गोपालचम्पू · अध्याय 1.4
इति ।
[123] ततश् च तौ निजोपकण्ठोपम् अनु व्रज-राज आजुहाव । आगत्योश् च तयोः शिरसि कर-सरोरुहम् आधाय निजालङ्कारैर् अलञ्चकार । सर्वं च तत्-सम्प्रदायं बहु-सम्प्रदानेन सम्प्रदानम् अकरोत् । उवाच च - अद्य वासः समासाद्यतां भोजननाद्य्-अर्थम् इति । सर्वान् प्रति चोवाच - पुनर् एवं प्रातः प्रातर् आयातव्यम् इति ।
[124] अथ गो-सम्भालनार्थं पितरम् अनुज्ञां समभ्यर्थ्य मातरं च वन्य-भोजन-प्रस्थापनं प्रार्थ्य सूत-कुमारअयोश् चात्म-सङ्गमनं समर्थ्य कृत-व्राजे व्रज-युव-राजे सर्वे यथा स्वम् आवासं ययुः ॥
इति श्री-श्री-गोपाल-चम्पूम् अनु
कृत-पूरण-व्रज-वर्ति-तृष्ण-श्री-कृष्ण-जन्म-सम्पन्-मयं
नाम तृतीयं पूरणम्
॥3॥
(4)
अथ चतुर्थ-पूरणम्
नन्द-नन्दन-पर्व
[1] अथ पूर्वेद्युर् मधुकण्ठः कृती यथाचीकृतत्, एवम् अपरेद्युश् च व्रज-देव-सभायां भासमानायां सावसर-निदिग्धः स्निग्धकण्ठस् तत्-कीर्तिम् अचीकीर्तत् ।
[2] मधुकण्ठः सोत्कण्ठं पप्रच्छ-
प्राग् यद्वच् चरितं हरेर् अरसयद् वाग्-इन्द्रियं तद्वद् अप्य्
अद्यास्वादयितुं ममेच्छतितराम् उद्यम्य कर्ण-द्वयम् ।
यद्य् अप्य् एकक एव भोक्तृ-पद-भाग् जीवस् तथापि प्रति-
स्वं चक्षुः-प्रभृतीनि तानि च मुहुर् वाञ्छन्ति भोग-प्रथाम्
[3] तथा च स्निग्धकण्ठ उवाच-अथानन्द-समृद्धा सा वृद्धा गो-दोहनार्थं गोस्थानम् अध्यवस्थितान् मध्य-स्थित-श्रीमन्-नन्दोपनन्दादीन् विन्दति स्म । तत्र च-
अस्त-व्यस्त-गतिः प्रमोद-मधुरा पश्यन्त्य् अमून् अग्रतः
किञ्चिद् वक्तुम् इवोद्यद् आस्य-वलना दीर्घायिताल्प-क्षितिः ।
हस्त-न्यस्त-फलादिर् एवम् अपि सा पुत्रोद्भवं व्यञ्जती
यत् किञ्चिद् वदति स्म तत् पुनर् अवादीद् इत्य् अमी मेनिरे
[4] मधुकण्ठ उवाच-किम् उक्तवती सा ?
[5] स्निग्धकण्ठ सस्मितम् उवाच-अस्माकं राजाद्य प्रजात-प्रजाः । कथं भवन्तस् तन्-मिलनाय नायान्ति ? इति ।
[6] मधुकण्ठ सहासम् उवाच-ततस् ततः ?
[7] स्निग्धकण्ठ उवाच-ततश् च तज्-जन्म-वृत्तामृत-नव-वर्षाभिः शिखिन इव गोपाः कोलाहलं कलयामासुः । श्री-गोपत्य्-अधिपस् तु वानस्पत्य इव पुलकाङ्कुर-कुलाकुलतया परं परमानन्दं व्यञ्जयामास, न तु वचसा ।
[8] मधुकण्ठ उवाच-ततस् ततः ?
