भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.31

1.31.1

इति श्री-श्री-गोपाल-चम्पूम् अनु
निर्व्रीड-होरिका-विक्रीडनं नाम
त्रिंशं पूरणम्
॥30॥
(31)
अथैकत्रिंशं पूरणम्
नाना-राग-विचित्र-चरित्र-चित्रम्
[1] अथ स्निग्धकण्ठः प्रभात-कथां प्रथयामास-[2] तद् एवं प्रतिक्षणम् एव परम-प्रेम-लक्षण-लीलां फुल्लद्-उल्लासतः स गोकुल-बन्धुर् दशमं संवत्सरं संवलते स्म ।
[3] स तु नृशंसः कंसः क्रमशः सर्वेषु निर्मित-निज-गर्वेषु तर्हि निस्तर्हितेषु वैर-शुद्धिं प्रति प्रतिगत-बुद्धिः सर्वतः श्रेष्ठतया रक्षितावरिष्ट-केशिनाव् आहूय संरभ-माणतया सभयतया चाभिहितवान् । मयावज्ञया नातियोग्या एव तत्र विनियोग्याः कृताः । स तु दारक इति बुद्ध्या । किन्तु स्फुटम् असौ सर्वेषां दारक एव जातः । ततः कौसीद्य-खिद्यमानतया भवन्ताव् अनुयुज्येते । किम् इह युज्यत इति ।
[4] ताव् ऊचतुः-देव तद् एतद् एव प्रतीक्ष्य स्थिरतयाभीक्ष्णं वर्तावहे । साम्प्रतं तु साम्प्रतम् आज्ञाप्यताम् । अथवा किम् आज्ञापनया । विनापि तां विनियुक्ता एव युक्त-सेवकतया वयम् इत्य् उत्थाय साभ्युत्थान-प्रणामं प्रस्थितयोस् तयोः कंसः शशंस ।
[5] अरिष्टस् तावत् प्रतिष्ठताम् । इष्टापत्ति-विपत्तितस् तु केशी च तत्-प्रतिवेश-वेशी भविता । तद् एतद् अवधाय तौ च गृहम् आगत्य सातत्यत एव तद्-अर्थम् आजगृहतुः ।
[6] अथ कदाचिल् लोहितायमाने सायं मार्तण्ड-रश्मि-मण्डले नाम्नारिष्टः सर्व-दिविष-दरिष्टः सर्वत्र च रंहसा जङ्घन्यमानः सर्वांश् चाघ्ना जेघ्नीयमानः श्रीमन्तं गोष्ठ-द्वारान्तम् आजगाम ।
[8] यदा हि चित्रायुत-पूर्ण-चन्द्रां पूर्णिमाम् अनु तुर्णित-चेताः स्व-सुख-वर्धन-गोवर्धन-विलोकन-कामनया श्री-राम-कनिष्ठः किंचिद् दूरं प्रविष्ट आसीत् । ततश् च-
भू-कम्प-क्रमणान् महीध्र-चलनं तस्यागतेर् वारि-भृद्-
विक्षोभं नदनान् निशाचर-वरं वैकृत्यभाग्-आकृतेः । तद्-रूपाद्रि-विनिश्चयं ककुदि वार्-मुग्-वृन्द-सङ्घट्टनाद् उन्नीय व्रजग-प्रजा दिशि दिशि द्राक् कान्दिशीक्यं गताः

1.31.2

किंचित् किंचिन् मूत्रणाद् आपगानां
गूथ-त्यागाद् गण्ड-शैलावलीनाम् । सृष्टिं कर्ता पश्यतारिष्ट-नामा
देवारिष्टः पर्वतात्मा प्रतीतः

1.31.4

वप्रं यदापस्किरते स्म शृङ्गा-
दिभिर् विकुर्वाणता वृषः सः । तदाखिलं गोकुलम् आशु मृद्भिः
प्रच्छन्नम् आसीद् वन-मण्डलं च

1.31.5

यत्र तत्र खुरम् आदधाति
स क्ष्मापि तत्र वलते विदीर्णताम् । नेत्र-तुल्य-विलतः समुच्छ्रितं
वारि रोदन-निभं बिभर्ति च

1.31.6

[9] तत्र लोकानां वचनं-
जातु मातु गिरिरेष समन्ताद्- उच्चलन्न् अपि तथाविध-मूर्तेः । किं तु शृङ्ग-तलगं रवि-युग्मं
हा व्यसिस्मयत गोकुल-लोकम्

1.31.7

इति ।
[10] एवम् उद्घ्नता गवाम् उद्घ्नान् निघ्नता च सर्वं वस्तु प्रस्तुभ्यता चारिष्टेन कृताद् आक्रुष्टात् कष्टम् अनुस्पृष्टवन्तस् ते गोष्ठ-निष्ठा गो-नर-प्रकृष्टाः कृष्णाय मुहुर् विकृष्टवन्तः ।
[11] सूरतः स तु दूरतस् तेषाम् अवगत-विक्रोशन-लेश-मात्रं कुत्राप्य् अकृत-यात्र इव संमुखत एवावतस्थे । अवस्थाय च मा भैष्टेत्य् अभयम् उद्दिष्टं विधाय क्रोधाविष्टस् तम् अरिष्टम् आजुहाव बलीवर्द-क्रोध-वर्धन-नर्द-विशेषेण । तद् इदं तु तं प्रति सम्प्रति सुकरार्दनस् त्वम् असीति ज्ञापनाय ।
[12] अथ चोवाच, यथा-
सपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम । मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् ॥[भ्प् 10.36.7] इति ।
पुनश् च-
पिण्डीशूर विदूरः सन् क्रूरतां त्वं किम् ऋच्छसि । सामुद्र-पूर इव मां कुम्भ-जातं प्रपूरयेति

1.31.8

[13] तद् इदं च तस्य गां-मन्यस्य जिघांसया लोकानां गोत्व-भ्रमापगमनया चोक्तवान् इति गम्यते । किं च-
आस्फोटनं कृतम् अनेन तदा यद् अस्माद्- आस्फोटनं समभवद् दनुज-श्रुतीनाम् । कोऽ यं चकार स तु यद् वृसभस् तद्
उच्चैः कोपं च वर्ष-शिशुवन् नहि जाहसीति

1.31.9

कृष्णः सख्युः स्कन्ध-देशे स्व-बाहुं
निक्षिप्यासाव् उद्धसन्न् एव तस्थौ । येन क्रोधं वर्धयामास तस्य
प्रेयो-वर्गाणां च सन्देह-सर्गम्

1.31.11

स वज्रति स्म न परम् आशु विद्रवं
प्रति द्विषत्-प्रतिरुतती-व्रतां प्रति । न केवलं हरिर् इह हा समाययौ
सखापि यः परिकृत-तद्-भुजांसकः

1.31.12

[14] तादृशतया स्पष्टम् अविप्रकृष्टे च तस्मिन् श्रीमान् कृष्णस् तु शृङ्ग-द्वयम् एवाभिजग्राह, यथा-
शृङ्गे ये पूर्वतां नीते जयाय वृष-रक्षसा । स्व-सन्दानाय ते सृष्टे कृष्ण-दोष्णोर् वशं गते

1.31.13

बाहु-पाश-सित-तीव्र-शृङ्गकः
स स्फुटं प्रतिमुखं सरन्न् अपि । प्रत्यग् अष्टादश च क्रमान् बलाद् दित्य्-अपत्य-रिपुणापयापितः

1.31.14

अयम् उद्धुतस् तद् इह नास्ति भारता
न फलं विनोदन-कला-विनोदतः । इति माधवः स्फुटम् अरिष्टम् उत्क्षिपन्
नति-रीढया बत विवृत्तिम् आटिटत्

1.31.16

पपात पुच्छं भुवि शृङ्गयोर् बलाच्
छृङ्गे तु पुच्छस्य निपेततुर् भुवि । पृष्ठाङ्घ्रि चैवं वृष-रक्षसस् तदा
युक्तं तद् अस्मिन् विपरीत-कारिणि

1.31.17

तज्जा लज्जाप्य् उत्थिता तस्य सोऽ पि
प्रत्युत्तस्थाव् अभ्ययुङ्क्तापि भूयः । कृष्णस् त्व् एनं पातयन् वाम-शृङ्गे- णोत्कृत्तेनामुष्य वक्त्रं चुकुट्ट

1.31.18

[14] शृङ्गोत्पाटणं घटयंस् त्व् इदम् आचष्ट-
अभद्रस्यापि भवतो भद्राकृति-विध-सरिणः । विषाण-मुण्डनाद् भद्राकृतिर् एव प्रशस्यते

1.31.19

अथार्द्र-वसनं यथा परिनिपीडयन् जीवनं
विकर्षति जनस् तथा तम् अकरोद् अरिष्टं हरिः । मलानि च यदाकिरच् छमल-मूत्र-रक्तादिकान्य्
अस्यौ परम-शुद्धताम् अपि जगाम कैवल्यतः

1.31.20

लयं परमम् आगतस् तद् अपि यत् पदं नैरृतं
ययावयम् इति स्मृतं मुनिभिर् एतद् उच्चै रुषा । प्रसूनम् अथ यन् मुदा ववृषुर् आदितेयास् तद् अप्य्
अमित्र-विलयाद् भवेद् उचितम् ईदृशात् किं पुनः

1.31.21

[15] अत्र च श्री-गोकुल-प्राणाभिप्रायम् अभिप्रयद्भिस् तद् एव चानुवदद्भिर् दिविषद्भिर् उपहसितम्-
वत्सं लघुं दैत्यतयावगच्छन्
जघान बालेऽ प्य् अहम् उक्ष दैत्य । प्रौढः कथं त्वाम् अतिभीष्म-वर्ष्म- प्रष्ठं न जानानि न घातयानीति

1.31.22

[16] अत्र गोकुल-जनस्य गोकुल-जीवनस्य च भावम् आविशन्न् एव श्री-शुकदेवस् तद् इदं वदति स्म-
एवं कुकुद्मिनं हत्वा
स्तूयमानं स्वजातिभिः । विवेश गोष्ठं सबलो
गोपीनां नयनोत्सवः ॥[भ्प् 10.36.15] इति ।
आयाते व्रजम् अच्युते रिपु-जय-स्वस्ति-प्रशस्तीडिते
सर्वेऽ प्य् उन्मदतां गता बहु-विधं संवादम् उन्निर्ममुः । किं तु द्राक् पितराव् अमुष्य वदनं तद् वीक्ष्यमाणाव् अमू
स्वैर् बाष्पाम्बुभिर् आप्लुतं ममृजतुर् विक्रुश्य मूकाव् इव

1.31.23

[17] अथ समापनम्-
अयं स स्तव-भाक् सूनुस् तव गोप-नराधिप । पूषितास् त्रिदशा येन मूषितास् त्रिदशारयः

1.31.24

[18] अथ रात्रि-कथायाम् अपि स्निग्धकण्ठ एवाभिदधे-[19] एवं होरिका-प्रान्त-कान्त-क्रीडान्तरानुसारेणाभिर-वीर-सरसिजाक्षीणाम् अक्षीणानङ्गानां वृत्त-कृष्ण-सङ्गानां बहुधा निवृत्तं रात्रि-वृत्तं स्वयम् एव सखीभिर् अनुसन्धीयताम् ।
[20] वासरावसरश् चायं मद्-उक्ति-निदिग्ध-दिग्-दर्शनतः परामर्शम् आनीयताम् । यथा चाह श्री-पराशरः-
स तथा सह गोपीभी रराम मधुसूदनः । यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत् ॥[विप् 5.13.57]
यथा च श्री-शुकः-
गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः । कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥[भ्प् 10.35.1] इति ।
[22] तथा हि-यदा खल्व् अहरहः क्षयम् आसाद्य वाद्य-गीत-नृत्यं विवृत्य सहचर-सङ्गिनीभिः शृङ्गिणीभिः सह स हरिर् व्रज-जन-स्नेह-धनः स्व-वेश्म प्रविशति तदा विगत-परिमाणा विमानानुचारिणः सर्व एव समम् उपर्य्-उपरि-चरिणः सह गणेन कणेहत्य स्पष्टं द्रष्टुम् इच्छन्तस् तद्-अभाव-लब्ध-कदनाः सदनान्त-पर्यन्तम् आयान्ति । कृत-वेश्म-प्रवेशे तु तस्मिन् विस्मय-स्थगिततया स-लालसतया च तत्र तत्र चित्रायमाणा रात्रिं गमयन्ति स्म ।
[23] शरणान्तरात् पुनर् यावन् निःसरति स एष शरणागतायागतानुसरणः । तद् एवं यदा निःसरति निःसृत्य च गोप-गोगण-सञ्चरणाय वेणुं रणयति । तदातनं चरितं गोचरताम् अतिचरद् अपि निज-भाव-प्रभाव-सम्पदा चक्षुषीव रचितं विधाय श्रीमद्-आभीर-भीरुभिर् अभिगीतम्, यथा-
अवधारय सखि तव सखि-वृत्तम् । विरहि-जनानां जनयति हृदयम् विदयतया बत कृत्तम् ।
[ध्रुवम् इदं परपरत्रापि ।]
वाम-भुजाकृत-वाम-कपोलकम् उल्लल-चिल्लि-भासम् । सुकुमाराङ्गुलि-विलसितम् उज्ज्वल-वेणु-मुखं मृदु-हासम् ॥राग-कला-कुलिताखिल-भूचर-गान-कलैर् अनुविद्धम् । व्योमग-यान-जनीजन-मोहनम् अनुगमिताखिल-सिद्धम्

