भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.6

1.6.1

[प्रहर्षिणी]
[85] तद् एवं वृत्ते तद्-दिनेऽ पि पूर्ववद् एव कथा रक्षिता यथायथम् अपि स्वावसथादि-पथानुगतिर् आचरिता ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
पूतना-वधावधारणं नाम
पञ्चमं पूरणम् ।
॥5॥
(6)
अथ षष्ठं पूरणम्
विशङ्कट-शकट-विघट्ट-नादि-विचित्र-बाल्य-चरित्रम्
[1] अथ तथैवाधरे-द्युः सुभासमानायां सभायां अनुमोदन-निदिग्धः स्निग्धकण्ठः सोत्कण्ठ उवाच-मधु-मधुर-कण्ठ श्री-मधुकण्ठ, श्रूयताम्-
[2] ततः समन्ताद् अहरहर् अन्यद् अन्यल् लावण्यम् उत्फुल्लयन् विधुः स्व-जन्म-पक्षम् उल्लासयामास । तत्र दिग्-दर्शनं यथा-
एका द्वित्राश् चतस्रो युत-वियुततया पञ्च-षाः सप्त चाष्टौ
पङ्क्तिर् वा पङ्क्ति-बद्धाः शिशु-युवति-जरत्य्-अर्ध-वृद्धाः समन्तात् ।
आयान्ति द्राग् विशन्ति व्रज-नृपति-गृहं तं च पश्यन्ति बालं
कृत्वा चुच्कार-मिश्रं बहुल-विलसितं स्माययन्त्यो हसन्ति

1.6.2

[स्रग्धरा]
यथा च-
मात्रा पित्राथ माता-पितर-कुल-भवैर् आकुलैश् चित्र-मित्रैर्
नेत्राणाम् अञ्जनाभं शिशुम् अनुभवितुं सन्ततं कञ्जनाभम् ।
आगम्यागम्य रम्याकृति-परिवृतिम् उद्वास्य हास्यादि-पूर्वं
स्पर्शं स्पर्शं तम् उच्चैर् अहरहर् अहहो दृङ्-महो लभ्यते स्म

1.6.3

[स्रग्धर]
ततश् च-
विगलद्-अलक-जालालोल-दृक्-खञ्जरीटः
प्रकटित-तिलक-श्री-रोचना-कुङ्कुमाभ्याम् ।
स्मित-विलसित-वक्त्रः श्याम-धामाचलाङ्घ्रिः
शिशुर् अतिशुशुभे स प्राप्य मासं तृतीयम्

1.6.4

[मालिनी]
तत्र च-
स्निग्धाः पश्यति सेष्मयीति भुजयोर् युग्मं मुहुश् चालयन्न्
अत्यल्पं मधुरं च कूजति परिष्वङ्गाय चाकाङ्क्षति ।
लाभालाभ-वशाद् अमुष्य लसति क्रन्दत्य् अपि क्वाप्य् असौ
पीत-स्तन्यतया स्वपित्य् अपि पुनर् जाग्रन् मुदं यच्छति

1.6.5

[शार्दुलविक्रीडिता]
[3] अथ कदाचिन् नाक्षत्र-मास-त्रयान्ते नक्षत्रेश-कान्ते तज्-जन्म-नक्षत्रे श्रीमन्-मात्रा पुत्राभिषेक-कौतुक-यात्रा प्रवर्तिता । तदा च,
भवनम् अनु सुयत्ने रत्न-पर्यङ्क-वर्ये
सुरभि-मृदुल-तुली-शुभ्र-वस्त्र-प्रशस्ते ।
हरि-मणि-रुचि-बालः शोभते स्मासिताम्भो-
रुहम् इव सुर-सिन्धौ क्षीर-सिन्धौ हरिर् वा

1.6.6

[मालिनी]
अथोत्तान-शायी स सर्वातिशायी
निजाम्बा-यशोदः स्व-तात-प्रमोदः ।
स्व-नक्षत्र-भाते बभूव प्रभाते
बलेनातिसाङ्गः परावर्तिताङ्गः

1.6.7

[भूजङ्गप्रयाता]
[4] ततश् च, शयनं पार्श्वेनोपपीडं शयानम् अमुं सुकुमार-कुमारापीडम् अकस्माद् विलोक्य तद्-वृत्ते धात्रीभिर् मात्रे निवेदित-मात्रे सति सातिमात्रानन्द-कन्दलिता निज-नन्दन-मङ्गलातिशय-स्पृहिणी श्रीमन्-नन्द-क्षितीश-गृहिणी भर्तुर् आज्ञां सुज्ञातां सम्भूय भूयः सर्वाः समाहूय तम् एव महोत्सवम् अहो महोत्सवं चकार ।
[5] तत्र कासाञ्चिद् अपि गृह-पालनाय स्थितानाम् आहूतिर् एवम् अनुसन्धेया;
लाल्यस्याद्य तु जन्मभं विजयते तत्रापि चौत्थानिकं
सर्वा एव गतास् त्वम् एव किल किं सद्मावितुं वर्तसे ।
आगृह्णाति मुहुर् व्रजेश-गृहिणी किं वा व्रजे मोषकः
कोऽ प्य् अस्ति स्फुटम् अस्ति वा स तु शिशुर् मुष्णाति चेतः परम्

1.6.8

[शार्दुलविक्रीडितम्]
[6] अथ तत्र चित्र-वादित्र-शुभ-रीति-गीति-प्रशस्त-विप्र-कुल-शस्त-स्वस्ति-वाचन-पूर्वक-विधिम् अतिरिच्याभिषिच्य, पीत-वाससा परिकृत्यालङ्कृत्य, मन्त्रादिभिर् अभिरक्ष्याभिलक्ष्य, तद्-उद्धर्ष-हर्षमय-बहुतर-कार्य-चर्या-मर्यादां पर्यापयितुम् इतस् ततश् चलन्ती, परिजनान् अपि नियोजनया स-प्रयोजनान् जनयन्ती, जननी गेहायमान-विसङ्कट-घटन-महा-शकटाधः कल्य एव पल्यङ्के बालम् आलोकाजिर एवाजिरे शायितवती । तत्र कुमारयतः कुमारांश् च स्थापितवती । तत्रावष्टम्भ-स्तम्भ-चतुष्टय-मध्यग-दोलाकारः स पल्यङ्को यथा-
प्रवालाङ्घ्रिर् गारुत्मत-घटित-पट्टी-पटु-रुचिर्
वहन् मध्ये पट्टारुण-चिपिट-डोरी-पट-वृतिम् ।
दुकूलान्तस् तुल-स्फुरित-वर-तुली-वलयितो
दरान्दोलो दोलो यद् उपरि विरेजे शिशु-हरिः

