गोपालचम्पू · अध्याय 1.9
[अनुष्टुभ्]
[88] तद् एवं वृत्ते वृत्ते सर्वे तत्-तत्-कथां अपि तत्-तत्-पर्वैवानुभूय स्वं स्वम् आवासम् आसन्नवन्तः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
दामोदरानुमोदो नाम
अष्टमं पूरणम्
॥8॥
(9)
अथ नवमं पूरणम्
श्री-वृन्दावन-देशे प्रवेशः
[1] अथ दिनान्तरे भासमानायां सभायां श्री-व्रजराजः पर्यनुयुक्तवान्, वत्स स्निग्धकण्ठ, तौ खलु वृक्षौ व्रजे सङ्कल्प-प्रदतया देवता-सदृक्षौ । ततः प्राग्-जन्मनि कीदृशाव्, अत्र वा कस्माद् आगतौ, सम्प्रति च कीदृशतया क्व गतौ?
[2] स्निग्धकण्ठ उवाच-पूर्वं धूर्जटि-मित्राद् उत्पन्नवन्तौ श्री-देवर्षि-वर्ये धार्ष्ट्यम् अनुष्ठितवन्तौ सन्तौ, परिणामतः परमानुग्रहेण श्री-देवर्षि-वर्य-कृत-निग्रहेण वृक्षतायाम् अपि भवगद्-भक्तताम् आगतवन्तौ । प्रतिभवद्-अवतारम् उद्भवतस् तस्य बृहद्वन-स्थ-भवद्-गृहस्य तु सदेशे देशे यमलार्जुन-वेशेन स्थितवन्तौ । एतद्-अनन्तरं च निज-गतिम् आगतवन्तौ परम-भगवद्-भक्तिमन्तौ च जातवन्तौ । सम्प्रति तु तद्-भक्ति-फल-व्यक्तिम् अप्य् आकलयन्तौ वर्तेते ।
[3] व्रजराजः सकौतुकम् उवाच-कथ्यतां तथ्यं, सम्प्रति कुत्र प्रतियातौ?
[4] अथ स्निग्धकण्ठः स्व-मुख-कमलं नमयित्वा तुष्णीम् इव स्थित्वा च मधुकण्ठं कटाक्षेणेक्षाञ्चक्रे ।
[5] व्रजराज उवाच-सङ्कुचन्न् इव कथं नोचितवान् असि?
[6] स्निग्धकण्ठः स-सम्भ्रमम् उवाच-देव, वयं किं ब्रूमहे? श्री-चरणाः स्वयम् एव वेत्स्यन्ति ।
[7] व्रजराजः सस्मितम् उवाच-सत्यं भवद्-उक्तं पुनर्-उक्तम् एव भवेत्, यतो भवतो मौनम् एवात्र ब्रवीतीति रीति-वशाज् ज्ञातवन्त एव च वयम् । तथापि, स्व-मुखेन सुखेन योजयतु भवान् अस्मान् ।
[8] स्निग्धकण्ठ उवाच-सर्व-सुख-वर्षि-श्री-देवर्षि-चरणानां कृपण-विषय-कृपा-क्प्त-तद्-एतद्-गती लब्धमती ताव् एव स्फुटम् आवाम् इति ।
[9] तद् एतद् आकर्ण्य निर्वर्णित-तन्-मुखाः श्री-व्रजराज-प्रमुखाः समाहूय भूयः स-कौतुकं स-सुखं तौ मिलितवन्तः । मध्ये समुपवेश्य निरीक्षितवन्तश् चेति । [10] पुनस् तु तत्-प्रश्नानन्तरं मधुकण्ठः क्रम-प्राप्तां कथां प्राह, [11] तद् एवं विचित्रात् पूर्व-चरित्राद् दिवस-पञ्चकानन्तरं श्रीमान् उपनन्दः स्व-मन्दिरं विन्दमानः स्व-पत्नीं पप्रच्छ, अद्य स्व-देवर-नर-देव-गृहे किं गमन-मङ्गलं जगृहे भवत्या?
[12] पत्नी प्राह-अथ किम्, को वा तद् गमनं विना मनो मानयितुं शक्नोति, किम् उत भवद्-विध-सविध-सम्बन्धिनस् ते वयम्?
