भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.32

1.32.1

[88] अथ कथंचिद् अपि जात-सान्त्वने तन्-मनसां त्व् अनेक-विकारे पारे मनोरथ-पथम् अखिल-शोभा-शुभ-पथ्य-नेपथ्य-सारतन्य-मान-दानतस् तौ सूत-कुमाराव् आराधयामासुर् आशु राधा-रमण-प्रभृतयः कृत-साधारणातिक्रम-प्रकृतयः सदः-सदः-सदयतया शुभाशीर्भिर् अभ्युदयम् आसादयामासुश् च । ततश् च पूर्व-पूर्ववद् एव सर्वे स्वधाम समासन्नाः स्वप्नतश् च तत्-तद्-अनुभवन्तश् चरित-जागरा इव वासरादिम् आसादितवन्तः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
नाना-राग-विचित्र-चरित्र-चित्रम्
एकविंशं पूरणम्
॥31॥
(32)
अथ द्वात्रिंशं पूरणम्
केशि-ध्वंसन-शंसनं
[1] अथ पुनः प्रातः-कथां यथावत् प्रथयिष्यामः, यथा-
[2] मधुकण्ठः प्रथमतः कण्ठ-रवम् अकृत्वा मनसि निर्णिक्तम् इदं विविक्तवान्-
[3] एतद्-अनन्तरं यद्यपि ये खल्व् अस्मासु बाल्याद् एव स्तुहि-कृष्णतां गतास् तेषां भगवल्-लीला-सुख-वर्षि-देवर्षि-वर-चरणानां कंसं प्रति शंसनं शंसनीयताम् आसन्नम् ।
[4] तथापि भगवल्-लीलाधिकृतिम् अनुवर्तमानानां सर्वदोपाकुर्वाणानां न तूदाकुर्वाणानां तेषां तत्रौचितीम् अप्य् अनौचितीं चिती-कुर्वन्त्य् अविपश्चित इति तथैवैषां परम-विपश्चिताम् अपि व्रज-वासिनां विनिश्चित-निज-प्रेम-जातीय-लसद्-अद्वितीय-सुख-प्रकर्षाणां नातिहर्षाय स्याद् इति चानिर्णेय-वक्त्र-नाम्ना तद्-आम्नातव्यम् इति । [5] अथ सापलापं स्पष्टम् अभ्याचष्ट-
[6] श्री-हरिणारिष्टे विद्विष्टे क्लिष्टेन च कंसेन वर्षं यावन् न कश्चित् प्रस्थापितः । केशी च गच्छन् पुनः स्व-वेश्म प्रवेशितः । वृथा वैरं मा कृथा इति । [7] अथ मुख्य-माघ-कृष्णैकादश्यां कश्चिद् दिविष्ठः सार्वदिक-ज्ञान-महिष्ठस् तं प्रति प्रतिकूल एव सन्न् अनुकूल इव श्री-वसुदेवस्य रहस्यं वृत्तम् अनुवृत्तं चकार येन खलु राम-कृष्णाव् अपि वसुदेव-सुततयोदाय-साताम् । [8] ततश् च तत्-कृत-प्रतिरोधाद् धन्तुम् अशक्यतया वसुदेव-देवक्यौ पुनर् मङ्क्षु लोह-शृङ्खलया कारागारे क्रुद्धेन सता सतां विरुद्धेन तेन निरुद्धे ।
[9] निरुध्य चार्व-मतिनार्व-दानवः समाहूय भूयश् च नियुक्तः । नियुक्त-मात्रश् चायं व्रजाय कृत-यात्रः प्रातर् एव तत्रायातः । व्रजश् चारिष्ट-वधाद् अधस्तान् नन्दिश्वर-गिरिम् आरभ्य पर-परस्तात् कृत-वास इति दूरत एव तं लब्धवान् । [10] यत्र च स प्रखरतर-खर-खुर-घृष्टि-च्छिन्न-क्षोणि-पृष्ठतया गोष्ठम् आगच्छन् सटाघटामुदस्य नभस्य् अभिभ्रमयन् भ्रेष-वशाद् अदभ्र-भयादभ्र-प्रच्छन्नतया तत्-तद्-वृत्त-माष-च्छतां विमान-परिच्छदानां विमानान् उच्छादयामास पूर्व-पूर्वमानान् इव । यत एव निर्जराश् च ते स्फूर्जद्-ऊर्जस्वलता-वर्जनतः स-जरा इव जाताः । [11] ततश् च जङ्घालगतिलङ्घिताङ्घ्रिपः स पुनरखर्वगर्वतः सर्वमेव धुन्वन्नर्वदानवः सिंहसंहतिरिव घर्घरितनिर्घोषमाततान
।
[12] आतते च निर्घोषे सम्यग्-अर्गलित-महार्गलावर्ग-दुर्घट्ट-विकट-कण्टक-कवाट-दुर्घट-निर्गम-मत्य्-उदग्र-दुर्गायमाण-गरिष्ठ-गोष्ठ-विशङ्कट-कुठ-शाखावृति-सङ्घं सङ्घशः समुल्लङ्घितवत्यः सास्नावत्यः प्लुत-गत्या सोद्भ्रमं सपद्य् अटवीं प्रत्य् एव च द्रुतं परिद्रुतवत्यः । [13] तद् अगणयन्न् एव गोष्ठस्योपशल्यं प्रविष्टः परितश् च घोटमानः स देव-द्विड्-घोटकस् तु तमरिष्ट-मोटकम् एव धोरित-रीति-गत्य्-अन्विष्टवान् । [14] अथ गवां द्रवाच्छोकाविष्टाः प्रष्ठगोष्ठपतिविशिष्टाः सर्व एव गोमिनो लोका निजान्योकांसि झगिति समुज्झन्तस्तदभिमुखमेव परमुन्मुखतया चक्रुमुः ।
[15] यान् समग्रान् अप्य् अतिक्रम्य सम्यग्-रभसम् अग्रत एव गच्छंस् छातासच्छात-कर्मा रामावर-जन्मा रामम् अप्य् अतिक्रम्याभ्यमित्रीयतया चित्रीयते स्म । [16] ततः समग्र-व्यग्रतां गता व्रज-जनाग्रण्यस् तम् अभिक्रममाणं प्रत्याचक्षाणास् तद् एतद् आचक्षत ।
अयं वाजी वज्रत्-तनुरुह-ततिर् वज्रि-विजयी
निज-ध्वान-स्फूर्जाद्-विजित-दिविज-प्रोज्झित-पथः । भवांश् छाया-प्राय-प्रभव-नव-तापिञ्छ-तुलितस्
ततस् त्वं मा यासीः सपदि पुरतस् तस्य पुरतः

1.32.2

[17] तद् एवम् अत्याहिते प्रत्यासन्ने मातर-पुत्रयोर् अपीदं विवदनम् आसीत्-
पुत्र क्व गच्छसि हयं कलयामि मातः
प्रोद्दाम-दुर्व्यवसितः खलु हन्त सोऽ यम् । किं नः करिष्यति स वा विगत-स्वसादी
त्वं याहि गेहम् अहम् अस्मि विचेतनः किम्

1.32.3

[18] ततश् च क्षोभात् प्रोद्भावित-धार्ष्ट्या गोष्ठाधीशम् अपि सेदं निर्दिष्टवती-
मया बाल्यान् नैव त्वयि गृह-पताव् उद्धुर-वचः
प्रयुक्तं किं त्व् अद्य प्रकटयितुम् इष्टं निशामय । कथं न त्वं सर्वैः सह सपदि गृह्णासि पृथुकं
कथं वा नान्येऽ पि प्रतिहयम् अयन्ति व्रज-पते

1.32.4

[19] अनादित एव दितीकृत-दिति-तनुजः श्री-रामानुनजस् तु तद् एवं वर्ण्यमानम् अवकर्ण्य विहस्य मातरं विश्वास्य विश्व-विश्वासास्पद-सुखदस् तं सासूक्षणं क्षणं निरीक्ष्य स्वम् उपह्वरम् आनेतुम् आह्वयत । [20] स च पूतनारिणाहूतस् तत्-तेजसाप्य् अन्तः परिभूतः शूरं-मन्यतया तस्मिन्न् अधूतः प्रथमतस् तावन् निज-पराक्रम-क्रमणाय क्रमशः प्रत्यग्-गत्य्-अनुक्रम-मन्थरतया विक्रममाणस् तं प्रति सम्प्रति यमुनां यावद् अवकाश-क्षोणीं विश्राणितवान् । दूरतस् तु निजाभिद्रवस्य तेजस्विता भवेद् इति क्षोणीं विश्राण्य च कृष्णं निधार्यतया निर्धार्य देवार्य्-अर्वा गर्वाद् धर्यक्ष-लक्षस्येव गर्जितम् अर्जन्न् अरि-पक्षं तर्जति स्म । [21] ततश् च सर्वं
युगपद् अरिरिषतीव चिकरिषतीव जिगरिषतीव च तस्मिंस् तद्-असहमानः सहसा सिंह-नादं बृंहयन् सिंह-संहननः स च कृष्णस् तं धृष्णजम् अभिसाग्रहम् अभिग्रहम् एव जग्राह । समग्र एव व्रजश् च व्यग्रतया तद्-अनुगतिम् इति स्थिते स तु तत् पश्यन्न् उत्तेरिताख्यया गत्या तम् एव रोषाद-मन्दम् अभ्यवचस्कन्द, यत्र-
व्योम सोऽ यम् अतियन् निराप्लवत्
तत् पिबन्निव मुखं व्यदीदरत् । एवम् अङ्घ्रि-युगलेन यद् व्यहंस्
तच् च तत्-प्रतिगतं हरिर् व्यधात्

1.32.5

ततश् च-
द्राग्-उच्छलच्-चरण-पुच्छम् अतुच्छम् एतम्
उच्छून-रोम-तति-गुच्छवद् उन्नमय्य । चिक्षेप चापशतक-क्षिति-लक्षिताग्रे
डिण्डीर-पिण्डम् इव वारिधि-भङ्ग-सङ्घः

1.32.6

स लब्ध-संज्ञः पुनर् उत्थितस् तदा
व्यादाय वक्त्रं तरसापतद् धरिम् । सोऽ प्य् अस्य वक्त्रे भुजम् उत्तरं हसन्
प्रादान् महा-दर्दूरकस्य नागवत्

1.32.7

दिव्याहिवत् कृष्ण-भुजश् च तद्-गला-
वटे स्फुटं वीर-रसाद् अवर्धत । महा-विष-ज्वाल-हता इवापि तद्-
रदास् तदा पेतुर् अमुष्य तेजसा

1.32.8

दन्ता निपेतुः समैन्द्रियाण्य् अप्य्
उद्धूतिम् आपुर् वपुर् आप कम्पम् । जरात्र तत् कालम् उदित्य मृत्युं
प्रतीक्षमाणा किल वर्तते स्म

1.32.9

यदास्य कण्ठं रुरुधे स तद्-भुजस्
तदाखिलाङ्गानि विदीर्णतं ययुः । तस्यैव शोकाद् इव तानि यत् परं
तदाश्रयाण्य् एव भवन्ति सर्वशः

1.32.11

एकं द्वारं रुद्धम् एतद् गलाख्यं
मन्-निष्क्रान्तौ तानि भूयांसि कुर्याम् । इत्थं किं तत्-प्राण-वर्गः समन्ताच्
छिद्राण्य् आचर्याथ तस्मात् प्रतस्थे

1.32.12

तस्य प्राणे निर्गते देह-गेहात्
कार्ष्णो बाहुर् निर्गतः प्राघुणाभः । गेहं तच् च स्वामिनं तं विनाभूत्
खण्डं खण्डं दिष्टतः किं च नष्टम्

1.32.13

केशिकण्ठा-वटात् तेन निरकोषि यदा भुजः । तदा स्वभावम् एवाप्तः संहारे दिव्य-बाणवत्

1.32.14

अन्ते मुक्तं तेन गूथम् इत्य् उक्तं युक्तम् इष्यते । तादृशां मुक्ति-कृत्-कृष्ण-कृपा या सातियुक्तिका

1.32.16

[22] तद् एवम् अश्व-दैतेये वपुषा लब्ध-द्वैते स्वरूपेण तु लब्धाद्वैते प्रमनसां विकीर्ण-सुमनसां सुमनसां कृष्णाभिप्रायम् अभिप्रयताम् उक्तिर् यथा-
आस्यं व्यादाः सपदि निखिलं मद्-वपुस् त्वं
गरीतुं तत्राहं तत् परिकलयितुं तद्-गले बाहुम् आधाम् । तेनैवासीर् यदि विगलित-प्राणकस् तर्हि तावद्
गर्विन्न् अर्वन्न् अहह सहसा साहसं किं न्व् अकार्षीः

1.32.17

इति ।
अथ व्रजः कल-कल-शब्दम् अब्दवत्
सृजन् मुहुर् हरिम् अचलं मुदावृणोत् । स वृष्टिवत् प्रमदजम् अस्रम् अस्रवज्
झर-प्रभं स च तद् असूत भूतले

1.32.18

[23] अथ सर्वे स-तृष्णा मध्यम् अध्यासित-कृष्णाः प्रेमतारतम्य-रम्यतया यथास्वम् अन्तर्-अन्तर्-लब्धान्तरास् तद्-अन्त-व्यन्तरितत्वेऽ पि तद्-अनन्तरं-मन्यास् ते धन्यास् तद्-अपरम् अप्य् आलिङ्गनतस् तम् एव मन्वाना विकार-वृन्दम् अविन्दत ।
[23] ततश् च क्षण-कतिपयात् प्रतिगत-बहिर्-मतितया सह-कृष्णाः कृष्णाघट्टम् अटित्वा सस्नुः । यत् खल्व् अद्यापि केशि-तीर्थतया तीर्थ-वर्याः पर्यवयन्ति । यस्य च भास्वत्-पुत्र्याः प्रतिलोम-गतिं प्रति किंचिन् निकटत एव कुठ-कूट-घटित-तट-घट्टान्तरम् अधिष्ठाय तत्-परिश्रम-शमनाय विशश्रमुः । द्वितीय-घट्टश् चायं चेनघट्ट इति वृद्धैश् चीर-घट्ट इति चाधुनिकैर् उद्घट्यते । चेनेति विश्रम-सुखस्य हि माथुर-भाषा । [25] अथ विश्रम्य च कंस-भ्रंशन-शंसनम् इदं केशि-ध्वंसनम् इति रम्य-सुखं सम्यग् अवगम्य द्वि-गुण-फुल्लम् उल्लसन्तस् तं तन्यमान-कीर्ति-नर्तित-मुखैर् वन्दि-मुखैर् वन्दितम् अन्तर्-विन्दमानं श्री-गोविन्दम् आवृण्वन्तः श्रीमन्तं व्रज-देवम् अनु व्रजन्तस् ते व्रज-जनाः
प्रथमं गो-व्रजम् अयोजयन् ।
ही-ही-जाते गो-दुहां तत्र जाते
कार्ष्णं तत् तु प्रस्फुटं पर्यचायि । आसाराणां नर्दिते यद्वद् उच्चैर्
अम्भोदस्य स्निग्ध-गम्भीर-शब्दः

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc