गोपालचम्पू · अध्याय 1.8
[अनुष्टुभ्]
[74] तद् एवं तद्-दिवावृत्ते पूर्ववद् एव तल्-लीला-पर्वणि साक्षाद् इव वृत्ते सर्वे पुरस्कृत-व्रजेशाः सम्भृत-तत्-तद्-आवेशा यथायथम् आत्म-पथं प्रतस्थिरे ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
बाल्य-लीला-चौर्य-शौर्यं नाम
सप्तमं पूरणम्
॥7॥
(8)
अथाष्टमं पूरणम्
दामोदरानुमोदः
[1] अथेतरद्युर् अपि प्रभात एव सभाम् उपविश्य विभातेषु वैश्यजातेषु स्निग्धकण्ठ उवाच-कदाचिद् दामोदर-मासि दरान्ववसाने, सामोदा यशोदा प्रातर् बाल-गोपालं शयानम् उन्मीलन्-निभ-नेत्र-नील-नलिन-युगलं निभाल्य शनैर् एव कर-किशलयेन पल्यङ्काद् उपरि तल्प एव परिलाल्य पुनर् असूषुपत्-कल्पम् । तस्माद् अल्पम् अल्पं निष्क्रामन्ती चालिन्दं विन्दमाना प्राह्णेतराम् अह्नाय निजालय-व्यय-सम्बन्धि दधि कतिपयं निचित-निचय-ग्रन्थिर् मन्थितुम् आरेभे । यस्मिन्न् अहनि सह-नन्दनामन्द-स्यन्दनारोहिणी रोहिणी प्रणय-मय-यन्त्रणया निमन्त्रणया श्रीमद्-उपनन्द-मन्दिरं विन्दमानासीत् । परिजन-नार्यश् च स्वस्व-कार्यातिशय-पर्याय-पर्यापणाय गताः । कार्यातिशयश् चायं हायन-शीर्षायमाण-मार्गशीर्षागमे
जन-वर्ग-महित-महेन्द्र-महा-महः कुल-परम्परा-विहितः सन्निहित आसीद् इति ।
[2] तद् एवं स्वयम् एव सयत्नी-भूय व्रज-राज-पत्नी दधि-चयम् असकृद् अधिमथ्नती तस्य निद्राया द्राघीयस्त्वाय गायन्ती तदेक-तानतया तद्-आननम् एव निचायन्ती परितस् तदीय-चरितम् एव जगौ । यद् उक्तं श्री-बादरायणिना-
यानि यानीह गीतानि तद्बालचरितानि च ।
दधिनिर्मन्थने काले स्मरन्ती तान्य् अगायत ॥इति । [भ्प् 10.9.2]
[3] अत्र मन्थनं यथा,
श्यामा लोल-दुकूल-रत्न-विलसत्-काञ्ची-चयेनाञ्चिता
तज्-झङ्कार-करम्बित-ध्वनि-धर-श्री-कङ्कणालङ्कृता ।
पश्यन्ती तनयाननं लघु-लघून्मीलन्-निभाक्षि-द्वयं
श्रीमद्-गोप-महेश्वरी चल-भुजामथ्नाद् अभीक्ष्णं दधि
[शार्दूलविक्रीडित]
[4] गानं यथा-
गोकुल-पति-कुल-तिलक त्वम् असीह ।
कृत-सुकृत-व्रज-रचित-सुख-व्रज, नयनानन्दि-समीह ॥ध्रु॥
आनन्दोद्भव-जन्म-महोत्सव-नन्दित-गोप-समाज ।
पूत-निकामृति-नव-मङ्गल-कृति-वलयित-गोकुल-राज ॥अ॥
धैर्य-निवर्तन-शकट-विवर्तनम् अनु भव्येन परीत ।
सतृणावर्तक-वायु-निवर्तक-परमेशेनानीत ॥ब्॥
मधुर-प्राङ्गण-विरचित-रिङ्गन जलज-नयन सुपुण्य ।
नाना-केलिषु नृत्य-कलालिषु दर्शित-वर-नैपुण्य ॥च्॥
तर्णक-वालधि-शबलित-तन्वधि-वलयित-मञ्जुल-शोभ ।
जरती-निवहे कौतुक-कलहे प्रबलित-मिथ्या-लोभ ॥द्॥
मां मातरम् अनु सुखम् उद्वितनु प्रततं सततं कृष्ण ।
द्रुतम् उररीकुरु तनु-वृद्धिं पुरु-खेलावलि-कृत-तृष्ण ॥ए॥
त्रिभुवन-दर्शन-विस्मय-मर्शन-निश्चित-वैष्णव-माय ।
हरि-वरिवस्या-सुखदतमः स्या विगत-जरामर-काय ॥f॥