[13] पतिर् आह-विशेषश् चेत् कथ्यताम् ।
[14] पत्नी प्राह-
यस्मिन् प्रेम-प्रचुरं भयम् अपि तस्मिन् विभाव्यते प्रचुरम् ।
यद्वन् नेत्रं शङ्का-विषयस् तद्वन् न कर्णादि
[गीति]
[15] तथा हि, यद्यपि निरवद्याधान-विधातृ-मातृ-प्रभृतिभी रक्ष्येते सभीभिर् एव तौ, तथापि खेल-वेलायां सम्भालयितुम् अपारणीयतया सुकलम् एव विकलयतः । तत्र चाद्यतनं वृत्तं प्रतिपद्यताम्-
[16] तौ भवद्-भ्रातृजौ स-निज-व्रज-व्रजेश्वर-भोज्य-सज्जनाय जनितामोदायां यशोदायां तदीय-साहायका-रोहिण्याम् अपि रोहिण्याम् आशङ्का-पात्रीर् धात्रीर् वञ्चयित्वा विदूरं चञ्चितवन्तौ । यथा,
धात्रीणाम् अपरत्र कर्मणि मनाग् दत्तात्मनाम् अग्रतः
सव्यासव्य-दृशोर् दृशोर् अविषये सान्तर्द्धि-देशे च तौ ।
क्रीडा-दम्भ-वशात् क्रमाद् अपगतौ विद्रुत्य दूर-स्थितौ
तत्राथ स्व-सुहृद्भिर् उद्धत-गणैः कोलाहलं चक्रतुः
[शार्दूल]
[17] अथ तथा निकृतस् तत्-पालनाधिकृत-धात्री-वर्गः क्षणात् कृतावधान-सर्गः शीघ्रम् एव कृतानुमार्गः क्रमेण स्वस्याकारणम् अकारणताम् आसादितम् अवधार्य निजेश्वर्योर् आवेदयामास ।
[18] तावच् च ततोऽ प्य् अतिदूरं गम्भीर-सरित्-तीरं गताव् आकर्ण्य पूतना-सूदन-प्रसू रामाम्बालाम् एव तयोः सङ्कलनाय चालयामास । æहन्त, न जाने खल्व् अर्जुन-युगलवद् दुर्जन-प्रेर्यमाणतया कश्चिद् अनोकहो वा नद्यवरोहो वा स्खलतीति मयि पाक-कर्म-विपाकावरुद्धायां सत्वरं त्वम् एव स्वयं याहिऽ इति ।
सा च तत्र गता शीघ्रं व्यग्री-भूताङ्ग-मानसा ।
सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत्
[अनुष्टुभ्]
[19] ततश् च क्रीडा-रङ्गाकुलतया तद् अनङ्गीकर्तरि सङ्गीशितरि कृष्णे कृष्णाग्रजे च तद्-अनुग-तृष्णे, सा परिवृत्य सद्मागत्य तस्य किञ्चिद् भय-स्थानं प्रभव-स्थानम् एव प्रस्थापयामास ।
[20] ततश् च तन्-माता च गत्वा-
क्रीडन्तं तनयं बालैर् अतिवेलं सहाग्रजम् ।
वीक्ष्य स्तन-मिषात् स्नेहं वर्षन्ती हूतिम् आतनोत्
[अनुष्टुभ्]
[21] न तु सहसा समीपम् आप तत्-पलायन-शङ्कया । आहूति-माधुरी चेयम् आस्वाद-धुरीणतां नीयताम्-
कृष्ण कृष्णारविन्दाक्ष
तात एहि स्तनं पिब ।
अलं विहारैः क्षुच्-छ्रान्तस्
तद् भवान् भोक्तुम् अर्हति ॥[भ्प् 10.11.15] इति ।
[22] तथापि मिथः सङ्घर्षयतः क्रीडा-तर्षवन्तं तम् अनागच्छन्तं धर्षयन्ती, विच्छिदुरता-विधुर् असजातीय-स्नेहस्य द्वितीय-पात्रम् आदृत-स्व-वचन-मात्रतयावश्यम् एव वश्यं श्री-बल-भद्रम् एव सानुक्रोशं चुक्रोश-
हे रामागच्छ ताताशु सानुजः कुलनन्दन ।
प्रातर् एव कृताहारः क्रीडाश्रान्तोऽ पि पुत्रक ॥
प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः ।
एह्य् आवयोः प्रियं धेहि, स्वगृहं यात बालकाः ॥[भ्प् 10.11.16-7]
[23] ततो मातृ-हर्षणाय निवर्तयितुं कृष्णं कर्षति सङ्कर्षणे, सच्छल-प्रोत्साहनं तम् एव भणति स्म-
धूलि-धूसरिताङ्गस् त्वं तात मज्जनम् आवह ।
जन्मर्क्षं तेऽ द्य भवति विप्रेभ्यो देहि गाः शुचिः ॥[भ्प् 10.11.18]
[24] पुनस् तदानीम् एव गृहाद् आगतान् बालान् आकलय्य स्पृहां बृंहयन्ती बभाषे,
पश्य पश्य वयस्यांस् ते मातृ-मृष्ट-स्वलङ्कृतान् ।
त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥[भ्प् 10.11.19]
[25] तद् एवं बाल्यम् एवारभ्य विप्र-पोषणाद् आत्मनस् तोष इति तद् आरम्भाय स्तम्भमानम् आह्वानादि-लक्ष्येण लघु लघु समीपम् आसन्ना स-रामं रामानुजं भुजयोर् गृहीत्वा गृहम् आनिनाय ।
[26] ततश् च, जन्मर्क्षं ते इति मिथ्या-कथ्यमानम् अपि तेन गृहीतं नितराम् एव गृहीतवती व्रजराज-गृहिणी तत् पर्व, यत्र दुष्ट-दृष्टि-निवारणाय स-यन्त्रा मन्त्रा मुहुर् विन्यासम् ऊहुः ।
[27] तद् एवम् अवधाय स सर्व-दर्शः श्रीमान् उपनन्दः पराममर्श, सत्यम् आशङ्कितं प्रजां प्रति प्रजावत्योर् अनयोः प्रजावत्योः, यद् इदं गोष्ठ-प्रकोष्ठम् अवदुष्टम् इव दृश्यते । भवतु, व्रजराज-समाजम् अनु विचारयिष्यामः ।
[28] तत्पत्नी प्राह-विचारः पुनस् तत्रभवत्य् एव स्थास्यते ।
[29] अथ प्रातर् एव गो-व्रज-व्रजान्त-स्थायां सर्वास्थास्पद-व्रजराज-समाज-राजमानायाम् आस्थान्यां मिलिता गोपाला गोपाल-नादि-सौकर्यं नात्रेति पर्यालोचयामासुः-
[30] चिरवासेनोत्सन्नतासन्न-वनतया बृहद्वनस्य । तत्र तु वयो-ज्ञानाभ्यां वृद्धः श्री-राम-कृष्ण-प्रेम्णा समृद्धः स्वाङ्क-पल्यङ्कं सद्-अलङ्करिष्णुना मध्ये मध्ये च चिबुकं गृहीत्वा वितथ-प्रश्नम् आचरिष्णुना तत् तदा क्रीडनक-याच्ञा-सतृष्णेन कृष्णेन लभ्यमानानन्दः श्रीमान् उपनन्दः प्रावोचद् अखिल-रोचनम् । इह च व्रजराजस्य सङ्कोचम् अवलोचयन् बाल-प्रजा-मात्रस्य हित-पक्षम् उपलक्षयामास । यथा-
æइह न स्थेयम्ऽ इतीत्थं व्रज-हितम् उक्तं भवद्भिर् यत् ।
तत् पुनर् अतिबालानां हित-प्रधानं मम स्फुरति
[उपगीति]
सहजनि-जनिते यन् मम पर-पर-यत्नेन रक्षितेऽ प्य् अत्र ।
जातं विप्लव-जातं, तस्मात् किं स्याद् इहोर्वरितम्?
[आर्या]
तत्-तद्-उपद्रव-जाते केवल-परमेशितू रक्षा ।
तस्मिन् भारं दद्याद् इति च न खलु तत्-परैर् इष्टम्
[उद्गीति]
चलता द्वयम् अनुचिन्त्यं: त्याज्यं गम्यं च यद् धाम ।
त्याज्यं दुःख-निदानं, गम्यं सुखिता-निधानं तु
[उपगीति]
स्थानं तद् अपदेयं, यद् इह परत्र च घटेत दुःखाय ।
बृहद्-आख्यं वनम् अनुपदम् ऐहिक-दुःखाय साम्प्रतं जातम्
[गीति]
स्थानं तद् उपदेयं, यद् इह परत्र च घटेत सौख्याय ।
वृन्दावनारण्यं चादः समस्त-सुखतमम् अतीव पुण्यं च
[गीति]
गोवर्धन इति नामा यत्रारण्ये गिरिः स्फुरति ।
तत् खलु गो-जातीनां गोपानां चास्ति सर्वस्वम्
[उपगीति]
गोपाः कानन-करदा ग्रामादीनां विनिश्चयाभावात् ।
तद् अपर-कानन-गमने राज्ञां चाज्ञा स्वतः-सिद्धा
[आर्या]
सुखतो भयतो वा यत् कृत्यं कर्तव्यतां याति ।
शीघ्रं यत् खलु कार्यं वलयति शङ्काम् अलं विलम्बस् तु
[उद्गीति]
उत्थातव्यं तस्माद् अस्मात् सद्यो न कार्यम् आलस्यम् ।
तुलिता ह्य् उद्यम-कलना कृत्यं यद् यद् यदा क्रियते
[आर्या]
इयम् अस्माकम् उदीक्षा युष्मभ्यं यदि तु रोचमाना स्यात् ।
पर-वीक्षितेऽ पि वस्तुनि बहु-सम्मतिर् उत्सवं दुग्धे
[आर्या]
भवति तु चेद् इह भवतां समर्थना तर्हि गावः प्राक् ।
सम्यक् पायित-वत्साश् चरन्तु वृन्दाटवी-वर्त्म
[उपगीति]
पश्चात् पट-गृह-शकटान्य् अटन्तु गृह्यं समस्तम् आदाय ।
विधि-विधि-सिद्धा सेयं व्रजनाद् व्रजता हि गोदुहां सदने
[गीति]
ततश् च,
तद् वाक्यं पशुप-समूहम् ऊह-शून्यं
स्वार्थाय स्वयम् अनुगम्य कल्पते स्म ।
साधर्म्य-स्पृशि मृदि पश्य बीज-भेदः
स्फीतः स्यात् फलति च तत्र नापरत्र
[प्रहर्षिणी]
[31] तद् एवं पौर्णमासीम् अपि विज्ञाप्य समनुज्ञाप्य पुरतः प्रस्थाप्य च शीघ्रम् उत्थाप्यतां व्रजः इति दुन्दुभि-निर्घोषणया कृत-पोषः सोऽ यं घोषः स्व-निरुक्तिम् एवातिरिक्ततया व्यक्तवान् । गव्यानां मानुष्यकानाम् अपि कोलाहलान् महा-घोषास्पदता हि घोषता निर्दिष्टा । यथा,
तदा व्रजे कलकल-कोटिर् उत्थिता
हिही-हिही-जिहि-जिहि-कार-मिश्रिता ।
घडद् घडद् घडद् इति शाकटा-रवः
स-वाद्यकः पुनर् अखिलं-गिलः स्थितः
[*जभजसग]
आरोप्यानसि वृद्धादीन् स्वयम् ऊढ-शरासनाः ।
गौरवेण गवां गोपा ययुर् विक्रममाणताम्
[अनुष्टुभ्]
[32] ततश् च सङ्क्रीडति शकट-वर्गे सङ्क्रीडमाने सति,
शकट-गृहाटन-चर्यां पर्याकलयन् विदूर-गो लोकः ।
व्यतिषज्यावदद् एतद् ग्रामः कश्चिच् चरिष्णुर् अस्तीति
[गीति]
पथि तु,
एको धावति कश्चनाह्वयति कोऽ प्य् अत्रोत्तरं भाषते
कश्चित् तत्र निवृत्य गच्छति निजं सम्भालयत्य् अन्यकः ।
सर्वो गायति कृष्ण-बाल्य-चरितं बाष्पायते स्तम्भते
स्विद्यत्य् एजति रोमहर्षम् अयते वैवर्ण्यम् आसीदति
[शार्दूल]
आरूढ-शकटा गोप्यो व्यूढ-नव्य-परिष्क्रियाः ।
अमन्दं जगुर् आनन्दाद् आनन्दान् नन्द-नन्दनम्
[अनुष्टुभ्]
यथा,
नन्द-मही-पति-जात नन्द यशोदा-मात ।
जन्म-महा-मह-दिग्ध रमित-समस्त-स्निग्ध ॥ध्रु ।
स्पर्शादित-विष-योष अपरिचितापद-दोष ।
शकट-विघट्टन-शेष गोकुल-पुण्य-विशेष ॥
कृत-नामभिर् अभिराम सन्तत-रामा-राम ।
रिङ्ग-भृताङ्ग-नरङ्ग अङ्गीकृत-सखि-सङ्ग ॥
लङ्घित-मारुत-चक्र नन्दित-गोकुल-शक्र ।
वत्स-विमोचन-मोद व्रज-जन-शर्म-यशोद ॥
सर्वानन्दन-चौर्य तस्मिन् दर्शित-शौर्य ।
अयि दामोदर-लील अखिल-सुख-प्रद-शील
[2 x 3 गणस्] इति ।
[33] तद् एवं गायन्त्यस् तद्-दर्शनस्य नाथमाना व्यत्यतिक्रामन्ति स्म-
तदा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते ।
रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके ॥[भ्प् 10.11.34]
[34] तत्र स्थितिर्, यथा:
मणि-खचित-सुवर्ण-चित्र-वर्णे
शुचि-मृदु-तुलिकयानुकूल-मध्ये ।
गृह-निभ-शकटे विरेजतुस् ते
सुत-रुचि-रोचिषि रोहिणी-यशोदे
[पुष्पिताग्रा]
[35] तत्-कथा तु द्वि-विधा, तत्-सम्बन्धिनी, तत्-कर्तृका च । पूर्वा यथा,
स्निग्धा नार्यः शकटम् अभितो मातरौ पुत्रयोस् तैर्
ज्ञाताज्ञातैर् अखिल-चरितैर् धिन्वते स्माविशेषात् ।
प्रेम्णः सेयं प्रकृतिर् अखिलाश्चर्य-रूपा यद् उच्चैः
सर्वं स्वीयं विषयम् अमनः-स्पृष्ट-तुल्यं करोति
[मन्दाक्रान्ता]
[36] उत्तरा यथा-
कृष्ण उवाच-मातः, क्व नु खलु गच्छन्तः स्म?
[37] माता प्राह-पुत्र, वृन्दावन-नामनि वन-धामनि ।
[38] कृष्ण उवाच-कदा सदनम् आयास्यामः?
[39] माता सस्मितम् आह-वत्सास्मद्-अनुषङ्गत एव सङ्गच्छमानं तद् आस्ते ।
[40] कृष्ण उवाच-क्व नु निरूप्यताम्?
[41] रामः प्रहसन्न् आह-कृष्ण, पाकादि-नित्य-कृत्य-सन्निवेश-देशाधः-प्रदेशान् महा-शकट-वेशान् गृहान् निकटत एवाटतः पश्य ।
[42] कृष्णः साश्चर्यं दृष्ट्वा श्री-रामं स्पृष्ट्वा जहास, पुनर् उवाच च, तथ्यम् इदं कथ्यते स्म । यस्माद् विदूर-क्षितिगा अपि क्षिति-रुहास् तथा लक्ष्यन्ते ।
[43] माता तु रोहिण्या सह स-हासम् आह स्म, पुत्र, त एते तु न कुत्रचन च गच्छन्ति, किन्तु सम्प्रति तथा प्रतीयन्ते मात्रम् ।
[44] कृष्णः स-तृष्णम् उवाच-भवतु, तद् वृन्दावनं कुत्र?
[45] रोहिण्य् आह-पुत्र, यमुनायाः पारे ।
[46] राम उवाच-एका यमुना दूरतः पश्चान् न्यस्ता, पुरतः किम् अन्याप्य् अस्ति?
