भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.3

1.3.1

इति श्री-गोपाल-चम्पूम् अनु
गोलोक-विलास-विकासनं द्वितीयं पूरणम् ।
॥2॥
पूर्णः श्री-गोलोक-विलासः ।
--ओ)0(ओ--
(3)
अथ तृतीयं पूरणम्
कृत-पूरण-वर्ति-तृष्ण-
श्री-कृष्ण-जन्म-सम्पन्-मयम्
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम्

1.3.2

[1] तद् एवं प्रशस्त-शास्त्रावलोकतः श्रीमान् गोलोकः प्रस्तुतः । यत्र लोकाभिव्यक्त-तद्-अभिव्यक्त-वैभव-भेदाद् द्विधापि वृन्दावन-वैभवं विभावितम् । यत्र च लोकानभिव्यक्त-वैभवे चिन्तामणि-मय-कमलाकार-गोकुल-प्रकारश् चाविकलम् अवकलितः । यत्र च सप्त-प्रकोष्ठा गोष्ठाधिपति-पुरी वर्णनाभिर् उरीकृता । यत्र च प्रातर् औचिती-चित-कृति-प्रभृति श्री-हरि-चरितं प्रचारितम् । यत्र च गोप-राज-राजित-सकल-भाजित-सभायां भव्य-काव्य-विज्ञ-सर्वज्ञतातिमनोज्ञ-प्रज्ञ-सूत-वंश-प्रसूत-कुमार-द्वयागमनम् अनवद्यं वर्णितम् । यत्र च व्रज-राजादिभिस् तत्-कथा-शुश्रूषा प्रथयाञ्चक्रे इत्य् अपि निगदितम् । तद्-अनन्तरम् अत्र तु तत्-कथा वितायते ।
[2] अन्थान्येद्युर् ब्राह्म-मुहूर्तम् आरभ्य पूर्ववद् एव पूर्वज-रामः सर्वं पर्वति स्म । भोजनं पुनर् ऐकान्तिकम् एव नित्यम् इव तद्-दिने जातम् । यथा ज्ञापयन्ति स्म श्रीमत्-पितृ-चरणाः - "तात! प्रातर् एव गोभिः शोभिष्यमाणतां सम्भवता भवता ताभ्यः समग्रानुत्तम-ग्रासान् प्रादेश्य मद्-आदेश्यतया यत् किञ्चिद् उपयुज्य स्वयम् अञ्चितव्यम् ।" इति ।
भोजनं, यथा-
अग्र्ये सद्मनि रत्न-पीठ-महितौ रामाजितौ तद्-वधू-
हस्तेभ्यः परिगृह्य मातृ-युगलेनान्नादि पर्यापितम् ।
भुञ्जानौ सखिभिः सुनर्म-वलितं प्रस्माययन्तौ च तद्-
युग्मं तेन च पर्वणा परिजनं सर्वं सुखाचक्रतुः

1.3.3

[शार्दूल]
[3] ब्झोजनानन्तरं तु सास्रं निभालयन्त्याः सस्मितं चाकर्णयन्त्याः श्रीमत्या मातृ-द्वितीयायाः पुरस्ताद् अग्रजेन सखिभिश् च सुखद-नाना-वार्तां वर्तयति श्री-व्रज-राज-कुमारे व्रज-नरेशादेशः प्रविवेश-"वत्स! सभासदः सभायां सभाजिताः शोभन्ते । तौ च सूत-सुतौ स्वसम्प्रदायम् आदाय वर्तेते" इति ।
तदा च-
स तु जननीम् अनुजानतीं प्रणम्य
द्रुतम् अनुरामम् इयाय सभ्य-वृन्दम् ।
द्वयम् अपि तद् अथ प्रकाश-युक्तं
कुमुद-सुहृत् कुमुदाकरायते स्म

1.3.4

[4] तत्राभ्यन्तरः सभा-वलय-प्रवेश-द्वारं परितः स्तम्भ-पङ्क्ति-सक्त-गृहाकारं यत् पञ्चमं लोक-सहस्राधारता-समुचिताकारं पूर्व-दिग्-गतं पूर्-द्वारं, तस्य बहिर्-अन्तरतया घटित-सूक्ष-जाल-रन्ध्र-जालेन कुड्येन द्विधा-विभक्त-दीर्घता-विधानस्य तिर्यक्तया मध्य-स्थितेन निम्न-वर्त्मना बहिर-अन्तर्-लब्ध-कुट्टिम-चतुष्टयस्य बहिः-कुट्टिम-द्वय-वलित-रत्न-पीठ-घटासु यथायथम् उपविष्टा मुदाविशिष्टास् ते विभ्राजन्ते स्म ।
[5] यस्मिन्न् उदीची-कुट्टिम-तट-घटिताम् अवाची-मुखतया विभ्राजिनीं राजिम् अधिकृत्य विराजमानः श्री-व्रज-राजस् तस्य तु सव्य-तत्-तट-घटितां प्राची-मुखतया श्री-निधानां श्रेणिम् आश्रित्य दत्त-सुख-समाजः श्री-व्रज-युव-राजस् तथापसव्यतस् तत्-तट-गत-कुड्य-सनीड-घटितां प्राचीमुखतया सुख-करीम् आवलिम् आसाद्य परम् अहितः क्षिति-सुरोत्तम-समूह-सहितः पुरोहितः सम्य-विराजते स्म । तत्रावाची-कुट्टिम-गताश् च केचिद् आभीर-वीरा विराजन्ते स्म ।
[6] ततश् च तयोः कुट्टिमयोर् मध्य-भागश् च प्राङ्गणात् क्रमत उन्नतः । स्वयं तु विस्तीर्णतया नातिनिम्नतया च कुट्टिम-स्थानां सुष्ठु दृष्टि-सङ्गतः सन् विभ्राजते स्म । श्री-भाजं गोलोक-सम्राजम् अभिमुखीकृत्य तयोः कुट्टिमयोर् मध्यस्थौ पुटिताग्र-हस्तौ तौ सूत-सुतौ तु सह सहायम् उत्थान-युतौ वर्तेते स्म । ययोश् च सव्यापसव्यतः सर्वे व्रजस्थाः सूतादिषु स्फुरद्-अर्हद्-अवस्था-विशिष्टम् उपविष्टा विस्तीर्णतासाङ्ग-प्राङ्गणे तु परे शिष्टाः ।
इति स्थिते-
सर्वस्माद् उच्चमाने मणि-जनित-महा-सिंह-पीठे निविष्टः
साध्विष्टः सत्-प्रकीर्णाद्य्-उपवलित-करैर् भ्रातृ-मध्यं प्रविष्टः ।
दृष्टिं पीयूष-वृष्टिं विनिदधद् असकृत् कृष्ण-वक्त्रे स-तृष्णं
श्रीमान् गोलोक-राजः स-सदसि ददृशे राजमानः प्रजाभिः

1.3.5

श्री-शुभ्रासन-तुलिकोपरि-मिलत्-कायाधरांशो मनाग्
आलम्बाद् उपधान-चन्द्र-वलयस्येषत् तिरो-वर्तनः ।
धिन्वन् सस्मितया दृशा परिषदं श्री-राम-दामादिमान्
श्री-कृष्णः समयात्र साम्प्रतम् अपि प्रत्यक्षवल् लक्ष्यते

1.3.6

[7] तत्र च तस्य वर्णादिकम् एवं वर्ण्यते-
श्यामे श्याम-दशाम् अवाप सहसा शोणे तथा शोणतां
पीते रोचिषि पीत-धाम विविधे वैविध्यम् आगाद् इति ।
अङ्गोपाङ्ग-रुचा हरेर् जन-दृशां वीथिर् गता तत्-क्षणान्
नाना-रूप-गतीर् नटानुपजहासेव स्मित-व्यङ्गतः

1.3.7

किं च-
चन्द्रोऽ यं श्याम एष प्र्थम-जलधरः कान्तिभिर् विश्व-दीपः
शोभन्ते विद्युतस् ता इह सपदि जहत्यात्म-सत्ताम् अमूस् तु ।
नक्षत्राणीह लीनान्य् अपि बत कुमते नो नभः सा सभासाव्
इत्य् अन्योन्यं विनोदाद् विवदनम् उदभूत् तत्र शश्वत् कवीनाम्

1.3.8

[8] तत्रैव कस्यचिद् अन्यस्य कविता-
उपरि मधुकरावली तदीयं
तलम् अनु सस्मित-नील-वारि-जातम् ।
तद् अनु रवि-सुताच्छवारि-पूरं
स्फुरति सखे किम् इयं सभा नवास्ति