1.6.9

[सिखरिणी]
तत्र च-
स्थविष्ठ-पट्ट-स्तवकं विचित्रं
निबद्धम् ऊर्ध्वाद् अभिलम्बमानम् ।
स्पृशन् कराभ्याम् असितः स कूजन्न्
उत्तान-शायी मुहुर् उज्जहास

1.6.10

[उपजाति 11]
[7] ततश् च, ब्राह्मणादि-पूजायां पूर्यमाणायां कृत-समाहरणेन हरणेन सार्धं सार्ध-प्रहरणेऽ प्य् अतियाते न कस्यचिद् अन्यत् किञ्चिद् अपि छिद्र-मात्रम् आसीत् ।
[8] तदा च पूतनावन् नूतनार्भकाय कंस-प्रहितः कश्चिद् दिविषद्-अहितः समागम्य दिवि स्थित एवं चिन्तयामास: "स पूतना-पोथकोऽ यं पोतो विसङ्कट-शकटाधस्ताद् आस्ते । साक्षान् मन्तुं विधातुं न कोऽ पि जन्तुर् अमुष्य शक्ष्यतीति लक्ष्यते । छद्म-रूप-सद्मतया च पूतना संस्थिता, तस्माद् अमूर्त एव सन्न् अत्र पूर्तये भवानि" इति । ततश् चासौ शकटम् अप्रकटम् आविष्टवान् ।
[9] तद्-आवेशेन चासौ भूम्यां प्रविशच् चक्रतया वक्रीभवद्-अक्षतया चोपरि-पात-परीपाक-प्रक्रमं यदा चक्रे, तदैव तद्-दैव-वशतः किल तस्य पोतस्य स्तन-निदिग्ध-दुग्ध-जग्धीच्छा जाता । तदा च मातरम् अनुपलभ्य कातर इव नव-कमल-दल-कोमल-चरणास्फालनाद् उद्घटितं निज-शकटं पक्ष-विहीनम् अपि कुतुकाद् इव राक्षस-पक्षिणीवद् उड्डीनं विधाय विवृत्त-पतनत्वम् आसादयामास स शावकः ।
[10] इदम् एव साश्चर्यतयानुदितं श्रीमद्-अर्जुनेन विष्णु-धर्मे:
तालोच्छ्रिताग्रं गुरु-भार-सारम्
आयाम-विस्तारवद् अद्य जातः ।
पादाग्र-विक्षेप-विभिन्न-भाण्डं
चिक्षेप कोऽ न्यः शकटं यथा त्वम्? ॥इति ।
[11] स चासुरः स्वयम् एवामूर्तताम् उरीकृतवान् इतीव तम् अप्य् असाव् आकाश-नीकाशतया नाशयामास । तद् इदम् अहो काकतालीयम् एव जातम् । सोऽ यम् असुरावेश एव ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे शकटासुर-भञ्जन इति नाम्ना व्यञ्जितः ।
[12] अत्र देवाः श्रील-गोपाल-भावम् उत्प्रेक्षाञ्चक्रिरे, यथा-
"शकटम् इदम् इहास्ति मद्-गृहस्य
स्वयम् अविशस्तद् अनेन चोत्प्लुतोऽ सि ।
रुदितम् अनुपदं मया विकीर्णं
तद् अपि यदि म्रियसे न तन् ममागः

1.6.11

इति । [पुष्पिताग्रा]
आविर्भवत्-कटकटे शकटेऽ थ सर्वे
किं किं किम् इत्य् अभित एव भियाभियाताः ।
तस्यातिपातम् अवलोक्य विलोक्य तोकं
क्रन्दद्-विमूढ-मतिताततिमूढवन्तः

1.6.12

[वसन्ततिलक]
माता च तं विवशितावयवापि देवा
विष्टेव पश्यति जने जगृहे द्रवेण ।
पश्चात् तु कम्प-मुख-भाव-निपीडिताङ्गीं
तां विद्रुताः परपराः परितोऽ प्य् अगृह्णन्

1.6.13

[वसन्ततिलका]
[13] तस्मिन्न् अनस्य् अब्दवच्-छब्दे जाते तु,
किं तत्? किं तन् ननाद? श्रुति-कटु-शकटस् तत् कथं स व्यलोठीत्
कस्मात् कस्माद्? अकस्मात् कुशल-कुशलम्? ओं वासुदेव-प्रसादात् ।
इत्थं प्रश्नोत्तराभ्यां व्रज-कुल-पतयः प्रापुर् अन्तः-पुरान्तर्
दृष्ट्वा तत्-पातम् आसन् दशन-तति-शिखाद् अष्ट-जिह्वाश् चिराय

1.6.14

[स्रग्धरा]
[14] ततश् च सहसा बहिः-पुराद् अन्तः-पुर-पुर-स्थल-भाजं श्रीमद्-व्रज-राजं निर्वर्ण्य सर्वे पर्यायागता द्विधाभूताः पूरतो दूरतोऽ वकाशं ददुः । [15] ततोऽ सौ जनकस् तु जन-कलकलतस् तद्-वृत्तम् अवकलयन्न् अम्बाला-गलावलम्बं बालकम् एव स्व-पाणि-तलम् अवलम्बयामास, विलोकयामास च तस्य सर्वावयवान् ।
[16] तद् अनु च सर्व एव शान्ततामायान्तस् तद्-अन्तं समन्ततः शकट-निकट-संवलकान् बालकान् एव पप्रच्छुः । ते च तद्-एक-निर्देशिन्या दर्शयन्तस् तम् एव निर्दिदिशुः । तत्रैको लोहलोऽ प्य् अग्र-वादी निवारित-कोलाहलः प्रललाप, "म म मम पा पा पा पार्श्वतः श्रूयताम्, य य य यदा च च चरण मु मुत्थापितवान् अयम्, त त त तदा ते तेन स्पृष्ट-मात्रो डि डि डि डि डीन इवोद्वृत्तः सोऽ यं श श श शकटः" इति ।
[17] ततश् च, तद्-विडम्ब-वादिषु बालादिषु हसत्सु बीभत्सित-बालिश-भाषिताः परम-वत्सला विचिकित्सां न धित्सां चक्रुः । पूतना-वधावधारितानुवादितया कर्कश-तर्क-चक्र-निरुद्ध-बुद्धयस् तु चक्रुः । [18] पिता तु पुनः स्वस्ति-वाचनाभिषेचनादिना विप्र-कुल-प्रतोषणादिना सर्वाशी-राशिना च तं लङ्गिम-बालं मङ्गलेन सङ्गमयामास मातुर् उत्सङ्गेन च । तया च स्व-बाल-लालना-कलाप-मय्या गृहान्तः-शय्यायाम् एवायं शाय्यते स्म । गोप-महेन्द्रादिभिर् महित-महा-शकटश् च यथा-स्थानं घटयामासे ।
[19] अथ मधुकण्ठ उवाच-वत्स, बालकेन महा-शकट-समुच्चाटनम् असम्भाव्यम् इति सम्भाव्य भण्यताम्, अन्यथा हि कवेर् एवान्यथात्वम् आपद्येत ।
[20] स्निग्धकण्ठ उवाच-आर्य, पूर्वम् एवात्रापूर्वता निवारितास्ति, यतो योगमाया खल्व् अस्य सम्भावित-योगं निर्मापयतीति पुनर् मा प्राक्षीः ।
[21] मधुकण्ठः स-स्मितम् उवाच-तद्-अनन्तरम् उदन्तः कः?
[22] स्निग्धकण्ठ उवाच-अथाग्रजानुजान् अनु व्रजस्य राजा विविवेच, "बालक-युगलम् इदम् अपृथग्-आलयालम्बनताम् एव नितराम् अर्हति, यतस् तदीय-जनन्योः स्वयम् एव तल्-लालनाय लालसा-धन्ययोस्, तत्र च परस्पर-तद्-आसक्तयोर् नाना-स्पृह-गृह-कार्य-पर्यापण-व्यसनयोर् युगपत् तद्-युगलस्य पृथग्-अवकलनं दुर्बलम् इति केवलं सुदिनागमन-विलम्बताम् अवलम्बे । यथा वा भवताम् इच्छा भवति" इति श्रुत्वा श्रुतज्ञाः श्रोत्रियान् आश्राव्य तदैव दैवानुकूल्यं निभाल्य समम् उद्यद्-वाद्य-परीत-गीत-स्वस्ति-वाचनादि-प्रशस्ति-पूर्वकं द्वयोर् अपूर्व-मिलनम् आशु कलयामासुः । तच् च यथा-
मिथो लग्ना दृष्टिः समजनि चिरं मूर्तिर् अचला
द्रवच्-चित्तं नेत्रोदक-मिषतयागाद् अभिमुखम् ।
इति भ्रात्रोर् बाल्येऽ प्य् असित-सितयोः सा प्रसितता
नवे व्यत्यालोके कुतुकम् इह किं वा न तनुते?

1.6.15

[शिखरिणी]
बाल्ये प्रथमम् अन्योऽ न्यं मिलतो राम-कृष्णयोः ।
सितासितांशवः पृक्ता जज्ञिरे मृग-लाञ्छनाः

1.6.16

[अनुष्टुभ्]
[23] तद् एवम् एव सर्व एव पर्व विधाय निज-निज-नूतन-तनूजान् गणक-गणित-गुण-गणेऽ हनि स्नेहं तेषां तेनेह सहेहमानाः स-मङ्गलं सङ्गमयामासुः ।
[24] अथ युक्ति-मत्या सद्-उक्ति-सम्मत्या श्रीमद्-भागवत-कथन-व्युत्क्रमेणाप्य् उपक्रम्यते, यतः,
सर्वैः कविभिर् अनुक्रम शालि प्रोच्यते कृष्ण-लीलाद्यम् ।
शुक-मुख-वचसि प्रेम प्रमद-मये तद् विना तु चित्राय

1.6.17

[गीति]
[25] तद् एवं दिन-शत-पूरणम् अदूरताम् अनुजस्याग्रजस्य तु तस्माद् अप्य् अदूरतां लब्धम् ।
सम्यङ् मातुः परिचितिर् अभूद् यत्र किञ्चित् पितुश् च
प्राप्तः सोऽ यं स्वसदन-जनः किं न वेत्थं मतिश् च ।
तस्मिन् बाल्ये वलयति तयोः कापि शोभा सुधाब्धि
प्रख्या गोष्ठं भूवनम् अपि सा वीचिभिः सिञ्चति स्म

1.6.18

[मन्दाक्रान्ता]
[26] तद् एतद् अधिगत्य शीघ्रम् एव नाम-करणं कर्तव्यम् इति सम्मत्य श्रीमन्तं वसुदेवं प्रति यदा श्री-व्रज-नरदेवस् तन् निजम् इष्टं सन्दिष्टवान्, तदा परमार्थ-विचारेण मित्र-पुत्रतार्ह-समधिक-बहिर्-व्यवहारेण चानुजस्य शततमं वासरम् एव तद्-अवसरं निश्चिन्वन्, श्री-वसुदेवः श्री-व्रजराजं प्रति यथावसरं तन् निवेदयिष्याम इत्य् अनिश्चिन्वन्न् इव सन्दिदेश । अथ तपो-धामानं गर्ग-नामानम् आत्मनः परम-हितं कुल-पुरोहितं मनसि सम्मत्य रहसि सङ्गत्य निज-तनय-विनिमय-मयं वृत्तं वितत्य निवेदयामास । स च सहासम् आह स्म, "तद् एतद् अपरम् अप्य् अहं नाना-वृत्तं जानाम्य् एव । सम्प्रत्य् अत्र मत्-कृत्यं त्व् आज्ञाप्यताम् ।"
[27] वसुदेव उवाच-"ततस् तत्र-भवता नन्द-व्रज-भूवं व्राजं व्राजं मिथः संयुतौ नव्यौ निज-यजमान-सुतौ द्विजाति-जाति-समुचित-प्रकारेण संस्कारेण पुरस्कर्तव्यौ, किन्तूपनयनोपयमने यथा तस्यां न स्यातां, तथा प्रयतनीयम् ।"
[28] मुनिर् उवाच-"युक्तम् उक्तम्, यतः स्व-पक्ष एवास्माभिर् अपेक्षणीयः ।"
[29] अथ तस्मिन्न् अनुजस्य शततम एव वासरे, व्रजं प्रति प्रस्थिते च मुनि-वरे, व्रज-राजस् तु ज्यायसस् तद्-दिनातिक्रमात् पुण्यतरं दिनान्तरम् एव द्वयोर् अपि नाम-करणस्याधिकरणं भविष्यतीति निश्चित्य, प्रातर् एव तर्णकानां कोटिभिर् नृत्य-परिपाटीभिर् आटीकमानाभिर् विचित्रं स्थानं गो-गोपानां वन-प्रस्थानान् निर्जनावस्थानं गोस्थानम् अनुसंस्कारालङ्कार-सम्भालनार्थम् एक-सेवक-मात्र-कृतानुव्रजनतया कृत-व्रजनः स-कृपतया तान् पश्यन्न् आसीत् । तत्रैव च सर्वतोऽ प्य् अतिरिक्ते विविक्ते बाल्यत एव कृत-सेवं निज-देवं सर्व-सल्-लक्षण-नन्दित-निखिलायां श्रीमल्-लक्ष्मी-नारायणाख्य-शालग्राम-शिलायाम् अष्टाक्षरेणोपतिष्ठमानश् चिराद् विराजते स्म । कृत-समापने च सभाजने सर्व-सर्वज्ञ-गुरुर् मुनि-परिषदाम्
उरुर्वाणी-वासित-सामा श्री-गर्ग-नामा वारं वारं निष्क्रम-द्वारं विलोकमानेन गोप-लोक-प्रधानेन तस्माद् अकस्मात् तर्णकानाम् उत्कर्णता-निर्वर्णनया कस्यचिद् आगमनं वितर्कयता तुर्णम् अभ्यर्णत एव निरवर्णि । तदा च-
उन्मीलद्-विधु-वर्णम् अर्ध-पलितं वक्त्रादिर् उपान्वितं
किञ्चित् स्थूलम् अखर्वम् आयात-भूजं विष्वक्-प्रसादाकरम् ।
शुभ्र-श्री-वसन-द्वयं श्रुति-करालङ्कार-दीव्यत्-प्रभं
पुत्र-प्रेम-विलक्षिताखिलम् ऋषिः श्री-नन्दम् अत्रैक्षत

1.6.19

[शार्दुल]
[30] अस्य च मुनेर् अनेन चिराद् वीप्सयाभीप्सितम् आगमनम् आसीत्, यतः प्रतीक्ष्य एव सर्वत्रायं प्रतीक्ष्यतां वा कथं न लभेत?
[31] तद् एवं, "प्रतीततया प्रतीतः सोऽ यम्" इति तं व्रजपतिर् अपि निपीतामृतवत् परम-प्रीतः शीघ्रम् आसन-प्रदेशम् अतीतः समतिरिक्त-भक्ति-परीतः कृताञ्जलितयातिविनीतः साक्षाद् अधोक्षज-धीतः प्रणनाम । ब्रह्म-वर्चसेन चर्चितम् एनम् आनर्चा-शेषेण देवार्चन-द्रव्य-शेषेण, प्रोवाच च-
"अलम् इह कुशलं पृष्ट्वा कुशलं कुशलं भवेद् यस्मात् ।
किन्तु स्वक-कुशलार्थं कुशलं तत्र च विपृच्छ्यते सद्भिः

1.6.20

[उद्गीति]
स्वागत-पृच्छा धार्ष्ट्यं भवति महिष्ठे सदेति गीर्-युक्ता ।
तद् अपि सुरार्चाम् अनु सा यद्वन् निर्मीयते तद्वत्

1.6.21

[आर्या]
केवल-वचसा तोषो वैभव-सत्त्वे न युज्यते नुनम् ।
किन्त्व् इदम् अपूर्ण-विषयं पूर्णे किञ्चिन् न मात्य् एव

1.6.22

[आर्या]
न सतः स्वार्थापेक्षा किन्तु सदा सा परार्थैव ।
तस्माद् विहरति तस्मिन् पर-पर-विज्ञापनं सुखदम्

1.6.23

[उपगीति]
ज्योतिः-शास्त्रं भवता कृतम् अथ वेदेऽ पि निष्णातम् ।
तत् तत् पर-सुख-मात्रापेक्षं तद् इदं निवेद्यं मे

1.6.24

[उपगीति]
बालो यो मम जातस् तस्माद् अधिकश् च वासुदेवो यः ।
निज-दृक्-सुधया तं तं शीकितुम् आस्तां भवान् करुणः

1.6.25

[उपगीति]
[32] तद् एतद् आश्रुत्य गर्गः स-गद्गदं जगाद-
"यन्-मना भिक्षुर् आयातस् तद् दाता दित्सति स्वयम् ।
तदा भाग्यं कियद् वर्ण्यं भिक्षोर् दातुश् च कौशलम्?

1.6.26

[अनुष्टुभ्]
[33] तद् एवम् आत्मने श्लाघमाने मुनि-राजे श्री-व्रजराजः स्व-नियोज्यस्य कर्णे वर्णितवान्, "एवम् एवं कुरु," इति, प्रवर्तयामास च मुनिना कंस-दुर्वृत्त-विवर्तित-वसुदेव-वृत्त-संवादम् । [34] सम्प्रवदमानयोश् च तयोः सोऽ पि तत्-प्रयोजनं परामृश्य शुद्धान्तं प्रविश्य निज-निजोत्सङ्ग-सङ्गतीकृत-बाले अम्बाले पुरो विधाय गन्ध-पुष्पादि-लसित-चामीकर-भाजन-करः परम-किङ्करः सहसा रहसाससाद ।
वीक्ष्याथ मात्रोर् उरसि प्रसञ्जिताव्
अत्यर्भकौ दूरत एव ताव् ऋषिः ।
जवाद् उदस्थान् मणि-मन्त्रवत् प्रभोः
प्रभाव एवादृतये न विस्तृतिः

1.6.27

[उपजाति 12]
ततश् च,
मातृ-युग्म-ललिताङ्ग-लालितौ
वीक्ष्य कृष्ण-धवलौ स बालकौ ।
निर्निमेष-दशया दृशोर् जलं
रोद्धुम् ऐष्ट नितरां न तापसः

1.6.28

[रथोद्धता]
[35] अथ सङ्कोचं विधाय सन्निधाय मातृभ्याम् आत्मनात्मजाभ्यां च मौनेनैवानामि मुनि-वरः । सोऽ यम् उच्चकैर् आशीशिषच् च, यथा,
"पित्रोः प्रतिस्वं कुलयोस् तदीययोः
सम्बन्धि-बन्धु-प्रकरे जगत्य् अपि ।
आनन्द-दाता भव नन्द-नन्दन,
त्वं तद्वद् अप्य् आनकदुन्दुभेः सुत!

1.6.29

[इन्द्रवंशा]
[36] ततश् च, तद्-एक-सर्गे गर्गे व्रजेश्वर-याचनतः स्वासनम् आगते पुरतः किञ्चिद् दूरतः:
सितासितैकैक-पुष्प विष्णुक्रान्ताद्वय-प्रभे ।
ते रोहिणी-यशोदाख्ये तनयाभ्यां विरेजतुः

1.6.30

[अनुष्टुभ्]
[37] ततो मुनेर् आदेशतस् तेऽ प्य् उपविविशितुश् च । श्री-गर्गे च तयोर् आवेशित-धीन्द्रिय-वर्गे, व्रज-क्षिति-पतिः क्षणं प्रतीक्ष्य साञ्जलि-गिराभिलषितं व्यञ्जितवान्-
"योग्य एव पर-योग्यताकरस्
तादृशत्वम् अपि वेद-वेदजम् ।
त्वं तु वेद-विदुषां वरस् ततः
संस्कुरु द्विज-जनुस् तनू अमू

1.6.31

[रथोद्धता]
[38] गर्ग उवाच-"भवन्तो यदु-बीज्यत्वेऽ पि वैश्यततीज्य-मातृ-वंशान्वयितया तद्-गुरु-पदव्यागतैर् एव कर्म कारयितव्याः न तु मया ।"
[39] व्रजराज उवाच-"भवेद् एवं, किन्तु क्वचिद् उत्सर्गेऽ प्य् अपवाद-वर्गं बाधतेऽ धिकारि-विशेष-श्लेषम् आसाद्य, यथैवाहिंसा-निवृत्त-कर्मणि बद्ध-श्रद्धं प्रति यज्ञेऽ पि पशु-हिंसां । तस्माद् भवतां ब्राह्मण-भावाद् उत्सर्ग-सिद्धा गुरुता श्रद्धा-विशेषवताम् अस्माकं कुले कथं लघुताम् आप्नोतु? तत्रापि भवतः सर्व-प्रमाणतः समधिकता समधिगता, तस्माद् अन्यथा मा स्म मन्यथाः । एतद् उपरि निज-पुरोहितानाम् अपि हितम् अपिहित-महसा करिष्यामः ।"
[40] गर्गः पुनर् अतिगोपनाय स-विचारम् उवाच-"तत्रापि खलः स खलु देवकी-तोक-हन्ता दुर्मन्ता देव्याः शंसनेन नृशंसः कंसः पुनर् आगताशङ्कः स्यात् । यस्माद् यादव-गुरुतया पुरु-प्रसिद्धः सोऽ यम् अन्य-वर्गजम् अमुं समस्कुरुत, तस्माद् एव वसुदेव-कृतोपासनया नूनम् अनया देव्या स्वेन विनिमितः स बालस् तत्र वर्तते, गीर्वाण-वाणीनाम् अमृषाभावाद् इति । तदा निःषमम् इदम् अतिदुःषमं स्यात् ।"
[41] अथ व्रजराजस् तु मनाग् विमनायमान इवासीत् । पुनर्, अनेन स्वस्ति-वाचनादिके कृते सर्वं शस्तं भवेद् इति विभाव्य प्रोवाच-"यस्मात् तव सङ्ग एव स-मङ्गलस् तस्मात्,
अलक्षितोऽ स्मिन् रहसि मामकैर् अपि गो-व्रजे ।
कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् ॥[भ्प् 10.8.10] इति ।
[42] गर्ग उवाच-"भवतु, भवद्-इच्छया यदृच्छया मङ्गलं सङ्गमयिष्यते । ततः समय-सम्मतत्वाद् आपाततस् तु नाम-करणम् एव करवाणि" इति स्वस्ति-वाचनाद्य् आचर्य प्रोवाच तत्राग्रजम् उद्दिश्य, यथा:
"ईर्येत प्रणयादि-सद्-गुण-गणैर् एतं तथा बन्धुता
मुख्यं लोकम् अशेषम् एष रमयन् रामो, बलित्वाद् बलः ।
किं चायं भवद्-आदि-शूर-तनयादीनां यदूनां गणं
सङ्क्रक्ष्यत्य् उभयत्र भाव-तुलया स्वं तेन सङ्कर्षणः

1.6.32

[शार्दुल]
[43] अथानुजम् उद्दिश्य,
"शुक्लो रक्तः पीत इत्य् आदि-वर्णास्
तत्-तद्-भावाद् अस्य तत्-तद्-युगेषु ।
तत्-तन्-मूल-श्यामतैकात्म्य-योगाज्
जन्मन्य् अस्मिन् कृष्ण-नामायम् अस्ति

1.6.33

[शालिनी]
"युष्मत्तो जन्मतः पूर्वं वसुदेवात् तवात्मजः ।
जातो यस्मात् ततो वासुदेव इत्य् अपि गीयते

1.6.34

[अनुष्टुभ्]
"नामानि यानि गुण-कर्म-निबन्धनानि
रूपाणि च प्रतिदिशं निखिल-स्तुतानि ।
साकल्यतो नहि वयं यदि तानि विद्मो,
जानन्ति तर्हि न परे त्व् इति पौनरुक्त्यम्