[9] स्निग्धकण्ठ उवाच-ततश् च स्मित-सम्भ्रमादर-भर-कर्बूरितैः सर्वैर् वन्दितया नन्दितया च तया सत्वरया पलिक्नी-वरया स-निजाङ्ग-जात एव भवान् मङ्गल-सङ्गी भूयाद् इत्य् अपूर्वां सुख-पूर्वां वाचं प्रोच्य रोचना-कुङ्कुम-सङ्ग-लेप-सङ्कुल-सद्-अङ्कुर-फल-मङ्गले श्रीमद्-व्रज-राजस्य क्षेमङ्कर-करयोर् विन्यस्ते तेन विलोकित-कल्पः श्रीमान् उपनन्दः सानन्दं जल्पति स्म-इह दोहाय संहाय रंहसायमाना धेनु-सङ्घाः काम् अप्य् अविहाय द्रुतम् अस्याः सगृहाय विहाप्यन्ताम् ।
[10] तत्र सर्वे चामोद-गर्वेण प्रोचुः-अन्यद् वा यत् किञ्चिद् अस्या हितं समीहितं भवति । ततश् च-
आह्लादेन समं जज्ञे बालः किं किं स एव सः ।
एवं विविक्तुं नन्दस्य नासीन् मतिमती मतिः
[11] अथ श्रीमान् व्रजेशः स्वीकृत-धार्मिक-वेशस् तद् अपि बहुलम् अन्यद् अपि बहुलादिकं दानाय संचक्पे । यत्र सर्वश् च तथाभावाय खर्वशश् चक्पे । सङ्कल्प्य च गृहे गन्तुं कृत-स्पृहे धृत-वेशे च तत्-तद्-वृत-व्रज-नरेशे श्री-राम-प्रसू-समादेशान् महा-गोपुर-देशाद् दुन्दुभि-द्वन्द्वम् उन्ननाद । तच् च वाद्य-विद्या-विदुर-व्यञ्जितं वाद्यं व्यक्तम् एवेदं मुहुर् वक्ति स्म-प्रादुर्भूतो नन्दानन्द इति । ततश् च-
अपि श्रुतम् अभून् निशि त्रिदिव-वाद्य-गर्जोजितं
जितं जितम् इति स्वनं न तु विनिश्चितं कारणम् ।
तदा तद्-अनुवादि तत् कलयताम् अमीषां मुहुर्
मुदा कलकला-रवं समजनि व्रज-प्राणिनाम्
[12] अथ संमदेन मुहुर् लम्भित-स्तम्भारम्भतायाम् अप्य् उत्कण्ठयाकृष्ट इव तत्र च लब्ध-कम्प-सम्पत्तायाम् अपि केवलं स्वकृत-सेवेन नारायण-देवेन दत्त-हस्तावलम्ब इव धैर्यम् अवलम्बमानः स्वालयं प्रति व्रज-भूपालः प्रचचाल । ततश् च-
तद् वृन्दे गृहम् अभियाति बन्धु-वर्गा
धावन्तः क्रम-मिलिता मिथः पुरोगाः ।
ये गङ्गा-झरम् अनु निर्झर-प्रभेदा
यद्वत् तत्-तूलिततयानयन्त वृद्धिम्
अथागताः पुर-वनिताः पुरः पुरः
सहस्रशः कलित-शुभायुतायुताः ।
व्रजेश्वरं पुरु निरराजयन् जयन्
नवात्मज-प्रभवमहे महेहया
ततश् च कोलाहलिभिर् व्रज-स्थितैः
समं गतः श्रील-महा-व्रजेश्वरः ।
स्वरांस् तु सालङ्कृति चार्व् अशूशुभन्
नभः-सभं पूर्ण-सुधांशुवत् प्रभुः
यद्यपि विप्राः सहसा
स्वयम् आगतये कृतोद्यमाः सर्वे ।
तद् अपि तद्-आदर-विधये
राज्ञाहूताः पृथक् पृथक् प्रथमम्
सुखाविष्टस् तस्मिन् मधुरम् उपविष्टैः सदसि तैर्
महा-स्निग्धैः शर्म-प्रकर-परिदिग्धैः परिवृतः ।
पठद्भिः पुत्राशीर् उचित-निगमं भूसुर-वरैः
किरद्भिर् दूर्वाद्यं शिरसि सुख-पूर्वं स महितः
सस्ने यत् परिचस्करे वपुर् अपि स्वस्ति-श्रुतिः शुश्रुवे
श्रीमन्-नन्द-महात्मना सुत-जनौ तत् तत् स्तुवे नापरम् ।
अद्यापि स्फुटम् एति सर्व-जनता येषां श्रुताद् अप्य् अहो
स्नानाद्य् अप्य् अतिगम्य सत्कृति-फलं यस्यास्ति नान्तः क्वचित्
[13] अथ जात-कर्म भव्यं कर्तव्यम् इति गुरुभिर् आदिष्टेन तेन तत्-प्रत्युत्क्रमश् चक्रे, यथा-
आनर्चिरे व्रजेशित्रा मातृका यास् तदा तु ताः ।
मातुः कम् इव कं यासाम् इत्य् अर्थ-व्यक्तिम् आगताः
अथ नान्दीमुख-श्राद्धं राद्धं गोपाल-पालिना ।
पितरो हि स्वयं यस्मिंस् ते नान्दीमुखतां गताः
[14] अथ वेद-विधान-पटुभिः सार्धम् अन्तःपुरं प्रविष्टे भद्र-कुम्भादि-भद्र-विशिष्ट-सूतिका-गृहाग्र-वेद्य्-उपविष्टे श्री-व्रज-कुल-महिष्ठे परम-मनोरथारोहिणी रोहिणी तद् अवधाय कुल-त्रय-यशो-दायि-यशोदा-खट्टाम् अन्तः-पटेन व्यवधाय बालं पिधाय गृहावग्रहणीम् आनिनाय । किन्तु नव-बालकं विलोकयितुं शर्मणा नर्मणा च निजालङ्कृत्य्-अर्थं प्रजावत्यस् तं प्रत्यभितः किम् अपि किम् अप्य् अमूल्यता-पर्याचितं याचितवत्यः प्रतिश्रुते तु तं विलोकयामासुः ।
[15] स च खल्व् अस्तोक-रोक-लोक-वलय-भव-प्रबल-नव-कुवलय-कुलपति-दुर्लङ्घ-शोभा-सङ्घं दुर्लभ-कोमलामल-कान्ति-विश्रान्ति-भूमिं, कलित-मर्म-प्रयतन-कर्म-विश्वाद्भुत-विश्वकर्म-निर्मित-निर्मल-नील-चिन्तामणि-प्रतिमा-प्रतिप्रतीकातिक्रम-परिमित-सर्वावयवं, प्रबल-प्रवाह-दलित-चर-बाल-वायज-समवायज-मञ्जुलाञ्जन-कलित-तल-निश्चल-जल-कालिन्दी-ह्रद-जालज-बाल-शैवालक-रुचि-रुचिर-रोचिर्-वलिताराल-श्लक्ष्ण-बाल-समुदायं, कमलालया-कर-किशलय-सित-लसित-सित-कमलान्तर्-वलय-दल-निर्मल-विलोचनं, वैकुण्ठ-स्थित-कल्प-तरु-तल्लज-पल्लव-कुण्ठताकर-कर-चरणाधरं, निपीत-कनक-रुचि-शुचि-पीतन-पीतिताम्बरावरण-रोचनं रोचनं बालकम् आलोचयन्न् आत्मानं नयन-पयः-पयसा स्नपयन् विलक्षणतया क्षण-कतिपयं जलवद् आसीत्
।
यद्यपि बहुविध-भावा, जाता गोष्ठेशितुस् तर्हि ।
तद् अपि च जाड्यं बलवज् जज्ञे गाम्भीर्य-शीलस्य
[16] अथ चिराय धीर-भावं धारितवती व्रज-धरित्री राज्य-श्रीमती तद्-आनन्द-स्पृहिणी नव-नन्दनम् उपनन्द-गृहिणी तद्-उत्सङ्ग-सङ्गिनं चकार ।
उत्सङ्गं वहति शिशुं व्रजाधिराजे
सा दूराद् अधिशयिता प्रसूति-शय्याम् ।
आसीत् तच्-छ्रवणज-बाष्प-रोमहर्ष-
स्तम्भाद्यैर् विवश-तनूर् व्रजाधिराज्ञी
[17] अथ तत्र मेधा-जनकं कर्म शर्मान्त-नामभिर् निर्ममे, यत्र भूस् त्वयि इत्य्-आदिकं पठित्वा हेमान्तर्हितयानामिकया बालो घृत-लवं लेहयामासे । अथायुष्य-क्रिया क्रियते स्म, यत्र ओं दिवस्पति इत्य् आदिकेन डिम्भः स्पृष्टः । दिक्-चतुष्टये मध्ये च ओं हृदम् अन्नं प्राणाय इत्य् आदिभिर् भूमिश् चाभिमन्त्रिता । अथ ओं अश्मा भव इत्य् आदिना पुनर् अर्भकोऽ भिमृष्टः । ततः ओं इडासि इत्य् आदिना तन्-माताभिमन्त्रिता । पुनर् मातुः स्तन-द्वयं ओं इमं स्तनम् इति, ओं यस् ते स्तनम् इत्य् आभ्याम् ऋग्भ्यां क्रमेण प्रक्षालितम् । ततश् च तम् उत्तान-शायिनं सूतिका-शय्यायां निधाय तच्-छिरः-प्रदेशे ओं आपो देवेषु इत्य् आदिनोदपात्रं निहितम् इति ।
[18] तद् एवं जात-कर्म-शर्मणि निर्वृत्ते बाल-नाभि-नाले च प्राप्त-च्छेदन-काले वृत्ते परमानन्द-सन्दोहेनानवहित-प्राया या सैव तदैव तद्-अवधात्री धात्री सपुलक-काया चित्रम् इदम् इति द्वि-त्रि-वारम् इदम् निवेदितवती-राजन् ! इतरत्र नाभि-सरसि नालम् एव लक्ष्यते, न तु नालीकम् । अत्र पुनर् नालीकम् एव न तु नालम् इति ।
किं च-
अङ्घ्र्योर् व्यक्त-दरारि-वज्र-कमलाद्याश्चर्य-चिह्नैर् अलं
कम्रैर् उज्ज्वलितां तथा कर-युगे तैः कैश्चिद् अन्यैर् अपि ।
पश्य श्री-व्रजनाथ नीरद-रुचेर् बालस्य सामुद्रको-
ल्लङ्घि-श्री-विभवस्य देह-वलनाम् अस्मासु चित्र-प्रदाम्
[19] तदा च सर्वस्मिन्न् अपि विस्मित-चर्या-पर्याकुले बटवः सहास-पाटवम् ऊचुः-अये ! सर्व-शर्मद ! निर्मल-धर्मणो भवतः कथम् अशौचं नाम सामर्थ्यं समर्थयताम् ? यतो नाडी-च्छेद एव वृत्ते तद् आमनन्ति स्म ।
[20] तद् एवम् उल्लसन् निखिल-रोम-समुत्फुल्ल-मुख-सोमः परिवारित-बटु-स्तोमतया बहिर् विहित-होम-स्थानम् आगम्य सम्यग् अर्पित-सर्वानन्दः सङ्गि-समर्पित-तत्-तद्-वृत्त-शन्तम-कन्दः श्रीमान् नन्दस् तान् दानीय-विप्रान् आनीय प्रदानारम्भं सम्भृतवान् ।
आरेभे स च दातुं, लेभे न तुलां तु सङ्गिनां तेषाम् ।
तादृश-तत्-प्रसव-श्री-वार्ता यैर् अर्पिता परितः
तथापि-
अयुतं प्रयुतं नियुतं भवति दशानां सहस्रम् आरभ्य ।
नियुते विंशति-लक्षं तावद् धेनूर् अदान् नन्दः
विंशति-लक्षं दत्त्वा धेनूः सौवर्ण-शृङ्ग-सङ्ग्य्-अङ्गीः ।
हृदयम् अपूर्णतयासीत् तस्यान्यस्मै प्रदानाय
दशभिर् दशभिर् द्रोणैः कृत-तिल-सप्ताचलीम् अददात् ।
यद्-वृति-मणि-कनकानां तद्-अधिकतर-भारता द्विजैर् मेने
तेभ्यश् च दक्षिणीयेभ्यः प्रत्ता या दक्षिणामुना ।
तयाप्य् अक्षीणयान्येषाम् अक्षीण्य् आश्चर्यम् आययुः
बाडव्यानाम् असङ्ख्यानां नासीत् परिचितिस् तदा ।
ब्रह्म-वर्चसम् एवास्मिन् परिचायकतां ययौ
[21] तत्र ये विदित-वेदाभिप्राया विप्रा निज-निज-विद्यातिशायकाः सूत-मागध-वन्दि-कृशाश्वि-गायकाः स्वच्छन्द-नाना-शब्द-वादका वादकाश् च, ते सर्वेऽ पि तस्मिन् पर्वणि सङ्गिनः सन्तः सुमङ्गलम् एव शब्दायमानाः पृथक्तायाम् अप्य् अपृथङ्-निस्वना इव विश्वं विस्माययन्ति स्म । यावद् एवं वृत्तं वृत्तम्, तावद् व्रज-स्थलम् अपि हृष्टम् इव दृष्टं, किम् उत व्रजस्थाः । यतः संसृष्टतया विक्षेप-शून्यम् इव संसिक्ततया स्निग्धम् इव, चल-चित्र-ध्वजादितया नृत्यद् इव चासीत् । तत्र च यदा गो-वृष-वत्सानाम् अपि स्वभावत एव भवतः सानुराग-स्नेहस्य तैल-विद्रावित-हरिद्रा-समक्ति-व्याजाद् बहिर् अपि व्यक्तिर् आसीत् । हर्ष-वैचित्र्यस्य च विचित्र-धातु-बर्ह-स्रक्-काञ्चन-माला-व्याजात् । तदा किम् उत गोपानां ते ह्य् अद्यापि यशसा
विद्यमाना गो-पृथिव्याः पातार इतीव तथोच्यन्ते । ये खलु व्यञ्जित-रस-भावतया विधृतालङ्कारतया च स्व-वर्णन-काव्य-ग्रन्थैर् अभेदम् आययुः । उल्लास-विधृत-नाना-मणि-मय-बलि-पाणितया प्रेमणि स्वेषां वीरतां च व्यञ्जयामासुः । यदा चैवं गोपास् तदा पुनर् अतीव जीवनायमान-गोकुल-कुलेश्वरी गुण-गण-दिग्ध-स्निग्ध-हृदया गोप-वर-वर्णिन्यः कियद् वा वर्णनीयाः ?
[22] याः खलु पूर्वं तद्-अपत्य-समपत्त्य्-अभावान् निर्वेद-वेदनया त्यक्त-प्राय-परिष्काराः, सम्प्रति तु किञ्चिच्-चरण-प्रवण-तद्-अपत्य-श्रवण-मात्रेण विधृत-विविध-सुख-विकारास् तत्-पर्व-रञ्जनार्थं विलम्बनीयाम् अपि परिष्कृतिम् उरीकृत्य नृत्यन्त्य इव तत्-पुरीं प्रति चलिताः । याश् च व्यञ्जिजिषित-मङ्गल-सङ्गतया स्नेह-मय-कामना-परिणामतया च स्वयम् एव महा-मणि-मयोपायन-पाणयो बभूवुः । यासाम् आनन्दाद् अन्यद् एव शोभा-वैभवम् आविर्भवति स्म ।
तथा हि-
जित-कुङ्कुमम् उरु रुरुचे मुख-शशिनां रोचिर् एतासाम् ।
समुदितम् उदितं पर्वणि सुत-जनुषः श्री-यशोदायाः
[23] तत्र च गायन्ति-
अजनि यशोदा निशि सुत-सारम् ।
इति महिलालिर् इता तद्-अगारम् ॥ध्रु॥
सम्भ्रम-विरचित-बहु-विध-वेशम् ।
पथि माल्य-च्यव-पूरित-देशम् ॥
चल-मणि-कुण्डल-वलित-कपोलम् ।
अपरिकलित-गलद्-अंश-निचोलम् ॥
उच्छलित-च्छवि-चपलाहारम् ।
चित्र-वसन-वस-रसना-वारम् ॥
अपरस्पर-गति-विजितान्योन्यम् ।
सगणा व्यहसीद् इह चान्योन्यम्
इति ।
किं च-
व्रजः प्रकटतां यातस् तत्र कृष्णश् च सङ्गतः ।
इत्य् अवाद्यन्त वाद्यानि वाद्याधिष्ठातृ-दैवतैः
तस्माद् आनन्द-सन्दोहाद् उपनन्द-पुरःसराः ।
गम्भीरास् तेऽ पि चाभीरा विजह्रुर् ननृतुर् जगुः
तदा तत्रागता योषास् तं सदाशीर्भिर् अर्भकम् ।
निर्वर्ण्य वर्णयित्वा च परस्परम् इदं जगुः
पाहि चिरं व्रज-राज-कुमार ।
अस्मान् अत्र शिशो सुकुमार ॥ध्रु॥
द्रुततर-वृद्धि-समृद्धि-गतेन ।
शं भवताद् भवताभिमतेन ॥
स्पृहयामस् ते हसित-मुखाय ।
अङ्गन-सङ्गत-रिङ्ग-सुखाय ॥
गो-बालावलि-लूमालम्बि ।
चलनं तव वलताम् अविलम्बि ॥
सह गो-शावक-गम-रमणेन ।
सुखयसि हन्त कदा कमनेन ॥
गो-गण-चारण-विहरणम् अस्य ।
स तु पश्येद् वर-भाग्यं यस्य ॥
दुष्ट-कदल-दद-सुष्ठु-बलाय ।
भव-शिष्टालि-विशिष्ट-फलाय
इति सङ्गीत-सङ्गिन्यो रङ्गिण्यो मह-सम्पदि ।
पीता-तैलेन सिञ्चन्त्यः सिञ्चन्त्यः प्रययुर् बहिः
ततश् च-
दधि-दुग्धादि-सेकेन मिथोऽ मी शुभ्रतां गताः ।
तरङ्गा इव दुग्धाब्धेर् अनृत्यन् वर-गोदुहः
[24] अथ तास् तद् अवधाय तद् एव गायन्ति स्म, यथा-
पश्य सखी-कुल गोकुल-राजम् ।
पुत्रोत्सवम् अनु खेला-भाजम् ॥ध्रु॥
उदधि-प्रभ-दधि-संप्लव-देशम् ।
परितो घूर्णित-मन्दर-वेशम् ॥
मध्य-धटी-फणि-राजे कृष्टम् ।
हृद्य-सुहृद्भिर् अतीव च हृष्टम् ॥
मध्ये मध्ये दुर्लभ-दानम् ।
ददतं दधतं विस्मय-भानम् ॥
एकं पुनर् अलम् अभवद् अपूर्वम् ।
अजनि विधुर् बत यद् इतः पूर्वम्
इति ।
[25] एतद् अपि श्लोकयामासुः-
नेयं दुग्ध-विकीर्णि-पालिर् अपि तु द्राग्-वारि-धारा-गतिर्
नेयं स्यान् नवनीत-पिण्ड-विसृतिर् मुक्तास् तु मुक्ताम्बुदाः ।
नेयं दीर्ण-हरिद्र-नीर-विकृतिः किन्तु प्रभा विद्युतां
पर्वैवेदम् अतीव हर्ष-महसा वर्षा-वपुर् निर्ममे
इति ।
बालस्य मातामहम् एत्य मातुलास्
तदा गृहीताः कर-चोरका इव ।
दध्य्-आदि-पङ्केषु मुहुर् विकर्षणात्
पितृव्य-वर्गेण विहस्य दण्डिताः
[26] श्रीमान् नन्दश् च-
महोदार-चित्तश् चितानेक-वित्तं
समाहूय सर्वं गुणाजीवि-खर्वम् ।
विना तद्-विचारं वपुः-शक्ति-सारं
समुत्क्षिप्य रत्नं ददे सातियत्नम्
किं च-
ग्रहीता याचितान्य् अत्र प्रदाताङ्गीक्रिया-युतः
श्रीमन्-नन्देन दाने तु तत्र जातो विपर्ययः
अतएव-
विना याच्ञां ददाने तु सर्वं व्रज-पतौ तदा ।
कल्पद्रु-चिन्तामण्य्-आद्यास् तेऽ प्य् आसन् कृपणा इव
तत्र च-
अनेन प्रीयतां विष्णुस् तेन स्तान् मे सुते शिवम् ।
एवं प्रसभम् उद्भूता दाने नन्दस्य भावना
[27] अथ सर्वा जनता जनित-स्नान-कामा समम् अमुना यमुनाम् अयामास ।
[28] तत्र चानन्देन श्री-नन्देन सह गलद्-व्रीडां जल-क्रीडां सन्तत्य निर्मल-परिमल-परिमिलन-पूर्वकं स्नानम् आतत्य दिव्य-वस्त्र-संवस्त्रणं वितत्य चन्द्र-चन्दन-समालम्भं प्रतत्य तत्रोटज-मध्यम् अध्यासीनां सिद्ध-प्रतन-प्रयतनतया पूर्ण-मानसां पौर्णमासीम् अनु नमनम् अवतत्य वन्दि-जन-जनित-विश्राव-पूरित-श्रवसा श्रवसा वलिता सा पुनस् तद् एव सदनम् आससाद ।
[29] ततः श्रीमान् व्रजस्य राजा रुचि-दानानि रचयन् बन्धु-वृन्द-सिन्धुं पूरयामास ।
[30] अथ तस्मिन्न् आनन्द-पीव्नि प्रतिदीव्नि श्री-राम-जनन्या श्रद्धा-यन्त्रिततया निमन्त्रिताः कृत-घृत-पक्व-जेमनाः सर्व एव पर्व-लक्ष्म्या पूरिताश् चन्द्रा इव स्व-स्व-मन्दिरम् अविन्दनन्त । विदित्वा च तद्-आनन्दं प्रति कृत-प्रतिजागरां जागराम् एव नृत्य-गीतादि-धन्यायां रजन्याम् अभजन्त ।
श्री-रोहिण्या हरि-जनि-सुखं शक्यते केन वक्तुं
यस्माद् वेषं विविधम् अदधाद् भर्तृतः प्रोषितापि ।
चित्रं चित्रं सुकृत-वरिमा दृश्यतां विश्व-वन्द्यः
श्रीमन्-नन्दोऽ प्य् अमनुत निजं भाग्यम् आयातिम् अस्याः
[31] अथ सोऽ यं रत्नाकरोऽ पि व्रजस् तं हरेर् आविर्भावम् आरभ्याहरहर् विरह-रहित-तद्-विहरणाद् वर्धिष्णु-समृद्धिः काम् अपि चमत्कारितां वितेने । गोप-समवायात् क्रमाद् आविर्भूतानां प्रभूतानां परमाणां रमाणां रमण-धामतया तु किम् उत ?
[32] अथ मधुकण्ठेन चिन्तन्याञ्चक्रे-आं श्रीमद्-भागवत-संवादश् चात्र सम्भवति-
तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् ।
हरेर् निवासात्म-गुणै रमा-क्रीडम् अभून् नृप ॥[भ्प् 10.5.18] इति ।
[33] स्निग्धकण्ठस् तु विभाव्य पुनर् आह स्म-अहो महोत्साह-स्वभावतादिभिर् विराजमानता श्रीमद्-व्रजराजस्य । यतः-
तावन् मानं वितरणम् अहो सम्पदस् ताः कियत्यस्
तावत् सङ्ख्यं महसि रचनं भृत्य-वर्गाः कियन्तः ।
तावत् प्रान्तं जन-सम-वनं कत्य् अमुष्यावधानान्य्
एवं सर्वं व्रज-नरपतेः को नु शक्तो विवेक्तुम्
इति ।
[34] समापयंश् चोवाच-
ईदृशस् तनयो जातस् तव गोष्ठ-क्षितीश यः ।
लक्ष्मी-लक्षान्वितं कुर्वन् गोष्ठं निन्ये विलक्षताम्
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0