गोपालचम्पू · अध्याय 1.7
[अनुष्टुभ्]
[72] अथ कृत-सुख-प्रथायां कथायां वृत्तायाम्, अन्य-दिनवत् कथकान् स प्रसाधनं सेधयामास शुभ-चरित्री-व्रज-धरित्रीशः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
विशङ्कट-शकट-विघट्टनादि-विचित्र-बाल्य-चरित्रं नाम
षष्टं पूरणम्
॥6॥
(7)
अथ सप्तमं पूरणम्
बाल्य-लीला-चौर्य-शौर्यं
[1] अथ दिनान्तरवत् प्रभातान्तः प्रभातायां सभायां मधुकण्ठ उवाच-स्निग्धकण्ठ, लीलान्तरेण निदिग्ध-चित्तो भव ।
[2] अथ वर्ष-जाते जाते नभस्ये मासि सर्व-सम्पन्-मयं जन्म-दिनम् आयातम् । तत्र च गर्गोपदेश-वर्गोपाश्रया कृष्णस्य जन्म-तिथि-पूजा पूर्यते स्म । यत्र च व्रज-क्षिति-पतिना प्रशस्त-वाचनादि-पूर्वकापूर्व-पर्व प्रवर्तयामास । यथा-
वेदैर् वाद्यैः प्रगीतैर् नटन-पटिमभिः मन्त्र-पूर्वाभिषेकैः
स-प्रीत्यादान-दानैः प्रमद-कल-कलैर् यज्ञ-विज्ञ-प्रयोगैः ।
षट्-तिल्यादि-प्रकारैर् मृद्-अगुरु-रस-धान्यादि-भव्याभिमर्शैर्
मत्स्यादीनां प्रमोकैर् अजनि जनि-तिथिर् गोप-राजाङ्गजस्य
[स्रग्धरा]
किन्तु,
क्रमेण वृद्धिर् वर्षाणां यथा नन्दात्म-जन्मनः ।
तथा तत्-पर्वणोऽ प्य् आसीत् स्फुटं यद्-अभिदा द्वयोः
[अनुष्टुभ्]
कृष्ण-भोजनम् अन्नं यत् कृष्णाच्छादनम् अंशुकम् ।
तत्-तन्-नाम्ना प्रचारोऽ भूत् तस्य तस्य व्रजे ततः
[अनुष्टुभ्]
[3] तद् एवं हर्षेण वर्षे गणिते, कदाचिद् वर्षियः-प्रभृतिषु स्त्री-पुंसेषु तत्-तत्-कृति-व्यापृतेषु निजोत्सङ्गेन बाल-गोपालः स्व-मन्दिरालिन्दे जनन्या लाल्यते स्म, यथा--
मुखे मुखं लगयति चुम्बति स्म तद्
वृथा कथाः कथयति तेन दुर्गमाः ।
हसत्य् अथो हसति च तत्र बालके
व्रजेश्वरी सुख-शत-सिक्तताम् अगात्
[रुचिरा]
[4] ततश् च पूर्व-पूर्व-निहिंसनात् प्रजात-मति-भ्रंशेन धैर्य-रहिततया कंसेन प्रहितः सुमनसाम् अहितः सुर-वर्त्मनि दूरतः स्थितस् तृणावर्तस् तं तथा वर्तमानं ददर्श विममर्श च । सोऽ यम् एव तोयद-वर्णः पृथुकः पृथु-गृहालिन्दं विन्दमानाया मातुर् अङ्के वर्तत इति शङ्के ।
[5] तद् एवम् अधुना सर्वं धुनानः साम्बालम् एव बालं सुर-वर्त्मनि वर्तयाणि । किन्तु पूतना नूतन-तनु-कलनया, शकटश् च शकटाविष्टामूर्तता-वलनया छलयितुम् इष्टेनाप्य् अनेन दिष्टान्तम् आप्यते स्म । तस्माद् अहं तद्-उभयेतर-वात-रूपेण प्रविशामि इति ।
[6] तदा च सदा तद्-अवसरम् अनुसरन्ती तु योग-माया तद्-वपुर्-योगम् आयाता, मातुः पृथग्-भावाय स्व-वैभवम् आविर्भावयामास । येन च तद्-अम्बा कोमल-नील-कमलायमान-कलेवरस्यापि तस्य भारम् असहमाना विस्मयमाना चान्यस्य तद्-भारासहतया सहसा भूमाव् एव तं धृतवती, ध्यातवती च जगताम् अन्तर्यामि-पुरुषम् । अतिभीता च तद्-उपद्रव-बाधनाय तद्-आराधनाय व्यग्र-चित्ता बभूव ।