1.3.9

[9] अथात्म-स्थाने युक्तः श्री-कृष्ण-रामाभ्यां प्रयुक्तः प्रसिद्ध-नामा श्रीदामा श्रीभाजं व्रज-राजम् आवेद्य सद्यः पुर-मध्यम् आसाद्य कृती श्री-व्रजराज्ञी-प्रभृतिर् बहिः कुट्टिमात् किञ्चिद् उन्नत-कुट्टिमम् अनु मर्यादाम् अंशम् अप्य् अतिचर्य स्फुटम् उपर्य् उपरि घटित-गात्रं लब्ध-सन्निकृष्टि-दृष्टि-मात्र-पात्रं श्रेणितयालङ्कृतम् अनेक-नीरन्ध्र-जाल-रन्ध्र-जालं समया समानीय प्रतीहारं सप्रतीहारं प्रणीय दृग्-भङ्गि-कलया तासाम् अन्तः-सभा-सङ्गिताम् अभिनीय पुनस् तयोर् अविप्रकृष्ट एवोपविष्टः ।
[10] यत्र श्रीमतां मित्राणां सङ्गतौ मधुमङ्गलोऽ पि रङ्ग इव तत्-तत्-प्रसङ्गेन नर्म-भङ्गिभिः शर्म दातुम् अङ्गीकुर्वन्न् इव निविवेश ।
[11] तत्र श्री-व्रज-राज्ञी-
मणि-मय-वर-पीठे यातृ-मुख्यान्तराले
तनय-नव-वधूभिः सेवितारात्-प्रदेशा ।
सुत-मुख-विधु-कान्तिं सा गवाक्षात् पिबन्तौ
सुत-सुचरित-तृष्णक् कृष्ण-माता व्यराजीत्

1.3.10

[12] अथ राज्ञा व्रजस्य मधुरम् आज्ञाप्यते स्म-"अये मधुकण्ठ-स्निग्धकण्ठौ! वयम् उत्कण्ठिताः स्मः । ततः किञ्चिद् उट्टङ्क्यताम् ।"
[13] तौ च साञ्जलौ व्यान्ञ्जतुः-"देव! किं प्रक्रमितव्यम् अवलम्ब्य संवादवहे?"
[14] व्रजराज उवाच-"भवन्तु सर्वज्ञाव् इति विज्ञापनायास्मदीय-कथाभिभिर् एवास्मान् विस्माययेताम् ।"
[15] ताव् ऊचतुः-"यथा शिष्टिः शिष्टाग्रणी-चरणानाम् । किन्तु शावयोर् आवयोर् एकतरः समाज्ञाप्यतां, यथान्यतरः श्रोता भवति ।"
[16] व्रजराज उवाच-"दिनम् एकम् एकम् अन्तरा प्रत्येकम् अपि तत्-तद्-रूपताम् आप्नोतु । प्रक्रान्ता पुनर् ज्यायान् एव ज्यायान् विधीयते ।"
[17] ततश् च धृतोत्कण्ठः सपदि मधुकण्ठः कृताञ्जलितया नान्दीं पठन्न् अखिलम् आनन्दयति स्म । यथा-
श्रीमान् यो भगवान् स्वयं विजयते ब्रह्मा सुरर्षिर् महान्
व्यासस् तत्-प्रभवः परीक्षिद् अपि याव् उग्रश्रवः-शौनकौ ।
श्रीमद्-भागवत-प्रथा-प्रणयिनस् तान् विश्व-निस्तारिणः
श्री-गोष्ठस्य महिष्ठतां प्रथयितुं कम्रान् नमस्कुर्महे

1.3.11

ततश् च-
पश्चाद् अल्पं ताल-युग्मं गृहीत्वा
गायन्तौ द्वौ पार्श्वयोर् मड्डु-विज्ञौ ।
श्रोता भ्राता यस्य सव्येतराग्रे
सोऽ यं वक्ता सर्वम् उच्चैर् दिधिन्व

1.3.12

[18] इति प्रकारे लब्ध-सारे पुनर् मधुकण्ठः सोत्कण्ठं गायन् नृत्यन् तत्-तद्-भावाभिनयं प्रणयन् कथाम् अभ्याददे ।
अथ कथारम्भः
[19] यथा-अथ सर्व-श्रुति-पुराणादि-कृत-प्रशंसस्य वृष्णि-वंशस्य वतंसः श्री-देवमीढ-नामा परम-गुण-धामा मधुरामध्यासामास । तस्य चार्याणां शिरोमणेर् भार्या-द्वयम् आसीत् । प्रथमा द्वितीय-वर्णा, द्वितीया तु तृतीय-वर्णेति । तयोश् च क्रमेण यथावद् आह्वयं पुत्र-द्वयं प्रथमं बभूव शूरः पर्जन्य इति । तत्र शूरस्य श्री-वसुदेवादयः समुदयन्ति स्म । श्रीमान् पर्जन्यस् तु मातृवद् वर्ण-सङ्करः इति न्यायेन वैश्यताम् एवाविश्य गवाम् एवैश्यं वश्यं चकार । बृहद्-वन एव च वासम् आचचार । स चायं बाल्याद् एव ब्राह्मण-दर्शं पूजयति, मनोरथ-पूरं देयानि वर्षति, वैष्णव-वेदं स्निह्यति, यावद् वेदं व्यवहरति, यावज्-जीवं हरिम् अर्चयति स्म । तस्य मातुर् वंशश् च व्याप्त-सर्व-दिशां
विशां वतंसतया परं शंसनीयः । आभीर-विशेषतया सद्भिर् उदीरणाद् एष हि विशेषं भजते स्म ।
[20] तथा च मनुः-
ब्राह्मणाद् उग्र-कन्यायाम् आवृतो नाम जायते ।
आभीरोऽ म्बष्ट-कन्यायाम् आयोगव्यां तु धिग्वणः ॥[मनु 10.15] इति ।
अम्बष्ठस् तु विशः पुत्र्यां ब्राह्मणाज् जात उच्यते इति चान्यत्र । अतः पाद्मे सृष्टि-खण्डादौ यज्ञं कुर्वता ब्रह्मणाप्य् आभीर-पर्याय-गोप-कन्यायाः पत्नीत्वेन स्वीकारः प्रसिद्धः । एष एव च गोप-वंशः श्री-कृष्ण-लीलायां संवलनम् आप्स्यतीति । सृष्टि-खण्ड एव तत्र स्पष्टीकृतम् अस्ति । तस्मात् परम-शंसनीय एवासौ वैश्यान्तः-पाति-महाभीर-द्विज-वंश इति ।
[21] अथ स्निग्धकण्ठेन चान्तश् चिन्तितम्-एवम् अपि केचिद् अहो एषां द्विजतायां सन्देहम् अपि देहयिस्यन्ति । ये खलु श्रीमद्-भागवते कुरु द्विजाति-संस्कारम् [10.8.10] इति गर्गं प्रति श्री-व्रजराज-वचने, वैश्यस् तु वार्तया जीवेत् इत्य् आरभ्य,
कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते ।
वार्ता चतुर्विधा तत्र वयं गो-वृत्तयोऽ निशम् ॥[भ्प् 10.24.20-21]
इति व्रजराजं प्रति श्री-कृष्ण-वचने, अग्न्य्-अर्कातिथि-गो-विप्रः [भ्प् 10.46.12] इति श्री-शुक-कृत-गोपावास-वर्णने, व्यतिरेकतस् तु धर्म-राज-चरतायाम् अपि विदुरस्य शूद्र-गर्भोद्भवतयान्यथा-व्यवहार-श्रवणेऽ प्य् अधिकं विअधिरायिष्यन्ते इति ।
[22] अथ स्फुटम् ऊचे-ततस् ततः ?
[23] मधुकण्ठ उवाच-स च श्रीमान् पर्जन्यः सौजन्य-वर्येणार्जितेन निजैश्वर्येणापि वैश्यान्तर-साधारण्यम् अतीयाय, तच् च नाश्चर्यम् । यतः स्वाश्रित-देश-पालकता-मान्यतया वदान्यतया क्षीर-वैभव-प्लावित-सर्व-जनता-लब्ध-प्राधान्यतया च पर्जन्य-सामान्यताम् आप ; यः खलु प्रह्लादः श्रवसि, ध्रुवः प्रतिश्रुति, पृथुर् महिमणि, भीष्मो दुर्हृदि, शङ्करः सुहृदि, स्वयम्भूर् गरिमणि, हरिस् तेजसि बभूव । यस्य च सर्वैर् अपि कृत-गुणनेन गुण-गणने वशिताः सहस्र-सङ्ख्याभिर् अप्य् अनवसिता मातामह-महा-वंश-प्रभवाः सर्वथा प्रभवन्ते गोपाः सोपाध्यायाः स्वयम् एव समाश्रिता बभूवुः । तत्-सम्बन्धानि च वृन्दशः यं खलु श्रीमद्-उग्रसेनाग्रीय-यदु-संसद्-अग्रण्यस् ते समग्र-गुण-गरिमण्य्
अग्रगण्यम् अवलोकयन्तः सकल-गोप-लोक-राज-राजता-सम्बलकेन तिलकेन सम्भावयामासुः । यस्य च प्रेयसी सकल-गुण-वरीयसी वरीयसीनाम् आसीत् । यस्य च श्रीमद्-उपनन्दादयः पञ्च-नन्दना जगद् एवानन्दयामासुः ।
[24] तथा च वन्दिनस् तस्य श्लोकं श्लोकताम् आनयन्ति-
अन्यस् तु जल-पर्जन्यः सुख-पर्जन्य एष तु ।
सदा यो धिनुते सृष्टैर् उपनन्दादिभिर् जनम्

1.3.13

पर्जन्यः कृषि-वृत्तीनां भुवि लक्ष्यो व्यलक्ष्यत ।
तद् एतन् नाद्भुतं स्थूल-लक्ष्यतां यद् असौ गतः

1.3.14

उपमान्ति च-
उपनन्दादयश् चैते पितुः पञ्चैव मूर्तयः ।
यथानन्दमयस्यामी वेदान्तेषु प्रियादयः

1.3.15

उत्प्रेक्षन्ते च-
उपनन्दोऽ भिनन्दश् च नन्दः सन्नन्द-नन्दनौ ।
इत्य् आख्याः कुर्वता पित्रा नन्देर् अर्थः सुदण्डितः

1.3.16

[25] तद् एवं सतीषु सर्व-सम्पत्तिषु तस्य पुत्र-सम्पत्तिस् तु परम-रमणीयताम् अवाप । नेपथ्य-सम्पत्तिषु वासः-सम्पत्तिर् इव । तत्रापि मध्यम-सुत-सम्पत्तिः सुतराम् ऐश्वर्याणाम् अविच्छिन्न-सम्पत्ति-पङ्क्तिम् अनु मध्यम-सम्पत्तिर् इव ।
[26] अत्र केचिद् अर्जुनम् उपमानीकुर्वन्ति । वयं तु तस्य मध्य-सम्बध्यमानस्य सर्वानन्दनस्य श्रीमत्-पर्जन्य-नन्दनस्य बालक-पर्यायेण तेन पाण्डु-तनयेनोपमानं न मन्यामहे । अपि च परमोदारेषु च सहोदरेषु तेषु न केवलं जन्मना तावन् मध्य-वर्तितया सोऽ यं वर्तते । अपि तु स्नेह-सम्पदाम् आस्पदतयापि न च केवलं तेषाम् किन्तु सर्वेषाम् अपि । येन तस्मिन् पित्रोर् अप्य् अधिका स्नेहर्द्धिकाया वर्धिष्णुता भ्रातॄनाम् अपि सदा सुख-संवर्धनी बभूव, न जातु स्पर्धनी । न चैतावान् उद्भूतः सुगुणस् तस्मिन्न् उद्भूतः ।
[27] भवति हि स्वयं भगवति तस्य भक्ति-विशेष-व्यक्तिः-यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः इति हि भगवती श्री-भागवत-गीर्-देवी ।
[28] तद् एतन् मधुकण्ठतः श्रुत्वा श्रीमद्-उपनन्दः श्रीमद्-अभिनन्दं नीचैर् उवाच-विज्ञाता कथां प्रकुर्वाणस्य किम् अस्य पर-हृदय-विज्ञता ?
[29] अथाभिनन्दस् तद् अवधार्य साश्चर्यं मधुकण्ठम् उवाच-ततस् ततः ?
[30] मधुकण्ठ उवाच-तद् एवं सति नाम्ना सुमुखेन केनचन गोपानां मुखेन तस्मै परम-धन्या कन्या दत्ता । या खलु स्व-गुण-वशीकृत-स्वजना यशांसि ददाति शृण्वन्त्यः, किम् उत पश्यद्भ्यः, किम् उततराम् भक्तिमद्भ्यः । ततश् च तयोः साम्प्रतम् एव दाम्पत्येन सर्वेषाम् अपि सुख-सम्पत्तिर् अजायत, किम् उत मातर-पितरादीनाम् ।
[31] तद् एवम् आनन्दित-सर्व-जन्यु-विगत-मन्युः पर्जन्यः सर्वतो धन्यः स्वयम् अपि भूयः सुखम् अनुभूय चाभ्यागारिकतायाम् अभ्यागतं-मन्यः श्री-गोविन्द-पदारविन्द-भजन-मात्रान्वितां देह-यात्राम् अभीष्टां मन्यमानः सर्व-ज्यायसे ज्यायसे स्वक-कुल-तिलकतां दातुं तिलकं दातुम् इष्टवान् । श्री-वसुदेवादि-नरदेव-गर्गादि-भूदेव-कृत-प्रभां सभां कृत्वा दत्तवांश् च ।
[32] स पुनः पितुर् आज्ञाम् अङ्गीकृत्य कृत-कृत्यस् तस्याम् एव श्री-वसुदेवादि-संवलित-महानुभावानां सभायाम् आहूय सभावम् उत्सङ्ग-सङ्गिनं विधाय मध्यमम् एव निजानुजं तेन तिलकेन गोकुल-राजतया सभाजयामास ।
[33] अथ तत्रानुजे सङ्कुचति सर्वत्र च जने विस्मयं सचमाने पितरि च रोचमान-लोचने स चोवाच-मयेदं नाविचारम् आचरितम्, यतः सर्व एव स्नेह-परम्परायाः पराधीनः । सा च साद्गुण्यस्य, तच् च सर्व-समञ्जसतायाः । सा चात्र यथा तथा न मद्-विधे । सैव च खलु सर्व-वशीकारितायां स्वैरिताम् अर्हति ।
[34] किं च, सर्वान्तर्याम्य् अप्य् एनम् एवोररीचरीकरीति । दृश्यताम् अस्यां भासमानायां सभायां सर्वेषां नेत्र-पटली-षट्पदवल्-लीलायमाना केवलम् अस्य मुखं कमलम् इव संवलते । तथा प्रथमत एव तद्-आनुकूल्यम् अत्राकल्प्यते । परिकल्प्यताम् अपीदं मम नाम्नैव । तस्माद् अस्माकम् अयम् एव राजेति ।
अथाभवत् कुसुमक-वृष्टिभिः समं
स्फुट-ध्वनिर् दिवम् अनु साधु साध्व् इति ।
सभासदाम् इह च विकासि-दृष्टिभिर्
यथास्फुरज् जय-जय-शब्द-मङ्गलम्

1.3.17

[35] अथ स्निग्धकण्ठ उवाच-मधुकण्ठ-कृत-जगद्-उत्कण्ठ-श्रीमन्-मधुकण्ठ ! श्रीमद्-उपनन्द-नन्दनयोस् त्रय एव मध्यमा इति कोऽ यं मध्यमः । कीदृशी वा तस्य समञ्जसतेति सोदाहरणम् उच्यताम् ।
[36] मधुकण्ठ उवाच-एकं तावद् भवन्-मनः-प्रह्लन्नता-समुचितं प्रवह्लिका-पद्यम् इदम् अनवद्यं पूर्यताम् ।
[37] स्निग्धकण्ठ उवाच-कामम् ।
[38] मधुकण्ठ उवाच-
आकृष्य मत्-पुत्रम् अनेन पुत्री-
कृतेन भूतिं भजते स एषः ।
इति स्वयं वेत्ति न तेन मैत्रीं
भिनत्ति कोऽ यं वदने वदेति

1.3.18

[39] स्निग्धकण्ठः सोत्कण्ठतया शीघ्रम् एव सानन्दम् उवाच-नन्द एव इति ।
[40] मधुकण्ठ उवाच-भवता ज्ञात्म् एवेदम् इति । तद् एतच् छ्रूयताम्-
स्वेनाल्पेन गुणेन वाञ्छति निजे पूजा-सुखे भूयसी
लोको यस् तु महीयसापि खलु तेनैवान्यदीये सदा ।
सोऽ यं श्री-व्रजराज एव यद् असौ शूराङ्गजं धिन्वितुं
तत्-तद्-धानिम् असोढ सख्यम् अभिन्नाल्पं च तस्यान्तरम्

1.3.19

[41] ततश् च तद् एतन् मधुकण्ठ-सूक्त-सुधाकरम् आसाद्य रत्नाकर इवोच्छलद्-अङ्ग-तरङ्गस् तद्-अन्तर्-बहिरङ्ग-सभ्य-सङ्घस् तद्-उपरि-हृदयङ्गम-रत्नावलिं विकीर्णवान् हृदयावलिं वा वितीर्णवान् इति स्वयम् अपि न भिदां विदाम्बभूव ।
[42] अथ स्निग्धकण्ठ उवाच-ततस् ततः ?
[43] मधुकण्ठ उवाच-ततः श्रीमान् असौ धन्यः पर्जन्यः श्री-गोविन्द-पदारविन्द-भजनाय वृन्दावनं प्रविशन् समासत एव समस्त-शास्त्र-सारं पृच्छतः पुत्रान् उपदिदेश, यथा-
किं भय-मूलम् अदृष्टं किं शरणं श्री-हरेर् भक्तः ।
किं प्रार्थ्यं तद्-भक्तिः किं सौख्यं तत्-पर-प्रेम

1.3.20

इति ।
[44] तद् एवं सह-भार्ये वृन्दावनं गते तस्मिन्न् आर्ये श्रीमान् उपनन्दः स्व-नामानुरूपं श्रीमन्-नन्द-व्रज-महेन्द्र-सभायाम् अयन्त्रित-मन्त्रितया स्थितवान् । विचित्रवीर्य-सभायां भीष्म इव । सोऽ पि मन्त्र-मिषेण विशेषेण तद्-आज्ञाम् एव गृह्णन् सर्वं सर्व-कालं सुराजा प्रजा-कुलं पालयति स्म ।
[45] तत्र चेयं चर्याचरिताश्चर्या बभूव, यथा-
मर्यादां पितुर् अयम् आवद् एव सर्वां
धर्मादिर् न विपदम् एति यत्र चार्थः ।
सम्पत्तिर् न पुनर् अभूद् अमुष्य वश्या
येनासौ प्रसभम् अवाप वृद्धिम् एव

1.3.21

[46] तद् एवं सर्व-समृद्धि-वृद्धि-सिद्धिम् आयाते राजन्वति व्रज-जन-जाते कलिकायमाना काचिद् उत्कलिका क्रमेण विकासम् अयामास । सर्वेषां प्राण-तुल्यस्य निज-कुल्यस्य राज्ञस् तस्य सन्ततिर् न जायत इति । कालात्यये चाशा-व्यत्ययात् सर्वं जनम् अतीव कृच्छ्रम् आनर्च्छ । अग्रजादींस् तु सुतराम् । श्रीमद्-व्रजपति-जम्पती तु प्रजाशां पूर्वत एव सन्दिग्धि-दिग्धाम् अपि कुर्वाते स्म, उत्तरतस् तु विशेषतः ।
[47] स्निग्धकण्ठ उवाच-कथं तत्-प्रेष्ठाः पुत्रेष्ट्यादिकं नानुष्ठापितवन्तः ? कथं वा विदग्धयोर् अपि तयोः सन्दिग्धता जाता । तथापि परमेश-परयोः कथन्तरां वा तद्-आशा ? उत्तरतस् तु विशेषतः कथन्तमाम् ?
[48] मधुकण्ठ उवाच-अनुष्ठापितम् अपि तत् तन् न प्रतिष्ठाम् आससाद ।
[49] स्निग्धकण्ठ उवाच-कथं तत् ? कथं वान्यद् अन्यत् ?
[50] मधुकण्ठ उवाच-तथा हि, तत् तद् अशेष-सम्पत्त्योर् अपि दम्पत्यो रहसि संवादोऽ यं बभूव । यथा श्रीमान् पतिर् उवाच-कुटुम्बिनि! किम् अवलम्बी मम सनानाय वितानादि वितानयति शोक-वशोऽ यं लोकः ? यतो मम सङ्कल्प-कल्पना-समये यादृशाय सर्वतो विचित्राय पुत्राय चित्तं कल्पते । स तु परम एवापूर्वः कथम् अपूर्व-विषयतां प्राप्नोतु ? तत पुनर् अन्यत्र वचन-गोचरं रचयितुं सङ्कुचत्य् एव चेतो-वृत्तिः । यतो यत् खलु मयि दया-परायणस्य श्रुति-पारायण-फलस्य श्री-नारायणस्य रूपं ततोऽ पि मधुरतरं कतरद् वा भवेत्, परिजात-कुसुमाद् आकाश-कुसुमम् इव ।
[51] अथ स्निग्धकण्ठश् चिन्तयामास-अस्य ततोऽ पि मधुरतरत्वं नायुक्तम् । यत एतद् उद्दिश्य श्री-भागवत-पद्यम्-
यन् मर्त्य-लीलौपयिकं स्व-योग-
माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषण-भूषणाङ्गम् ॥[भ्प् 3.2.12] इति ।
[52] अथ स्फुटं पप्रच्छ-ततस् ततः ?
[53] मधुकण्ठ उवाच-अथ श्रीमती तत्-पत्नी चोवाच-कीदृशं रूपं तद् इति कथ्यताम् ।
[54] स उवाच-
श्यामश् चञ्चल-चारु-दीर्घ-नयनो बालस् तवाङ्क-स्थले
दुग्धोद्गारि-पयोधरे स्फुटम् असौ क्रीडन् मयालोक्यते ।
स्वप्नस् तत् किम् उ जागरः किम् अथवेत्य् एतन् न निश्चीयते
सत्यं ब्रूहि सधर्मिणि स्फुरति किं सोऽ यं तवाप्य् अन्तरे