[47] माता सहासम् आह-पुत्र, कुत्रचिद् अपि मनाग् अपि न विच्छिन्न-गमना सा ।
[48] रामस् तु मातृ-मुखं साश्चर्यतया स-सुख-चर्यं पश्यति स्म । [49] कृष्ण उवाच-तत्र-भवता किल न तर्कितं, यत् खल्व् इत इव तत्राच्छ गच्छन्ती सा दृश्यते स्म ।
[50] तद् एवं तयोः सोल्लासं हासं बिभ्रतोः पुनः कृष्णः स-तृष्णम् उवाच-लघु-मातः, का तत्र शात-सम्पद् अस्ति यद् एतावता प्रयासेन प्रयास्यामः?
[51] रोहिण्य् आह-पुत्र, क्रीडा-स्थानानि क्रीडनकानि च बहूनि सन्ति ।
[52] कृष्णः सहर्षं सङ्कर्षण-निष्कलङ्क-विधोर् अङ्कं निज-श्याम-धाम्नालङ्कुर्वन्न् एव साङ्ग-प्रणयतया समुत्तानिताङ्गस् तन्-मुखम् उन्मुखं पश्यन् विहसन् विलसन् मुहुर् लुठति स्म । [53] सङ्कर्षणस् तु तन्-मुखम् अनु मुखं निधाय मुहुर् विहसित-लीलां विधाय चिराय तं हासयति स्म ।
[54] अथ यमुना-तरङ्ग-सङ्घ-सङ्गत-मारुत-दिग्ध-स्निग्ध-वन-लेखेयम् आसन्ना इति मातृ-युगल-संलापं निशम्य सम्यग् उत्थितः कृष्णः सङ्कर्षण-सङ्करः प्राग् अज्ञातान् ज्ञातान् अपि नग-मृग-खगान् हसन्तीभिः स्खलित-दन्तीभिर् विवादतः सर्वान् अपूर्वान् इव पृच्छन्न् उत्तरम् आयच्छंश् च तत्-कूलानुकूल-वनम् आससाद ।
[55] तत्र प्रश्नोत्तरे यथा-
कोऽ सौ वृक्षः समन्ताद् अनिश-चल-दलः? पिप्पलः । कोऽ ण्ड-कोटिं
सूते? सोडुम्बराख्यः क इह घन-जटा-व्याप्त-मूर्तिर्? बटः सः ।
इत्थं नव्यां वनान्तर्-गतिम् अनु जननी-डिम्ब-संवाद-जातं
लोकं पीयूष-वर्षैर् असुखयद् अखिलं तत्र तत्रातिचित्रम्
[स्रग्धरा]
किं च-
गौराः कृष्ण-प्रधानाप्लुत-गति-पशवः के रमन्ते? हरिण्यः
के वामी सैरिभाश्व-प्रतिम-तनुधरा? रोहिषाख्याः प्रसिद्धाः ।
के शृङ्गानेकशाखा-शवलित-वपुषः? शम्बराख्यास् तद् एवं
मातुर् गीर्-ज्ञात-नामा स जयति स-बलो नन्द-गोपाल-बालः
[स्रग्धरा]
अपि च-
चित्रः कोऽ पि? मयूरः क इह मृदुकुहूगायकः? कोकिलाख्यः
को वक्तुं वष्टि वाणीं नरवद् अपि? शुकः पुष्पगः कश् च? भृङ्गः ।
इत्थं मातृ-द्वयेन प्रथम-वन-गमे संलपन्तौ हसन्तौ,
बालौ गोपाल-रामौ व्रज-कुल-महिलाः शर्मभिः सिञ्चतः स्म
[स्रग्धरा]
अथागतास् तरणि-सुता-तटं व्रज-
प्रजा-व्रजाः स-शकट-धेनु-सङ्कटम् ।
स-सम्भ्रमं तरितु-मनस्तया च ते
परस्परं कलकल-कीर्णम् अभ्रमन्
[जभसजग]
[56] ततश् च द्वाव् अपि भ्रातरौ मातरौ विहाय, परमम् उन्नततमं व्रजेशितुः पितुः शकटम् आगताव्, ऊर्ध्व-स्थित्या दलद्-इन्दीवर-सुन्दरता-शालि-कालिन्दीं प्राणि-वृन्द-प्रीणि वृन्दावनम् अपि फुल्ल-दृशा ददृशतुः ।
[57] श्री-व्रजेश्वरादयस् तु परस्परम् ऊचुः-अहो, रूपम् इह पारीण-वन्या-सम्बन्धिन्या भास्वत्-कन्यायाः, या खलु प्रतिबिम्ब-संवलनया वृन्दावनान्तम् अन्तर्-वहन्ती विचित्र-चित्र-पट्ट-पटवद् आचरति । [58] अहो मधुरीणां साधु-रीतिर् अस्य च वृन्दावनस्य, यत् खलु नीलाभं सित-पीत-लोहित-प्रसूनालिभिर् निःसरद्-आसार-विद्योतमान-विद्युत्-कान्ति-रोहित-रोहित-नीरद-वद् आभासमानं दूरतोऽ प्य् अमृत-पूरम् अर्पयति । यस्य चाकृष्ट-त्रिपिष्टप-पद-षट्पद-पदतया व्यक्त-दौर्लभ्यं समाकर्षि-सौरभ्यं घ्राणाभ्यागतानां दूरम् आरभ्य प्रत्युद्गमि सभाजक-सभ्य-वृन्दम् इव लभ्यते । [59] यस्य च विचित्र-पत्रि-कृत्रिम-कल-कलिल-काकली-सङ्कुल-कोलाहल-कुलम् आकर्षण-मन्त्र इवार्थ-ग्रहणं विनापि स-कर्णकं जन्युं निजाश्रयाभ्यर्णम्
आकर्षति ।
[60] तद् एवं पश्यतोः शृण्वतोर् अपि स-तृष्णयो राम-कृष्णयोर् गोपाः गाः पारयितुं व्यापारं कारयामासुः,
नीरं तरणि-कन्यायास् तीरं च तरणे तदा ।
गो-मयं गोमय-मयं क्षणाद् अजनि सर्वतः
[अनुष्टुभ्]
[61] तीर्णासु गोषु तथा कर्णीरथाद् अवतीर्णासु परिजन-परिच्छद-सहितासु गोप-वनितासु, काश-कुश-शर-वंश-वरैर् अलङ्कर्मीण-निर्मित-परस्पर-नद्ध-प्लव-राजी राज-पद्धतिर् इवासम्बाधतया साधिता । [62] ततश् च पारावारीण-भूम्योर् एकतायां कृतायाम् अवारीणम् इव पारीणम् मधुपुरी-कालीय-ह्रदयोर् अन्तरालं तद् वन-भागं सर्व एव गायन्तः प्रहसन्तः क्रीडन्तश् च शकट-घटयापि प्रविविशुः । तद् एवम् एवोक्तम्,
वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् ।
तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् ॥[भ्प् 10.11.35] इति।
[63] राम-कृष्णाउ च बद्ध-तृष्णाव् आसादित-तीरोपकण्ठाव् उत्कण्ठया भुवि शकटाद् उत्प्लुतौ प्लुत-सम्प्लुताह्वानतः सुख-समन्वितं सखीन् अन्वग् विधाय प्रत्यग्रम् अपि प्रत्यग्रायमाण-वैचित्री-गहणं गहनम् अवगाहमानौ सव्यापसव्ययोः पश्यन्तौ चरण-चारिताम् एवाचरितवन्तौ । तदा च किम् अन्यद् वर्णनीयम्, समस्तं वृन्दावनम् अपि कृष्णेन स्पृष्टं हृष्टम् एव निर्णीय परामृष्टम् । यतः,
यद् गानं विपिनस्य कोकिल-कले नृत्यं लता-विभ्रमे
रोम्णाम् उत्थितम् अङ्कुरे च कवितं योग्यान् निदानादृते ।
तन् मिथ्या यदि कृष्ण-सङ्गति-वशात् तस्मिंस् तथा वर्ण्यते
सत्यं तर्हि सदापि तत् तद् अखिलं यस्माद् दरीदृश्यते
[शार्दूल]
[64] ततश् च तौ क्वचिद् विक्रमणेन क्वचित् तु स्निग्ध-जन-स्कन्धाद्य्-आक्रमणेन बन्धुभिर् आस्वाद्यमानानवद्य-लालित्यामृतौ शुभ-शकुन-सम्भृतौ वत्स-क्रीडनाभिध-यमुना-घट्टतः सट्टीकराख्यं प्रदेशम् आसेदतुः ।
[65] अथावतरण-तुर्य-घोष-जाते राज्ञा समनुज्ञाते, तं पश्चान् निधाय दक्षिण-पश्चिमाम् अग्रे विधाय सर्वे समाकीर्ण-विस्तीर्ण-देशतयावतीर्णाः ।
लोक-हूति-व्यक्त-चेष्टं तदा नन्दादि-वेष्टितम् ।
वृन्दावनम् इदं रेजे सुप्त-जागरित-प्रभम्
[अनुष्टुभ्]
तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् ।
यद्-अन्तः-पूरितं गोभिः क्रमेण घन-रीतिभिः
[अनुष्टुभ्]
श्री-हरि-वंशे च,
निवेशं विपुलं चक्रे गवां चैव हिताय च ।
शकटावर्त-पर्यन्तं चन्द्रार्धाकार-संस्थितम् ॥इति । [2.9.20-1]
[66] एवं तद्दिने शकटैर् एव चक्रुः, दिनान्तरे तु,
कण्टकीभिः प्रवृद्धाभिस् तथा कण्टकिभिर् द्रुमैः ।
निखातोच्छ्रित-शाखाभिर् अभिगुप्तं समन्ततः ॥इति । [2.9.22]
गो-पुरस्य पुरः कृत्वा गोवर्धन-धराधरम् ।
गोप-वासः स तत्रासीन् नगोप-वसतिर् यतः
[अनुष्टुभ्]
पौरस्त्य-वस्त्य-त्यागेऽ पि तत्-तन्-मर्यादयाचितः ।
व्रजाकारस् तथैवासीत् कृष्णापारे यथा स्थितः
[अनुष्टुभ्]
अष्ट-क्रोशीम् आयतं गोष्ठम् एतन्
मध्ये तस्मिन् विस्तृतं चार्धम् अस्याः ।
एतन् मानं चात्र लोकस्य दृष्ट्या
शक्त्यानन्ताचिन्त्य-धामत्वम् एव
[शालिनी]
मध्ये राज्ञः सद्म तत्-पार्श्वतस् तद्-
भ्रातॄणां तद्-बाह्यतस् तत् परेषाम् ।
यद्वत् प्रेमण्य् अन्तरङ्गादि-रीतिर्
वासेऽ पि स्याद् औचिती तद्वद् एव
[शालिनी]
[67] अथ तत्र परम-शर्मणा गम्यमान-समय-व्रजे पूर्ववद् व्रजे क्रीडा-रतयोर् अपि तयोर् वन-दिदृक्षा पुनर् अतीव विलक्षणा जाता । ततश् च प्रतिदिनम् अपि गवावनाय वनाय प्रयातेन तातेन समं समन्तत एव व्रजतः स्म । यत्र-
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च ।
वीक्ष्यासीद् उत्तमा प्रीती राम-रामानुजातयोः
[भ्प् 10.11.36]
यथा,
प्राधान्याद् अतिदिव्य-वृक्ष-विततेर् वृन्दावनं रत्न-भू-
पल्यङ्कान्वित-पीठ-जेतृ-दृशदां वृन्दस्य गोवर्धनः ।
ग्लौ-चूर्णोद्भव-रङ्ग-भूमि-विजयि-स्थल्यावलेर् अंशुमत्-
कन्यायाः पुलिनालिर् उत्सव-शतं दुग्धे स्म मुग्धं तयोः
[शार्दूलविक्रीडितम्]
[68] अथ मधुकण्ठः समापनम् इदं साञ्जलितया व्यानञ्ज,
ईदृशस् तनयो जातस् तव गोपाधिनायक ।
पाल्यं करोति यो विश्वं बाल्यस्य चरिताद् अपि
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0