1.6.35

[वसन्ततिलका]
सानन्दं नन्द-राजेन तदा मुनिर् अगद्यत: ।
"लग्नं हृदि न लग्नं नः, सर्वज्ञस् तद् भवान् गतिः

1.6.36

[अनुष्टुभ्]
पुनश् च-
"ईक्षतां भगवन्न् अस्मै भवान्," इति निवेदितः ।
गर्गस् तस्मै राध्यति स्म प्रहसन् महसान्वितः

1.6.37

[अनुष्टुभ्]
[44] "तद् एतद् अस्माकं खमाणिक्यनाम्नि ज्योतिर्ग्रन्थे प्राग् एव निरुपितमस्ति ।
उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषो लाभगो
जीवः सिंहतुलालिषु क्रमवशात् पुषोशनोराहवः ।
नैशीथः समयोऽ ष्टमी बुधदिनं ब्रह्मर्क्षमत्र क्षणे
श्रीकृष्णाभिधमम्बुजेक्षणमभूद् आविः परं ब्रह्म तत् ॥इति ।
"वृषकन्यातुलामीनराजेषु स्फुटमुच्चगाः ।
सोमसौम्यशनिक्षौणीसुतास्तज्जन्मनि स्थिताः

1.6.38

[अनुष्टुभ्]
यस्माद् विश्वावसौ वर्षे जन्म त्वज्जन्मनः शिशोः ।
विश्वमेव वसु श्रीमद् भवितामुष्य तुष्यतः

1.6.39

[अनुष्टुभ्]
रोहिण्यां जन्मना रोहिण्ययुतानामसौ पतिः ।
वृषलग्नं च तत्रासीद् वृषकोटीशिता ततः

1.6.40

[अनुष्टुभ्]
आयतिश्चास्य भविता सदैवायतिमत्य् अतः ।
आयत्यां मुनयोऽ प्य् अस्मिन् कुर्युर्मनस आयतिम्

1.6.41

[अनुष्टुभ्]
एष वक्ष्यति शास्त्राणि शस्त्राण्य् अप्य् आत्मतेजसा;
अनिष्टहृद् अमित्राणां मित्राणां च व्रजाधिप

1.6.42

[अनुष्टुभ्]
भवतोर्भविता भव्यमस्माद् इति वृथा कथा ।
भावत्कानां च तद् भव्यं भवस्य च भवस्य च

1.6.43

[अनुष्टुभ्]
अस्याश्चर्या चर्या वहति बहुनां कुतुहलं बहुलम् ।
ससुरान् असुरान् दुन्वन् भवति सुराणां पुराप्य् असाव् अविता

1.6.44

[उद्गीति]
सहजप्रेम्णां भवताम् अमुना किं तारणं चित्रम्?
तान् अपि कृत्रिमहार्दान् सर्वान् निस्तारयेद् एषः

1.6.45

[आर्या]
"तस्मान् नन्दात्मजस् ते यद् अपि हरि-समः सर्व-साद्गुण्य-वृत्त्या
सर्वत्रेमं तथापि स्व-महिम-विभव-ख्यातिभिः पालय त्वम् ।
वश्यं कुर्वन् स्व-देवं हरिम् अमुम् अपि तं स्वाङ्गजं निर्मिमीषे
तद् वीर त्वां विना न स्वयम् अयम् अयते स्वैरतां स्वावनाय

1.6.46

[शार्दुलविक्रीडितम्]
[45] "तद् एवं भवद्भिः स्व-देवेन तुल्य-गुणिन्य् अस्मिंस् तन्-नामान्य् एव कामं गणनीयानीति सङ्क्षेपेणार्थ-निक्षेपः ।"
[46] तद् एवम् आकर्ण्य जोषं जुषमाणे तु व्रज-राजे, मुनिः पुनर् उवाच-"व्रज-राज, भवद्-इच्छया वयम् एवागम्य चागम्य चानयोर् द्विजाति-संस्कारान् करिष्यामः, किन्तु कर्ण-वेध-चुडा-करणे न सम्भवतः । पश्य चाभ्यर्णतः सुक्ष्मतया कर्ण-च्छिद्रम् अस्ति, केश-लवस्यापि लवः स्फुटं न सम्भवतीति, ततश् चान्न-प्राशन-मात्रं भवद्भिर् आचर्यम् । सावित्र-समावर्तन-विवाह-वृत्तं तु न स्वयम् उद्यम-पात्रं कार्यं, किन्तु समय-ज्ञैर् असमय-ज्ञैर् अस्माभिर् एव" इति ।
[47] ततश् च क्षणं मुनिताम् एव व्यवस्यन् मुनिस् तौ पश्यन् वश्य-मना बभूव । ततश् च,
यद्यपि पित्रोः स्नेहान्वय-मय-बाल्यैक-तानौ तौ ।
तद् अपि मुनिस् तज् ज्ञानं शङ्कितवान् सङ्कुचन्न् आसीत्

1.6.47

[उपगीति]
सङ्कोचाद् इव गोप प्रभुम् अनु स मुनिर् विधापयन्न् आज्ञाम् ।
चलितोऽ प्य् अलभत तस्मिन् स्थित इव तत्-तत्-परिस्फूर्तिम्

1.6.48

[आर्या]
[48] चलन-समये तु श्रीमान् व्रजेशः स्वयम् अनुव्रज्य बालकाभ्याम् अभ्यवादयत । स च, "स-गवे सह-पुत्राय स्वस्ति तेऽ स्तु व्रजाम्य् अहम्" इति व्यक्तम् उक्तवान् ।
[49] ततश् चात्मनो महता सुप्रजस्त्वेन व्रज-राजः स्वान्तर् एवम् आत्मानम् आमन्त्र्य वदन् ननन्द,
"पुत्रो लब्धः सुचिराद् इष्टः स महद्भिर् एवम् आदिष्टः ।
अस्मात् पूर्णानन्दान् मनुष्व ननु नन्द-पूर्णोऽ स्मि

1.6.49

[आर्या]
[50] अथ मुनये स दाक्षिण्याय स-दक्षिणानां गवाम् अयुतं प्रयुतं च गोपैर् इन्द्रगोप-वर्णानां स्वर्णानां परोक्षं विहापयामास, "यथेच्छं स्वीय-परकीय-यज्ञ-योग्यं क्रियताम् इदम्" इति ।
[51] अथ निज-द्विज-स्वजन-वर्गान् आहूय च भूयः प्रकटम् एव विशङ्कट-तत्-तन्-नाम-करण-पर्वणा सर्वान् आनन्दितवान् इति ।
[52] तद् एवम् अवधारयन् मधुकण्ठः सह-विस्मय-गद्गद-कण्ठम् आह स्म,
नाम्ना प्रसिद्धिम् अन्यस्य प्रसाधयति नाम-कृत् ।
अहो कृष्णस्य तत्-कर्ता गर्गस् तेन प्रसिध्यति

1.6.50

[अनुष्टुभ्]
[53] अथ मधुकण्ठश् चिन्तयामास, "तस्मान् नन्दात्मजस् ते यद् अपि हरि-समः" इति यद् उक्तम्, तत् तु युक्तम् एव, नारायण-समो गुणैः [भ्प् 10.8.19] इति हि श्रीमद्-भागवत-स्थं तद् वाक्यम् अपीदृशं दृश्यते, तत्-पुरुष-बहुव्रीहिभ्यां श्लिष्टत्वाद् अस्याधिकत्वं च लक्ष्यते इति । [54] प्रकटं चोवाच-ननु नाम-करणं विशिष्य न प्रोक्तम् अन्न-प्राशनं तु न किञ्चिद् अपीति । तच् च तच् च स्तूयमानतया प्रस्तूयताम् ।
[55] स्निग्धकण्ठः सहासम् आह स्म,
तन् नाम-करणं चान्न-प्राशनं च व्रजे महः ।
यातम् अस्मन्-मनो-राज्यं न पृथक् स्तोतुम् ईश्महे

1.6.51

इति । [अनुष्टुभ्]
[56] तद् इदं प्रोच्य पुनः सानन्दम् उवाच-ततः श्रूयताम् उत्तर-वृत्तान्तः:
यदवधि गर्गः प्रययौ व्रज-सदनान् नाम निर्माय ।
क्रमतस् तदवधि पृथुकाव् अभिमान्येते स्म तेन स्वैः

1.6.52

[उपगीति]
यथा-
उत्कर्णता-निशमनं नयनाभिमुख्यं
स्व-भ्रातृ-नाम्नि च निजाह्वय-भाण-रीतिः ।
तत्-तद्-विविक्तिम् अभि झङ्कृति-माधुरी च
स्वान् अत्र कृष्ण-बलयोर् बलवत् पुपोष

1.6.53

[वसन्ततिलका]
उदीक्ष्य मधुरं मुखं सुख-चरिष्णु कृष्णाख्यया
तदा जनक-दिष्टया तनयम् इष्टम् आहूय तम् ।
तदीय-कल-हुङ्कृतीर् अपि निशम्य रम्याकृतीः
प्रसूर् अमृत-भृत्-प्रभा जगति शर्म सा निर्ममे

1.6.54

[पृथ्वी]
अथाव्रजद् द्रुतम् इव रिङ्ग-रङ्गतां
तयोर् व्रजेश्वर-सदनाङ्गन-क्षितिः ।
समेत्य तौ चरण-चरार्भका मुहुर्
विलेभिरे सुखम् अभिलेभिरे ततः

1.6.55

[रुचिरा]
[57] अत्र गायन्ति चाद्यापि:
"रिङ्गन-केलि-कुले जननी-सुख-कारी । व्रज-दृशि सुकृत-स्फुरद्-अवतारी ।
वलयित-बाल्य-विलास जय बल-वलित हरे! ॥ध्रु॥
किङ्किणि-गण-रणने हृदये रुचि-धारी । पद-युग-चालन-कुतुक-विहारी ॥
गोरस-कीर्णि-भवे पङ्के लघु-चारी । वारण-कारण-वाग् अतिचारी ॥
अकलित-जन-मिलने तस्माद् अपसारी । जननीं प्रति गति-चापल-भारी ॥
जननी-स्तन-वसने भय-भाग्-अनुहारी । तत्र पयो-रस-विसराहारी ॥
वपुषि मृदा मलिने मृदुताम् अपहारी । जननी-कर-कृत-मृजया हारी ॥
अपि तन्द्रावलने स्तनपाम् अनुकारी । जननी-स्मित-पतद्-अमृतासारी

1.6.56

इति
[मात्रासमक]
ततश् च,
वर्ष-पञ्चकम् अनु स्खलेद् वयस्
तत् तु तत् त्रयम् अनु द्वयोस् तयोः ।
किन्तु न स्खलति तत्-किशोरता
या गतागमि-दशा-तिरस्करी

1.6.57

[रथोद्धता]
[58] यथानन्तरम् आह-
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले ।
अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् ओजसा ॥[भ्प् 10.8.26] इति ।
[59] यथा च शम्बर-गृहात् प्रथम-वयसः प्रद्युम्नस्यागमन-समये प्राह-कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह [भ्प् 10.55.28] इति । तत्र च-
न नव्याद् यौवनाद् अन्यावस्था तस्येति यन् मतम् ।
वर्जयत्य् अङ्ग-वृद्धिं तन्, न माधुर्य-समर्जनम्

1.6.58

[अनुष्टुभ्]
[60] यतः प्रियजनभावभावित एव तस्याविर्भाव इत्य् अवादि स्म । तत्र तद्भावो यथा:
उत्कण्ठा वष्टि तृप्तिं स्थवयितुम् अभितः सा तु शश्वत् कृशन्ती
ताम् एवोच्चैर् बकारेः स्थवयति झटिति प्रेम-भाजां जनानाम् ।
यद्यप्य् एवं तथापि प्रथमज-वयसस् तूर्ध्वगां तत्-तद्-ईहां
नोष्टस् ते सुष्ठु किन्तु प्रसृमर-मधुरिम्ण्य् एव तां निर्मिमाते

1.6.59

[स्रग्धरा]
[61] अथ कालेनाल्पेन इत्य् आदौ लीलायाः साधु-रीति-मधुरतास्वाद्यताम् । [62] तत्र गति-शिक्षा यथा-
हस्त-त्याग-मये नव्ये संस्तव्ये गति-शिक्षणे ।
पुत्रे स्खलति सा जीयान् मातुः पुत्रस्य च त्वरा

1.6.60

[अनुष्टुभ्]
द्वित्र-क्रमं गतः कृष्णश् चलितः स्खलने रुदन् ।
पुत्र पुत्रेति चुम्बन्तीम् अम्बाम् आलोलयन् मुहुः

1.6.61

[अनुष्टुभ्]
किञ्चिद् दूरं यद् आनञ्च स्वक-तेजः-प्रपञ्चकः ।
स्थिरीभूय प्रसू-वक्त्रं स-स्मितं स व्यलोकत

1.6.62

[अनुष्टुभ्]
दूरं मातुर् यदा याति तदासौ मन्थरायते ।
समीपं तु यदा तर्हि स्मयमानो द्रुतायते

1.6.63

[अनुष्टुभ्]
[63] गीः-शिक्षा यथा-
प्रथमम् अग्रजस्य तुण्ड-पुण्डरीके ।
क्षरद्-अक्षर-मधु-मधुरे जाते

1.6.64

[*3]
[*3] थिस् इस् नोत् इन् अन्य् रेचोग्निzअब्ले मेत्रे. प्रोबब्ल्य् एदितोर्ऽस् मिस्तके.
[64] तद्-अनुजातम् अपि धात्र्या लापयामास । यत्र च-
"मा मा ता ता" इति वचः पठन् नन्द-तनूजनुः ।
आनन्दार्थम् अभूत् पित्रोर् व्रजस्य निखिलस्य च

1.6.65

[अनुष्टुभ्]
अर्धोदितानां दन्तानाम् अक्षराणां तथा ततिः ।
चित्रीयामास कृष्णस्य यत्राचित्रीयत प्रसूः

1.6.66

[अनुष्टुभ्]
"ईशीथाः किं जगत्याम्?" "ओम्" "बन्धून् पास्यसि नः किम्?" "ओम्"
इत्य् आदि मातृ-सुतयोः संवादवद् अभूद् इह

1.6.67

[अनुष्टुभ्]
अज्ञात-वाचं शुकवत् पठन्तं
विशेष-पृच्छा-कृति-तर्जनीकम् ।
धात्री-जनाध्यापित-वाक्-प्रचारं
व्रजस्य भाग्यं परितः स्मरामि

1.6.68

[उपजाति 11]
नाम-ग्राहं तदा प्राह रामः कृष्णं शनैः शनैः ।
कृष्णो रामम् अथार्येति मातॄणां परिशिक्षया

1.6.69

[अनुष्टुभ्]
तदा च-
पृच्छन्त्या वृद्धयाङ्गानि यदा किम् अपि पृच्छ्यते ।
तदाम्बा-शिक्षया बालः स तां मुहुर् अताडयत्

1.6.70

[अनुष्टुभ्]
[65] अथ भ्रातृ-द्वयम् अपि मिथः किञ्चिद् वदति स्म, यथा-
"आगच्छ खेलां गच्छाव ।" "माता कोपं करिष्यति" ।
"न कुर्याद्," इति तौ बालौ कृष्ण-रामौ समूचतुः

1.6.71

[अनुष्टुभ्]
[66] अथ बाल्यचापल्यं चावकल्यताम्:
दंष्ट्रां धित्सति दंष्ट्रिणः फणि-पतेर् उद्यत्-फणां शृङ्गिणः
शृङ्गं प्रज्वलद्-अर्चिषं हुत-भुजः कोटिं च खड्गादिनः ।
इत्थं भ्रातृ-युगं निवर्तितम् अपि प्रागल्भ्यम् एवासदन्
मात्रोस् तेन समस्त-विस्मृतिर् अभूद् गेहेऽ पि देहेऽ पि च

1.6.72

[शार्दुल]
"दूरम् अञ्च न हि चञ्चल स्फुटं
तत्र कोऽ पि वरिवर्ति भीषणः ।"
एवम् एष जननी-गिरा पुनस्
तत्-कृते कुतुकितां दधे शिशुः

1.6.73

[रथोद्धता]
शिशुना भीष्म-ग्रहणे स्थाने मातुर् भयं यतो माता ।
कवयस् त्व् इदम् अनुमिमते तेजस्वित्वस्य बीजं तत्

1.6.74

[आर्या]
यं यं पदार्थम् अतितीव्रम् इयं प्रयाति
भ्रातृ-द्वयी, स च स च प्रतिभाति सौम्यः ।
अत्रानुमान-विदुरा निरनैषुर् एतद्
युग्मं भविष्यति सदा कलि-नाशनाय

1.6.75

[वसन्ततिलक]
[67] अथ क्रमेण मातृ-वञ्चनी बुद्धिर् अप्य् उद्बुद्धा । यत्र यत्र स च स च,
"नैव नैव चल चञ्चल रे रे,"
वाक्यम् एतद् अवकर्ण्य जनन्याः ।
मायया स्म परिवृत्य हसित्वा
तां निवर्त्य लषिते वरिवर्ति

1.6.76

[स्वागता]
[68] अल्प-हीन-हायन-वयस्त्वे तु जाते यत्र कुत्रचित् क्रीडनाय निर्गच्छन्तौ न सम्भालयितुं शक्येते । सम्भालितौ च तौ कुतो लीयेत इति नावधारयितुं पार्येते । [69] अथ जननी-द्वयम् उभयतो वर्त्मावृत्य परितश् च धात्रीर् अवधान-विधात्रीर् वितत्य द्रवन्तौ तत्र-भवन्तौ गृह्णाति । [70] ततो रुदन्तौ हसन्तौ च तौ गृहान्तरानीताव् उद्वर्तनादिना वेष-परिवर्तनादिना च स्तन-पायनादिना शायनादिना च रोचयति ।
[71] तद् एवं वर्णनम् आकर्णयत्सु सभासत्सु प्रहसत्सु श्रीमद्-व्रज-पुरन्दर-कुल-धुरन्धर-किशोर-वरे चानवरजेन सह दर-स्मित-सुन्दरतर-वदनतया नेत्रादरणीये सति समापनाय पुनर् उवाच स्निग्धकण्ठः-
ईदृशस् तनयो जातस् तव गोपाधिनायक ।
बाल्यावलित-चापल्याद् अपि यो मुनि-मोहनः

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc