गोपालचम्पू · अध्याय 1.5
[35] तद् एतद् वृत्ते च वृत्ते पूर्व-दिनवद् अखिला एव निज-निजालयम् आसादितवन्तः श्री-गोकुल-युवराजश् च गवां कुलम् इति ।
इति श्री-गोपाल-चम्पूम् अनु
श्रीमन्-नन्द-नन्दन-पर्व नाम
चतुर्थं पूरणम्
॥4॥
(5)
अथ पञ्चमं पूरणम्
पूतना-वधावधारणं
[1] अथोत्तरेद्युस् तथा द्योतमानायां सभायां कण्ठ-ध्वनि-कृत-सर्वोत्कण्ठः शुभंयुर् मधुकण्ठः समाचष्ट, अये स्निग्धकण्ठ, श्रूयताम्-
[2] अथ तस्मिन्न् एवापदोषे प्रदोषे समस्त-देव-रूप-श्री-वसुदेव-सदेशतः सन्देश-हरः कोऽ पि गोपितात्मा श्री-व्रजराज-चरण-राजीव-पीठ-पर्यन्त-धाम समाजगाम । स च श्रीमता तेन तदीय-प्रत्न-सेवक-रत्नतया परिचिति-युक्तः पर्यनुयुक्त-कुशल-ततिर् नमः समाचरन्न् उवाच-"रक्षांसि सर्वं भक्षयितुं जीवति भृशं नृशंसे कंसे किम् इव निरङ्कुशं कुशलम्? तच् च मम वेशेनैव वितर्क्यताम् । यद् अस्माकं तरण्या तरणं, तरणौ च सति कुत्रापि प्रस्थानं न सम्भवतीति बाहुभ्याम् एव सन्तरणात् तीर्ण-तरणिजः सार्द्र-वस्त्रः प्रदोषे समागतोऽ स्मि ।"
[3] व्रजराजस् तु रुक्षं हसन्न् आह, "विशेषश् चेत् कथ्यताम् ।"
[4] दूत उवाच-"किम् अधिकया वैवधिकतया साम्प्रतम् अस्माकम् अजीवनिर् एव जीवातु-वल्ली, यया निजाधीशं तादृश-तद्-अधीनं न पश्यामः ।"
[5] व्रजराज उवाच-"सम्प्रति तं प्रति किम् अपि विशेष-वृत्तं वृत्तम् अस्ति?"
[6] दूत उवाच-"अथ किं? यत एव तदीय-चरण-हितः प्रहितस् तेनाहम् अयम् अस्मि ।"
[7] व्रजराज उवाच-"किं तत्?"
[8] दूत उवाच-"आनन्तर्येण पर्यवसिताया निशाया निशीथे श्रीमद्-ईशस्य तस्मिन् कारागार एव श्री-देवकी-देवीतः काचित् कन्या जाता ।"
[9] व्रजराज उवाच-"ततस् ततः?"
[10] दूत उवाच-"ततः सा नव-सुता सुतरां गुप्तापि रुदती रक्षिभिर् अक्षिभिर् अलक्षितापि विदिता, वेदिता चान्तः-पुरीशय-सानुशय-दुराशय-दुरीशाय । स च श्री-देवकी-देवी-विवाह-गताहम् आरभ्य नभः-सभ्य-जन-वाणीतः सुष्ठु भीतः सततं व्यग्रतया जाग्रद् एव तिष्ठति । ततस् तद्-वचन-वर्णाकर्णन-मात्रेण समग्र-व्यग्र-मनाः विक्षिप्त-केशः स भोजेशः स-करवालः करालः स्खलद्-गतिः कुमतिः सूतिकागारम् आससार ।"
[11] व्रजराज स-भयम् उवाच-"ततस् ततः?"
[12] दूत उवाच-"ततश् च निरवग्रह-ग्रह-वन् निरनुग्रहः सहसा रंहसा सूतिका-शय्याम् एव सज्जन् स निर्लज्जः प्रजाताया जात-परिवेदनाया देव्याः क्रोडतः समाच्छिद्य, तद् विद्यमानम् एव विक्षिप्तताम् एव विक्षिप्त-चित्तः क्षिप्रम् एव तां प्रस्तराय प्रक्षिप्तवान्, यतः सर्वतः स एव प्रतिक्षिप्तताम् आप ।"
[13] अथ व्रजराज सास्रम् उवाच-"आः कथम् एतद् दुरक्षर-म्रक्षितम् अनक्षरम् अस्मासु श्रावितम्? भवत्व्, अद्याप्य् अवद्यम् इदं मदीय-संस्त्याये न प्रस्ताव्यम् । सा तु तद्-दुःख-दुःखिता श्री-देवकी-सखी तथा तद्-विरहिणी श्री-रोहिनी च मोहम् आप्स्यति ।"
[14] दूत उवाच-"देव, श्रूयताम् अव्यग्रम् अग्रिमम् आश्चर्यम् ।"
[15] व्रजराजः स-हर्षम् इवोवाच, "आयुष्मन्, कथ्यतां तथ्यम् ।"
[16] दूत उवाच-"सा तु कन्या तस्यान्याय-भाजो भोजेशस्य हस्ताद् अस्तापि प्रस्तरम् अप्राप्ता, प्रत्युत तन्-मस्तक-न्यस्त-चरणम् ऊर्ध्व-गत्या समुत्पत्याशु दिव्य् अन्यद् एव दिव्यं रूपं स्मितवती प्रकाशितवती ।"
[17] व्रजराज उवाच-"कीदृशम्?"
[18] दूत उवाच,
"श्यामाष्टपाणि-परिवेष्टित-पार्श्व-युग्मा
चक्रादि-शस्त्र-वलिता खग-सिंह-वाहा ।
देवादिभिः परिणुत-प्रसरत्-प्रभावा
सर्वैः समुन्नत-मुखैः परितो व्यलोकि
[वसन्त] इति यादृशम् ।"
[19] व्रजराजः साश्चर्यम् उवाच-"किं वदसि?"
[20] दूत उवाच-"देव, नात्रान्यथा किम् अप्य् अन्यद् अपि कल्यम् आकल्यताम् । सा खल्व् इदं साच्छूरितम् अच्छम् उवाच,
æरे पाप कंस किम् इति त्वम् अहन् मुधा मां
त्वत्-पूर्व-शत्रुर् अजनि क्वचन प्रदेशे ।
यस्माद् उपेत्य निधनं तव जातु कर्ता
तन् नान्यम् अप्य् अतिशिशुं क्वचिद् इच्छ हस्तम्
ऽ" [वसन्ततिलका]
[21] व्रजराजः साश्चर्य-स्मितम् उवाच-"नूनं श्री-वसुदेव-भक्ति-प्रणाली-पुत्री-कृता भद्रकाली । सा भद्रम् इदं वदति स्म यद् अद्यावधि नाधीरम् अवधीरितः सोऽ यं वचसापि केनचनापि" इति ।
[22] दूत उवाच-"आर्य-क्षितीश, पुनश् चेदम् आश्चर्यम् अवधार्यताम् । स खलु भ्रातृ-व्यपदेश-भ्रातृव्यः स्वस्य भगिन्य्-अष्टम-गर्भम् अनिष्टतया निष्टङ्कितं कुर्वतीं सुर-वर्त्म-वाणीम् अपि देव्यादिष्टः स्व-द्विष्ट-सुर-क्प्तां मत्वा, तौ कारागाराद् आहूय भूयः, पाद-ग्रह-चर्या-पर्यन्ताग्रहतः पुत्र-षट्क-हत्यागस्-त्यागं भूरि-विसूरित इव विधित्सन् निगडान् मोचितवान् ।"
[23] व्रजराज उवाच-"ततस् ततः?"
[24] दूत उवाच-"ततश् च मदीय-श्रीमद्-ईश्वरी पुत्र-घातिन्य् अपि तस्मिन् सारल्य-दोषाद् एव रोषान् निविवृते । श्रीमन्-मद्-ईशिता तु विचारितवान्, æपूर्वं शुष्क-पेषं पिष्टवान्, सम्प्रति तु सर्पिः-पेषं पिनष्टि सोऽ यम् अस्मान्ऽ इति । तद् एवं तत्-कौटिल्य-कोटिं परिकल्प्यापि सौजौन्य-प्राबल्याद् इह सारल्यम् एवावलम्बितवान् । तेन पितरि-शूरेण दुर्मतिनानुमतः शूर-नन्दनः सह-धर्मिण्या सह स्व-गृहम् आगतवांश् च, न पुनर् विश्वासम् आश्वासं च लब्धवान् । यतः,
जात्य्-अन्य-जनितः कंसः सदा दुन्वन् समाश्रितान् ।
मातरं च दुनोत्य् उच्चैः शिला-पुत्रः शिलाम् इव"
[अनुष्टुभ्]
[25] व्रजराजः सहासम् उवाच-"तद्-अनन्तरं प्रातर् आरभ्य स पुनर् असभ्यः कां कारिम् अकार्षीत्?"
[26] दूत उवाच-"स्वभाव-जां कारिम् एव । तथा हि, प्रातर् असौ दुष्टस् त्व् अन्यद् दुश्चेष्टितम् अनु चेष्टितवान् ।"
[27] व्रजराज उवाच-"हन्त, कथय तत् किम्?"
[28] दूत उवाच-"प्रातः स तु मलिनी-कृत-निज-कुलः खलिनी-पतिः स्वदयितान् दैतेयान् आनयामास निशामयामास च निशीथिनी-वृत्तम् । ते च भिन्न-सेतवः केतव इव राहु-निभम् एतं मिलिता व्यघ्र-वर्ग-निर्घोष-प्रभ-घर्घरायमाणां गोष्ठीम् अनुष्ठितवन्तः, किं बहुना, तत्र महेन्द्रादि-निर्जय-गर्जन-पर्य-वसानतस् तात्पर्यम् इदम् एव जातम्, यद् विश्वद्रीचां विष्णुम् अनुचरिष्णूनां देव-देवद्र्यग्-भूदेव-गवादीनां पीडनेनैव तत्-पीडनम् ईडितं, तथा तत्-सध्रीचीन-तया निर्दशा-निर्दशानां बालानां निर्दयतया निर्दलनम् इति खल्याम् एव बल्याम् अवलम्ब्य तत्र स च संवलते स्म । तया च तदानीं बहु सम्प्रयच्छते स्म ।"
[29] व्रजराजस् तु तद् इदं रुषद्-वचनम् अवकलय्य सरुषस् ततः सत्रासम् उवाच-"तत्र श्रीमद्-भ्राता किम् अप्य् अक्लिष्टं मय्य् उपदिष्टम् अस्ति?"
[30] दूत उवाच-"अथ किं? यत् खलु शीघ्रम् एवास्मै राज-व्याज-राक्षसाय सङ्गम्य बलिर् वलयितव्यो मिलितव्यश् चाहम्" इति । किं चेदम् अपि सन्दिष्टम्, "भवन्-नन्दनोत्पत्ति-समयं समया वयम् अत्युत्कण्ठितास् तन्-मङ्गलेन सङ्गम-नीयाः, तथा भवत्-पुत्र-निर्विशेषस्य तस्य बाल-विशेषस्य वृत्तिर् वर्तयितव्या" इति ।
[31] अथ तद् एतद् अवकलय्य संशय्य च तं भोजनादिना योजयित्वा, निजाग्रजा-नुजान् आकार्य तद् अग्रे पुनस् तं तद् अनु रहसम् अनुव्याहारितवान् ।
[32] तत उपनन्द उवाच-"युक्तम् एवानकदुन्दुभिना सन्दिष्टम् । साम्प्रतं करेणैव करेण राज-विष-धरस्य तस्य मुख-मुद्रणम् एव साम्प्रतम् ।"
[33] अथ व्रजेशस् तं सन्देशम् उरसिकृत्य प्रातः-प्रायम् अधिगम्य दूतं निदिदेश, "सौम्य, भवान् व्यग्रम् अग्रतः प्रयातु, तद्-बालकस्य साङ्ग-मङ्गल-सङ्गितां तथा तस्य वाञ्छितम् अन्यम् उदयन्-मुदम् उदन्तम् अपि स्व-मुख-स्वस्ति-मुखत एव प्रथयतु । वयं तु भ्रातुर् आज्ञया राज्ञे करम् आचित्य प्राभृतं च परितः प्रचित्य दिन-पञ्चकानन्तरम् आगच्छन्त एव स्म ।"
[34] तद् एवं गते दूते दिनान्तरे तु जातक-मातुः स्नान-विधाने कृत-सन्धाने सर्व-मङ्गल-सङ्गतम् अहः सङ्गत्य महन् महः सन्तत्य पुरोहित-सहित-हित-महित-पञ्चजन-जन-प्रपञ्चं यथा पुरःसरम् अन्तः-पुरम् आनायम् आनायं नव-बालकं गोपाल-भूपालः समालोकयामास । तथा हि,
तस्मिन् पुण्याहवर्ये व्रज-नृपति-शिशोर् आदि-वीक्षा-सुधाभिः
सत्रं जज्ञे तथा तच्-छ्रवण-परिमलाद् एव शक्ता यथा ते ।
आजन्म-प्राप्त-सम्पन्-मृदुतर-तनवोऽ प्य् आत्मना प्रीति-दानान्य्
ऊहुर् भारायमाणान्य् उत दधुर् अमितान् स्वेद-रोमाञ्च-बाष्पान्
[स्रग्धरा]
श्रीमद्-गोप-नृपेण नूतन-तनूजातस्य वीक्षा-कृते
प्राग्र्या एव निमन्त्रिता व्रज-जनाः सर्वे तु तत्राययुः ।
यर्ह्य् अम्भोज-वनाकरः स्व-कुसुम-व्रात-प्रकाश-प्रथा-
व्याप्तः स्यात् किम् उ तर्हि षट्पद-गणान् आकारयत्य् आत्मना
[शार्दूल]
पर्यग् द्वारिणि राङ्कवास्त-रचिते विस्तीर्ण-गेहे यशो-
दाद्य्-अग्रे स्थविरोपनन्द-गृहिणी-क्रोडे विचित्रं शिशुम् ।
दर्शं दर्शम् अमी न यद्यपि गतास् तृप्तिं तथाप्य् उच्चकैर्
नास्थुः पृष्ठ्य्-अजनावकाश-विधये शीलं हि मर्यादिता
[शार्दूल]
"अङ्क-भ्राजि-शिशूपनन्द-गृहिणीम् आज्ञा मदीयेदृशी
यन् मा मादृश-दृष्टि-सम्भ्रम-वशाद् उत्थात यूयं मुहुः ।"
इत्य् एवं विनिगद्य याजक-गुरुः सम्मोद-सम्पन्-मिलत्-
कम्पः साक्षत-पाणि साश्रु-नयनं स्वस्ति-श्रुतीर् ऊचिवान्
[शार्दूल]
आगच्छन्तः स्व-गेहाद् अभिमुख-मिलिता बाल-वैशिष्ठ्य-पृच्छा-
वन्तस् तद्-बाल-दृष्ट्या प्रमुदित-हृदयैर् ऊचिरे कैश्चिद् एवम् ।
"शोभा सा दृष्टि-गम्या न तु पर-वचन-श्रेणि-गम्ये"ति हर्षात्
कुण्ठत्-कण्ठैर् अभावि प्रतिवचसि परैस् तत् तु नाश्रावि चान्यैः
[स्रग्धरा]
आकैशोरं यत् परिष्कार-वस्त्रं
यावद् धार्यं मास-मासं सुतेन ।
तस्मै तावत् तद्-विचारेण सर्वैः
प्रत्तं पित्रा कोऽ पि कोषो ह्य् अनन्तः
[शालिनी]
शोभां विन्दन् नन्दजालोक-लोकः
सद्मायासीत् कृत्रिमाकृत्रिमा या ।
वस्त्रादीनां चित्रता यत्र पूर्वा
नेत्रादीनां चित्रतासीद् अपूर्वा
[शालिनी]
आगता निज-गृहं यदाप्य् अमूर्
नन्द-बालम् अवलोक्य लोभनम् ।
हन्त तर्ह्य् अपि दिनानि कानिचित्
मेनिरे दृशि-गतं व्रज-प्रजाः
[रथोद्धता]
[35] अथ मथुरा-पथिकतां प्रथयिष्यमाणः श्री-गोकुल-कुल-राजस् त्व् अग्रजादीन् निज-प्रतिनिधितादि-कर्मणि निर्माय चलन्न् अन्तश् चिन्तितवान्, "हन्त, सुहृदि दुर्हृदि च मम मानसं समान-सम्बन्ध-हार्द-बन्धम् अपि प्रसभं भृशम् एव तत्र प्रसज्जति नव-जातके, येनासौ पीबिता जीविताशापि न परिच्छिन्नताम् इच्छति । सम्प्रति दुष्टस्याविप्रकृष्टम् अटन्न् अस्मि, नानुभवन्न् अस्मि किं भविता । तस्माद् विकलताविकलनाय विलोकं विलोकम् एव तं बालकं यदु-निलयं चलानि" इति ।
[36] अथ गमन-समये च,
उत्सङ्गे निहितस्य तस्य तु शिशोर् वक्त्रं मुहुर् दृष्टवान्
नामोदं चिरम् आददे निटिलकाद् गण्डाव् अचुम्बीद् भृशम् ।
आशिश्लेषतरां वपुर् न तु तदा तृप्तिं व्रजेशो ययौ
यां पाथेयतया विवेद मथुरा-प्रस्थानम् आस्थाय सः
[शार्दूल]
वत्से श्याम पिता तवायम् अयितुं राज्ञः पुरं त्वत्-कृता-
नुज्ञां प्रार्थयते ततो वितरताद्" इत्य् एष धात्रीरितः ।
आश्चर्यातुल-बाल-भाव-बलाद् बभ्रे स्मितं तेन च
श्रीमान् गोप-जनाधिपः प्रचित-धीः प्रस्थानम् आसेदिवान्
[शार्दूल]
स्मारं स्मारं तन्-मुखं सुस्मिताक्तं
व्यक्तं व्यक्तं गोपयन् प्रेम-धाम ।
आनन्देनानल्प-जल्पेषु गोपेष्व्
आत्माराम-प्रायतां प्राप नन्दः
[शालिनी]
[37] अथ मथुराम् आसाद्य सद्य एव कराधिकारिषु करम् उपसाद्य तद्-द्वारा दूरत एव राजानम् अनुजानन्तं प्रसाद्य शकट-घटावमोचनम् एवानञ्च, न तु श्री-वसुदेव-सद्म, कंसे तेन साकं निजानासञ्जन-व्यञ्जनाय ।
[38] स्निग्धकण्ठ उवाच-शिष्ट-द्विष्टि-विशिष्टोऽ पि सञ्जात-जातक-द्वेष-पातकोऽ पि पर-धनायया धनानुसन्धान-निर्बन्ध-सन्धोऽ पि स कथम् अस्मिन् निगम-शिष्टि-संस्लिष्टे विचित्रेण पुत्रेक्षणेन पुत्र-क्षणेन च विस्मायित-सकले जगद्-वित्त-वित्ता-शकले सरलायते स्म ।
[39] मधुकण्ठ उवाच-उक्तम् एव पुरा यत् प्रगुणतयाखिलसमञ्जसयशसः श्री-व्रजेशचन्द्रमसः खल्व् अस्य गुणेन गुणेनेव को वा बद्धो न भवेत्? इत् ।
[40] स्निग्धकण्ठ उवाच-ततस् ततः?
[41] मधुकण्ठ उवाच-ततो व्रज-त्रातरि तं भ्रातरम् अनु निर्जन-मिलनाय मन्त्रं वलयति पर्यकलितावसरः स श्री-शूर-तनूज-वरः स्वयं केवल-सेवक-विशेष-सङ्गितया संवलते स्म ।
[42] अथ तेनाव्रजित-सदेशः श्रीमान् व्रज-महेशः सहसा महसावृततया साभ्युत्थानम् उत्थाय न्याय-परमः, कृत-तद्-अभिगमः स्वम् अनुजम् अनुरक्तः परिष्वक्तवान् परिष्वक्तश् चानेन न तु कञ्चित् कश्चिन् नतवान्, जाताव् एकस्य ज्यायस्त्वम् अन्यस्य तु जाताव् इति । न च केवलम् एतद् एव कारणताम् अवलम्बते, अपि तु परस्पर-प्रणयातिशयश् च, येनान्यन् नानुसन्धातुं शक्यते ।
[43] एतद् एव च दृष्टान्तेन स्पष्टीकृतं श्री-बादरायणिना--देहः प्राणम् इवागतम् [भ्प् 10.5.21] इति । अत्र च देह-स्थानीयस्य गो-स्थान-पतेर् अस्मद्-ईशितुर् एवासक्तिर् अतिरिक्ता दर्शिता । प्राणः खल्व् अन्यं देहं सञ्चरति, देहस् तु तं विना न भवत्य् एवेति । स तु चतुर-शिरोमणिः स्वयम् एव रागतस् तच्-छिविरागतस् तेनातिथिवद् एव पूजितस् तद्-व्यवहारेण जितः । सम्प्रति जातयोः स्व-तनुजातयोः प्रसक्त-धीर् इदम् उक्तवान्-
"दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते ।
प्रजाशाया निवृत्तस्य प्रजा यत् समजायत ॥ [भ्प् 10.5.23]
[44] उपाधि-कृत-हानि-वृद्धिं विना कृत-स्नेह-समृद्धि-मय-देहतया गम्भीर-स्वरतया च पयः-पयोधिर् इवायं व्रजाधीश्वरस् तु तस्य सर्व-स्तुतस्य वंशान् कंस-कृत-ध्वंसान् अनुशोचन्, कर्म-वाद-रोचनया धैर्यं संवर्मयन्न् आत्मनश् च तस्य च शर्म सूनृतामृत-भृत-सन्तर्पणं कृतवान् ।
[45] ततः श्रीमान् आनकदुन्दुभिस् तं कृत-कार्यम् अवधार्य भाव्य् उत्पातं विचार्य स्व-भवनम् एव गन्तुम् अनुमतवान् । श्री-व्रजराजस् तु वस्तुतश् चेतसा चेतः प्रचलित एव, सम्प्रति तु गेहं प्रति देहम् एवेहयामास ।
[46] अथ व्रज-वृत्तम् अनुवृत्त्यताम् । यथा पूर्व-देवानां पूर्व-मन्त्रणायाम् आमन्त्रिता राक्षस-पक्षिणी निर्दशान-निर्दशांश् च देश-देशतः शावकान् बकान् इव श्येनी विनिघ्नती, कंसस्य निघ्नती वैरोचनि-कन्या रजन्याम् अस्यां व्रज-प्रदेश-सदेशम् आजगाम; या खलु जटा-घटा-विघटित-प्रकट-मुण्डा,
विशङ्कट-दंष्ट्रा-संसृष्ट-दष्ट-डिम्भ-कोटि-विकट-तुण्डा नेत्र-गर्त-वर्तमान-वर्त्म-लोम-समुद्दण्ड-कुण्डलि-खण्डित-ब्रह्माण्ड-वर्ति-धैर्या पक्षति-द्वय-मध्य-स्थित-वक्षः-स्थल-लम्बमान-वक्षोज-युगलोद्गीर्ण-दुग्ध-मिष-विष-विषम-ज्वाला-सह्य-बल-दह्यमान-पर्यन्ततया यन्त्रित-जन्तु-स्थैर्या चेत्यादि-महा-घोरतावहा, किं बहुना, प्रतीक-मात्र-प्राणि-प्रतीका पृथुकान् एव च पृथुकान् इव कुर्वती वर्तते ।
[47] अथ सा श्री-व्रज-क्षितीश-रक्षित-गीर्वाण-वाण-ज्ञ-धानुष्क-भिया दुष्कर-स्वरूपं विहाय हारि-रूपान्तरं प्रातिहारिकतया धृतवती, येन खलु सम्पद्-अधिदेवीयम् अधिभूमि सम्पतन्ती निजाश्रय-विशेषम् अन्विच्छन्ती च सर्व-सल्-लक्षणतया कृत-लक्षणं सम्प्रति जातं श्री-व्रजराज-जातम् एव समाश्रयिष्यतीति मत्वा तस्या नूतन-वपुः पूतनायाश् चाकूतम् अमत्वा हारित-हृद्भी रक्षिभिर् न निवारिता रक्षिणीभिश् च नावधारिता; येयं पक्ष-पातिनी कंस-पक्ष-पातिनी सात्वत-भर्तुः श्रवण-कीर्तनादि-प्रदेशम् अनुवर्तितुम् असमर्था, तद्-बहिर्मुखानाम् अर्भकान् निघ्नती तत्-पक्ष-पातिन्य् एव लक्षिता । एवम् अप्य् अस्याः श्रीमद्-व्रजागमनादिकं तु कौतुक-विशेषाय साधयितुं योगमाया खलु योगम्
आयान्ती बभूव, यस्याश् च हेतोर् अन्यत्र कुत्रचिन् नेत्रम् अनादधती सर्वम् अत्यादधती श्रीमन्-नन्द-मन्दिर-स्थं तम् एव बालकम् आलोकयामास । अङ्गार-धानी-सङ्गत-स्फुलिङ्ग-वद् अङ्गार-सङ्घम् इव तमसि पतङ्गी तं च योगमाया-कृत-प्राकृत-बालक-कल्पताकल्पनया यथावन् नानुबभूव, उज्ज्वल-गुञ्जा-पुञ्ज-तुलनया प्रज्वलद् इङ्गलम् इव ।
[48] अयं तु श्रीमान् नन्द-नन्दनः स्व-तात-शुभानुध्यान-मय-योगमायया सेविततया जन्मत एव समस्त-ज्ञानादि-सम्पन्-मयतायां शस्तः स्वजन-स्नेह-वशंवद-बाल्यादि-लीला-सुखावेशेन तत्रानादृत्यातुल-तद्-व्यक्ति-व्यतिरिक्तीकृतस् तथाप्य् अवसरम् अवाप्य मध्यं मध्यं सा स्व-सेवाम् अध्यवस्यन्ती तत्र प्रादुर्भवति । ततः सम्प्रति च ताम् अन्तर्विकृताकृतिम् उपलभ्य भव्य-स्वभाव-रोचने लोचने निमीलितवान् ।
[49] ततश् च सहसा पराभाव्य-धिया भिया विना भूता तम् अङ्कम् एव निःशङ्कम् आनीतवती, मूषिक-धिया सर्पन्ती सर्पी नकुलम् इव ।
[50] स्निग्धकण्ठ उवाच-अग्रजन्मंस् तन्-मातरौ कथम् इव ताम् अपरिचितां न निवारितवत्यौ, न च विचारितवत्यौ?
[51] मधुकण्ठ उवाच-पुरस्ताद् योगमायाख्यं कारणम् उपन्यस्तं, प्रक्रियान्तरं च तत्र तया क्रियते स्म । यथा, सा हि तत्रान्तर्-गूढाङ्ग-भुजङ्गी-सङ्गतायाः कूट-कनक-मय-पयः-कनकालुकायाः साम्यावगम्यं रूपं दधती, परितः स्रवद्-अस्र-धारा-वाराजस्र-स्तन्य-प्रवाहान् वहन्ती, स्नेहानुकारक-देहत एव ते मोहितवती ।
[52] पुनश् चेदं सगद्गदं जगाद, "अयि यशोदे, त्वम् अपि हठोत्तरतया कठोरासि, सुतरां तु स्व-सुत-स्थित-चित्ताद्रोहिणी रोहिणी, यतः शयनतल एवेदृश-सुकुमारं कुमारं निधाय चिन्ताम् अविधाय नातिकृत-निष्ठं तिष्ठथः, न तु हृदये । प्राणा अपि हृदय एव रक्षणीयाः, किम् उत प्राणाधिकोऽ यं सुतः? तस्माद् धिग् वो राक्षसीतोऽ पि रूक्ष-मानसा मानुषीः । अहं तु सम्पद्-अधिष्ठातृ-देवी त्वया प्रसूतं सुतं विश्व-विलक्षण-लक्षणं श्रुत्वा तत्-क्षणम् एवागतानेन वसन्तेन वासन्तीम् इव दृष्टिं हृष्टां कृतवत्य् अस्मि । मम च स्तनौ सर्व-श्रेयस्तननौ नित्यम् अमृतं क्षरतः, येन पीतेन सोऽ यं निःसन्देह-सिद्ध-देहः स्यात् । तस्माद् अहम् अस्य सर्व-सुख-विधात्री धात्री
च भविष्यामि" इति ।
[53] स्निग्धकण्ठ उवाच-ततो ग्रहणाद् अनन्तरं किं जातम्?
[54] मधुकण्ठ उवाच-तद् एवं मिषतः सा विषयोषा तं गृहीत्वा विलम्बं हित्वा चूचुकोपर्य् एव तन्-मुख-वार्य्-उद्भवं निदधे ।
[55] स्निग्धकण्ठ सभयम् उवाच-ततस् ततः?
[56] मधुकण्ठ सहासम् उवाच- ततः स तु स्वमातुः साक्षात् तस्यास् तादृश-भृश-दुर्नय-दर्शनाद् उपजातेन तत्-प्राणान् पिबता रोष-तेजः-सङ्घातेन तत्-स्तन्यस्य च दोषं शोषयन् मातृ-भावाभास-स्फुरद्-उल्लास-स्व-स्पर्श-स्वाभाव्येन तु तद्-देहे सुगन्धिता-सुगन्धिताम् इव तत्-स्तन्ये पीयूषतां रूषयंस् चूषणं चकार ।
कृष्णेन पूतना-स्तन्य-पानम् इत्थं विरोचते ।
यथा गङ्गा-प्रवाहेण कर्मनाशा-जलाहृतिः
[अनुष्टुभ्]
[57] सा तु राक्षस-पक्षिणी "मुञ्च मुञ्च" इति पुष्ट-क्रुष्टतया व्यथित-सनीडां पीडां प्रपञ्चयन्ती प्राणान् अपि मुञ्चन्ती संस्कार-वशात् तं वक्षस्य् एव निक्षिप्य पक्ष-विक्षेपाद् व्रजाद् बहिः ससार ममार च । यत्र ह्रादिनी सा ह्रादिनीत्य् एव तर्क्यते स्म, यत्र च स्वरूपावस्थितिम् एव चाससार ।
उड्डिड्ये सपदि यदा तु पक्षिणी सा
तं बालं हृदि परिगृह्य लम्बमानं ।
उड्डीना द्रुततरम् एव मातृ-युग्म-
प्राणाश् च स्फुटित-हृदम्बुजाद् इवासन्
[प्रहर्षिणी]
तस्मिन् हृते पूतनया तु बाले
मात्रोर् यदि प्राण-गणो न मूर्च्छेत् ।
भोक्तुं तद् आभील-कुलं तदा ते
किं शक्नुयाताम्? अपि किन्तु नैव
[इन्द्रवज्रा]
आक्रन्दाद् भिदुराणि पक्ष-पवनात् कल्पं भुवि भ्रंशनाद्
भू-भ्रंशं शव-रूपता-शवलनाद् गोत्राङ्ग-पङ्क्तीर् अपि ।
आशाङ्क्याभिगता दिविष्ठ-पटली तत्-तद्-विजातीयतां
निर्णीयाथ विसिस्मिये कतिपयं कालं बकी-संस्थितौ
[शार्दूल]
[58] ततश् च पूतनां निश्चित्य,
तस्याः सुरा वक्षसि लग्नम् एनं
स्मेरं गृहीताकृश-चूचुकाग्रम् ।
अस्य प्रभावावलि-विज्ञ-चित्ताः
सर्वे समन्ताज् जहसुर् विलोक्य
[इन्द्रवज्रा]
ऊचुश् च,
"अभजद् इह यद् एषा पर्वताकार-वर्ष्मा,
क्षयम् अतितनु-मूर्तिं प्राप्य बालं तम् एतम् ।
न हि तद् अतिविचित्रं प्रेक्ष्यताम् एव साक्षाद्
विधुर् अयम् अमृताङ्गः पूतनेयं विषाङ्गी
[मालिनी]
तथा च,
"विषं स्याद् विषम् अन्यस्मिन्न् अमृतं तु विषे विषम् ।
पूतना-कृष्ण-सङ्घर्षे दृश्यताम् एतद् एव हि
[अनुष्टुभ्]
अथवा,
"नव-नव-रस-पाकाद् उत्पलाभोग-धात्री
स्थलज-जलज-पद्मे सर्वदा दुःख-दात्री ।
रजनिचर-गणानां शश्वद् आमोद-पात्री
प्रति हरि-लयम् आगात् पूतना व्याज-रात्री
[मालिनी]
[59] किन्तु, स्व-चरित-चातुरीभिर् इदम् इवायं सूचयति,
"स्तनन्धयस्य स्तन एव जीविका
दत्तस् त्वया स्वयम् आनने मम ।
मया च पीतो म्रियते यदि त्वया,
किं वा ममागः? स्वयम् एव कथ्यताम्
[उपजाति 12]
[60] स्निग्धकण्ठ उवाच-हन्त, श्री-व्रजेश्वर्य्-आदीनां दीनानां का मर्यादा धैर्याय जाता? किं वा तत्-परिजनैः समाधानम् अधायि?
[61] मधुकण्ठ उवाच-अथ व्रजे तु महा-कोलाहल-व्रजे जाते व्रजेश्वर-गृहिणीं रोहिणीं च विहायं विहायम् उपर्य् उपरि परिद्रुतासु वृद्धा-मध्या-वधूषु तासु तदैव दैव-निश्चित-दिशः काश्चित् पृथु-नग-पृतनाम् पतितां पूतनां दृष्ट्वापि विघटित-भया निकटम् अटिता विधि-घटित-स्खलित-बाहु-घट्टम् आरूढा बाल-भावाद् अकुतोभयतया खेलन्तम् इव तं बाल-गोपालम् अविलम्बितं गृहीत्वा तां संवेग-जात-वेगतया सर्वं चातिहाय गृहाय दुद्रुवुः ।
[62] ततश् च तद्-अवलोकेनासङ्ख्य-लोकेन सुख-मग्नेन पश्चाल्-लग्नेन परिप्लव-तया समुत्प्लवमानेन सह समहं महान्तः-पुरम् आगता नारी-जना जनन्योर् निश्चेष्टितां दृष्ट्वा कर्तव्य-मूढताम् ऊढा बभूवुः ।
[63] अथ तथा-लक्षणतया क्षण-कतिपये लब्ध-व्यत्यये यत्नान्तर-पथे च वितथे, काचिद् बुद्धिमती स-कश्मलयोस् तयोर् अप्य् अङ्के तं बालकम् एवावलम्बयामास । अवलम्बिते च बाले तेनैवामृतेनेव कृत-त्राणेषु प्राणेषु, तं बालकम् अवलोकमाने ते पुनर् अन्यां मूर्च्छाम् आनर्च्छतुः । ततः पुनः पुनर् एवं-विधानाच् चिद्-आधानेन प्रकृतिम् आसेदतुः, मुहुर् एव जल-संवलनेन निदाघ-दग्ध-भूमिवत् ।
[64] अथ बालकम् अप्य् अवलोकयन्त्याव् आलोकन-वचनयोः काराभिर् इवाश्रु-धाराभिर् अतीव व्यग्रताम् अग्रतः प्रापतुः । ततश् चान्याभिर् एव स्तन्याभिमुखीकृतेन तेन सुकुमारेण कुमारेण क्रमानुसारेण धीरतां धारयामासतुः । ततश् च,
आश्लिष्टः प्रतिदृष्टि-चुम्बित-मुखः सुघ्रात-मूर्धा दृगर्-
णः-सिक्तः सुहृदां पुरो भुवि धृतः स्वेनापि निर्मञ्छितः ।
सत्यं सत्यम् इदं न चान्यद् इति स व्यक्तं विविक्तीकृतो
मातृभ्यां न तथापि संहृत-भयं दृष्टो बकी-मर्दनः
[शार्दूल]
[65] अथ श्री-व्रजेश्वरी स-चमत्कारम् उवाच-"हन्त, विलोक्यताम् असौ द्वितीयो बालः" इति । तद् एतद् उक्त्वा च तां स्वयं धावितुम् उद्यतां विबुध्य प्रतिरुध्य श्रील-रोहिणी बहुल-महिलाभिः सह गृहान्तरम् अवगाहमाना, तं मङ्गल-सङ्गतं विलोकयन्ती, सङ्गिनीभिर् अङ्गीकृत-पालनं विधाय च, तद्-आगमन-स्पृहिनीं व्रज-महेन्द्र-गृहिणीं संहाय सान्त्वितवती ।
[66] पूतना-हन्तुस् तु,
गो-मूत्राद्यैः स्नानम् आचार्य तस्य
प्रेम्णा चक्रुर् मन्त्र-रक्षां जनन्यः ।
श्रुत्वा यस्मिन् शास्त्र-विज्ञत्वम् आसां
सर्वेऽ प्य् उच्चैः कोविदा विस्मयन्ते
[शालिनी]
[67] अथ तादृश-महोत्पात-दृश्वरी श्रीमती व्रजेश्वरी सर्वानर्वाचीनाः प्रति स-गद्गदं जगाद,
"पुत्रो भवेद् एवम् अतिस्पृहा नौ
नासीद् अभूद् एष तु वः स्पृहातः ।
प्रत्यर्पि सोऽ यं बत युष्मकाभिर्
अस्मासु युष्मासु तथास्मकाभिः
[इन्द्रवज्रा]
इति तासां चरण-परिसरणम् अनु बालं नमयन्ती बाष्पं मुमोच ।
[68] ताश् च धैर्यं हित्वा स-सम्भ्रमं बालकं गृहीत्वा प्रोचुः,
"अस्माकं यद् अखिलम् अस्ति पुण्य-जातं
यद् वास्मत्-पितृ-जननी-कुलानुजातम् ।
तेनासौ बत भवताद् अहो यशोदे
पुत्रस् ते निरवधि-मङ्गल-प्रमोदे
[प्रहर्षिणी]
इति सास्रम् आत्मना तं निर्मञ्छयञ्चक्रुः ।
[69] तस्याः सान्त्वनार्थं समुदिता मुदितास् तत्रैव तस्थुश् च । तत्र च पुतनया कृतम् अजन्यं जनन्याव् अन्याश् च स्व-स्वदृष्टम् अन्योऽ न्यं निर्दिष्टवत्यः । तथा हि,
यथागता सा यद् उवाच यच् च वा
चकार तद्-ग्रस्तम् अमू समूचतुः ।
अमूः समूचुः यथा स्वयं गता
यथान्वपश्यंश् च तथा स-गद्गदम्
[वंशस्थविला]
[70] श्री-व्रजराजादयस् तु दूरतः किञ्चित् किञ्चिद् ईक्षित्वा मिथः-कथया कथन्तया तद् एतद् उच्चावच-वचनं रचयामासुः । तथा हि, [71] "समुड्डीयमानामान-वायसातायि-समुदायाविविक्त-महा-घोर-रूपं चण्ड-रश्मि-भस्मीकृत-सन्तम् असाव् अशिष्ट-महिष्ठ-ग्रन्थि-सन्ततितयोपहसितं झटिति निविडित-वड्रीभूताटवी-खण्ड-मण्डित-प्रदेशतया निर्दिष्टं भूरि-दूरतया भू-लग्नवत् प्रतीयमानोऽ यं तोयद-सम्भार इति सम्भावितं श्री-वसुदेव-सूचितोत्पातोचितं किञ्चिन् निचितम् इदम्" इति चिन्तितम् । पुनर्, "लब्ध-पक्षतयोत्पातम् आचरन्न् उत्पत्य पतितोऽ यम् अखर्व-पर्वत-विशेष" इति वितर्कितम् । [72] राक्षसाकार-साक्षात्-कार-विकल्प-कल्पना-जनित-जन-चय-भय-हास-कौतुक-विसंवाद-नादं क्षणतो
राक्षस-ताल-क्षणालक्षण-विनिश्चित-व्रजापचिति-प्रचयं स्वाभिमुखम् आगताया जनताया मुखान् नैकभेद-वेदन-विच्छेद-कारणावधारणाद् अवधारित-वेदनं नैकट्य-घट्यमान-वैकट्यतया वित्रस्त-समस्त-चित्तं परि व्रजात् पतितं पूतना-पुद्गलम् उद्भावयामासुः ।
श्रुत्वा पूतनया सुतस्य नयनं तस्यास् तु तस्मान् मृतिं
मूर्च्छन्न् एव तदा व्रज-क्षिति-पतिः सम्यक् प्रबोधं ययौ ।
लब्ध्वा दुर्धर-काल-नाग-दशन-त्रोटं यथा तत्-क्षणाद्
दिव्यं मन्त्रम् अपि श्रयेत मनुजः कश्चिद् द्रुतं जीवितुम्
[शार्दूल]
[73] अथ व्रजराजस् तत्राश्चर्य-पारम्पर्यम् इदम् अशृणोद् अदर्शयद् अन्वभूद् अपि । [74] तत्राशृणोद् यथा प्रथमं तावत् पूतना-तनुर् आयामतस् त्रि-गव्यूतिं व्याप्य पतितवती, विस्तारतस् तु गव्युतिम्, उच्छ्रायतश् च प्रायः क्रोशम् इति । [75] सा च याम-द्वय-गम्यायाम-तद्-अर्ध-विस्तार-व्रजागार-व्रजाद् बहिर् एव पपात, तत्र च न प्राणिनः पीडितवती, किन्तु द्रुमान् एवेति ।
[76] अथादर्शयद् यथा, तत्र हि कुलिश-तुल्य-निष्ठुर-महिष्ठ-कुल्य-कुलाकुला-घनास् तद्-अपघनाः स्वीय-समाज्ञया व्रज-जन-पृथक्-पृथग्-जन-व्रजेन झटित्य् एव कठिन-कुठारैर् विपाटिताः, प्रचुरतर-स्थान-स्थापितास् ततोऽ प्य् अतिविततानि निर्बन्धेनेन्धनानि सन्धाय सन्दग्धाश् चेति ।
[77] तद् एवं तद्-व्रज-बहिर्-धाम-पामर-चर्मकारादि-कर्माकार-गणानाम् अपि गणना शक्ति-समतिरिक्तता च न व्यक्तीकर्तुं शक्यते, किम् उत गोपादीनाम् इति ।
[78] अथान्वभूद् यथा-
कंसारेः सुमधुरिमा प्रमाण-चर्यां
न प्राप्स्यत्य् अधियुग-कोटि-कूटितोऽ पि ।
सा राक्षस्य् अपि रुधिराशनापि यस्य
स्पर्शांशाद् वर-सुरभित्वम् आससाद
[प्रहर्षिणी]
यतः,
तदा च दूता इव पूतनाङ्गतो
दग्धाद् गता धूम-गणाः सुगन्धयः ।
ग्रामान्तरं यातवतां दिनान्तरे
केषाञ्चिद् आह्वान-कृतिं विनिर्ममुः
इति ॥। [उपजाति 12]
अथात्मजं कलयितुम् आशु गोकुल-
क्षितीशिता व्रज-पुर-मध्यम् आययौ ।
गतोऽ न्तिके पथि पतद्-अश्रु-विग्रहः
क्षणं स्थितः स्वजन-गृहीत-दोर्-युगः
[रुचिरा]
[79] अथ धीरताम् एव धारयन् परम-धीर-धीर् असौ द्वि-त्र-मित्र-परिवृततया बृहद्-गृहालिन्द-वेदीं विन्दमानः कनकासन-कृतासनः स्वकुल-गोकुल-कुल-पुरन्ध्रीभिः सार्धम् अर्धाङ्गेन सानन्दम् उपनन्द-वधू-हस्त-विन्यस्तं बालं पुरस्कुर्वता पुरतः पतिर् अभिजग्मे । बालश् च तस्योत्सङ्ग-सङ्गी कारयाञ्चक्रे । तत्र च-
"किं ग्रहार्दिततया स बालको
दूनताम् अगमद् एक-रात्रतः ।"
इत्य् अचिन्तयद् अमुं तदेन्दुवत्
स्फीतम् ऐक्षत पुनर् व्रजाधिपः
[रथोद्धत]
किं च,
लीढं रूप-मधु प्रकृष्य रसितं वक्त्र-प्रसादामृतं
सम्यक् स्वादित एव तुल्य-रहित-स्पर्शोत्सवः कोऽ प्य् असौ ।
तस्य श्यामल-बाल-कोमल-तनोर् मूर्ध्नस् तु तातेन तां
सौरभ्य-स्वदनानुभूतिम् अभितो विश्वं मदाद् विस्मृतम्
[शार्दूल]
[80] निभाल्य च श्रीमन् मुखं सुखम् ऊचे,
"यदि नारायणेन त्वं दत्तोऽ सि कृपणाय मे ।
तेनैव सर्वं निर्वोढा सोढा च मम दुर्नयः
[अनुष्टुभ्]
[81] अथ "निर्वोढा निर्वोढा" इत्य् अनुवदन्त्य् अत्यन्ताभिनिवेशाद् एकेनाप्य् अकृत-निर्देशा पृष्ठ-देशाद् इत-प्रवेशा जटिलित-कचा सत्य-वचाः पौर्णमासी सर्वैर् एव तूर्णम् उत्थाय समनस्कारेण नमस्कारेण पुरश्चक्रे, अर्चयाञ्चक्रे चासनादिभिः ।
[82] ततश् च, स्वप्रश्नोत्तर-विषयीकृत-तद्-विष-योषा-वृत्ति-शेषा राज्ञानुज्ञापयाम् बभूवे पूर्ववद् अपूर्व-दानाद्य्-अपूर्वाय । तच् च ताम् एव प्रधानं विधाय विधीयते स्म इति ।
[83] तद् एवं पूतनां घातयित्वा समापनाय पुनर् अपीदं मधुकण्ठः परमर्षि-सम्मतता-व्यञ्जनया समुट्टङ्कितवान्-
ईदृशस् तनयो जातस् तव गोप-पते यतः ।
सा बाल-राक्षसी जज्ञे निज-संसार-राक्षसी
[अनुष्टुभ्]
[84] चेतसि चेदं विविक्तवान्,
अर्भासृग्-भुग् अजनि यत् पुरा यद् अर्वाग्-
धात्री चाभवद् इयम् अत्र नन्द-सूनोः ।
तत् क्वाधस्पदम् अथ तच्-छिरस्पदं वा
क्वेत्य् अन्तर्-हृदि विमृशन् भृशं भ्रमामि
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0