[7] तृणावर्तस् तु वातावर्तेन वर्तमानः सुर-वर्त्मनि तं च वर्तयन् गल-ग्रह-पाशम् इव सञ्जग्राह । गोष्ठम् अपि कष्टद-कर्करादि-वृष्टिभिर् नष्ट-प्रायतया घट्टयामास । यत्र च त्रसम् अत्रसम् अपि सर्वं वित्रस्तम् अस्ति स्म । ततश् च,
तमोभिर् आवृतं सर्वं बहिर् एव न केवलम् ।
जनानाम् अन्तरं चासीत् तृणावर्त-प्रवर्तने
[अनुष्टुभ्]
[8] तेन तु दुर्जनेन तदैवम् अन्यूनानां जन्यूनाम् अजन्ये जन्यमाने तत्र वित्रस्ताः प्रजाः प्रजजल्पुः, यथा-
उत्सर्पत्-कर्परांश-व्रण-जनक-जवः श्रोत्र-दृक्-तर्ज-गर्ज-
ध्वानस् त्रुट्य्-उत्कुठेषु प्रकट-कट-कटेष्व् अर्धयन् वायुर् आयुः ।
गोष्ठं कोष्ठं च भिन्दन्न् नटति बत हहा हन्त किं तत्र वृत्तं
यत्रास्ते नील-पङ्केरुह-दल-तुलना लालिताङ्गः स बालः
[स्रग्धरा]
श्रीमन्-नन्द-देव-मन्दिरे तु-
उपद्रवेऽ स्मिन्न् अधि यद् दधे सुतं
तं तत्र नापश्यद् असौ व्रजेश्वरी ।
गवाधिक-स्निग्धतरापि या तदा
विचार-लोपाद् वलते स्म गो-तुलाम्
[उपजाति 11]
उपप्लव-मरुत्-प्लवेऽ भजति तत्र पुत्रास्तिताम्
अवीक्ष्य पशुपेश्वरी बत जगाम यां व्यग्रताम् ।
हहा विगत-तर्णका बुधित-लोक-भाषादिका
यदि स्फुरति नैचिकी क्वचन काचिद् ऊहते ताम्
[पृथ्वी]
[9] तदा च ताम् आरभ्य जन-रोदन-परम्परया परितः प्रसर्पणाद् अमन्देन तद्-आक्रन्देन सर्व-गोकुलम् आकुलं बभूव । [10] अविगणय्य च तादृशं विसदृशम् उपद्रवं सद्रवम् एवागम्यागम्यापार-दुःख-वार-वारां निधौ सर्वे ममज्जुः । तत्र च-
तृणावर्त-हृते कृष्णे मातुर् भारायिता तनुः ।
तदीयानां यथा सासीद् उभयेषां यथा त्रुटिः
[अनुष्टुभ्]
[11] ततश् च, सर्वासु निर्विशेषं रोदन-वशतां विशन्तीषु, हा रोहिणि, द्रोहिणि, किं करिष्यामि? कथं तम् अनवलोक्य मरिष्यामि? कथं वा व्रज-राज-दिशि मुखं वितरिष्यामि इति पर्यन्तं पर्यन्त-दशावसानम् अनु यः खल्व् अशेष-विलापनः प्रसू-विलापः । स पुनर् अवकलितः सहसा घृतम् इव विलालयति हृदयम् । कथं कथयितुम् ईश्यते? इत्य् अलम् अतिप्रसङ्गेन इति मधुकण्ठः स्वस्य सर्वस्य च वैवश्य-वश्यताम् आशङ्क्य मङ्क्षु सङ्कथयामास,
[12] नभसा हृतस्य सुजातस्य श्रीमन्-नन्द-जातस्य तस्य बन्धूनाम् अवगाढ-दुःसह-साद-सिन्धूनां सहसानुकूलं कूलम् आसन्नम् । तथा हि,
बाल्य-स्वभावेन बलानुजन्मा
बलान् निजग्राह गलं तदीयम् ।
तदातिगाढं स च पीडितस् तौ
मेने भुजौ पाशि-भुजङ्ग-पाशौ
[उपजाति 11]
भुजापीडनवत् तस्य भारश् च ववृधे शिशोः ।
वोढुं त्यक्तुं च रोद्धुं च नाशकद् दानवाधमः
[अनुष्टुभ्]
तदा च माल्य-हरतानर्हावस्थेन चामुना ।
स भार-हारतां प्राप्तः स्व-प्राण-हरतां गतः
[अनुष्टुभ्]
यथा,
माल्य-बुद्ध्याहिवल् लोम-पटल-भ्रान्त्या तम् ऋक्षवत् ।
कृष्णोऽ ववेष्टद् आत्माङ्गं वातूलः कथम् उज्झतु?
[अनुष्टुभ्]
यथा च,
तृणावर्ते रुद्ध-कण्ठे तच्-छ्वासा रुद्धतां गताः ।
तदैव च बहिर् वातास् तत् किं तस्य त एव ते?
[अनुष्टुभ्]
[13] अथाकाशावकाशात् प्रस्तर-कृतास्तरणायाम् अङ्गण-स्थल्याम् अतिविस्तीर्णं महा-घोष-बधिरी-कृत-घोषं तद्-वपुर् निपपात । निपत्य च मूर्तिमन् मूर्तिकम् अपि श्लथ-सन्धि-बन्धी-भूतम् अदृश्यत । ततश् च, तत् तु,
किम् इदम् अहहहा पपात कस्माद्
इति परिवव्रुर् उपेत्य गोप-रामाः ।
भयम् अधुर् अथ कं निरीक्ष्य रक्षस्
तद्-उपरि बाल-हरिं च मृग्यमाणम्
[पुष्पिताग्रा]
दनु-सुतम् अलम् उद्विवर्तिताक्षं
शिशुम् अथ वीक्ष्य निरीक्षमाण-नेत्रम् ।
तद्-उपरि सहसा निधाय लत्ताम्
अमुम् उपजह्रुर् अमूर् मुदा जनन्याम्
[पुष्पिताग्रा]
[14] अथ मन्त्रवत् किञ्चिद् वचनात् पुनर् अमूर् अमुष्याश् चेतनाम् आचिन्वते स्म, यथा,
मृत्युर् मृतो, मृत्यु-हृतस् तु जीवितस्
तद् एतम् आदत्स्व तनूज-वत्सले ।
इत्य् उक्ति-मन्त्रान्वित-बालकौषधं
विन्यस्य तां प्रत्युदजीजिवन्न् अमूह्
[उपजाति 12]
शिशुम् उपसद्य यशोदा दनुज-हृतं द्राक् चिचेत लीनापि ।
वर्षाजलम् उपलभ्य प्राणिति जातिर् यथेन्द्र-गोपानाम्
[गीति]
अथागमन् व्रज-पति-सङ्गता जनाः
स-विस्मयं स-भयम् अदभ्र-सम्भ्रमम् ।
गृहान्तर-व्रजन-विचारणाऽन्यदा
न तर्ह्य् अभूद् यद् अभवद् एक-भावता
[रुचिरा]
पश्यन्न् अपि तृणावर्तम् अपश्यन्न् इव तं जनः ।
कृष्णम् एवागमद् द्रष्टुं तत्-प्रेमा ह्य् अद्भुतादिजित्
[अनुष्टुभ्]
स्पृष्टः कम्प्रेण हस्तेन दृष्टः सास्रेण चक्षुषा ।
पित्राथ मातुर् उत्सङ्गाद् अवित्रा शिशुर् आददे
[अनुष्टुभ्]
[15] ततश् च राक्षस-स्पर्शज-क्षतजादि-शङ्कया,
निरीक्षितावयव-गणोऽ पि मातृभिर्
विलोकितः स तु जनकेन कृत्स्नशः ।
ममेति-धी-पृथु-ममतास्पदं दृशा
स्वया परं न तु परया परीक्ष्यते
[रुचिरा]
[16] अथ व्यग्रेहिता वृषभान्व्-अग्रेसराः परम-हिताः परस्परम् अपरस्परं कथयाञ्चक्रुः-
क्वायं हतस् तीव्र-बलः पलाशनः,
क्व तीर्णवान् सोऽ यम् अतीव बालकः ।
किं वा स्व-पापेन विहिंस्यते खलः
साधुः समत्वेन भयात् प्रमुच्यते
[उपजाति 12]
[17] अथवास्माकम् एव भाग्यम् इदम् इति योग्यम् । तथा हि-
किं नस् तपः पूर्तम् अशेष-सौहृदम्
दत्तं तथेष्टं हरि-तुष्टयेऽ जनि ।
रक्षो-गृहीतः पुनर् एष बालकः
स्वयं स्व-बन्धून् सुखयन् यद् आगतः
[उपजाति 12]
समस्तार्थ-करी विष्णु-भक्तिः साक्षाद् व्रजेश्वरे ।
दृश्यतां मृश्यताम् अन्यत् किं वा बालक-मङ्गलम्
[अनुष्टुभ्]
यतः-
सर्वदा क्रमते यस्य बुद्धिः सद्-भक्तये हरेः ।
स सदा क्रमते तस्य लक्ष्मीश् च क्रमतेतराम्
[अनुष्टुभ्] इति ।
[18] देवाश् च स-कौतुकम् इमं श्री-कृष्णाभिप्रायम् उत्प्रेक्षां चक्रिरे ।
बालोऽ हं न परिचिनोम्य् अभद्र-भद्रं
यः क्रोडे कलयति तद्-गलं दधामि ।
तेन त्वं यदि मरणं प्रयासि कः स्विद्
दोषः स्यान् मम तम् अथ त्वम् एव जल्प
[प्रहर्षिणी] इति ।
[19] ततश् च सर्वानर्वाचीनाभीर-वीराणां सेयं मन्त्रणा जाता, गोष्ठम् इदं दुष्टानाम् अधिष्ठानं वृत्तम्, तस्माद् गृह एव गोपनीयम् इदं बाल-युगलम् इति ।
[20] ततः शङ्कातिशय-मयं दिन-कतिपयं नाना-क्रीडनकेन क्रीडयमाना मातृ-समाना गोपिका गोपिका बभूवुः । यत्र च बाल-बालिका-कुल-पालिकादयः सदयं समागम्य रम्यं तत्-केलि-कुतूहलं कलयन्ति, यथा-
क्रीडनानि विविधानि तं सदा
दर्शयन्ति च मुदा हसन्ति च ।
खेलयन्ति च बलेन ता इति
स्वान्तरे परम् अमू अरक्षिषुः
[रथोद्धता]
ततश् च-
बालेन समम् अन्योऽ न्यं प्राबल्यं दर्शयन्न् इव ।
ऊर्ध्वाधो-भावम् आसाद्य सर्वा हासयति स्म सः
[अनुष्टुभ्]
मातॄणाम् अग्रतो बाहू विक्षिपन् धावति स्म सः ।
दर्शयन्न् इव तेजः स्वं हसन् पाते रुरोद च
[अनुष्टुभ्]
बलं वा ज्ञानं वा कियद् अभवद् अस्येति विमृशन्
यदा गोपी-सङ्घः किम् अपि मुहुर् आनेतुम् अदिशत् ।
तदा शक्तिं व्यञ्जन् क्व च पुनर् अशक्तिं क्व च शिशुः
स पश्यंस् तद्-वक्त्रं हसति च पुरो हासयति च
[शिखरिणी]
नामादेशं यदा माता दिशते नयनादिकम् ।
कृष्णश् च कुरुते बाढं चक्रे तस्या न किं तदा?
[अनुष्टुभ्]
रुदन्तम् इन्दवे मन्थ-गर्गर्यां प्रतिरूपिणे ।
पिण्डेन नावनीतेन वृद्धागर्धयतार्भकम्
[अनुष्टुभ्]
स्वस्य स्वल्पापहारेऽ पि चक्रन्द मणि-हानिवत् ।
कृत्वान्य-मणि-हानिं च प्राहसीद् बाल-कृष्णकः
[अनुष्टुभ्]
निर्मञ्छनं तव भजाम कुलेशलाल्य
बाल्यातिमोहन बलानुज नृत्य नृत्य ।
इत्य् अङ्गनाभिर् उदितस् थि थि थित्थि थीति
क्प्तेन ताल-वलयेन हरिर् ननर्त
[वसन्ततिलका]
मां नर्तयत भो वृद्धाः, इति तासां पुरो गतः ।
भद्रं नृत्यसि भद्रस् त्वम्, इति स्तोत्रान् ननर्त सः
[अनुष्टुभ्]
विहसन्तीषु सर्वासु सौष्ठवात् प्रच्यवाद् अपि ।
नृत्यन् व्रीडितवत् कृष्णो मातुर् अङ्केऽ पलायत
[अनुष्टुभ्]
[21] क्षणं विरम्य च रम्याननः स्तन-धयनम् अपि तत्रारब्धवान्, यद् दर्शनम् अनु सङ्कर्षणः सेर्ष्यम् इव निजम् उत्कर्षं वाञ्छन् निज-जननी-स्तन-पानम् आरब्धवान् । [22] तदैव च तौ लीलाभिः प्रमीलाम् आगतौ यातृभ्यां मातृभ्यां शनैः शनैः शय्याम् अधिशाय्येते स्म ।
[23] तद् एवं सरामस्य तस्य निरोधे विधीयमाने बहिर् विजिहीर्षिते चातीव तद्-उपजीवन-पीवताम् आसन्न् एव योगमाया तद्-अनुकुल्याय किञ्चित् प्रपञ्चितवती, यथा-
एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भाविनी ।
प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥
पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् ।
लालयन्ती मुखं विश्वं जृम्भतो ददृशे इदम् ॥[भ्प् 10.7.34-5] इति ।
[24] तेन च सन्ततं विस्मयमानायां निजजायायां तस्यां कदाचित् श्रीमान् व्रजराजः पप्रच्छ, मया यद् अनिष्ट-भयाद् बाल-रोधनम् उपदिष्टम्, तत् किं निर्वहति?
[25] सा प्राह-निर्वहत्य् एव, किन्तु वृथेति लक्ष्यते ।
[26] व्रजराज उवाच-हन्त, कथम् इव?
[27] सा प्राह-व्रज-मात्र-व्रजनं वर्ज्यते । दृष्टं तु मृष्ट-स्मितं जृम्भमानस्य बालकस्य वदन-द्वारा जगद् एव इति ।
[28] अथ व्रजराजः स-वैलक्ष्यम् आलक्ष्य लक्ष्मी-जानि-लक्ष्यतया मौनम् आलम्ब्य विलम्ब्य चोवाच-यद्य् एवम्, तदा स्वजन-परायणस्य श्री-नारायणस्य विधित्सितम् एव सर्वं विचिकित्सितम् अपि चिकित्सितं करिष्यति । तस्यैव खल्व् इदं वैभवम् इति ।
[29] एवं तद्-अवधि तद्-विधिना नातिनिरोधे विधीयमाने क्वचिद् अपि समये संयमनं समया सरामः स रामानुजः श्रीदाम-सुदाम-वसुदामादिभिः समं रमते स्म । [30] तत्र विनोदेन मृददनं चक्राणे चक्राङ्कित-चरणे सङ्कर्षणा-दयः खेलायां कलित-कलहा रहस् तन्-मातरं निवेदयामासुः, ये खलु तया तद्-विध-विधानेऽ वधापिता विधीयन्ते स्म । [31] माता च प्रच्छन्नम् आगच्छन्ती बाहुं गृहीत्वा पप्रच्छ, चपल, किम् इदं दुश्चरितम् आचरितम्?
[32] स तु सहसा सङ्कलितानन-कमलः कातर-मतिर् मातरम् उवाच-मातर्, न किम् अपि ।
[33] माता प्राह-मृत्तिकाम् अत्ति स्म भवान् ।
[34] सुत उवाच-क इदं वदति?
[35] माता प्राह-सर्व एव तव सवयसः ।
[36] सुत उवाच-एते खलु निज-निज-वस्त्यान् मधुर-वस्तूनि मुष्णन्तः स-तृष्णम् अत्रपम् अत्र परस्परम् अश्नन्ति, तद् अनङ्गी-कृतवतः कपाटित-रदने मम वदने प्रथमं समं बलाच् छलाद् अपि समर्पयन्ति, तच् च त्वयि स-निर्वेदं निवेदयितुम् इच्छोर् मम तुच्छं स-विवादं दुर्वादम् एतम् अवादिषुः ।
[37] माता सुविस्मितम् ऊर्ध्वम् अधो मूर्धानम् आधूय सस्मितम् उवाच-सव्याज-राज! तवाप्य् अग्रजः सोऽ यं व्यञ्जयति, तत्र किं वदिष्यति?
[38] सुत उवाच-एते सर्व एव वीथ्यां वीथ्यां मिथ्याभिशंसिनः ।
[39] माता प्राह-स-च्छल-प्रलपित! भो मत्-पितः, बलभद्रः किम् इति प्रमिति-रहितम् अभद्रं वदतु?
[40] सुत उवाच-अयम् अप्य् एतद्-गण-पातीति तथान्येद्युर् मृत्तिकाम् अत्ति स्म, तद् अवद्यं निवेदयितुम् उद्यतं मद्-वचनं मृषोद्यताम् आसादयितुम् इति ।
[41] माता तन्-मुखं धृत्वा सहासम् आह स्म, किम् इदं चिरं निगिरन्न् असि?
[42] सुत उवाच-उक्तम् एव मम लपने बलाद् गलान्तः प्रवेशाय किम् अपि न्यस्तं समस्तैः इति ।
[43] माता प्राह-धूर्त, कथं जानीयाम्?
[44] सुत उवाच-साम्प्रतं मम मुखम् एव निरीक्ष्यताम् ।
[45] माता स-संरम्भ-स्मितम् उवाच-व्यादेहि, पश्यामः ।
[46] ततश् च भयेन स एष मृच्-चिह्नितम् अप्य् अह्नाय वदनं व्याददौ । [47] ततस् तद्-भयम् अवदधाना समादधाना च रसान्तरेण मातुः कोप-शान्तये तद्-अन्तर्-योगम् आयाता सा योगमाया पुनर् विश्वं दर्शितवती ।
[48] तत्र चेदं व्रजेश्वरी पराममर्शे-
अहो बहिर् इवेक्ष्यते जगद् इदं मुखाभ्यन्तरे
शिशोस् तद् अनु भूर् इयं भुवि च माथुरं मण्डलम् ।
इह व्रज-कुलं यद् अन्व् अपि मया धृतो बालकः
स एव तद् अहो कथं किम् इव हन्त किं सिध्यति
[पृथ्वी]
[49] अथ पुनः स्वप्नादिकम् अनल्पं कल्पयित्वा पश्चिमम् इदं निश्चिकाय,
अहं यशोदास्मि पतिर् व्रजाधिपः
सुतः स एष स्वम् इदं च गोकुलम् ।
प्रतीयतेऽ थापि शिशोर् मुखे जगद्
यन्-माययेत्थं कुमतिः स मे गतिः
[उपजाति 12]
[50] तद् एवं स च नारायणस् तद्-भाव-परायणतां ताम् अनु नितान्तां विचारयन्न् आत्मनः परमाभिरुचि-परिचिताविर्भावे तस्मिन्न् एव विस्मिति-निचितं जनन्य्-उचित-स्नेहम् एव देहयामास, यं खलु नेमं विरिञ्चि [भ्प् 10.9.20] वक्ष्यमाणानुसारेण समस्तानि शास्त्राणि सदा प्रशस्ततया गायन्ति ।
[51] अथ कौतुकान्तरं चान्तरम् आनीयताम् । तद् एवं सर्वानन्दनः श्रीमन्-नन्द-नन्दनः क्रीणीहि भोः फलानि इति [भ्प् 10.11.10] गीति-रीति-रोचन-वचनं कर्णयोर् आरचयन्न् एव चपल-लोचनः किञ्चनाप्य् आलोचयन्न् एव च लघुनापि पाणि-युगलेन लघुतया पुरः पतित-धान्य-पुञ्जतः पूर्णम् अञ्जलिम् आदाय तद्-अभिमुखं जगाम । किन्तु द्रव-वशाद् अल्पकाञ्जलितः स्खलितम् इदम् इति भिदां न विदाञ्चकार, केवलम् एव कर-युगलं क्रय्य-फल-पूरित-तत्-पत्र-पात्रोपरि परिवृत्त्या च चालयामास ।
[52] ततश् च सा स्मितवती स्मित-दिग्ध-तन्-मुख-माधुरी-साधु-रीतिभिः स्निग्ध-हृदया व्यञ्जित-स्पृहावलीं तद्-अञ्जलिं फल-वलयेन भिक्षयन्ती दूरत एव सङ्कलन-मुद्राम् अपि शिक्षयन्ती सकलेन तु पूरयितुं शशाक । [53] निज-भाजनं फल-रिक्तं बभूव वा न वा किम् इति तु न विविक्तुं चकार । गृहाभ्यन्तरेणान्तरिते तु तस्मिन् निजं पत्रजम् अमत्रम् अयत्नतया रत्न-पूरितम् अप्य् अनिभाल्य भारम् अप्य् असम्भाल्य तन्-माधुर्यावेशाभिनिवेशवती स्वजनानाम् अपि शर्म-जननाय बहुल-फलावलि-बलि-समानयनाय च निज-निलयम् एव जगाम । किन्तु गृहं गत्वा ज्ञात-मणि-तत्त्वाप्य् अकुण्ठासकृद्-उत्कण्ठावहेन तन्-मुख-शोभाभर-विरहेण सा धन्या हारित-महा-धनं-मन्या बभूव, यत एव सा कृष्ण-दृश्वरी विश्वम् अपि विसस्मार
।
[54] स तु विविध-दुर्विध-शर्म-विधान-सन्निधानः स्वयं लब्ध-निधानवद् अतिसावधान-पाणिर् नृत्यन्न् इव मातुः समीपम् अञ्चन् मधुर-चञ्चलेहितस् तस्या निचोलाञ्चले निर्बन्धतः सकलानि फलानि बबन्ध ।
[55] माता चोवाच-पुत्र कुत्र लब्धानि तानीमानि?
[56] सुतस् तु बाल्य-भावाद् अर्धार्ध-वर्णं वर्णयामास, कदाचिद् आचित-फला धान्यानि मूल्यम् आदाय धन्या मयि चानुकूल्यम् आधाय समर्पितवती ।
[57] मातोवाच-वत्स, गृहजनवत् सर्वतः प्रतीतिं मा कृथाः इति ।
[58] सुतस् तु का खल्व् अप्रतीतिर् इति च न विदाञ्चकार । [59] क्षणतश् च तां गतां निरीक्ष्य पुनर् आगतः सक्षणतया जनाय तत्-फल-विभजनाय जननीं नियोजयामास । [60] माता चामन्देनानन्देन कृत-स्पन्देन कर-द्वन्द्वेन तानि विभजन्ती तदन्तीकृतिं नाससाद । दिन-कतिपयं विस्मय-वशा स्मयमाना वसति स्म । तद्-आस्वाद-कराश् च लब्ध-चमत्कारा न विस्मरन्ति स्म ।
[61] अथ लीलान्तरम् उद्भावयितुम् एवं विभाव्यते-
गोकुलेषु किल शीलम् ईदृशं
यद् दिवा वनम् अयन्ति गोनराः ।
योषितः प्रचुर-गव्य-संस्क्रियां
क्रीडनं रहसि बाल-तर्णकाः
[रथोद्धता] इति ।
[62] तदा चैकदा गृह-व्यय-पयः-कृते समीपकृते वत्स-सद्मनि रुद्ध-द्वारान् शकृत्-करि-सारान् बाल-हरिः परितः-स्थित-बालक-जालः कलयामास । तत्र च,
वत्सीर् मत्वा तदा धेनूश् छाग-तोकानि वत्सकान् ।
आत्मानं गो-दुहं बाला गो-दोहम् अनुनिर्ममुः
[अनुष्टुभ्]
वत्सीषु यर्हि गव्यन्तो गोदुहन्ति स्म तेऽ र्भकाः ।
तेषां प्रहासजा भासः पयस्यन्ते स्म तास् तदा
[अनुष्टुभ्]
इयेष च यदा धेनु-चारणानुकृतिं प्रति ।
मन्त्रयित्वा तदा कृष्णः प्रामुञ्चन् नव-वत्सकान्
[अनुष्टुभ्]
रक्षाम् इच्छू वत्स-पुच्छं गृह्णानौ राम-केशवौ ।
तद्-आकृष्टतया गोष्ठे बालैर् बभ्रमतुस्तराम्
[अनुष्टुभ्]
[63] तच् च तर्णकानुगतया तयोः प्रथमम् अभ्यर्णागमनम् आकर्ण्य निर्वर्ण्य च वर-वर्णिन्यः स्खलद्-वर्णं वर्णयामासुः । तथा हि गीतम्-
बल-कृष्णौ बलवलितविलासौ ।
खेलत इह सखि सखि-कृत-हासौ ॥ध्रु॥
तर्णक-पुच्छ-धृति-व्यापृतिनौ ।
प्रणय-कलित-कलि-कलने कृतिनौ ॥
गृह-गृह-वीक्षण-सक्षण-नेत्रौ ।
धेनु-पाल-तुलया धृत-वेत्रौ ॥
द्रुत-तर्णकम् अनुविद्रुतवन्तौ ।
श्रेणीयित-चल-वेणीमन्तौ ॥
शारद-वार्षिक-वारिद-वपुषौ ।
चल-लोचन-रुचि-चपलांशु-जुषौ ॥
स्खलद्-अलक-द्युति-वलयित-लपनौ ।
अलि-ललितामल-कमल-ग्लपनौ ॥
नील-कनक-रुचि-शुचि-लघु-वसनौ ।
चञ्चल-चरण-स्फुट-रट-रसनौ
इति । [मात्रासमक]
[64] तद् एवम् अङ्गनाद् अङ्गनाद् व्रजाङ्गनाभिर् अहम्-पूर्विकयानुगम्यमानौ, विहिताकस्मिक-पर्व-सुख-दोहन-सर्व-मोहनतयाधिगम्यमानौ,
संवाद-विवाद-परीवाद-बन्धुर-बन्धूनाम् अभ्यर्णतया निर्वर्ण्यमानौ,
तादृशाकर्णन-निवर्णनम् अनु परस्परं वर्ण्यमानौ,
तासु च काभिश्चिद् अमृतम् अनृतं कुर्वता प्रतिचर्वणं सरसेन रस-विसरेण भोज्यमानौ,
तद्वद् एकाभिर् निज-गृहाजीव्य-दिव्य-मणि-हारम् उपहारम् उपहारं हारितयोपयोज्यमानौ तद्वद् वर्ण्यमानौ,
तासु च काभिर् अपि प्रेमानुगम्य-रम्य-वचन-प्रचय-रचनया कञ्चन कालं वरिवस्यमानौ,
किं चान्याभिः समुत्तम्भित-कर्ण-तर्णक-कृत-कृष्टि-दृष्टितः शस्यमानवत् परिहस्यमानौ,
तद्वद् अन्यतराभिस् तन्-मधुर-चकुर-चिकुर-चञ्चुरता-प्रचुर-चञ्चलतां निचाय्य चातुर्यतश् चरितम् इदं भवन्-मातृ-चरणेषु गोचरयामः, इति सूचनया तस्माद् वर्ज्यमानौ,
ताभिर् एव मातर-पितराव् आरभ्य गणनालभ्य-कुलालि-गालि-पालिम् उपलभ्य कलित-व्यलीकम् इव स-कोलाहल-प्रणय-कलित-कलितया तर्ज्यमानौ
बल-गोपाल-नामानौ वल्गु-बाल्यवयसा समानौ खेलां कलयामासतुः ।
[65] अथ मातराव् अपि जाताव् अमू कुत्र याताव् इति कातरायमाण-नयने निर्जनता-जनित-स्वैरता-भाग्-अयने व्रज-नीवृद्-अयने रुषा निन्दिताभिर् उपमातृभिर् मुदा वन्दिताभिर् अपि तद्-अभिधातृ-यातृभिः समम् एव गृहतः कृत-निर्याणे स्वयम् एव सम्यग् मृगयमाणे दर-सरसि-जनिज-चिह्न-विगत-निह्नव-चरण-लक्षण-विलक्षण-वर्त्म-वलनेन महिलानां कुतूहल-कोलाह-लाव-कलनेन च समया समयाञ्चक्राते । तदा च निजागमन-वर्जनीं तर्जनीम् अभिचाल्य प्रच्छन्नतया निभाल्य तस्माद् अकस्माद् अनयोर् बाहू जगृहतुः । बालकास् तु सर्वतः सर्व एव दुद्रुवुः, महिलाश् च काश्चनानुकूल्यतः काश्चन प्रातिकूल्यत इव च तयोश् चापल्यं लपन्त्यः समम् एव मातृभ्याम् अभ्याययुः । धात्र्यस् तु बालयोर् अतीव स्नेह-पात्र्यस् तर्णकान् आदाय
तद्-अभ्यर्णम् आजग्मुः ।
[66] अथ तद् आरभ्य वीथीं वीथीम् उपलभ्य कुतुककर्मा बलानुजन्मा सह- सहचरः कोलाहलं कलयामास । तदा च कदाचिन् निजतनूजलभ्यप्रागल्भ्य-स्पृहिणी व्रजेशगृहिणी तदानन्दबृंहिणीभिर् विवदमानाभिर् इव दीयमान-तदीयमानसमानाभिर् उपालम्भसमाधानलम्भनवाकोवाक्यव्यङ्गम् अव्यङ्गम् अभ्यधायि ।
[67] तत्र सभायां सा यथा-
आसीना कनकासने सुतयुता श्रीमद्-व्रजाधीश्वरी
पीठ-श्रेणिम् उपाश्रिता व्रज-वधूर् नानात्म-भाव-श्रियः ।
कृष्ण-प्रेम-सुधा-महोमय-गिराम् आस्वादनाद् धिन्वती
ताभिश् च प्रतिधिन्विताखिल-सभा शोभाङ्ग-यष्टिर् बभौ
[शार्दूलविक्रीडितम्]
[68] वाकोवाक्यं यथा-
तव सूनुर् मुहुर् अनयं कुरुते ।
अकुरुत किं वा व्यञ्जित-कुरुते ॥ध्रु॥
मुञ्चति वत्सान् भ्रामं भ्रामम् ।
साचिव्यं वः कुरुते कामम् ॥
असमय-मोचनम् असुख-निधानम् ।
कः किं कुरुते न यदि निदानम् ॥
विना निदानं कुरुते स्वामिनि ।
क्रोशं न किम् इव कुरुषे भामिनि ॥
क्रोशे हसति प्रत्युत सोऽ यम् ।
दत्त्वा वशय स्फुटम् अपि तोयम् ॥
अत्ति स्तेयं परम् इह रुचितम् ।
अज्ञे भानं कथम् इदम् उचितम् ॥
स्तेयोपाये गुरुर् अयम् अखिले ।
नार्हति सर्वं मिथ्या निखिले ॥
रचयति पीठादिकम् आरोहम् ।
तद् अगम्यं कुरु सर्वं दोहम् ॥
दूराच् छिद्रं कलयति पात्रे ।
अस्य कथं धीः सति तन्-मात्रे ॥
अन्तर्-धियम् अनु स इह विशालः ।
वक्षि यथासौ न तथा बालः ॥
वेत्ति स कृत्स्नं गोपन-रीतिम् ।
गेह-गुहा नहि दवयति भीतिम् ॥
गेह-गुहात्र वृथा तनु-दीपे ।
तनुर् अनुलिप्ता कलय समीपे ॥
मणि-गण-महसा गणयति न तमः ।
भूषण-रहितस् तिष्ठेत् कतमः ॥
अपि चाशयति बलाद् अपि कीशम् ।
मनुषे कियद् अमुम् अत्तुम् अधीशम् ॥
तद् अशक्तौ पात्रं भेदयते ।
तस्याशौचं वा वेदयते ॥
गम-समये रोदयति च बालाम् ।
प्रक्ष्यामो वर-महिलामालाम् ॥
अपि बालान् मेहयते गेहे ।
नहि नहि चूर्णं पतितं स्नेहे ॥
तव पुरतोऽ यं स्थिरवन्-मूर्तिः ।
आश्चर्येयं तव वाक्-पूर्तिः
इति । [मात्रासमक]
[69] पुनश् च प्रतीतिम् आसादयन्त्य इवेदं वदन्ति स्म, नाश्चर्यम् अत्राचर्यताम् । यतः,
इन्द्रिय-कुलम् अतिगूढं नेत्राद्य्-अन्त-निगूढम् एवास्ति ।
तन्-मध्याद् अपि चित्तं हरतो नृ-हरेर् न हार्यं किम्?
[आर्या]
[70] तद् एवम् अभीषङ्ग-भङ्गीभिर् वर-वर्णिनीभिर् वर्ण्यमानम् आकर्ण्य चपल-दृष्टि-परामृष्टि-कर्णं झटिति जात-विलक्षण-वर्णं श्री-कृष्ण-मुख-श्री-पर्णं निर्वर्ण्य विहसन्तीं ताम् अनु विहसन्तीभिस् ताभिः शपन्तीभिर् इव भणितम्-यदि च वयं साधु-चरिताचरितार्थतां गतास्, तदा भवत्या भवनेऽ पि शीघ्रम् एतत् पतिष्यति ।
[71] हसन्ती सा चोवाच-भद्रं भद्रम्, तदैव वो भद्रत्वम् अनुभविष्यामः इति । [72] वस्तुतस् तु तस्याः कोमलतायाम् अवकलितायां, मुहुर् अयम् अस्मद्-आलयं वलिष्यते इति विचार्यैव चर्येयम् अमूभिर् आचर्यते स्म ।
[73] अथ समापनम् इदं मधुकण्ठ-वचनम्,
अद्भुतं बाल्यचरितं तव सूनोर् व्रजेश्वर ।
क्व तृणावर्त-दलनं क्व मातुर् भय-भावनम्?
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0