। इति । [8 x 8 x 11]
[5] अथ लब्ध-जागरः स नित्यता-शालि-लालित्य-सागरः सपदि रुदन्न् इव समुत्थितवान्, मातरम् इतवांश् च, यथा,
दीर्घ-श्वासं गात्र-मोट-प्रयुक्तं
नेत्रे मार्जन् जाग्रद् अम्बेति जल्पन् ।
क्रन्दन् मन्थ-ध्वानम् आकर्ण्य बालः
श्री-गोपालः प्रस्खलंस् तां जगाम
[रुचिरा]
[6] ततश् च माता बाल्यता-घटित-लाल्यता-जटित-प्रणयाकुल-काकु-लव-सङ्कुलतया तेन सुभगाखण्डलेन विघटिते क्षुब्ध-दण्डस्य गति-मण्डले स्वयं पयस्-तननयोः स्तनयोः प्रस्नवं नवकं तं शावकं पाययामास ।
पयो वर्षति धाराभिर् वर्षावन् मेदुर-श्रियः ।
तस्याः पयोधरे सुष्ठु कृष्णश् चातकतां गतः
[अनुष्टुभ्]
[7] सा तत्र गर्धेनार्धे तेन पीते धन्ये स्तन्ये नेत्रानन्तर-गृहान्तर-सन्ताप्यमान-पयः-सन्तानानाम् उत्सेकं प्रति निर्विवेकतां प्रतिपद्य सद्य एव तं विहाय यद्-द्रुतवती, द्रव-गमने तस्य पतन-भीत्या च न तं गृहीत्वा गतवती ।
[8] मधुकण्ठ उवाच-किम् इत्थम् आत्थ? तावन्-मात्राय तस्याः कथं क्षुत्-क्षाम-गात्राद् बाल-पुत्राद् अन्यत्र यात्रा युक्ति-पात्रायताम्? सा हि वत्स-वत्सलानाम् अच्छता-भाग्-उपमा ।
[9] स्निग्धकण्ठः सहासम् आह स्म, गुरो, पुरोऽ वधीयतां यद् वात्सल्यविलास एव खल्व् अयम् अस्याः ।
[10] मधुकण्ठ उवाच-कथम् इव?
[11] स्निग्धकण्ठ उवाच-तथा हि, ये गेह-देहादयस् तं विनास्तमित-प्राया मन्यन्ते स्म, ते तु तज्-जन्मारभ्य तन्-ममता-मय-ममता एव ताभ्यां पितृभ्याम् अभ्यमन्यन्त । यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयस् त्वत्-कृते [भ्प् 10.14.35] इति ब्रह्म-वाक्ये व्रज-मात्रस्यापि तथा श्रूयते, किम् उत तयोर् इति । इदं च मुग्धं दुग्धं दधि च तद्-अधिक-तत्-प्रधानतावधिकम् एवेति स-विशेषतयावगम्यते ।
[12] तद् एवं सति तस्याः सेयं भावना- क्लेशम् अपि विषह्य स्पृह्यमाणां नाना-निज-गृह्य-क्रियां साम्प्रतं न जानाति सोऽ यं बालक इति दयनीयतयास्मदीयम् एव खल्व् एतदीय-कृत्यं कृत्यम् इति । सोऽ यम् एवं-विध-स्नेह-विविध-विधिस् तैर् एव बोद्धुम् अध्यवस्यते यैः कृतं तर्जन-ताडनादिकम् अपि लालना-मयतां कलयति, किम् उतान्यत्? यतः,
स्नेहतः क्वचन रुट् प्रजायते
तस्य वर्धन-करी च दृश्यते ।
मेदुरेऽ पि मुदिरे तथा तथा
विद्युद्-अग्निर् असकृद् विवर्तते
[रथोद्धता]
[13] तथा हि, तयोर् मिथो हितयोर् उभयोर् अपि चरितम् । दुग्धाय गमन-समये सा खलु तन्-मुदितता-निबन्धनम् इदम् उदितवती, वत्स, निर्मञ्छनं भजामि, क्षणं तावन् मन्थन-गर्गरी रक्षताम्, त्वदीयं पयो वीक्ष्य यावद् द्रुतम् अहम् आयामि इति । ततश् च-
यावद् विहाय पृथुकं बत मन्थनान्ताद्
अम्बा ययौ द्रुतम् असौ तत आययौ च ।
तावत् पयोधर-युगं हृदय-स्थ-वस्त्र-
क्नोपं ववर्ष पथि पिच्छिलता यथासीत्
[वसन्ततिलका]
[14] तद् एवम् अपि स तु निजार्थिते प्रत्यर्थिते भृशम् आविजते स्म, यथा-
तेनाथ कोप-स्फुरितारुणाधरं
सन्दश्य दद्भ्याम् उदसर्जि रोदनम् ।
दण्डाहतामत्रम् अखण्डि चाश्मना
नालम्भि तस्मिन् नवनीतम् अण्व् अपि
[वंशस्थ]
[15] अत्र तु वर्णयन्ति,
दन्तेन्दु-लेखाविशद् आधरारुणं
चक्षुश्-चकोर-द्वयम् अश्रु चादधे ।
तदा शिशोर् अस्य कराम्बु-जन्मनाप्य्
अरिष्टम् उद्धूय बलाद् विजृम्भितम्
[उपजाति 12]
[16] तद् एवं कलशान्तरीणे कालशेये सर्वतो रीणे पर्वान्तरम् अपि जातम्, यथा-
ततो गृहाभ्यन्तर-शिक्य-लक्षितं
हैयङ्गवीनं परिगृह्य यत्नतः ।
जघास तत्रोर्वरितं तु पक्षक-
द्वारेण निह्नुत्य जहार केशवः
[उपजाति 12]
[17] स च यत्नो, यथा-
कुञ्चीक्षेपाद् अर्गलाम् अन्तरङ्गाम्
अल्पां मुञ्चन् सद्म गत्वा युयोज ।
कृत्वा खट्टां तत्र निःश्रेणिकाभां
कृत्वा सर्पिर् गुप्तम् अञ्चन्न् अपागात्
[शालिनी]
ततः क्षणाद् दुग्धम् इतं तु मुग्धताम्
आधाय माता सुतम् आगमद् द्रुतम् ।
अप्राप्य तं तस्य तु कर्म तद्-विधं
बुद्ध्वा स-कोपं स-सुखं जहास सा
[उपजाति 12]
[18] तत्र प्रथमं शङ्का-सङ्कसुकायां तस्यां योगमाया-प्रकाशिताकाश-वाग् एव हास-प्रकाशनस्य बोधस्य कारणं जातम् । [19] सा यथा-
शिशु-मधु-कृद् अतक्षन् मध्व् असिद्धं पिपासन्
सरसिज-मुकुलाधश् छेदम् आचर्य पश्यन् ।
द्रव-विगलन-मात्रं तत्र निर्विद्य मध्ये
कमलम् अपरम् अञ्चन् प्राप तस्मिन् मधूनि
[मालिनी]
किं च,
शमयाञ्चकृषे दुग्धं
क्षुभितं तत् तव सुदक्षता कलिता ।
शमयसि यदि शिशु-कोपं
तादृशम् उच्चैस् तदा प्रशस्येथाः
[उद्गीति]
[20] तद् एवं श्रुत्वा हसित्वा कालशेय-लेशाध्यवसेयतानपह्नव-चरण-चिह्नम् ईक्षित्वा साधकतमान्तरेण द्वार-यन्त्रं मोचयित्वा च सा पुनर् एवम् आचचार-
गत्वा गृहाभ्यन्तरम् अन्यद् अप्य् असौ
दृष्ट्वा सुतस्यातुल-चापलं प्रसूः ।
तदीय-वर्त्मानुगमेन च क्रमाद्
आलोकयल् लोल-विलोचनं च तम्
[उपजाति 12]
[21] तत्र लोल-विलोचनत्वम्, यथा-
हविर् अभिहृतवान् इहास्मि दृश्यः
कथम् अथ मातरम् ईक्षणं नयानि ।
इति नयन-युगं श्रुति-द्वयान्तर्
मुहुर् इव वेशयति स्म बाल-कृष्णः
[पुष्पिताग्रा]
अधो-मुखी-कृत्य बलाद् उदूखलं
निविश्य तस्योपरि चञ्चलेक्षणम् ।
कीशाय सर्पिर् ददतं प्रसूः सुतं
वीक्ष्य स्मितं प्राप तथा च विस्मितम्
[उपजाति 12]
गूढं प्रतस्थे कृत-मोषम् आत्मजं
धर्तुं प्रसूर् एष निरीक्ष्य चाद्रवत् ।
प्रसिद्धिर् एषा खलु लोकतः शतं
दृशोर् मतं हर्तरि भर्तरि द्वयम्
[उपजाति 12]
[22] स खलु दृप्तः शाखा-मृगस् तु नवनीतानां तृप्तः पट-वेष्टित-यष्टिम् एतां दृष्ट्वा द्रुतम् एव शाखाम् आरूढः ।
अथ द्रवन्तं सुतम् अन्वगात् प्रसूः
प्रसून-वृष्टि-प्रथ-केश-बन्धना ।
क्व यासि रे चोरवरेति जल्पिता
नातिस्फुट-क्रन्दन-हास-सुन्दरम्
[उपजाति 12]
तोकं धर्तुं सा समीपेऽ पि शीघ्रं
धावन्ती तत् प्राप धावन् न माता ।
प्रागञ्चन्तं वायु-वेगात् प्रतीची
स्तोकाम्भोदं यद्वद् अम्भोद-वीथी
[शालिनी]
[23] अथ पुर-द्वारं न मातुर् गमन-द्वारम् इति मत्वा पलायन-ग्रहिलस् तद्-दिशम् एव जग्राह । जननी तु तदानीं तत्राजनतां जानती तम् एवानुयातवती । ततश् च,
यदाद्रवत् पृष्ठम् अनीक्षमाणस्
तदा न लेभे पृथुको जनन्या ।
यदा भयाद् वीक्षितवान् स पश्चात्
तदा तयासौ जगृहे करेण
[उपेन्द्रवज्रा]
[24] स च तथापि-
अक्षिणी द्रव-गमाय साक्षिणी
रोदनं क्रुद्-उदय-प्रणोदनम् ।
चालनं वपुषि धार्ष्ट्य-पालनं
सृष्टवान् अविनयं न मृष्टवान्
[स्वागता]
निर्ममे प्रसभम् अम्बया मुखं
सम्मुखं निजशिशोर् यदा यदा ।
सर्पिर्-अर्पित-विलेपनं तदा
रूक्षणाय तद् अघुक्षद् एष च
[स्वागता]
ततश् च-
वष्टि चेद् बत भवान् गृह-मुष्टिं
यष्टिम् आकलय मत्-कर-मृष्टाम् ।
इत्थम् उच्चकितिते कमलाक्षे
तां जहौ निजजहौ व्रज-राज्ञी
[स्वागता]
मा मेति वदता तेन, चोर चोरेति गीः-कलिम् ।
रहसा सह सा राज्ञी सहसा सहसातनोत्
[अनुष्टुभ्]
अहो राजासि चोराणां, चोरास् त्वत्-पितृ-गोत्रजाः ।
इत्य् आद्य् अचकलन् माता शिशुना गव्य-चोरिणा
[अनुष्टुभ्]
किं च-
दधि-मण्डः कथं खण्डो? दण्डोऽ यं परमेशितुः ।
घृतं कीशाय कः प्रादाद्? असौ येन विनिर्मितः
[अनुष्टुभ्] इति ।
शङ्के स्वादुङ्कारम् इत्थं सदा त्वं
यज्ञाङ्गीयं लेक्षि हैयङ्गवीनम् ।
एवं चोरङ्कारम् अम्बा शिशुं तं
प्रत्य् आक्रोशन्त्य् आर्द्र-चित्ता बभूव
[शालिनी]
[25] ततः स-संरम्भं विहस्य, सरहस्यम् उच्यताम्, दम्भश् च मुच्यताम् इति मात्रा पृष्टः सृष्ट-रोदन-नेत्रः पुत्र उवाच-
त्वय्य् उद्भटं प्रद्रवन्त्याम् अङ्घ्र्याः कटक-घट्टनात् ।
अस्फुटद् दधि-मण्डस्य घटः, का मम धृष्टता?
[अनुष्टुभ्]
कीशोऽ यम् ईश-निर्दिष्टः प्रविष्टः सद्म मुष्टये ।
कृष्टः सर्पिः-परामृष्टो मया, का मम दुष्टता?
[अनुष्टुभ्]
तथापि त्वाम् आत्त-यष्टिं दृष्ट्वा दुद्रव चोरवत् ।
त्वं पुनर् मां वृथा भीतम् अपि दुद्रोथ निर्दयम्
[अनुष्टुभ्]
[26] अथ सानुतापम् इव माता प्राह-रे वाचो-युक्तिमत्तम चोरोत्तम! त्वं नरोत्तम-जातोऽ पि वानर-प्रियो वानर-प्रकृतिर् एवासि ।
[27] सुतस् तु स-भयं सभय-प्रदानम् अप्य् उवाच-ततो वनम् एव प्रविश्य स्थास्यामि ।
[28] अथ माता सभयं चिन्तितवती, को जानीयात्, कुर्याद् अपीदं मानी । तर्हि तन्-निबन्धनं बन्धनम् एव सन्धेयम्, यद् एकया मयालय-बालयोर् अवधानं दुर्धानं भविता । [29] स्पष्टं त्व् इदम् उक्तवती-
रे चौर चञ्चल-विलोल-विलोचन-श्री-
निक्षिप्त-मोह मनुषे विनिवारणं न ।
बद्ध्वा भवन्तम् अहम् आशु चलामि गेहं,
शक्तिर् यदि प्रथयतां कुरु चौर्यम् अन्यत्
[वसन्ततिलका]
[30] बन्धोद्यमे रुषितता-रुषितः पुत्रः फुत्-कुर्वन्न् इव सास्रम् उच्चैर् उवाच-अम्ब, रोहिणि, सह सहजेन क्व गतासि? त्वया रहितं माम् इयं बध्नाति, तद् द्रुतम् इह समेहि ।
[31] तद् एतद् दूरगतया तया नावधार्यते स्म, किन्तु पराः पारम्पर्येणावधार्य कृतोपालम्भ-चर्याः काश्चिन् निकट-निकाय्या नार्यः परिवार्य मिलिताः । स्व-वाचम् इह स्मारयितुम् ऐकागारिकः सोऽ यं भवद्-अगारेऽ पि कां कारिम् अकार्षीत् इति सूचयन्त्य इव सह जहसुश् च ।
[32] ततस् तद् अनवदधती कुन्तल-सन्तान-बन्धाद् विघटितां पट्ट-डोरीम् एकाम् उपसाद्य, सद्यः सद्म-द्वारान्तर् उपसद्यमानम् उदूखलम् अनु वत्स-गल-बन्धवद् अलग्नम् एवावलग्ने स-निर्बन्धं बन्धुम् उद्यतवती, स्तनन्धयं शिक्षा-जननी जननी । सा तु द्व्य्-अङ्गुलाङ्ग-न्यूनाजनि ।
[33] ततश् च तस्या धम्मिल्लाद् उद्वास्यान्यस्या विन्यस्तत्वेऽ पि तद्-अवस्थतायां दृश्यमानायां साश्चर्यम् इव नार्य्-अर्पितैर् मन्थन-नेत्रैर् बहुभिर् अपि पारं न वव्राज व्रजेश्वरी । ततश् च-
तद्-अङ्गे द्व्य्-अङ्गुलाभासे सर्वे लब्धावकाशकाः ।
दृश्यन्ते स्म वटास् तत्र विदूराद्रौ घना इव
[अनुष्टुभ्]
[34] तद् एतत् पश्यन्तीभिः परिहसन्तीभिर् उक्तम्, व्रज-देवि, निवेदितम् एवास्माभिः; स एष समुन्नतया मोहनतया कफल्लकम् अपि वेल्लयन् लोप्त्र-मात्र-सुकलतानन्दी परास्कन्दी सन्दीप्यते इति ।
[35] सा प्राह-किं जानात्य् असाव् अद्य-जातः, किन्तु भवतीनाम् एव कापीयम् अवद्याविद्या यद् अन्तर् अस्य पक्ष-पातिन्यः समीक्ष्यध्वे, बहिर् एवान्यथा व्यवहारतया विहरन्त्यः स्थ ।
[36] सर्वाः सहासम् ऊचुः, तत्रभवति, भवच्-चरणेभ्यः शपथम् आचरामः, नास्माकं विस्मापिकेयं विद्या विद्यते इति ।
[37] सा च चेतसि विचारम् आचचार, तर्हि गर्ग-वचन-वर्गवत् सकृत् कापि भागवती शक्तिर् एवामुम् अवरुणद्धि, न चायं किञ्चिद् अपि जानाति ।
[38] अथेयम् अस्याश्चर्यस्य पर्यन्तं पर्यालोचितुं ताभिर् एव गृहाद् अन्यान्य् अपि मन्थन-दामानि मुहुर् मुहुर् आनाय्य सनिर्बन्धं बन्धम् आदधत्य् अपि गत्य्-अन्तरं न प्राप । ततश् च-
बध्नती न तु सुतं व्रजेश्वरी
पारम् आप तद् अपार-कर्मणः ।
घर्म-वारि-वरिमाणम् आव्रजद्
वार-वारम् अलकावृतीर् अपि
[रथोद्धता]
[39] ततो यावद् एव यादव-देव-कुलजस्य तस्य हठवत्तायां प्रयत्नाधीर् आसीत्, तावत् तद्-आग्रहोऽ पि ग्रह-निगृहीत इवाभूत् । मातृ-वैकल्येन कल्यमान-मनस्त्वे तु प्रथम-डोरिका-द्वय-मात्र-सम्बद्ध-गात्रतया बद्ध एव सोऽ यम् अबुध्यत । अन्यानि तु सर्वाणि दामानि तस्मिन्न् उर्वरितान्य् एवादृश्यन्त । [40] योगमाया-नामिनी तत्-कर्म-कारिणी हि तन्-मनोऽ नुसारिणी, यया तन् निष्पाद्य मातरं प्रत्य्, अपि भ्रम एवायम् इति प्रत्ययः प्रत्यहम् आसाद्यत । [41] अथ लब्ध-सन्धं तं बन्धं दीर्घतमयान्यया रज्ज्वाबध्य च तया तद्-उदूखल-मध्यं बबन्ध । [42] बद्ध्वा च माता शिक्षां घटयन्ती निज-कठिनताम् एव तस्मिन् हठिनि प्रकटयन्ती ताभिर् विहसन्तीभिः सह स-नर्म-गेह-कर्मणे गच्छन्ती, तत्-परिपालनाय बालकान् परितः स्थापितवती
।
[43] ततश् च गतासु तासु क्षणं कृत-रोदन-विनोदः, पश्चाद् बहल-खलं प्रत्य् उदूखल-नोदनाय लब्ध-मोदः स तु बद्ध एव केवल-बाल-वलिततया प्रबलित-चापल-श्रद्धस् तैः सह प्रहसन् खेलन्न् उलूखलम् एतं लघु लघु चालयाम् आस, हारयामास च तैर् एवोल्बण-हासतया शुल्व-हारिणीनां लब्ध-शून्य-साधर्म्य-हर्म्य-श्रेण्या हारि-शिक्यित-नव-नव-नीतादिकम् आहारयामास च । किन्तु, तत्-कर्षण-मय-हर्ष-प्रद-लीलया न च करेण न चापरेण तद्-उद्दान-मोचन-रोचनताम् अवाप ।
[44] तत्र तु पुर-द्वार-पुरस्ताद्-वर्ति वातावर्त-वर्तित-नर्तनम् इव यमलम् अर्जुन-द्वयम् अस्य नेत्र-वर्त्मनि वर्तते स्म । क्रमेण चासौ तयोर् अन्तर एव विक्रमते स्म इति ।
[45] एतावन् मुक्त-कण्ठम् उट्टङ्कयन् स्निग्धकण्ठस् तद्-भञ्जने कारणं हरेर् ऐश्वर्य-प्रचारणम् इति तत् प्रतारयन् कारणान्तरम् एव व्याजहार- [46] ततः स्फुटं झटिति परतः पर्यटितुम् उत्कण्ठया तन्-मध्य-सम्बद्धेनैवाध्वना निश्चक्राम, तद्-अध्वनस् तु सङ्क्षिप्ततयाधः-क्षिप्ततया तद् उदूखलं प्रतितष्टम्भे ।
[47] अथ स्फुटम् असौ वटीत्रोटनेच्छया तत् कृष्टवान् । हठाद् आकृष्टे च तस्मिन्-
कुठ-द्वयं कटकट-शब्द-मुग्ज-
विघट्टितं स्फुटम् अलुठद् द्वयोर् दिशोः ।
न धी-धृतिं वधिर-विमुग्धताम् अधि
व्रजन्न् अधि व्रजम् अदधात् प्रजा-व्रजः
[रुचिरा]
चित्रं तुत्रोट तत् तत्र वज्र-मज्जार्जुन-द्वयम् ।
न पुनर् मातृ-वात्सल्य-निर्बन्ध-मय-बन्धनम्
[अनुष्टुभ्]
[48] श्लोकयन्ति चात्र-
श्यामाङ्ग-द्युति किङ्किणि-ध्वनि-धरं रिङ्गातिरङ्ग-प्रदं
कर्षच् छश्वद् उदूखलं खर-खरत्-कार-प्रकार-प्रथम् ।
विस्फूर्ज-प्रतिमार्जुन-द्वय-कटत्-कारार्जितात् कौतुकात्
पर्यावृत्त-निरीक्षणं व्रज-वधू-लाल्यस्य बाल्यं स्तुवे
[शार्दूल]
[49] अथ तयोर् अत्यूर्जितेन विस्फूर्जितेन मुहूर्तार्धम् आर्ततया गोष्ठाधिष्ठाना मूर्च्छाम् ऋच्छन्तः स्थिताः, तन्-निकट-सङ्घट्टिनीम् अर्भक-घटां विना । सा तु तल्-लीला-माधुरी-धुरीणतया चित्राकृतिर् इव मित्रावली न वित्रासम् आससाद । [50] दूराद् अपि तद्-ऊर्जितं विस्फूर्जितं सम्भ्रम-कार्य् अवधार्य तु व्रज-पति-मुखास् तर्कित-मुखास् तद् एवाभिप्रतस्थिरे । सत्रा स-त्रासम् अत्राभिदधिरे च-
विना वातं विना वर्षं विद्युत्-प्रपतनं विना ।
विना हस्ति-कृतं दोषं केनेमौ पातितौ द्रुमौ?
[अनुष्टुभ्]
अजन्य-जन्यम् एतावज् जाता निर्जनता कुतः? ।
तस्मात् तस्मान् महा-गर्जान् मूर्च्छाम् आर्च्छन् व्रजे जनाः
इति ।
[अनुष्टुभ्]
[51] अवदधिरे च तन्-निकट-तटस्थं भासमान-हास-विलास-मुखम् उलूखलं कर्षन्तं लीला-सुखं वर्षन्तं बाल-गोपालम् । तेन च, कथं, कथं? इति कथयन्तस् तम् आवृन्वन्त एवावतस्थिरे ।
[52] स तु पितरम् अनुविन्दमानम् अनुचक्रन्द । [53] पिता चान्तः-सम्भ्रान्तः सन्न् अपि तस्य सान्त्वनाय मुख-मात्रं हसित-पात्रम् आचरन्न् अचिराद् एव तं विपाशयामास । [54] स-रोदन-वदनं वदनं चुम्बन् विदन्न् अपि मुहुः पप्रच्छ च, पुत्र, कुत्रत्यः स खलु खल-बुद्धिर् येन चोलूखले निर्बन्ध-जनित-बद्धस् त्वम् असि? इति ।
[55] स तु पितरि रतश् चिरतः श्लिष्ट-कण्ठतयाभ्यर्णम् आगतः कर्णे वर्णयामास, तात, मातैव इति ।
[56] पिता तु तां पूर्वं विगत-संवेदतया अनन्तरं तु स्वत एव जात-निर्वेदतया दूनां वेद स्म । तत एव न सहसा रहसापि परिभाषितुम् इयेष । अज्ञतयावज्ञया न च पप्रच्छ बालकान्, किम् इदं वृत्तम्? इति ।
[57] ते तु स्वयम् एवोचुः, स्फुटम् अनेन कृत-मध्य-गमनेन विस्तीर्ण-खले पुर-स्थले क्रीडितुं निष्क्रम्य, विकृष्ट-तले तिर्यग्-भावाद् अचले चास्मिन्न् उलूखले खटत्-खटिति त्रुटितताम् ऋच्छत् कुठ-द्वयं झटिति लुठद्-भावम् आनर्च्छ ।
[58] ततश् च खण्डिताभ्याम् आभ्यां निर्गत्य कटक-मुकुट-कुण्डलादि-मण्डितौ रोचिष्मद्-वपुष्मन्तौ शुष्माणौ प्रणमन्तौ समन्ताद् एतं किम् अपि सन्तोषयामासतुः । तद्-उत्तरम् उत्तरस्यां दिशि प्रास्थिषाताम् ।
[59] तद् एतद् आकल्य, बालानां प्रलापोऽ यम् इति वत्सलाः कलयाम्बभूवुः । अन्ये तु सांशयिकतानपेत-चेतसः प्रजाताः ।
[60] ततश् च क्रमाद् एक-द्व्य्-आदि-प्रक्रमान् मिलितेन व्रज-जनेन समं व्रज-भूपालः स्व-बालकेनाङ्कं सद् अलङ्कृत्य नित्य-कृत्य-कृते कालिन्दीम् अनुविन्दमानस् तेनानुषज्य निमज्य तत्रैव विप्रैः स्वस्ति-वाचनादिकम् आचर्य, महा-दानादिकं विसर्ज्य, निकाय्यम् आसज्य च, पूर्वाह्न-भोजनाय ससज्ज ।
[61] तज्-जाया तु तज्-जाभ्यां दुःख-लज्जाभ्यां सज्जती गृहाद् आग्रहाच् च न निष्क्रान्तवती, न च गृहागताः सम्भाषितवती । सर्वास्व् अर्वाग् एव निवृत्तासु, समाधानोहिनी रोहिणी गौरव-पात्रीभिः पौरोगवीभिः परिवेषयामास ।
[62] श्री-व्रज-राजस् त्व् अवरात्मजं रामम् अपि समानीय तेन सुतेन च सार्धं तयोः स्निग्ध-कल-कोलाहल-निदिग्धः सग्धिम् आचरितवान् । ताभ्यां मूर्त-परमानन्द-पूर्ताभ्यां मुहूर्तम् एकं विश्रम्य च सम्यग्-ईदृग्-औशीर-सुख-धीर-चेता गवागमन-रम्य-समये गोस्थानम् आगम्य गो-दोहनादि-कार्यं च कारयति स्म । [63] उदवसिताद् अतिसितां सिताम् आनाय्य तया सहितं सुहितं सह स-वयोभिस् तनयौ स्तन-पान-प्रतिनिधितया धारोष्णं पयः पाययामास च । शिक्षयामास च तत्र पत्र-पुटी-घटनाम् ।
[64] अथ पुनर् अपि हर्म्यम् आगम्य ताभ्याम् आचरित-सायम्-भोजन-सुख-समाजे व्रज-राजे, सह-रोहिणीकास् तदीय-सन्तत-सुखाभीकाः स्वकुल-माणिक्य-लक्ष्म्यः सर्वाः प्रामाणिक्यः समासाद्य निवेदवत्यः-
[65] राजन्, कृष्ण-जनन्य् अद्य न भुक्तवती, न केनचिद् उक्तवती च वर्तते । ताम् अनु सर्वाश् च तथा वर्तन्ते ।
[66] व्रजराजस् सह-दुःख-हासम् उवाच-वयं किं कुर्मः? रोषम् अनुवर्तमाना स्वयम् एव स्व-दोषं पश्यतु ।
[67] सर्वाः सास्रम् ऊचुः, हन्त, सा खल्व् अन्तर् बहिर् अप्य् अतिकोमला तवेदृशा-लापेन तापेनातिम्लास्यति ।
[68] व्रजराजस् तु स-स्मितः सुतम् अपृच्छत्, स्व-मातरं यास्यसि?
[69] कृष्ण उवाच-नहि नहि, किन्तु त्वाम् एव समया समयान् गमयिष्यामि ।
[70] अथ राज-ज्यायः-प्रजावत्यः सहासम् ऊचुः-स्तनं कस्य पास्यसि?
[71] कृष्ण उवाच-सितासम्भविष्णु धारोष्णं पयः पास्यामि ।
[72] सर्वा ऊचुः-केन क्रीडिष्यसि?
[73] कृष्ण उवाच-तातेनैव समम् । तथा भ्रातरम् अपि सङ्गं गमयिष्यामि ।
[74] व्रजराज उवाच-भ्रातुर् मातरं कथं नानुगच्छसि?
[75] कृष्णः स-रोषास्रम् उवाच-मां विहायेयम् अपीयाय इति ।
[76] तद् एतद् आकर्ण्य सास्रा रोहिणी नीचैर् उवाच-पुत्र, कथं कठोरायसे? माता तव दुःखायते ।
[77] कृष्णस् तद् एतद् अश्र्ण्वन्न् इव सास्रं पितृ-मुखम् ईक्षते स्म । रोहिणी तु सङ्कर्षणं तस्य सङ्कर्षणाय सञ्ज्ञया ज्ञापयामास । तेन गृहीत-हस्तः पुनर् असौ निरस्त-तद्-धस्ततया विद्रुत्य पितुर् उत्सङ्ग-सङ्गी बभूव । तथाभवंश् च भुजाभ्याम् अवगुण्ठित-तत्-कण्ठः कृत-बाष्प-वृष्टिं तद्-दृष्टिम् एव पश्यंस् तम् अतीव वश्यम् आचरन्न् आसीत् ।
[78] व्रज-राजस् तु मातर्य् अन्तः-स्नेहम् अस्य पर्यालोच्य तद् अभिव्यक्तये हस्तं किञ्चिद् उदस्तं विधायाभिदधे-पुत्र, यदि वक्षि, तर्हि बाढं तां ताडयामि ।
कृष्णस् तु तद् असहमानस् तस्य हस्तं स्तम्भयामास । [79] ततो व्रज-राजः पुनर् विहस्य निज-वत्सलतयातीव सदयं तदीय-मातुर् अपि हृदयम् अधियन्-पुत्र, तव माता यद्य् एवं भविष्यति, तदा किं करिष्यसि? इत्य् अनधातोर् विरुद्धार्थं प्रयुज्य स-परिहासम् आह स्म ।
[80] कृष्णस् तु बालक-भावेनाजस्रं मातरि स-तृष्णः सास्रं, कुत्र मे माता? तत्र गम्यताम् इति स-शङ्कं रोहिण्य्-अङ्कं गतवान् । [81] ततश् च, प्रहसित-कलकलेषु सकलेषु परम-सुखारोहिण्या रोहिण्यानीतः सोऽ पि वेश्म प्रविश्य स-रोदन-मोदम् अम्बाला-गलं लग्नवान् । ततश् च-
वत्स-मूर्ध्नि चिबुकं दधती सा
धेनुवद् वलित-घर्घर-शब्दा ।
रोदन-प्रथनया द्रवद्-आत्मा
रोदयत् परिकरान् अपि सर्वान्
[स्वागता]
[82] अथ तासां त्व् अनेक-सान्त्वनया लब्ध-शान्तिः किञ्चिद् व्यञ्जित-मुख-कान्तिः श्री-सुमुख-कन्येयं स्तन्येन तनयं प्रीणयामास । बुभुजे च सहाग्रजातेन तेन परम-हिताभिः सहिता ।
[83] तद् आरभ्य तु सङ्कोचं उपलभ्य व्रजराज-लोचन-गोचरतां वासर-त्रयं नासादितवती । दिनान्तरे तु पितृ-निदेश-पाल-बाल-गोपालेनैव चेलाञ्चले गृहीत्वा नीता । तद्-दिनश् च स-नर्मामोदं दामोदरः इति व्रज-वधूभिर् आहूयते स्म, सोऽ यं श्याम-मनोहरः इति ।
व्रजेश्वरीं स्तोतुम् अपीह कोविदः
को वा भवेल् लोकग-लोक-सङ्ग्रहे ।
ब्रह्मापि सर्वोऽ पि रमापि यत्-कला-
कलां च नाञ्चीद् इति बादरायणिः
[उपजाति]
[84] सोऽ यम् अस्या बादरायणिना घटित-सम्यग्-उद्घट्टनः श्रीमान् यशः-पटह-शब्दस् त्रैलोक्यम् एव श्लोक्यतया पर्यटन्न् अस्ति । तथा हि, नेमं विरिञ्चिः [भ्प् 10.9.20] इत्यादि ।
[85] श्री-रामस् तु निजानुजं स-तृष्णम् आह स्म, स्मरसि, भ्रातर्, बृहद्-वने वत्स्यावः ।
[86] अनुजोऽ पि स-स्मितम् आह स्म, आं आं, तत्र क्रीडाम् अपि करिष्यावः इति ।
[87] अथ कथकः समापनम् आह-
ईदृशस् तनयो जातस् तव गोप-महेश्वर ।
यौ वृक्षाव् अपि तौ स्वस्य दिव्य-भक्तौ विनिर्ममे
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0