1.3.22

[55] सोवाच-श्रीमन् ! ममापीयम् एव मनो-वृत्तिर् मति-वृत्तिम् अतिवर्तमाना वर्तते । केवल-विलज्जया तज् जातु भवन्तं न निवेदयामि । तस्माद् अस्माद् असम्भव-मनोरथान् निवृत्ति-शास्त्र-विचारम् उद्यच्छन्तौ मन एव संयच्छेवहि ।
[56] स उवाच-यद्यपि मयाप्य् एतद् एव मध्ये मध्ये स्फुटम् अध्यवसीयते, तथाप्य् अस्तोको वशित-विश्वोद्रेको महान् सहायः श्रीमन्-नारायण-देव एव शरणम् इति चित्त-वृत्तिः परिवर्तते-योऽ स्माकम् अदृष्टाश्रुतम् इदं दृष्टम् इव करोति । स सर्वं कृत-पूर्वी तद् अपि कुर्वीत ।
[57] सोवाच-देव ! तस्य देवस्य काम् अपि सेवायोग्याम् एवात्र योग्याम् उपलभामहे ।
[58] स उवाच-बाढम् । किन्तु कीदृशी सा ?
[59] सोवाच-द्वादशी-व्रत-रूपा ।
[60] स सानन्दम् उवाच-सङ्गतं ब्रवीषि । ममाप्य् उत्कण्ठाङ्कुरितं स्फुरितम् एतद् एवासीत् । तस्माद् अद्यारभ्य समारभ्यताम् एष व्रत इति ।
[61] तद् एवं सम्प्रवदमानयोर् उद्भवन् देव-दुन्दुभि-नादः सर्वम् अतिचक्राम् ।
[62] अथ तया वृत्त-स्व-चित्त-वृत्ति-प्रथया तत्-कथया श्लथितवान्तः श्री-व्रज-धरित्री-कान्तः कान्त-निजालङ्कार-वारं सूत-कुमाराय विततार । श्रीमती व्रजपति-पत्नी च महा-नीलमणि-मय-नायकं हारं विहापयामास ।
[63] अथ सोत्कण्ठं स्निग्धकण्ठ उवाच-तर्हि किं जातम् ?
[64] मधुकण्ठ उवाच-तेन व्रतेन पूर्णे वर्षे बृंहिते च तर्षे युगपद् एव देव-देवः स्वप्ने तयोर् आविर्बभूव, चोवाच च-अहो ! मय्य् अतिसक्तौ भक्तौ कथं निर्विद्य खिद्याथे ? योऽ साव् अतसी-कुसुम-सुषमः सुकुमारः कुमारः शश्वद् एवानुभवतोर् भवतोः कुमारतया स्फुरति । स तु सदा भवतोर् एवानुगतः प्रतिकल्पं स्वभक्ति-प्रवर्तनाय दिवि मत्-प्रवर्तित-द्रोण-धरा-रूप-कलांश-कलावतोः तद् भूरि भाग्यं इत्य् आदि-रीत्या ब्रह्माद्य्-अलभ्य-साक्षात्-तत्-फल-साक्षात्काराय स्वयम् एव पृथिव्यां भवतोर् भवतोर् एव भवं लभत एव æ अचिराद् एव च रुचिरा रुचिरेषा युवयोः सफलतां वलिता ।
[65] तद् एवं श्राविताभिहिते तिरोहिते च परमहिते भगवति लब्ध-जागराव् उपलब्धामृत-सागराव् इव च मिथस् तद् एव सङ्कथयन्तौ प्रथयन्तौ च परम-चमत्कार-निवहं वहतः स्म ।
[66] अथ स्निग्धकण्ठः स्वगतं चिन्तयामास-तद् एवं जातान्य् एव मम प्रश्नानाम् उत्ताराणि । तत्र च भवतोर् एवेति युक्तम् एवोक्तं श्री-भगवता--प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [10.8.14] इति वदतोऽ प्य् अव्यभिचार-वचः-प्रचार-सर्गस्य मुनेः श्री-गर्गस्य प्रायः सोऽ यम् अभिप्रायः ।
[67] श्री-भगवता सह सम्बन्धः किल केवल-प्रेम-निबन्धनः-भक्त्याहम् एकया ग्राह्यः [भ्प् 11.14.11] इत्य् आदेः । अतस् तद्-विशेषस्य तद्-विशेष एव हेतुः-ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता 4.11] इत्य् आदेः । ततस् तस्मिन् वत्सतां सतां वात्सल्याभिध एव प्रेमा प्रमापयति ।
[68] तत्र श्री-वसुदेवस्य तद्-ऐश्वर्यालोचनेन वात्सल्यस्य तारल्यं सारल्यं चासादितम् । श्री-व्रजराजस्य पुनस् तद्-वात्सल्यं शश्वद् उद्बुद्धं शुद्धम् एव च प्रसिद्धम् । पितृभ्यां पुत्रतया तद्-धारणे कारणं च मुनिभिर् मन एव मन्यते । आविवेशांश-भागेन मन आनकदुन्दुभेः [भ्प् 10.2.26] इत्य् आदेः । दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः [भ्प् 10.2.18] इत्य् आदेश् च । श्री-व्रज-राजाभ्याम् अपि मनसा धारणं तस्य कार्यान्यथानुपपत्ति-सिद्धेन भक्ति-स्वाभाव्येनैव सम्भाव्यते । तत्र च सति साम्प्रतं तु विशेषत एव साम्प्रतं परावस्थाम् अनु कृतासक्तौ हि भक्तौ तद्-उदयः स्यात् । तस्मात् तवैवात्मजस् तस्य वसुदेवस्य तु क्वचित् कार्ये निमित्ते जातः प्रादुर्भूतः इति ।
[69] अथ प्रकटम् उवाच-ततस् ततः ?
[70] मधुकण्ठ उवाच-तद् एवं परमार्तेर् उपकण्ठतां प्राप्तायाम् उत्कण्ठायाम् एकदा सर्वेऽ नर्वाचीना व्रज-वासिनः सभावाः सभायां मिलिताः । मिलित्वा च तद् एव सोत्कण्ठं सुष्ठु प्रतुष्टुवुः ।
[71] तदा च तत्रैका तापसी केनचन स्नातकेन समम् आयाता । तां च महा-प्रभाव-लक्षणां लक्षयित्वा सर्वे समुत्थायातिथ्यम् आवितथ्येन विधाय विज्ञापयामासुः-साक्षाद् भगवतो योगमायेव का त्वम् असि ? श्रीमन्-नारदस्याभिनव-तनुर् इवायं वा कः ?
[72] सा च सहासम् आह स्म-पौर्णमासी-नाम्नी कात्यायनी च कुमार-श्रमणा च पारिकाङ्क्षिणी चेक्षणिका चास्मि । अयं च मधुमङ्गल-नामा स्नातकः श्री-नारद-प्रकृतिः । आवां च विद्या-विशेषेणैतद्-वयस्काव् एव सदा विद्यावहे ।
[73] ते ऊचुः-एतावती कृपा कृपणेषु कथम् अस्मासु कृता ?
[74] सोवाच-भवतां किम् अपि वैभवं सम्भाव्य ।
[75] सर्वे ऊचुः-किं तत् ?
[76] सोवाच-भवतां प्राण-कन्दस्य श्रीमन्-नन्दस्य जगदानन्दः स खलु नन्दनः सम्भवितेति ।
[77] सर्वे स-बाष्प-पुलक-कुलम् ऊचुः-बृहद्-वनम् अस्माकम् इद बृहत्-तीर्थं भवति । तस्माद् अस्मभ्यं दत्त-विश्रान्तिके कृष्णान्तिके स्फुटम् उटजं तव घटयामः ।
[78] सोवाच-उपश्रुतिर् एषा श्रुति-वेषा नव्यापि न व्यभिचरिता । यतः कृष्णाया इति विवक्षितम् अपि कृष्णस्येति लक्षितं करोति । कृष्ण-नामा हि भवितासौ । महा-प्रभाववति यस्मिन् जातवति निर्दानवता पृथिव्यां भविष्यति । तदीय-गुणे तु सदा नवता, सगुणता विद्यादि-प्रबन्धे तत्-सम्बन्धे तु निर्गुणता । सकिञ्चनता विषय-सम्पत्तौ तद्-भक्तौ तु निष्किञ्चनता इत्य् आदिकं विरुद्धायमानम् अपि सर्वैर् अनुरुद्धं करिष्यति । तस्माद् अस्माकम् अत्र स्थातुम् आग्रह एव भवताम् अनुग्रहाय सम्पन्नः ।
[79] अथ तां सर्वे सानन्दं वन्दमानास् तया समम् इन्दीवर-रुचि-निन्दीहित-कालिन्दीं विन्दमानाः पर्ण-मन्दिरं पूर्णयन्तस् तत्र वासयामासुः ।
[80] तस्मिन्न् एव दिवसेऽ पगत-दोषे प्रदोषे समुद्भट-कंस-रोषेण जात-चित्त-शोषेण कृत-परिदेवेन वसुदेवेन प्रहिता व्रज-हिता बडवारोहिणी रोहिणी गुप्तम् आजगाम । यस्याम् आगतायां परम-पतिव्रतायां सर्व एव व्रज-राज-राज-समाजः शुभ-शकुन-सङ्कुल-शकुनादि-समजेन समम् उल्ललास । तत्र चानन्द-मोहिन्यौ श्री-यशोदा-रोहिण्यौ यमुना-गङ्गे इव सङ्गत-सङ्गे परस्परं परेभ्यश् च सुख-समूहम् ऊहतुः ।
[81] व्रज-राज-पत्नी च तस्या ज्यैष्ठम् अवष्टभ्य मास-त्रय-जातम् अन्तर्वत्नीत्वं पर्यालोच्य स्वाभेद-वेदनेनैव शात-जातं प्राप ।
[82] अथ माघ-मासि चासित-प्रतिपदि कृत-सर्व-सुख-प्रसर-जन्यां रजन्यां सा व्रज-राजं सेव्यमाना तन्द्रापरतन्त्रायमाणा स्वप्न-तुल्यता-संचितं किञ्चिद् अञ्चितं ददर्श ।

[83] यथा स एव बालः सर्वतस् तद्-आवरण-कारिकया कयाचिच् दिव्य-कुमारिकयात्मानं पिधाय व्रज-राज-हृदयान् निज-हृदयं प्रविश्य दृश्यवद् एव स्थित इति । ततश् च सोऽ यं हृदय-कमल-मध्य्म् अध्यासामास । सेयं तु जठर-मध्यम् इति । व्रजराजश् च निरन्तर-स्वान्तर-तत्-प्रवेशावेशं दुर्निदेशं चिरम् अनुभूय दूयमानतां विधूय तथैवानुभूतवान् ।
[84] अथ स्निग्धकण्ठः स्वान्ते चिन्तयति स्म-सत्यम् एतद् अत एव सद्-वाणी-गुणिभिर् मुहुर् अनयोर् आत्मज इति मतम् । मया च सुविचारतस् तद् एव पूर्वं निश्चितम् आचरितम् इति । उवाच च-ततस् ततः ?
[85] मधुकण्ठ उवाच - अथ तद् आरभ्य गर्भ-लक्षणम् उपलभ्य सम्भूत-भव्यानां सभ्याङ्गना-गणानां गोकुल-कुल-पात्री सुख-दात्री बभूव । यथा -
मुखम् आपाण्डु कुचाग्रं स्फीतं जठरं दरोत्तुङ्गम् ।
अभजत कर्णेजपतां गर्भे वृत्ते यशोदायाः

1.3.23

यथा च -
व्रज-राज्ञ्यां स्फुरितात्मा कृष्णः स्फुरति स्म लोकेऽ पि ।
दीपः स्फटिक-घटी-भाग् अन्तर् बहिर् अपि विभाति तत्-तुल्यः

1.3.24

किन्तु -
जित-रसना रस-धैर्या गाम्भीर्यादि-प्रवीणापि ।
स्पृहितं किञ्चित् किञ्चिद् व्रज-नृप-गृहिणी तदा चक्रे

1.3.25

यथा -
ऐहत दोहदम् एषा कृष्णावेशाविशत् तृष्णा ।
तुलसी-संस्कृत-घृत-युक् स-सितं सित-कान्ति-गन्धि परमान्नम्

1.3.26

[86] अथ योगमाया रोहिण्याः साप्तमासिकं गर्भं स्रस्तं विधाय देवक्यास् तद्-विधं तं तस्यां नियोजयामास । ततश् च लब्ध-सर्व-समय-सम्पद्-दशे चतुर्दशे मासि श्रावणतः प्राक् श्रवण-र्क्षे समस्त-सुख-रोहिणी रोहिणी गुण-गणनया सुषमं सित-सुषमं सुतं सुस्राव । सान्द्र-शुभ्रता-विभ्राजमानतया पौर्णमासी चन्द्रमसम् इव, दर्शित-विक्रम-क्रमतया सिंह-वधूः शावकम् इव, निर्मल-परिमल-धाराधारतया नव-कमलिनी धवल-कमलम् इव, सर्व-श्रवण-सङ्घ-मङ्गलतया निरवद्य-विद्यता यशः-स्तोमम् इव च ।
किं च -
शुभ्रांशु-वक्त्रं तडिद्-आलि-लोचनं
नवाब्द-केशं शरद्-अभ्र-विग्रहम् ।
भानु-प्रभावं तम् असूत रोहिणी
तत् तच् च युक्तं स हि दिव्य-बालकः

1.3.27

[87] स एष च असित-वर्ष्मा सित-वर्ष्मा सद्-अनुजः सूदित-दनुजः, पालित-धेनुको दलित-धेनुकः, प्रलम्ब-बाहुः प्रलम्ब-घातयिता, स्वयं राम-नामा राम-रमित-द्विविद-विदारयिता च भविता इति ज्योतिर्विद्भिर् उद्भावितम् ।
[88] अस्य जातकर्मादिकं च मर्मगैर् एव शर्मान्तनामभिर् गुप्तम् एव पर्याप्तम् अकारि आनक-दुन्दुभि-मन्त्रणा-परतन्त्रतया । किन्तु तत्रैकं दुःखम् इवासित् । [89] यतः स तु जन्मत एवानुज-जन्म यावत् जड एवादृश्यत । तत्र प्रतीकारश् चैक एवासीत् यथान्तर्धृत-निजावरजं व्रजेश्वर्य्-अङ्कम् एव केवलं वलमानः समुल्लसितवल् लक्ष्यते ।
[90] तद् एवं दिन-कतिपये लब्ध-व्यत्यये गर्भ-सन्दर्भात् स्पष्टम् अष्ट-मासि तद्-अवरजन्म-जन्मनः समारम्भः सम्भवति स्म । यथा चाधुनापि वर्णयन्ति --
अष्टाविंश-चतुर्-युगे कलि-शिरः संमर्द्य वैवस्वते
भाद्रान्तर्-बहुलाष्टमीम् अनु विधोः पुत्रे विधोर् उद्गमे ।
योगे हर्षण-नाम्नि शुद्ध-विधिभे पुर्णः परः श्री-विधुर्
नन्दन् नन्द-वधू-मुदे स्वयम् उदैद् अह्नाय धुन्वंस् तमः

1.3.28

यथा च -
तदा युगादि देवास् ते स्व-स्व-स्मपद्-उपायनम् ।
आदाय कृष्ण-जन्मर्क्ष-निशाम् आशु सिषेविरे

1.3.29

यथा हि -
विबभूव विना सत्यं ध्यानं त्रेतां विना मखः ।
विना द्वापरम् अभ्यर्चा हरेर् नाम कलिं विना ॥
विना मधुं सप्तलादि विनोष्णं पाकिमाम्रता ।
विना शरद्-अम्बु-श्रीः शालिस् तस्याः परं विना ॥
शिशिरेण विना माघ्यं विनाह्नाम्बुज-विस्तृतिः ।
विना ज्योतिष-शास्त्रेण ग्रहाणां शुभदा स्थितिः ॥
विना गुरु-प्रभावेण सर्वत्र स्फुरणं हरेः ।
विना सूति-प्रतीत्या च प्रसूतोऽ सौ यशोदया

1.3.30

[91] तद् इदम् अग्रे व्यक्तीकरिष्यते । किं च -
मध्ये तारावार-सारं नभस् तत्-
प्रान्ते सिन्धूर्ध्वं ध्वनन्-मेघ-बन्धु ।
इत्थं वर्षाधामतर्षा शरच्-छ्रीस्
तस्यां तिथ्यां तथ्यम् आतिथ्यम् आप

1.3.31

किं च -
जातिभिः सह माधव्यः केतक्यः केतकैः समम् ।
कुमूद्यान्य् अम्बुजैः सार्धं स्फुटन्ति स्मेति दिग् यदा

1.3.32

तदा तद् अपि नाश्चर्यम् आचार्यैः परिचीयते ।
सर्वाश्चर्य-निधिः सोऽ पि जन्म-चर्यां यतो गतः

1.3.33

[92] तथा हि एतद्-उत्तरं भावि-तद्-विलोकानां लोकानां भावितानम् -
[93] मुखम् अस्य लसित-स्मितासित-कमलानाम् अधिपम् इव विलोक्यते,
नेत्र-युगलं सूक्ष्म-भ्रमर-चित्र-कैरवान्तः-पत्राणाम्,
घ्राणं नील-नीरद-च्छवि-लध-कील-तिल-प्रसूनानाम्,
ओष्ठाधरं सिन्दूर-गिरिजनि-जवा-बद्न्हूक-बिम्ब-गोष्ठीनाम्,
कर्ण-द्वन्द्वम् अञ्जन-भूमिज-श्यामलता-पोतानाम्,
कर-प्रान्तता-कान्त-भुज-युगलं स-नव-पल्लव-नव-ताल-शाखानाम्,
श्रीवत्स-सिन्धु-वत्साख्य-लेखा-सहित-वत्सं धृत-दक्षिणावर्त-द्युति-विशेष-कृत-स्थिर-विद्युद्-आश्लेष-मेघ-खण्डानाम् इति ।
[94] किं च मुखेन महापद्मं विजेता,
नयनाभ्यां पद्मम्,
नासिकया मकरम्,
स्मितेन कुन्दम्,
कण्ठेन शङ्खम्,
चरणयोः पृष्टाभ्यां कच्छपम्,
रुचा नीलम्,
सर्वैर् एव च सर्वेषां खर्वम् ।
किं बहुना, स्वेन मुकुन्दम् अपीति युगपद् अत्र तत्-तद्-अवसर-प्रसवादीनां तथा दुर्लभ-सन्निधीनां निधीनाम् अपि सन्निपतनं नासम्भाव्यम् ।
[95] अथ तस्य जन्मनि कोऽ पि विशेषः, यथा -
तदा तत्र माया मिलद्-बाल्य-काया
तदीयानुकूल्यं कृपा-मात्र-मूल्यम् ।
सदा कुर्वती तं समस्तान् अतीतं
विधायाग्रजातं स्वयं प्राप जातम्

1.3.34

[96] अथ स्निग्धकण्ठेन भावितं स-प्रमाणः खल्व् इदम् - अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा [भ्प् 10.4.9] इति श्री-भागवताद्, तच् च नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः [भ्प् 10.5.1] इत्य् आदिष्व् आत्मज-पदैः स्थापना-व्यपदेशतः सदेश-रूपम् एव निरूप्यते । किन्तु तद् इदम् अप्रच्छन्नं विविच्य पृच्छामः यथेह सन्देहः सर्वेषां शाम्यति । [97] स्पष्टम् अप्य् आचष्ट - अहो आर्य तर्हि कथं वसुदेव-देवकी-पुत्रतया सोऽ यम् अवधार्यते ?
[98] तद् ईदृग्-वचसि सति स्निग्धकण्ठे वचसि किञ्चित्-कुण्ठेन मधुकण्ठेन मनसि भावितम् - श्रीमता देवर्षिणेदम् आवां प्रत्य् अतिहर्षेणादिष्टं - यदि कदाचिच् छ्रीमति महा-प्रेमवति व्रजे कृत-व्रजनयोः कथा-योगो भवतोः सम्भाव्यते, तदा श्री-कृष्ण-देवस्य सर्वतो वर्ष्यम् ऐश्वर्यं गोपनीयम् इत्य् अतो मुनिवर्ग-प्रसिद्ध-गर्ग-सिद्धान्तम् एवालम्ब्य संवदिष्यावहे । स चामीभिः श्रुत एवेति नाश्चर्याय पर्यवसिष्यतीति ।
[99] प्रकटं चोवाच - अत्र खल्व् इदम् अस्य श्री-व्रज-राज-तनूजस्य रहस्यम् उद्भावयतो मम समतिक्रमः स्वयम् अमुनैव बाढं सोढव्यः । तथा हि अस्मिन् सर्वतो लब्धातिरेकका संसिद्धिः खल्व् एका वर्तते । यद् अतिक्रान्त-सर्वेह-स्नेह-मय-हृदय एव सदा वर्तमानः स्निघ्दता-दिग्ध-जनानां भाव-मुद्रया परोक्षं कृतयापि स्वहृदि प्रतिबिम्बततया मुद्रितो भवति । अस्य स्वरूपेणाविर्भावश् च स्नेह-मय-स्फूर्ति-पूर्ति-वशीभावत एव सर्वथा, न त्व् अन्यथा । पुत्रतयाविर्भावे च बीजं पितृ-भाव-मय-स्नेह एव नान्येषाम् इवान्यत् । जाते च कुत्रचित् पुत्रतयाविर्भावे तत्-तत्-सम्बन्ध-मय-स्नेह-कृत-चय-स्फूर्तिर् एव तथा तथा भावेनाविर्भावे निबन्धनं भवति ।
[100] तद् एवं स्थिते सर्वतः समुद्बुद्ध-शुद्ध-पित्रादि-भाव-विचित्राणां व्रज-नृपति-प्रभृतीनां भृति-भुक्-पर्यन्तानां व्रज-जनानां येषाम् अधिमध्यं प्रति-द्विपरार्धं प्रतिकल्पम् आविर्भवति, वृद्धि-जीविकानाम् इव तेषाम् एव प्रेम-सञ्चय-पर्युदञ्चन-प्रपञ्चम् अञ्चंस् तद्-वृद्धेर् अपरिच्छेद्यताबुद्ध्या प्रतिदातुम् अध्यवसायं मुञ्चन् सदा पुत्रादितया स एष विराजते, नान्ये तु तत्र किल तिलम् अप्य् अवकाश-कालं लभन्ते ।
[101] एतद् एवोक्तं ब्रह्मणा एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नः [भ्प् 10.14.35] इत्य् आदिना । एतद् एव च श्री-नारायण-देवेन समादिष्टं - योऽ साव् अतसी-कुसुम-सुषमः सुकुमारः कुमारः इत्य् आदिना । ततश् च -
तस्मान् नन्दात्मजो ऽयं ते नारायण-समो गुणैः ।
श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥[भ्प् 10.8.19]
इति गर्ग-वचनानुसारेणेदम् उत्प्रेक्ष्यामहे - एतद्-रूप-स्वपुत्र-मात्र-पर्याप्त-सर्व-स्वार्थेन श्रीमद्-व्रज-महेन्द्रेण महीयमानस्य यस्य महाभगवतो या योगमायाख्या दुर्घट-घञनी स्वरूप-शक्तिः शास्त्रेण वक्तीक्रियते । तेन किल दत्ता सा त्वत्-पुत्रे श्री-कृष्ण एव पर्यवस्यति स्म । सा चेह स्वजन-स्नेह-निक्षिप्त-चित्तस्य यद्यप्य् अस्य तत्-पुत्रस्य प्रायोऽ वधानं न प्राप्नोति । तथापि तस्माद् अन्यस्माच् च परोक्षम् अनुक्षणम् अनुगतिं लीला-सहायकं च प्रपञ्चति । यथा च योगमाया तथा तद्-अनुगता मायादयोऽ पीति । यद्यप्य् एवं तथापि त्वत्-प्रभु-प्रत्त-शक्तिम् एनं त्वम् एव निज-श्री-प्रभृति-शक्तिभिर् गोपायस्वेति गर्गो व्यञ्जितवान् । तद् एवं सति बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [भ्प् 10.8.15] इत्य् अपि तद्-उक्तिर् उद्रिक्तीस्यात् ।यतः स्व-स्निग्ध-जन-भजन-रसावेशितावेशतया
सदा विराजमानस्य श्रीमद्-व्रज-राजात्मजस्य खल्व् अस्य स्व-स्निग्ध-जन-भाव-स्वभाव-विशेष-विनोदम् अनुमोदमानस्य तद्-भाव-रूपानुरूपं रूपं यदृच्छावशाद् एकधानेकधा च समीपतोर्ऽसमीपतोऽ प्य् आविर्भवति तिरोभवति च ।
[102] ततः श्री-वसुदेव-देवक्योर् अन्तर् यच् चतुर्भुजम् अस्य रूपं स्फुरति, तद् एव हि बहिर् आविर्भवति स्म । फलेन फल-कारणम् अनुमीयते इति न्यायेन । तेनैव च न्यायेन श्री-व्रजेश्वर्योस् तु परं द्विभुज-मूर्तितया स्फूर्तिर् आसीत् ।
ततः प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भ्प् 10.8.14] इति धृत-तपो-वर्गस्य गर्गस्य वचनम् अनुसृत्य परामृश्यते । यदा नृशंस-कंस-भिया स्वाविर्भूत-चतुर्भुज-रूपाच्छादन-पूर्वक-द्विभुज-रूपाविर्भावनाय श्री-देवकीच्छा जाता, तदा तस्य यद् अपूर्वं द्विभुज-रूपं पूर्वं मायया सह श्री-यशोदायाः स्वान्तरम् आयातं, तद् एव तत्र सन्निधानम् अवाप्य चतुर्भुजं रूपम् अन्तर्भाव्य स्वयम् आविर्बभूव । यत्र साकारतया मातृ-गर्भ-स्थितापि माया निराकारतया तूर्ध्व-गत्या तन्वा तद्-वाहनताम् आगता । गन्दवाह-श्रेणी नील-कमल-दलम् इव तत्र सर्वालक्षिततया तत् प्रापितवती । या खलु पूर्वं तद्-आकर्षेण धर्षेण परं मातरम् अपि मोहेन म्लापितवती ।
[103] अथ पुनस् तेन गर्भस्थेनाकारेण मातुः प्रसूति-भ्रमं च सम्प्रथय्य बहिर् आत्मनं संवलय्य प्रसूति-शय्याम् एवाधिशय्य स्थितवती । या खलु श्री-देवकीतः श्री-रोहिण्यां सङ्कर्षण-सङ्क्रमणेऽ पि तथा प्रक्रमते स्म इति ।
[104] अत्र च स्निग्धकण्ठेनान्तश् चिन्तितम् - सत्यम् एवाह स्म नूनं अथाहम् अंशभागेन [भ्प् 10.29] इति हि मायां प्रति श्री-भगवद्-वाक्यम् आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति [भ्प् 10.1.25] इति च देवान् प्रति ब्रह्म-वचनम् । अत्र अंशभागेन चतुर्भुज-रूपेणाकार-भेदेनेति भगवद्-अभिप्रायः । कार्यार्थे तत्-तन्-मोहनाय अंशेन सम्भविष्यति श्री-कृष्णस्य द्विभुज-रूपेणाकार-भेदेन सह मिलिष्यति सेति ब्रह्मणोऽ भिप्रायः । तद् एवम् एव हि व्याख्यातम् अन्यत्र श्री-भागवत-तत्त्वविद्भिः अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ [भ्प् 10.38.32] इत्य् अत्र स्वांशेन मूर्ति-भेदेनेति ।
[105] अपि च श्री-व्रजेश्वर-सम्बन्ध-निबन्धना या कृष्णे योगमायाभिव्यक्तिर् उक्ता सा सिद्धान्ततोऽ पि सिद्धताम् आसीदति । भगवतः खलु प्रियजनेच्छाम् एवानुगच्छति सर्व-शक्ति-व्यक्तिर् न तु यदृच्छाम् इति ।
[106] अथ सर्वे साश्चर्यम् ऊचुः - भवतु नाम तत् तत् । किन्तु ततः किम् अनन्तरं जातम् ?
[107] मधुकण्ठ उवाच - अनन्तरं तु चतुर्भुजताविर्भावानुरूप्यतः प्रव्यक्त-योगमायस्य तस्य प्राग्-उपदेशतः श्री-वसुदेवः सर्वत्र मायिक-शायिकायां जातायां पूर्व-देव-भिया द्विभुजम् अत्रकीयं बालकम् अत्रानीय तया बालिकया विमिलितवान् । सोऽ यं तु तेनेश्वरता-प्रत्यायकेन चतुर्भुज-रूपेणोपदेशेन च न तत्र जातकतां व्यञ्जितवान् इति पुत्रतां सन्देहितवान् । अत्र तु द्विभुज-रूपेण वचनादि-शक्तेर् व्यक्तेर् अभावेन च ताम् एव व्यज्य पुत्रताम् एव निदेहितवान् । श्रीमान् आनकदुन्दुभिस् तु तद् इदं सर्वं नानुसदधौ इति ।

[108] स्निग्धकण्ठ उवाच - नानुसन्दधातु नाम । तथापि यां तनयाम् अत्रकीयाम् अपमाय स्वयम् अपनिनाय तस्याः प्रतिदानस्यापि सद्-भावाभावात् कथम् इव न्यस्तेऽ प्य् अस्मिन्न् आत्मीयतां प्रत्यपद्यत ? आगमादाव् अपि यस्य नन्दनन्दन-नन्दात्मज-नन्दज-नन्दतनय-बल्लवीनन्दनादि-नामानि तत्-तद्-अभीष्ट-प्रदतया निर्दिष्टानीति ।
[109] पुनः स-हासम् आह स्म - यस्य नन्दनन्दन इति नाम विपरीततया पठतापि क्रम-परीततयानुभूयते । तस्माद् एवम् अप्य् अस्मन्-नृपतेर् एव पूर्व-व्यञ्जितं समञ्जसं सञ्जनम् अञ्जसा तस्य लभ्यत्वायोपपलभ्यत इति ।
[110] हसित्वा पुनर् उवाच - अथ स व्रज-देव-सुतस्य वसुदेवस्यागमन-प्रकारस् तु वर्ण्यताम् ।
[111] मधुकण्ठ उवाच -
अङ्घ्र्योर् बन्धो व्यदालीद् अशयिषत जना द्वार-रोधा विदीर्णाः
शेषश् छत्रं बभूव द्युमणिजनि-नदी प्राप्य केदार-भावम् ।
आगोपाधीश-गेहं वृति-रहितम् अभूद् गोकुलं कृष्ण-वाहं
प्राप्य श्री-शूर-पुत्रं यद् इह तद् अखिलं कस्य किं ब्रूहि तत् तु

1.3.35

[112] स्निग्धकण्ठ उवाच - तद् अखिलं गोपराजस्य भाग्यम् इति ।
[113] तद् एवं लब्ध-प्रथायां कथायाम् -
तयोर् माया-जाल-प्रथन-तुलया सङ्कथनया
हरेः सा सा लीला नयनम् इव याता किल यदा ।
तदा बाष्प-स्तम्भअ-प्रलय-मुख-भावाः प्रतिपदं
बभूवुर् ये वा ते कति कति च वर्ण्या व्रजसदाम्

1.3.36

[115] ततश् च तं रत्न-निधायं निधाय गते श्री-वसुदेवे कारणाभावात् प्रचलायितता-प्रचय-दोहं मओहम् अपहृत्य च गतायां मायायां श्री-व्रज-राज-जाया पुनः सम्भूतं सुतं साक्षाद् एव ददर्श । यथा विष्णु-पुराणे --
ददृशे च प्रबुद्धा सा यशोदा जातम् आत्मजम् ।
नीलोत्पल-दल-श्यामं ततोऽ त्यर्थं मुदं ययौ ॥[विप् 5.5.22] इति ।
[117] यथा च -
बालं दिव्याति-दिव्यासित-मणि-वपुषं चन्द्रजिच् चन्द्र-वक्त्रं
लोकातीताब्ज-नेत्रं द्यु-तरु-नव-दलोल्लङ्घि-शोभाङ्घ्रि-पाणिम् ।
किञ्चिच् चञ्चत्-करादि-म्रदिम-मधुरित-क्रन्दनाद् विश्व-मोहं
पश्यन्ती गोप-राज्ञी तनुजम् अमनुत स्वं तदा चित्र-कल्पम्

1.3.37

साम्राज्यं श्याम-भासां निधिर् अपि तद् इदं रूप-रत्नाकराणां
भाग्यं लावण्य-भाजां विलसित-निगमस् तत्-तद्-अङ्गावलीनाम् ।
एवं मीमांसमाना व्रजपति-दयिता यावद् आस्ते स्म तावत्
क्रन्दन्न् ओम् ओम् इतीत्थं नव-शिशुर् असकौ तद् ध्रुवं स्वीचकार

1.3.38

दृष्ट्वा पुत्रम् असौ व्रजेश-गृहिणी सद्यः प्रजातं सखीर्
आहूता न शशाक कर्तुम् अपि चेद् आस्तां परं चेष्टितम् ।
अस्रैर् आवृतम् अक्षि-कण्ठम् अथ यत् स्तब्धं च तस्या वपुस्
तस्मिन् लालन-लालसा-वशतया चात्मात्मना व्यग्रितः

1.3.39

किं च -
यदा माया गता तर्हि व्रजे मोहं जहौ जनः ।
कदा यदा ह्य् आविरासीत् तत्र श्री-पुरुषोत्तमः

1.3.40

तदा व्यवहितानाम् अप्य् एष प्राकाशयन् मनः ।
कुमुद्वतीनां सुमनो-गणं वा शीत-दीधितिः

1.3.41

स्फुरति स्म परं मातुः शय्यायां न स बालकः ।
स्निग्धानाम् अपि चित्तेषु स्वच्छेषु प्रतिबिम्बवत्

1.3.42

स्फुरति स्म यदा बालस् तासां व्यवहितोऽ पि सः ।
तं द्रुतं तास् तदा जग्मुः सारङ्ग्यो वा घनागमम्

1.3.43

रोहिण्यादिभिर् एताभिः समम् आलोकि बालकः ।
उदयत्-पूर्ण-चन्द्रो वा चकोरीभिः समन्ततः

1.3.44

स्तम्भेऽ पि स्मेर-नेत्राभ्यां पश्यन्तीं सुतम् एव ताम् ।
प्रतिकार्यां विचार्यामूः पर्यालोचन्त तं ततः

1.3.45

ता एता मनसा दृशा कलितम् अप्य् अत्रासितं बालकं
सन्देहास्पदताम् अनैषुर् असकृद् यत् तत् तु योग्यं मतम् ।
यद् वस्तु प्रथितं सुदुर्लभतया तद् दैवतो लभ्यतां
किन्त्व् एतत् प्रथमं प्रतीति-पदवीं नात्मन्य् अलं यच्छति

1.3.46

तद् यथा -
नव्येन्दीवरम्-माल्यम् अस्ति किम् इदं किं शक्र-नीलं महत्
किं वैदूर्यम् अहो तद् एतद् अतुलं ज्ञातुं न यच् छक्यते ।
पश्यामः किल बालकस्य तु तनुं सर्वेन्द्रियाणां कृतिं
रुन्धाना खलु या तनोति नयन-द्वन्द्वस्य निर्द्वन्द्वताम्

1.3.47

[118] तत्र च - निर्मितं किल मृगमद-सौरभ-तमाल-दल-सारेण, अभ्यक्तं किल निखिल-विलम्बक-लावण्येन, उद्वर्तितं किल निज-देह-तेजसा, स्नातं किल निज-मुख-निर्यत्-कान्ति-सुधया, अनुलिप्तं किल जननी-दृष्टि-कर्पूर-लब्ध-संघृष्टि-भद्र-श्रिया, भूषितं किल सहज-शुभता-रूषित-निजाकारेण इति सद्यो-जातं तद् अपत्यं वितर्क्य मिथः-कृत-समागमाः सर्वाः पुनस् तं बालं लब्ध-तमाल-पत्र-भोग-मृग-भेद-मृगमद-सार-पङ्कम् इव कोमलाङ्गम्, निज-कर-चूर्णिततम इव चूर्ण-कुन्तलम्, वहन्-मुख-विधु-बिम्बम् ईक्षयन्तं सर्व-मनांस्य् आक्रष्टुम् इव करौ मुष्टीकुर्वन्तं, तरणिजा-निजागुरु-तरङ्गम् इव कर-चरण-कमलं चालयन्तं विलोकयामासुः ।
[119] तद् एवं विलोक्य च -
सर्वास् ताः कलकलम् एव मोद-युक्ताः
कुर्वत्यः परम् अविदुर् न तत्र कृत्यम् ।
एका तु द्रुतम् अथ सुष्ठु-धीर-चित्ता
तं कम्प्रे कर-युगले दधत्य् अपश्यत्

1.3.48

[120] ततश् च पुम्-अपत्य-चिह्नम् अह्नायावगत्य तासां प्रत्येकम् अपि समीहितम् । यथा -
अहो शिरसि धारये नयनयोर् मुहुः स्पर्शये
हृदि प्रचुरम् अर्पये हृदय-मध्यमावेशये ।
इदं विविध-भावनं भृशम् अतीत्य वीचिक्षिषा
बलाद् वर-दृशां दृशां विषयताम् अनैषीद् अमुम्

1.3.49

तत्र च -
मुहुर् अहो तनयं नयनं गतं
प्रमदतः प्रणयन्त्य् अपि नातृपत् ।
घन-रुचिर् जननी-स्तन-युग्मजाम्
अमृत-वृष्टिम् अधाद् अपि दृष्टिजाम्

1.3.50

[121] ततश् चात्यर्वाग् अर्ह-शिशु-स्नपनादि-पर्वानुसन्धानतः सर्वासां सावधानता-विधाने जाते -
रोहिण्याज्ञाम् अनु पति-सुत-श्रेयसी वृद्ध-विप्रा
वृत्तं विज्ञापयितुम् अतुलानन्दम् एति स्म नन्दम् ।
वक्त्रोल्लासात् पलित-वलनाद् अम्बराच् छुभ्र-धामा
धाम्नां हास-प्रथिति-तुलिता या जवान् निर्जगाम

1.3.51

[122] अथ तद् एतत्-पर्यन्ते वृत्ते वृत्ते, जात-तत्-तद्-भाव-सम्पदः सभासदः प्रतिकृताञ्जलितया स्थितयोर् मधुकण्ठ-स्निघ्दकण्ठयोर् मधुकण्ठः प्राह स्म -
व्रजेन्द्र सोऽ यं पुत्रस् ते सदः-साद्भुत-सम्पदः ।
जन्म-मात्राज् जन-श्रेण्या नन्दन-श्रेणि-जन्मदः

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc