् कदा नु इत्य् अनेन तदीयं प्रकटं तथा स्वीकारं प्रार्थयमानानां भवद्-गृहिणी-भाव-स्पृहा-बृंहणम् इति स्थिते तथैव तद् योजयितुं शक्यत इति । सर्वेषाम् अस्माकं धैर्य-पर्यापणम् एवम् एव भवताचरिष्यते
। यतः-
गतानाम् उत्पत्त्या त्वयि रतिम् अपि त्वद्-विवहनान्
निरस्तानां त्वत्-प्राप्त्य्-अभिलषित-संन्यस्त-जगताम् ।
अमूषाम् उत्कण्ठा यदि हत-फला तर्हि वलतां
कथं वा विश्वासस् त्वयि मुरहरास्माकम् अभितः
[311] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठम् अनुसन्धीयते स्म-अहो ! तद् एतत्-पर्यन्तं फलम् आगताया भगवल्-लीलताया माधुर्य-प्रसविता । तथा हि-
प्राग्-दूर-प्रियता ततो गुरु-जन-ध्वस्त-प्रयत्नात्मता
तत् पश्चाच् छ्रुति-लोक-लङ्घि-रभसाद् गुप्ता प्रियाङ्गीकृतिः ।
तस्माद् दूर-महा-वियोग-चिरता तत्-प्रान्तम् उद्वाहतः
प्राप्तं चेन् मिथुनं मिथो हरि-रमा-रूपं सुखं किं परम्
इति ।
[312] अथ प्रकृत-तत्-कर्तृक-कथा ।
[313] कृष्ण उवाच-ततस् ततः ?
[314] ऋषिर् उवाच-ततश् च सर्वेषां गतये दुहितुः पतये तुभ्यं कौतुकावहानि बहूनि यौतुकानि परम-धन्यां निज-निज-कन्यां च प्रस्थाप्यते । गोपाः सोपाध्यायाः सदा तदा ध्यायं ध्यायं दिवस्-पृथिव्याव् अपि स्वानन्द-समुद्र-मुद्रिते करिष्यन्ति ।
[315] कृष्ण उवाच- ततस् ततः ?
[316] ऋषिर् उवाच-तत्र च कवि-लोकानां श्लोकाव् एताव् उदेष्यतः-
यर्ह्य् आयाता व्रज-नृप-गृहं राधिकाद्यास् तदासां
स्व-ज्योत्स्नाभिस् तद् अलम् अभवद् धेम-धाम-प्रकारम् ।
गोलोकाख्यं पदम् उदयिता यत् तु तस्य प्रकाशस्
तासां श्रीणाम् अनुगत इति द्योतनं यत्र जातम्
असङ्ख्य-गणन-स्नुषा-गण-निवासम् आकस्मिकं
कथं व्रज-पती तदा विअदधतुस् तथा तच् छृणु ।
गृही इव तरुण-व्रजा यद् इह भान्ति यावत्-स्पृहं
वनान्य् उपवन-प्रभाण्य् अति-सहस्र-संस्थान्य् अपि
[317] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठं पुनर् अनुसन्धीयते स्म-
[318] बाढंविवाहादिभिर् असङ्कोचे विरोचमान एव गोप-जातिभिर् नारीभिः सह गोपजाति-योग्य-वेश-धारिणस् तस्य लीला-नैरन्तर्यम् अपि तदोचिततया पर्यालोचितं पाद्मोत्तर-खण्डे दन्तवक्र-वधानन्तर-तद्-व्रजागमने यथा-
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः ।
बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥[पद्मप् 6.252.19-27]
किं च-
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपाः
इत्य् आद्य् अप्य् अधियन् कयाचिद् उदितं गोपालिका-गीर् इति ।
भावोन्मादज-गान-नृत्य-विवशः श्री-गुण्डिचा-पर्वसु
श्री-चैतन्य-तनुर् मतं स भगवान् अङ्गीकरिषत्य् अदः
[319] तद् ईदृग् एव भाविनि विदग्ध-माधव-ललित-माधवाह्वये पूर्वोत्तर-नाटक-द्वये सर्व-रचनायाः परम-फलतया सर्वान्ते प्रकारान्तरेणावकल्पते-
तवात्र परिमृग्यता किम् अपि लक्ष्म साक्षाद् इयं
मया त्वम् उपसादिता निखिल-लोक-लक्ष्मीर् असि ।
यथा जगति चञ्चता चणक-मुष्टि-सम्पत्तये
जनेन पतिता पुरः कनक-वृष्टिर् आसाद्यते ॥[लल्म् 10.10]
इति श्री-कृष्ण-वाक्यादिना,
सख्यस् ता मिलिता निसर्ग-मधुर-प्रेमाभिरामीकृता
यामी मे समगंस् तु संस्तववती श्वश्रूश् च गोष्ठेश्वरी ।
वृन्दारण्य-निकुञ्ज-धाम्नि भवता सङ्गोऽ यं रङ्गवान्
संवृत्तः किम् अतः परं प्रियतरं कर्तव्यम् अत्रास्मि मे ॥[लल्म् 10.36]
इति पूर्ण-मनोरथाङ्क-पूरक-श्री-राधा-वाक्य-पर्यन्तेन ग्रन्थेन ।
[320] तद् इदम् एव श्रीमद्-भगवद्-भक्ति-रसामृत-सिन्धु-निधि-रूप-श्रीमद्-उज्ज्वल-नीलमणाव् अपि सर्व-रस-परिपाटी-पूर्ति-सार-मूर्ति-समृद्धिमद्-आख्य-सम्भोगतया दर्शितम् ।
[321] तेषाम् उपासना-वासना चेदृश्य् एव तदीय-श्लोकेनावलोक्यते-
गोपेशौ पितरौ तवाचल-धर श्री-राधिका प्रेयसी
श्रीदामा सुबलादयश् च सुहृदो नीलाम्बरः पूर्वजः ।
वेणुर् वाद्यम् अलङ्कृतिः शिखिदलं नन्दीश्वरो मन्दिरं
वृन्दाटव्य् अपि निष्कुटः परम् अतो जानामि नान्यत् प्रभो ॥इति ।
[322] अथ पुनः श्री-कृष्ण-नारद-संवादं मधुकण्ठः कण्ठतः प्रकटयामास-
[323] ऋषिर् उवाच-तद् एवं मास-द्वितये सर्वेषाम् एव परमानन्देन लब्ध-व्यत्यये दत्त-व्रजोद्धवः कदाचिद् भवान् रामोद्धवाभ्यां समं संमन्त्र्य श्री-व्रजमहेन्द्रादीन् परम-गौरवाद् आमन्त्र्य निवेदयिष्यति-अधुना यद्य् आज्ञा राज्ञाम् आज्ञायेत । तदा स्यन्दनोऽ यं सदारुको द्वारकां विन्देत ।
[324] अथ परम-हृदयालुतामय-दयालुर् असौ श्री-व्रज-राजस् तु वक्ष्यति-यथा तत्र श्रीमद्-भ्रातृ-प्रभृतीनां भृति-भुक्-पर्यन्तानां दुःखं न स्यात् तथा च प्रथनीयम् ।
[325] भवान् वक्ष्यति-सर्वथा सर्वेषाम् आदृत्यास् तत्र-भवतां भृत्यास् तत्र प्रद्युम्नादयः प्रद्योतन्त एव । तथापि भवताम् अपूर्तिश् चेत् तदा भवद्-आराधन-शतयास्मन्-मूर्ति-व्यूहम् अपि तत्र नारायणः पारयिष्यति ।
[326] पुनर् व्रज-राजो वक्ष्यति-रोहिणी-रामवद् अयम् उद्धवश् चास्मद्-एक-सम्पद्-उद्धवस् तस्माद् अयम् अपि तथाचरणीयः ।
[327] भवान् वक्ष्यति-यत्र भवद्-इच्छा, तद् वा किं न सेत्स्यति ? किन्त्व् आज्ञान्तरं ज्ञापय ।
[328] व्रजराजो वक्ष्यति-जैवातृक ! भवताम् अक्रूरादि-रचितेनातिचिरं भवता विरहेण चिराय तर्व्-अन्तिमः सर्व एव जीवः सुष्ठु दुर्जीवनम् अवापि । ततो न किम् अपि प्रत्येति । ततस् त्वद्-विरह-परिहाराय नान्य-जन-लोचन-गोचरः स्याम् इति प्रार्थयते । ततो निःशलाकम् आलय-विशेषं संश्लेषय ।
[329] भवान् वक्ष्यति-हन्त ! वृन्दावन एव तादृशं प्रकाश-वृन्दं वर्तते । यत् खलु ब्रह्म-ह्रदे निमज्ज्य पुनस् तस्माद् उन्मज्ज्य च भवद्भिः पूर्वम् अप्य् अपूर्वं दृष्टम् अस्ति । शताङ्गस्यास्य कामङ्गामितया तत्-प्रवेशितापि प्रतिवेशीयते । ततो यथाज्ञाप्यते प्राज्ञानां राज्ञा ।
[330] व्रज-राजो वक्ष्यति-वत्स! तद् एव प्रच्छन्नं वनं गच्छामः ।
[331] ततः स-प्रतिश्रव-श्रवणं भवान् वक्ष्यति-यथा महेच्छानाम् इच्छा तथैव सेत्स्यति । पुनश् च तिर्यग् अवेक्ष्य पार्श्व-लक्ष्यं दारुकम् आदेक्ष्यसि-सारथे ! तथा रथं प्रथय, यथा सर्व एव व्रजस् तत्रान्तर्-भवंस् तद्-धाम प्रविशंश् च धाम-ग्रामतः स्वर्-वासिनाम् अपि दृग्-आरामतां नासीदति ।
[332] अथ तेन सूतेन तु तथाकृत-प्रथे रथे सर्व एव व्रज-प्राणि-व्रजः स्वैरं निव्शमानस् तं देशं प्रविवेश ।
[333] तद् एवं सति-
उत्सर्पज्-ज्योतिर्-आली-विभव-वशतया तं रथं तूर्ध्व-भाजं
चर्माक्षा मेनिरे तर्ह्य् उपरिगततया तत्-पदोपासकाश् च ।
कृष्ट्वा ब्रह्म-ह्रदात् प्राग् अपि मुरजयिना लम्भिता गोमिनो या
तां वृन्दारण्य-मध्ये गतिम् इह सुगतास् तद्विदश् चार्व् अपश्यन्
तत्र पर्जन्य-वर्याश् च ये गताः प्राग्-अदृश्यताम् ।
द्रक्ष्यन्ते तेऽ पि तत्रैव तद् आश्चर्यं भविष्यति
ततश् च-
वृन्दारण्ये स-कल्प-द्रुम-विविध-लता-मञ्जु-कुञ्जादि-धन्ये
घोषे चिन्तामणीन्द्र-प्रथित-निलयता-चित्त-वृत्ति-प्रमोषे ।
रामाद्यैः काम-धुग्-गव्य्-अनुगति-कुतुकी लक्ष-लक्ष्मी-प्रकार-
श्री-गोपी-प्राण-सारः स जयति नितरां गोप-गोप्तुः कुमारः
[334] अथ स्निग्धकण्ठ उवाच-ततस् ततः ?
[335] मधुकण्ठ उवाच-तद् एवम् अन्यं च वृत्तान्तं वर्णितवान् । श्रीमान् व्रज-सुख-वर्षी देवर्षिश् च परस्परं हर्षितां प्रपन्नः स-बाष्प-रोमहर्षाधिभिः सम्पन्नः स्निग्ध-संवाद-विच्छेदतः परिखिद्य शनैर् एव च विच्छिद्य स्व-स्व-वर्मानुवर्तते स्म । श्रीमद्-व्रजेन्द्र-नन्दनस् तु तत्-कथा-पर्यन्तानन्देन पर्याप्तः सर्वं तद्-दुःख-जातम् आच्छन्नताम् आपन्नम् एव चकार । तत्र भगवन्तः श्री-देवर्षि-चरणा यद्-यद्-भावितया समुद्भावितवन्तस् तत् सर्वम् अभूद् एव ।
[336] तद्-अनन्तरम् अपि यथा व्रजस्य राज्ञानुज्ञापितम् । तथा वासुदेव-प्रसादाद् वसुदेव-प्रवीणानां तद्-वर्त्म-वीक्षादीनानां दारुक-कथित-तत्-तद्-वृत्ताभोग-भोग-पीनानां स्वल्प-कालताम् आपकम् आयाधीनानां तद्-आगमनाशया बहिर् एवासीनानां तद्-इष्ट-सिद्धिर् इन्धाम्बभूवेति ।
[337] तद् एवम् आकर्ण्य सर्वेऽ पि सभासदः प्रोचुः- ततस् ततः ?
[338] मधुकण्ठ उवाच-ततश् च सर्व-सुखारामाभ्यां श्री-रोहिणीम् आभ्यां गोपोचित-वेषाद्य्-अभिनिवेश-लब्ध-सखि-गण-प्रवेशोद्धवेनोद्धवेन च सार्धम् अस्मिन्न् एव गोलोक-नामके परम-दुरवलोके लोके परम-विभववतां भवतां मध्ये विभवन्न् एव सोऽ यं विराजते ।
[339] पुनः सर्वेऽ प्य् ऊचुः- ततस् ततः ?
[340] मधुकण्ठ उवाच-ततश् च सर्वतः प्रसरद्-अमन्द-भवद्-आनन्द-कल्लोल-लोलन्-मनस्तया वयम् अप्य् आगम्य भवद्-भवदीय-कृपा-मात्र-गम्यं रम्यं वास-वर्यम् अजर्य-सङ्गमम् आसादयाम ।
[341] श्री-व्रजराज उवाच-कथं कथम् इति कथ्यताम् ।
[342] मधुकण्ठ उवाच-पूर्वं तावद् अस्मदीयानां दुष्प्रारब्ध-वशाद् अद्य श्वश् चिचलिष-यात्रासु यात्रायां विलम्बनम् आसीत् । तत्र च सति श्रीमद्-व्रज-प्राणस्य यदुषु सङ्क्रमणम् अवकर्ण्य प्राण-वियोजनम् इवासीत् । चिराय तु व्रजे तत्-प्रति-सङ्क्रमणं चाकर्ण्य सद्यश् चलितुम् उद्यमे कृत-प्रक्रमे तद्-अनुगत-व्रज-जनस्य तस्य मर्त्य-लोक-पथाद् अन्तर्धानम् अवधार्य वारिधि-प्रवेशम् उद्यच्छतां दया-वर्षि-देवर्षि-चरणाचरित-निदेशम् उपनिषत्-कृत्य जीविकाकृत्य च श्री-वृन्दावनागमनं जातम् । जाते चागमने तत्-तत्-पदं कृष्ण-रूप्य-क्रीडास्पदतया निरूप्य मूर्च्छानन्तरं जागरम् ऋच्छताम् अस्माकम् अकस्माद् अत्रानुप्रवेशः कथं जात इति न यथातथ्यं प्रथयितुं शक्यते स्म ।
[343] सर्वे साश्चर्यम् ऊचुः- ततस् ततः ?
[344] मधुकण्ठ उवाच-ततो भगवच्-चरण-राजीव-लोकनतः पुनर्-जीवन-लाभोपक्रमेण क्रमेण च भवद्-उपसेवनाय श्री-गोपाल-पूर्व-चम्पूं सम्पूर्णयन्तस् तद् इदं सुदिनाहम् आसीदामेति किंवान्यत् कथनीयम् ?
[345] तद् एतद् उक्त्वा समापनम् इदं पद्यं निगद्य पणायति स्म-
सोऽ यं गोपेन्द्र पुत्रस् तव महित-महीयःसु शश्वन्-महीय्यस्
त्वन्-नाना-बन्धुतानाम् अपि विविधतया बन्धुता-बद्ध-बुद्धिः ।
यस्माल् लब्धा भवन्तः शिव-कमल-भवाद्यन्तर-ध्येय-वर्गाद्
दूरं धाम प्रभावं विभवम् अपि महा-प्रेम-माधुर्यम् अत्र
[346] तद् एतद् उक्त्वा भ्रातरं प्रत्य् उवाच-
गोपाल-यशसा स्पृष्टं यन् मृष्टं सूत-जन्म च ।
तत् तु स्पर्श-मणेर् जातं जात-रूप-मयोऽ पि नः
तथा हि-
अत्र श्री-व्रज-राज-राजित-सभा-मध्ये क्रम-ध्येयता-
साध्ये श्री-हरिर् एष राम-सहितः प्रत्यक्षताम् आगतः ।
तत्रापि स्व-कथा-प्रथां कथयितुं नः सम्यग् आदिष्टवान्
कारुण्यं किम् अथास्य वर्ण्यम् असकृत् पुण्यं च किं नः सखे
[347] तद् एवं श्री-व्रजदेव-कुमार-सुकुमार-मुखम् अभिपश्यन्न् अङ्कुरवत्-पुलक-कुल-सङ्कुल-कलेवरता-बलेन पुनर् अर्जुनताम् अर्जयन्न् इव ततश् च स्तम्भ-सम्भ-जनम् अतिगम्भीर-कम्प-सम्पत्-सम्पतन-साम्प्रततया लुम्पन् पतन्न् इव पुनश् च निर्निमिषता-निर्मित-सुपर्वताम् आत्मनि पर्वन् पूर्वावस्थाम् अवस्थापयन्न् इव समनन्तरं च लब्ध-प्रपञ्च-नव-नव-दल-वलय-वलित-वल्गु-पुट-शोभालोभाकर-कर-सम्पुटम् अनून-बाष्प-नव्य-दिव्य-प्रसून-पूर्णंअ कुर्वन्न् उपसंहरन्न् इव स-स्निग्धकण्ठः स मधुकण्ठः पूर्ववद् एव पूर्व-देव-मात्रा-रुचि-करंवरं वरयामास-
वाणी कंसरिपो तवानुकथनं कर्णौ कथा-कर्णनं
हस्तौ सन्तत-सेवनं हृदयम् अप्य् उत्कण्ठया धारणम् ।
शीर्षं गोकुल-वस्तु-मात्र-नमनं दृष्टी समस्त-व्रज-
प्रेष्ठानां स्थिति-वीक्षणं च भजतां नौ नैव तत्-तद्-बहिः
[348] तद् एवं लब्ध-भक्ति-प्रपञ्चं तं च तं च कुञ्चन्-मनसं भूयो भूय आहूय प्रमद-व्रज-विराजमानः श्रीमान् व्रजराजः सभाजन-भाजनतया निज-समीपम् आपयामास, समुपवेशयामास च । तेन च सर्वम् अपि समाजं शर्मणा भ्राजयामास ।
ततश् च-
पुण्ड्रं पूर्वाङ्ग-चर्चा निज-मणि-वलितालङ्कृतिर् दिव्यताम्बू-
लाग्र्यं प्राग्य-स्व-वस्त्र-व्रततिर् इति बहु स्वात्मनैवोपयुज्य ।
गन्त्र्यो वाहाः समन्तात् परिजन-जनताः स्पृह्य-गृह्यादिवस्तून्य्
एतान्य् अन्यैः समर्प्य द्वयम् अभिहितवान् श्रील-गोलोक-राजः
अद्यारभ्यानुपाल्येत लाल्येन भवतोर् द्वयम् ।
अस्य मात्रा तथा माता तद्वत् पित्रा मया पिता
जय-ध्वनि-युतास् तदा ववृषुर् उद्धताः सद्-धनं
यथा बत सदः-सदस्तद् अवगाह्य बाह्यं गृहम् ।
तथान्तर-गता यतश् चपलम् एव तत्-पूरितं
स्थलं किल कृत-क्रियं व्यसृजद् आत्म-लब्धान् जनान्
[349] तद् एवं कथा-सातौ दत्त-सातौ मधुकण्ठ-स्निग्धकण्ठौ सदैव लब्ध-कृष्णोपकण्ठौ च तद्-विलास-विलोकनोत्कण्ठौ प्रतिक्षणम् अमन्द-परमानन्दम् अनुविन्दमानाव् एव विराजेते ।
[350] अत्र पूर्वम् आपाततः सुदुर्बोधताशङ्कया यद्यपि न वर्णितास् तथाप्य् अस्यां श्री-गोलोक-कृत-प्रभायां सभायां शान्त-वेशतया पुरोधसां मध्य-सम्बध्यमानासनः सुखाकृत-सर्व-स्वजनः सर्वेषाम् अग्रण्यः श्रीमान् पर्जन्यः पर्जन्य इव सर्व-सुखं वर्षन्न् आसीत् । वरीयसी वरीयसी चान्तः-सभायां तथा लब्ध-प्रभा समवर्तत । श्रीमान् उद्धवश् च सर्वेषाम् उद्धव एवाजनीति सर्व-जनीनं सुखं कियद् वर्णनीयम् ?
[351] रहस्यं पुनर् इदं रस्यमानं विधीयताम्-
वृन्दारण्याभिधाने सरसि सरसिज-श्रेणि-लक्ष्मीषु गोपीष्व्
एका राधाभिधा सा विभवति सततः दिव्य-सौगन्धिक-श्रीः ।
भ्राम्यन् याम् एव लब्धुं व्रजपति-तनयश् चावर्मूर् वर्तम-वृत्तीः
सर्वा निर्माय यस्याम् अलिर् इव कलया केलिम् उच्चैस् तनोति
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0