गोपालचम्पू · अध्याय 1.10
[69] तद् एवं तल्-लीलानां साक्षात्-प्रथायां कथायां वृत्तायां पूर्व-वृत्तवत् तद्-दिनेऽ पि सर्वेऽ प्य् आनन्दानाम् अखर्वाणां खर्वेण कर्बुरिता निज-निजालयं कलयामासुः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
श्री-वृन्दावन-देशे प्रवेशो नाम
नवमं पूरणम्
॥9॥
(10)
अथ दशमं पूरणम्
वत्सासुराद्य्-उत्सादनम्
[1] अथ प्रातर् अपि पूर्ववत् कथा प्रथते स्म ।
[2] यथा स्निग्धकण्ठ उवाच- अथानयोर् अतिबाल्याद् ऊर्ध्व-विलासम् आरभमाणं सुकुमारं कुमारता-शेषं वर्णयिष्यामः । यथा-
मुक्त-स्तन्यम् उदञ्चद् अङ्गवलयं चाञ्चल्य-पर्याकुलं
खेला-चञ्चद्-अखर्व-नेत्र-युगलं शश्वत्-प्रहासाननम् ।
नाना-कौतुक-भावितं सखिजनक्रीडाविलासास्पदं
वत्सेक्षा-स्पृहि राम-कृष्ण-कलितं कौमारम् अन्तर् भजे
[शार्दूल]
अपि च,
शुभ्रश्यामौ नील-पीताभ-वस्त्रौ
शृङ्गी-पारीध्वान-शिक्षासु दक्षौ ।
क्रीडा-लोलौ मित्र-वर्गे विचित्रं
चित्रीयेते राम-कृष्णौ कुमारौ
[शालिनी]
[3] एतद्-अवधि च वस्त्र-परिधानं क्रमेण निश्चितं जातं, यथा-
वस्त्रं दधाति जननी-निहितं प्रयत्नात्
क्षिप्रं च बन्धन-धिया स्वयम् उज्जहाति ।
भूयस् तद् अर्दति बिभर्ति च यस्य चार्धं
व्रीडां विकल्प्य लघु नित्ययति स्म कृष्णः
[वसन्ततिलका]
[4] तत्र नित्यम् एव गोजातम् अनुयातेन तातेन सह यातवन्तौ समन्ताद् अलं तौ भ्रमतः । यथा,
अगच्छतां तत्र वने जनानां
स्नेहार्थिनां क्रोड-गतौ पितुश् च ।
अपृच्छतां तत्-प्रति-वस्तु बालाव्
अयच्छतां शर्म च राम-कृष्णौ
[उपजाति 11]
[5] तत्र च निवार्यमाणाव् अपि विस्फार्य्-अहम्-पूर्विकया गो-गोयुगं गोगोयुग-युगं गो-षड्-गवम् अपि युगपद् वशयन्ताव् अक्रीडताम् । अनन्तरम् अपि परस्परम् अपरस्परं सद्रवम् एव द्रवन्तौ विघटित-धेन्व्-अनडुह-सङ्घट्टाव् उद्धता धेनुर् वृषभान् अपि शृङ्ग-ग्राहं निवर्तयतः स्म । किं च, पञ्चकेनापि पशून् गृह्णीतः स्म ।
[6] दिन-कतिपये पुनर् एवं गत-समये तद् एतद् उपधार्य व्रजेश्वर्या पतिं प्रति प्रणय-स्फुरद्-उपालम्भं भणितं, किम् इदम् अपूर्वम् इव कुर्वन्ति तत्र-भवन्तः? इति । तेन च लज्जातङ्कौ सज्जता तौ वञ्चयता वनं चञ्चतामुनानुमता तं च तं च सा च सा च तन्-माता वन-गमनतस् तनयम् अतिप्रणयान् निरुद्धवती । [7] निरुद्धौ च ताव् उत्कण्ठाविष्ठाव् अरोदिष्टाम् । तत्र च कदाचिद् अह्नाय निह्नवम् आरभ्य पितुर् अभ्यर्णं गच्छन्तौ, सवयोभ्यः सुखं यच्छन्तौ वर्त्मापरिकल्य व्रजबहिर् उपशल्य-स्थैर् वत्स-पाल्यैर् बालैः कृत-मेलन्तौ खेलन्तौ तत्-पालायमानौ मुमुदाते ।
[8] तद् एवं तयोर् असकृत्कृतिम् अनुभूय भूयः श्री-व्रज-भूपती दम्पती सुख-सम्भूयमानतायाम् अपि भव्य-दूयमान-मनस्तया मन्त्रयामासतुः: यदि गो-सङ्गावस्थानं विना न स्थातुं पारयतस्, तर्हि व्रज-सदेश-देशे वत्सान् एव तावत् सञ्चारयताम् इति ।
[9] तद् एतद् एव व्रजराजः सहजादिभिर् मन्त्र-विद्भिः सह मन्त्र-सहतया विचार्य, तन्त्र-विद्भिः पुण्य-दिनम् अवधार्य, पुण्याह-वाचनादिकम् अपि सञ्चार्य ताभ्यां गो-बाल-पालनारम्भम् आचारयाम्बभूव । [10] ताभ्याम् एव सह महा-गोपाला महं विधाय मनसि च सुखं निधाय निज-निज-बालान् वत्स-पालान् कलयामासुः । यस्य चादौ जननी-जनितेन मज्जन-सज्जनेन भोजन-भजनेन वसन-वसनेन सद्-अलङ्करण-धरणेन वेत्र-नेत्र-मुरली-गवलानां वलनेन च बल-कृष्णौ शोभां लेभाते ।
[11] कृष्णस् त्व् आनीते उपानहौ नहि-नहि-कारेण बहिश् चकार, कुल-परम्परा-गत-धन-गोधन्-समाराधन-धर्म-मर्म-बाधनं हि तत्-प्रसाधन-वशाद् भवति इति । ततः कृष्ण-भावम् अनुभवता रामेणापि तथानुमतम् । [12] दुष्कर-गणनानि गोधनानि तु नूनं कृत-तद्-अवधानानि तद्-आनुकूल्याय प्रखर-खर-खुर-खनन-खुरलीभिर् मृन्-मय-रेणून् अपि पुष्प-रेणून् इव विधाय कर्कराकण्टकादिकम् अपि खण्डशस् तथा सन्धाय तदीय-चरण-प्रचार-भूमिं सुख-सञ्चारतया कारयामासुः । वसुधा च सुधा-सेकम् एव तदीय-चरण-सञ्चारेण मन्वाना वृन्दया सह च योगं तन्वाना तद्-आनुकूल्यावशेषं निरवशेषं चकार । यथा च खदिर-वनादिकम् अपि सुख-सञ्चाराय सम्यग् अधिकं भवति । [13] यथा च
सर्वत्र तदीय-चरण-किशलयालय-सूक्ष्म-रेखा-लेखानाम् उदयः सर्व-मुद्-अयनं भवतीति प्रकृतम् अनुसरामः ।
[14] तद् एवं महा-मङ्गल-सङ्गततया वत्स-चारणोत्सवम् अनुक्रियमाणे प्रयाणे समुद्गत-शोभ-समुद्गक-विचित्रच्-छत्र-चामर-पट्ट-पटादि-नाना-सामग्री-सङ्ग्रह-व्यग्रीभूत-करा भुवन-शुभङ्करा जित-वृन्दाकराः किङ्कर-दारकास् ताव् अनुसरन्तः किम् अप्य् अन्तः-सुखम् अनुबभूवुः । [15] तत्र च मातर-पितराव् आरभ्य प्रत्यागार-द्वारं सर्वाभिर् अनर्वाचीनाभिर् वर-वर्णिनीभिर् महा-धनैर् निर्मञ्छ्यमानौ दीपायमान-मणिभिर् नीराज्यमानौ प्रफुल्ल-सुरभि-प्रसूनैर् अभिवृष्यमाणौ मङ्गल-सङ्घ-सङ्गत-गीतैः सङ्गीयमानौ यथार्हं तद्-अन्तिक-वचन-कान्ति-सन्ततिभिः सन्तोष्यमाणौ, पुरस्ताद् विकीर्ण-विस्तीर्ण-नयनैर् निर्वर्ण्यमानौ गुरून् अभिवाद्य निरवद्य-वाद्य-प्रसाद्यमान-कौतुक-प्रततं प्रतस्थाते
। [16] यत्र दिव्य-गणाश् च तद्वद् एव दीव्यन्ति स्म । ततश् च-
वेणु-वेत्र-दल-शृङ्गवटीभिः
कन्दुक-भ्रमर-दारु-नटीभिः ।
क्रीडिनौ स-शिशु-गो-सुत-जाते
नील-पीत-वसनौ रुरुचाते
[स्वागता]
[17] तद् अनु, दूरतः सूरततया पुरतः पश्यदृशः पितृतत्सदृशस् ते कांश्चित् प्रौढान् ऊढावधानान् विधाय, चारप्रदेशविचारम् अभिधाय च, क्रमत एव व्युत्क्रमतः क्रममाणाः सुकृतिनः कृतिनः पराववृतिरे । [18] राम-रामानुजादयश् च किञ्चिद् अञ्चित्वा-
विसार्य वत्सान् आवार्य परितः शाद्वले स्थले ।
खेलां चक्रुर् मिथो मेलाद् आवेलां भोजनागतेः
[अनुष्टुभ्]
यथा,
वेणुं वादयतोः फलादि किरतोः शिञ्जत्-तुलाकोटि-भाग्-
अङ्घ्रिभ्यां क्षिपतोर् वृषानुकरणैः संयुध्यतोर् एतयोः ।
भ्रात्रोर् निर्जयिनोर् मिथो द्रव-वशाद् उच्चैः सखायश् च ते
पार्ष्णि-ग्राहतया युधं विदधतः कोलाहलं चक्रिरे
[शार्दूल]
[19] ततश् च तौ वत्सांस् तृणैर् आप्याय्य जलम् आपाय्य सर्वान् विलोकितवन्तौ । श्री-कृष्णस् तु तेषु कस्यचिद् गण्डादि-कण्डूति-खण्डनेन बाहु-दण्ड-कृत-कण्ठावगुण्ठनेन, मातरं मिलितुम् इच्छसि? मेलयिष्यामि इति तत्-कर्णे मिथः कपोल-मेलन-पूर्वक-वृथा-वर्णनेन च तम् उपचर्य सुखम् उपलब्धवान् ।
[20] अथ भ्रातरौ सखिभिर् जलाप्लवन-केलिम् आचर्य वन्य-वेश-विशेषम् अप्य् आसज्ज्य चरण-चर्यया चरन्ताव् अपूर्व-मृग-पक्षिणः समन्ताल् लक्षयन्तौ वैलक्ष्यम् आसेदतुः । तत्र च,
रुतम् अनुकुरुतस् तौ लीलया यस्य जन्तोः
समुदयति तदीयं जाति-मात्रं तदाशु ।
भणितम् अथ विधत्तस् तद्-विरुद्धस्य तस्मिन्
यदि भयम् अनु तस्माल् लीयते तज् जवेन
[मालिनी]
[21] ततश् चाह्नाय मध्याह्नाशनम् आदाय स्व-स्व-धामतः समागताभिस् तद्-उचिताभिर् वनिताभिर् जनितानन्दनः श्रीमान् नन्द-नन्दनः सखि-वृन्दम् आनन्दयन् वाणीय-मान-वेणु-रणितेनाकारणया मङ्क्षु सङ्कलयामास । सङ्कलितांश् च सखीन् एणीदृशः श्रेणीकृत्य चादृत्य च समुपवेशितान् सुवेशितान् मध्यम् अध्यासित-श्याम-रामान् भोजन-कामान् क्रम-निशामनया याम् अनया जेमयामासुः । [22] यत्र नर्मणा शर्म-दानाय किञ्चित् कश्चित् किञ्चित् कश्चिद् विशिश्लाघे शश्लाघे च । यत्र च तैर् विवदमानानां संवदमानानां चान्यासां वचन-प्रतिवचन-श्रवण-कौतुकानन्तरं धात्री-गण-पात्री काचित् तु दासेर-बालकान् प्रति फेला-विसर्जन-रञ्जनाय पूर्ति-व्यञ्जनया भोजन-वितृष्णताम् अनुचरिष्णुं
कृष्णं प्रति स-काकु जगाद-
मया यत्नाद् एतद् द्रव-मधुरम् आराद् उपहृतम्
जनन्या रामस्य प्रयतन-युजा साधितम् इदम् ।
भवन्-मात्रा चास्य स्वदन-विधये दत्त-शपथं
मुहुः सन्दिष्टं तन् निखिलम् उपयुङ्क्ष्व त्रयम् अपि
[शिखरिणी]
[23] तद् एवं कौतुक-विशेषेण जाते भोजन-शेषे रचिताचमनं तम् अनन्त-गुण-कमनं राम-दामादिभिः सहितं सहितं सा पुनः कर्पूर-रस-पूर-पूर्ण-खपुर-पूरित-सचूर्ण-स्वर्ण-वर्ण-पर्ण-पुट-दान-पुरः-सरम् एवम् अवादीत्, लाल्य-पाल्यमान-मातृ-सन्देशतया बाल्यम् अपहाय तूर्णम् एव व्रज-सदनं पूर्णम् आचरणीयम् ।
[24] अथ किञ्चिद् दूरं गत्वा तस्य तेषां च खेला-मेलाभिनिवेशं मत्वा ग्रीवां परावर्त्य नर्त्यमान-नयनतया समर्थांस् तत्-पालकान् बालकान् प्रत्य् उवाच-अरे रे, शीघ्रम् एवायं प्राणयनीयो व्रज-धरणीश-प्रणयिन्याः प्राणस्य प्राणः इति ।
[25] तद् एवं गतासु तासु साग्रजः स तु दुष्परिहर-बाष्प-च्छेद्य-स-पुष्प- तृण-मुखान् वत्सान् व्रजाभिमुखान् विधाय शनैश् चारयन् गायन् नृत्यन् हसन् क्रीडन् दिवि-चरैर् ब्राह्मणैर् ब्राह्मणैः स्तूयमानः सुमनोभिश् च सुमनोभिर् वृष्यमाणः स्वगृहाय वर्त्म जगृहे ।
[26] ततश् च वत्सावासं यावत् साग्रज-मित्र-व्रजतया यथाक्रमं विक्रममानस् तत्र च वत्सान् सङ्कृत्य कृत-कृत्यतया रममाणस् तल्-लावण्य-दर्शनेन हर्षमानस् तत् प्राग् एव सर्वैर् व्रज-वासिभिर् उपव्रज्यमानः स्नानादि-पूर्वकं दिव्यम् अम्बरं वलयमानः शीघ्रम् एव भोजनं भजमानः पुनर् अपि गो-दोहन-भूमि-गमनेन सुखं यजमानस् तत्-तन्-मातृ-नामभिर् वत्सान् ह्वयमानः सम्भ्रमतस् तद्-गमन-व्यतिक्रमात् प्रहास-मय-मानः प्रदुग्धानि दुग्धानि च तानि किङ्कर-निकरेण गृहं हारयमाणः पुनर् आलयम् आगम्य क्षण-कतिपयं मातरम् आनन्द्य ताम् अनु विन्दमानश् चन्द्र-शालिकां विश्रमाय श्रयमाणः पुनर् सर्वेषाम् अतिहर्षं ववर्ष । प्रस्वाप्य च तं च तं च सा च सा च माता परितः परिजन-कुमारान्
सन्निधाप्य गृह-व्यवहाराय बृहद्-धाम जगाम ।
[27] तद् एवं दिन-कतिपये परम-रमणेन गमित-समये स तु नृशंसः कंस-नामा यथार्ह-वर्ण-कृत-वर्णनतः समाकीर्ण-तत्-तद्-वृन्दावनागमनादि-वृत्तान्तः स्वान्तश् चिन्तयामास-
[28] हन्त, सत्यता-सारेण देव्या वचनानुसारेण नन्द-गोप-डिम्भता-दम्भ एव स कोऽ पि गोपितः सम्भाव्यते, येन नूतनावयवेनापि दुःसह-महसः पूतनादयः सहसा गाम्भीर्यावृत्तेन वीर्यातिशयेनालम्भनीयतां लम्भिताः । त्रस्यति च तस्य नाम-धाम-वशान् मम हृदयम् । तस्माद् असौ छलत एवोत्कलनीयः । हन्त, छलान् अप्य् उत्तरम् उत्तरम् अतिरिक्तं युक्तम् एव ते प्रयुक्तवन्तः । तथापि कदर्थिती-भूय व्यर्थी-भूताः इति विचार्य, पुनर् अपि तं प्रणिधिं सन्निधिं निकाय्यतः समानाय्य पप्रच्छ, अये, त्वयेदम् अप्य् अवकलितं, जातौ कस्यां तस्यादरः स्नेह-भरश् च परमः परामृश्यते?
[29] स चोवाच-देव, गो-वत्सेषु तद्-उत्सेकः प्रतीयते ।
[30] कंस उवाच-सम्यग् गम्यतां निजम् एव हर्म्यम् । पुनश् चान्यम् उवाच-आकार्यतां पुरतः स वत्सासुरः । स च शची-पतेर् अपि क्लमनः । स-सम्भ्रम-विक्रम-क्रमतया तेनानीय समर्पितः पानीय-लववद् द्रव-प्रवणतावस्थ एव तस्थौ । तेन च सम्बन्धताम् आशंसन् पांशु-सङ्घवल् लब्ध-ध्वंसः कंसस् तूपांशु तं सुतम् इव शशंस, वत्स वत्सासुर, गच्छ नन्दस्य व्रजम् । गत्वा च वत्सांश् चारयतः कुमारयतस् तत्-कुमारस्य सदेशम् आसाद्य निजं वत्स-वेशम् उत्पाद्य तस्यापकारम् आरभस्व ।
[31] ततः स च, यथाज्ञापयन्ति राज्ञाम् आज्ञापकाः इति तद्-वचनानुपथात्मा तत् प्रतिशासनाद् अत्रासम् एव तत्राजगाम । यत्र स्वच्छे वत्स-क्रीडन-नामनि यामुन-कच्छे तद्-विध-मारक-कर्मा व्रज-राज-जन्मा वत्सान् मानयन् नयन-विषयं विष-धरम् इव तं चकार ।
[32] अथ मत्सरतस् तत इतः सरतस् तस्य गन्धानुसन्धानतः कृत्स्नान् खट-देशम् अटतः शकृत्करीन् व्यग्रं पश्यतः पश्यन्न् अग्रजं व्रजराज-तनूजनू रहः स-व्याजं व्यजहार, बृहद्-भ्रातः, प्रातर् अनायातः परिचीयते वा कोऽ यम् उपतोयं प्रतीयते वत्सः?
[33] राम उवाच-भ्रातर्, नहि नहि ।
[34] कृष्ण उवाच-निरूप्यताम् ।
[35] राम उवाच-भीषण-प्रकृतिर् इव प्रतीयते ।
[36] कृष्ण उवाच-पूर्वज, पूर्व-देवोऽ यम् ।
[37] राम उवाच-सत्यम्, यस्माद् अस्मासु वत्सेषु चाकस्माद् अदृष्टिजादृष्टिर् अस्य दृश्यते ।
[38] कृष्ण उवाच-यदि भवद्-आदिष्टं स्यात् तर्ह्य् एतं दिष्टान्तम् आसादयामि ।
[39] राम उवाच-लोकतः कलङ्कतः शङ्के ।
[40] कृष्ण उवाच-मरणे दित्य-पत्यता परम् आगत्य प्रत्यक्षी-भविष्यत्य् अस्य । ततः कोऽ पि नापवदेत ।
[41] रामः सहर्षम् उवाच-द्विषन्तप, सच्छलम् एतं सच्छलम् एव मन्दं मन्दम् अभ्यवस्कन्द ।
[42] अथ श्रीवत्स-वक्षाश् च वत्सान् अन्यांश् चुचुकारेण सन्निधानः कण्ठ-गण्ड-पिचिण्डादौ कण्डूम् अपनयमानः, सर्वतः क्रीडन् गायन् पर्व तन्वन्न् इवासीत् ।
[43] ततस् तस्यापि लब्ध-छिद्रं-मन्यस्य, कूट-मय्या स्व-कण्डूति-विघटनेच्छया निकटम् अटतस्, तद् अकर्कश-मुद्रया सहसा तान् हित्वा तं स-पुच्छ-पादं गृहीत्वा भ्रमयामास ।
यावच्छः परिवर्तनं भ्रमयता वत्सस्य चक्रेऽ मुना
तावच्छः प्रतिपत् क्रमान् निरगमद् रूपान्तरं चागमत् ।
क्रीडायाः फल-पातनार्थम् इव च क्षिप्ते कपित्थोपरि
ज्ञातृत्वं नटवत् कलां च पृथुकास् ते तस्य शश्लाघिरे
[शार्दूल]
अथ देवैः प्रसूनानि वृष्टानि हसितानि च ।
न नासया न च दृशा भिन्नतां नेतुम् ईशिरे
[अनुष्टुभ्]
[44] तद् अनु च परिहास-भासमान-हासं दिव्य-सभासदस् तद् इदम् अवदंश् च, नूनम् एतद् एव देव-वैरि-वैरिणस् तात्पर्यं पर्यवस्यति ।
वयं गां गोपालाः परिचिनुमहे तद्-द्विषम् अपि
प्रतिच्छन्ने रूपेऽ प्य् अनुमिति-निदान-व्यतिकरात् ।
अतो रे रे वत्साकृति-सुररिपो मद्-विध-करात्
कथं ते मोक्षः स्याद् इह लषसि चेत् प्रेत्य भवतु
इति । [शिखरिणी]
तद् एवं-
तौ वत्साद् अपि रक्षन्तौ सर्वं लोकं ररक्षतुः ।
यद्-अर्थं प्रातराशादि यस्मिन् दैत्य-वधादि च
[अनुष्टुभ्]
[45] ततश् च तद्-दिनेऽ पि श्री-कृष्ण-रामयोः स्वधाम-समागमनं जातम्, किन्तु तद्-वृत्तम् अनिष्टम् इति तद्-इष्ट-गणः सर्व एवावरिष्ट । तच् च, न जाने किं-वदन्ती किंवदन्ती स्याद्, इति सचिन्तीभूय ।
कंसस् तु तस्माद् वत्सपाद् अपि वत्सासुर-निर्वासनम् अपसर्प-मुखाद् विषम् इव कर्ण-रन्ध्र-स्पर्श-मात्रेणान्तः सम्भूय भृशं दृशौ निमीलयामास । तेन दशमीम् इव दशां प्रापितः । स तु मन्त्रिभिः कथञ्चिद् बहिर् अवधापितः सार्धम् एव तैर् इदम् अचारु विचारयामास, हन्त सम्भाविता दम्भान्विता बहवः प्रस्थापिताः, न तु तैर् भद्रं किञ्चिद् अपि सञ्चितम् । तेषां धीप्सा-वीप्सा हि न हीप्सां त्रातवती, प्रत्युत तान् एव प्सातवती । ततः किं कुर्मः?
[46] मन्त्रिण ऊचुः, देव, केवलं बकम् अत्र बलम् अवलम्बामहे, यतस् तज्जाताव् एव दम्भ-सम्भारा गम्भीरायन्ते ।
[47] कंस उवाच-आं आं, मम सुहृत्तमः स एव केवलस् तत्र प्रस्थापनाय स्थाप्यताम् इत्य् आनाय्य तथादिष्टः सद्-अनिष्टः स दुष्टः कंस-पुष्टः सम्प्रति बक-स्थल-नामानं नान्दीश्वर-गिरि-समीप-धामानम् उपसरसं प्रदेशं भावि-कृष्ण-प्रवेशम् अधिगम्याभिगम्य गिरि-शृङ्ग-भ्रमारम्भं दम्भं दधमानस् तस्थौ । यत्र तुल्य-पर्यायतया दम्भ एव गह्वरायते स्म ।
[48] तदा च श्री-गोपाल-वलिता गोपाल-बाला गो-बालान् पालयन्तः पानीयं पाययन्तः कूलम् अनुस्थापयन्तः स्वयम् अपि पयः-पानम् अयन्तः परस्परं स्नपयन्तः समुत्थाय च कलापयन्तश् चिक्रीडुः । कलापयन्तश् च पुष्पाहरणाय परतः प्रचारम् आचेरुः, तम् आचरन्तश् च तं बकम् ईक्षामासुर् उत्प्रेक्षामासुश् च: अहो, गिरिर् अयं दूरत एव कुतः? पुरस् तस्य शृङ्गम् । ततः सद्य एवादः शत-मन्युना मन्युना शत-कोटि-त्रोटितम् इति घटते । पुनर् निचाय्य च प्रोचुः, नेदं गिरि-शृङ्गं सङ्गच्छते, किन्तु जन्तु-विशेषः सोऽ यं मन्तुम् इव चिकीर्षन्न् अमितशीर्षं वर्तते, यत उग्रम्-पश्यतया खरता-चञ्चु-चुञ्चुतया च बक इव परामृश्यते ।
[49] श्री-कृष्ण उवाच-
आकारात् पक्षितुल्यः स्याद् व्यापारान् न च पक्षिवत् ।
बकः किं नवकः साक्षात् कूटवत् स्थितिर् ईक्ष्यते?
[अनुष्टुभ्]
[50] अत्र तत्र जिगमिषन्न् एव समिष-श्लिष्टताविशिष्टं कूट-शब्दं पठितवान् । [51] अथ समुद्दण्ड-दण्ड-वरण्ड-सखि-मण्डल-मण्डितः पुण्डरीक-लोचनस् तं जानन्न् अप्य् अजानन्न् इव तस्य तुण्ड-सन्निधिम् एव गमनेऽ वधिञ्चकार । स्पर्श-विष-विषधर-विशेष-कुमारः कौतुकातिरेक-वशाद् भेकस्येव ।
[52] ततश् च गण्डूपदं मन्यमानः स च मण्डूक इव कुण्डलि-पोगण्डं तं निजगार, न तु किञ्चित् कुञ्चयितुम् अपि शशाक । किन्तु हन्त, हन्त, स्फूर्तिं प्रति सन्तम-सधर्मणा तेन कर्मणा श्री-राम-दामादीन् प्राणैर् विकलितां कलयामास ।
स्व-भ्रातृ-वीर्यं जनुषा विदन्न् अपि
प्रलम्ब-कारिर् बक-चेष्टितेऽ र्दितः ।
भैष्मीकृते तस्य गतौ यथैव स
प्रेमा हि सर्वङ्गिल-भावम् ऋच्छति
[उपजाति 12]
[53] अथ बकः स्व-कण्ठावटे कृपीट-योनिवत् कपट-तेजस्कं तं झटित्य् उज्जगार । ततश् च, सोऽ यं मम हृदयम् अभ्राक्षीद् इति विभाव्य पुनस् तन् निगरण-योग्यं नाद्राक्षीत्, किन्तु ततः पराङ्-मुखः स पुनर् बक इव मूर्खः सुर-शात्रव-बकस् तेजो-मात्र-गात्रतयावगतम् अपि तं त्रोटि-कोटिभ्यां त्रोटयितुम् उदयुङ्क्त । [54] स तु शौटीर्य-कोटीश्वरस् तत्-त्रोटी कराभ्यां विघटयंस् तं स-पाटवं पाटयामास, भीमो जरासन्धम् इव, बालो वीरणम् इव वा ।
यदा मुरारिं निजगार कह्वस्
तदा सखायः सबला मुमूर्च्छुः ।
उद्गीर्णवान् यर्हि तदान्वचेतन्
स्वभाव-जं प्रेम परान् अपेक्षि
[उपजाति 11]
[55] यत्र वृन्दारका दारकाश् च क्रमान् मुमुदिरे । यथा-
बकासुरे वत्ससुरारि-घातिना
हते सुरा नर्तन-वाद्य-वर्तनाः ।
ते नन्दनाद् अप्य् अतिसेतुतां गता
मल्ल्याद्यम् उल्लूय मुदा वरीवृषुः
[उपजाति 12]
[56] श्री-कृष्णाभिप्रायम् उत्प्रेक्षमाणाः साद्भुतं प्रेक्षमाणा बकम् उपजहसुश् च । यथा-
प्रसारयंस् त्वं ग्रसनाय चञ्चुं
साहायकं तत्र मयाप्य् अकारि ।
विदीर्णम् आसीद् यदि सर्वम् अङ्गं
ममास्ति दोषः क्व नु मूढ कह्व?
[उपजाति 11]
तत्र च-
यस्मिन् बकास्याद् उदितेऽ पि तेऽ र्भका
जिजीवुर् अस्मिन् मिलिते बकान्तके ।
तेष्व् अश्रु-कम्प-स्वर-भङ्ग-सङ्गतं
वैवर्ण्यम् ऋच्छेत् किम् उ वर्णनीयताम्
[उपजाति 12]
[57] अथ सर्वे समय-व्यग्रतया शीघ्रम् एव तस्मिन् सरसि मिलित्वा स्नात्वा तं प्रदेशं हित्वा कृष्णं गृहीत्वा गृहाय प्रतस्थिरे ।
कृत-गृहागमना व्रज-बालकास्
तद् अखिलं खलु वृत्तम् अवर्णयन् ।
बक-खगस्य तथाकृतिता
तथा शिशु-कृता मृतिर् एवम् अभूद् इति
[द्रुतविलम्बिता]
तद्-वार्ता-युगलेन गोकुल-भुवां दग्धं च सिक्तं च यत्
प्रत्यङ्गं तद् इदं लयाय भवितेत्य् एवं जनैः शङ्कितम् ।
पश्चात् प्रत्युत रोमहर्षम् अदधाद् यत् तत् तु युक्तं परा
वार्ता तत्र वरामृताद् अपि परा तैर् एवम् आस्वाद्यत
[शार्दूल]
[58] ततश् च ते सर्वे समुद्विग्नम् उदिताः समुदिता वित्रासानन्द-निस्पन्दं श्रीमन्-नन्द-मन्दिर-जन-वृन्दम् अनुविन्दमानाः श्री-गोविन्द-वदनारविन्दम् अस्र-सन्दिताः सन्दरीदृश्य परामृश्य च बकान्तानाम् अशान्तानां मरणे कारणं परस्परम् ऊचुः-
अस्य बालस्य किं पूर्वं किम् अपूर्वं व्रजेशितुः ।
किम् अर्थं वा पूर्वम् आगस् ते चक्रुस् ते हता यतः
[अनुष्टुभ्]
[59] तद् एवं प्रपञ्चेऽ वतीर्णानाम् अपि श्रीमन्-नन्दादीनां तद्-वर्णनानन्दाद् अदीनानां प्रपञ्च-धर्मेण सङ्कीर्णतां न वर्णयामासुः । ऊचुश् च श्री-बादरायणि-चरणाः-
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममानाश् च नाविन्दन् भव-वेदनाम् ॥[भ्प् 10.11.58] इति ।
[60] तद् एतद् बक-निर्ग्रन्थनम् उग्रम् उग्रसेन-दुष्पुत्रः श्रोत्रेणापीय व्यग्र-चेता बभूव, भावयामास च-हन्त, सर्व एव मायातिरिक्तता-प्रयोक्तारस् तत्र रिक्ती-कृताः । सर्वं लुम्पन्तस् ते चुलुम्पामासिरे च । तर्हि व्योमाभिधान-दानव-मात्रम् अत्र पात्रं पश्यामः । [61] सर्व-माया-मय-मय-तनयः प्रख्यात-बल-वलयः स हि महीयान् इति पद्मावती-जरठ-जठर-जन्मा संमाननया तम् आनाय्य तत्-कार्याय पर्यापयामास ।
[62] स चागम्य व्योम-नामा कृत-व्योमावलम्बतया न्यक्षेण वीक्षमाणः काम्यकारण्य-धरणी-धर-सन्निधानतः समम् अत्यर्भक-वृन्देनात्यर्भकतया निर्व्रीड-क्रीडा-सन्दर्भं श्री-यशोदा-गर्भ-जातं श्री-रोहिण्य्-अर्भकं विना समायातं ददर्श विममर्श च-
[63] एते खलु भोः दास्याः-पुत्र ! चौरस्य-कुल ! पश्यतो-हर ! देवानां प्रिय ! इति परस्परं सम्बोधयन्तः क्रीडन्ति । ते चैते मेष-तत्-पोषक-तन्-मोषकायमाणा रममाणा लक्ष्यन्ते । यत्र च मेषा मोष्यमाणा अपि न भाषन्ते । पोषकाश् च तेषां बहलानां सम्भालनाय दुर्बलायन्ते, मोषकास् तु निर्घोषतया प्रच्छन्नम् एवागच्छन्ति । अयं तु तत्-पोषकायमाणः श्याम-धामा कुमारः प्रभाकर-सहस्र-प्रभाव-भाविततया नास्मद्-विध-सन्निधेय-सन्निधानस् तर्क्यते । तथाप्य् अस्माकम् अयम् एवावसरो वरो नावरो वरणीयताम् अनुसरति । अत्र हि तस्य निरवधानस्य बहिश्-चर-प्राण-तुलां वलमाना बालका विनैवार्तिं हर्तव्या भवेयुः । ततो व्यग्रीभूतः सोऽ यम् अग्रीयश् च विना विग्रहं ग्रहीतव्यताम् ऋच्छेत्, सामिकृतं
तु न स्वामिने रोचिष्यते । तद् एतद् विचारयंश् चोर-वद्-आचार-गोप-दारक-प्रकारस् तदीय-निविड-क्रीडायां प्रविवेश । प्रविश्य च, निविड-कानन-कृत-प्रवेशतया पोषकाभिनिवेशम् अतिक्रामतस् तान् मोषायमानान् क्रमशश् चतुः-पञ्चावशेषम् अपक्रमयामास । अपक्रम्यापक्रम्य च गिरि-गुहायां निगूहयमानः पुनः पुनर् अयमानः पेशस्करितानुसारी प्रस्तरास्तरणतस् तद्-द्वारम् आववार ।
[64] एतज् ज्ञात्वा निर्जरारि-प्रहारी शिष्टान् कष्टन्तं हरन्तं कुमारान् व्यग्री-भूतः सिंहवद् ग्राम-सिंहं विद्रुत्याराद् अग्रहीन् न्यग्रहीच् च ।
स्वाङ्ग-व्यङ्गात् स्पष्ट-भूमिष्ठमानं
कृष्टा डिम्भांस् तं ततः क्षौणी-पृष्ठे ।
आपात्याथ प्राण-वर्त्मणि रुन्धन्
व्यग्री-कृत्यालम्भ्य-कल्पं चकार
[शालिनी]
[65] तद् एवं संहत-संहननम् अप्य् एतं निःसन्धि-बन्धनं विसृज्य तत्-पद-पद्धतिं संसृज्य तद्-गुप्ति-द्वारम् अनुससार । ततश् च,
सद्यो निर्भिद्यापिधानं गुहायास्
तत्राविश्य द्योतम् आविश्चकार ।
तस्यास् तेषां चार्भकाणां समन्ताद्
आत्मालाभाद् यत् तमस् तज् जहार
[शालिनी]
येषां दुःखं तद्-गुहा-गर्त-रोधे
तद्वन् नासीद् यद्वद् एतद्-वियोगे ।
दृष्ट्वाकस्माद् एनम् एते बकारिं
प्राणान् प्रान्ताकर्षणेनैव जग्मुः
[शालिनी]
सर्वे तस्माद् उत्थिता रोदनार्तास्
तद्वद् आर्तं कृष्णम् अह्नाय चक्रुः ।
सोऽ पि क्ष्माभृत् तत्-प्रतिध्वान-दम्भात्
क्रन्दन्न् आसीद् इत्य् अमीभिर् व्यभावि
[शालिनी]
तस्मात् कृष्टास् तेन तं वेष्टयन्तः
शश्वत् तस्य स्पृष्टितो नष्ट-दुःखाः ।
दृष्ट्वा द्विष्ट-प्राणम् अत्यन्त-भीष्मं
व्योमं हृष्टा मित्र-गोष्ठीम् उपेयुः
[शालिनी]
अथ परिमिलितैर् विचित्र-मित्रैर्
भुवि दिवि देव-गणैस् तदोपलम्भ्यः ।
अपहृति-चरितं निज-क्रमात् तैः
कथितम् असौ कलयन् व्रजे विवेश
[पुष्पिताग्रा]
[66] अत्र व्योमं दिष्टान्त-दष्टं दृष्ट्वा कुसुम-वृष्टि-कृद्भिर् दानव-द्वेष्टृभिर् अयं श्री-कृष्णाभिप्रायः स्पष्टं परामृष्टः-
क्रीडायाम् अत्र चोराणां श्वास-रोधो विधीयते ।
व्योमस् त्वं व्योमतां प्राप्तस् तस्माच् चेत् करवाणि किम्?
[अनुष्टुभ्]
[67] अथ कथकः कथा-समापनम् उवाच,
ईदृक् कौतुकवान् पुत्रस् तव गोप-नराधिप ।
वत्सादि-त्रयम् आनिन्ये लीलया यस् तु पञ्चताम्
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0