1.31.25

[24] ततश् च मुहुर् अपि तावन् मात्रे तासां गान-पात्रे सति वन-व्रजयोर् मध्यम् अध्यास्य हर्षं तर्षं च धास्यन् वंशं शंसयति स्म । [25] तत्र च ताभिर् गीतं, यथा-
चित्रं लक्ष्मी-रेखासौ हृदि चपला न भवति चपला । मणिम् अम्बर-मणिम् अनु तारावलिर् अपि सा राजाति तरला ॥यस्य स चायं वेणु-कलामृत-वर्षी कलयति गव्याम् । स-तृणक-दशनाम् उन्नत-कर्णामत्राम् अर्थिषु भव्याम्

1.31.26

[25] ततश्चातुच्छ-पिच्छ-गुलुच्छ-पुष्प-गुच्छ-धातु-च्छविभिर् मल्ल-परिच्छदं गच्छति स्म श्री-गोपिकानां प्रच्छन्न-रमणः ।
[27] तं गत्वा च सत्वर-प्रथम-पयः-पायनाय गङ्गा-यमुनादि-नाम्ना गाः सु-विकस्वर-सरसिजं सरः प्रति क्रमाद् वेणु-गानतः समाकारयति तस्मिन् व्रज-रमानाथे बुद्ध-निजाकारण इव रुद्ध-प्रवाह-प्रसरतयास्थिरताम् उत्कलिकाम् अप्य् अनुसरति । विदूर-चर-सरिद्-विसरे च पुनर् आसां गीतं, यथा-
चन्द्रक-धातु-दल-स्तवकादिक-कृत-मल्लोत्तम-वेशम् । आकारयति स गाः सरिद्-आली लभते तत्र विशेषम् ॥कमित-भङ्ग-भुजा किल तत्-पद-रज आशुग-तति-नीतम् । लघु सुकृतास्माद् दृग् इव स्पृहयति विदती स्वम् अनभिनीतम्

1.31.27

[28] अथ तदा तदाहूति-कृताम् आनन्द-विभूतिम् आरभ्य तच्-चरितम् उपलभ्य कदाचिद् व्रज-धरित्रीशित्री-सदसि गतभिः काभिश्चन ताभिर् उत्कण्ठया सुष्ठु प्रतुष्टुषमाणाभिर् अपि निज-भावं पिधाय भावान्तर-साधारण्यं विधाय तद् इदं वर्णनं तन्-निर्वर्णनम् इवासीत् ।
[29] तत्र गानान्तरं, यथा-
आदि-पुरुष इव वैभव-शाली । अनुचर-वर्णित-वीर्य-समुन्नतिर् अयम् उदयति वनमाली ॥ध्रु॥ स गवाकारण-मुरली-कलम् अनु तनुते यत्र वनं च । तद्-रूपान्तर्यामि-स्फुरणज-भावान् कलयति पञ्च ॥पुष्प-हसित-मधु-बष्प-नवाङ्कुर-पुलक-ततीर् अनुयातम् । एजन्-नमद् अपि शाखा-ततिभिर् यत् किल कलयति शातम्

1.31.28

[30] तद् एवम् अनिङ्गानाम् अपीङ्गानाम् इव शश्वद् इङ्ग-व्यङ्गं विहितवान् ।
[31] अथ समासन्ने विनोदेनाह्नायवन् मध्याह्ने क्वचिन् महा-सरसि सरसिज-सौरभ-सरसेन घन-रसेन स्नान-लीलाम् अभिनिविश्य केवल-तिलक-वनमाला-वलित-वेश-भङ्गि-सङ्गिता-पूर्वकम् अपूर्वे तस्मिन्न् एकान्ते कुसुमित-वनान्ते कान्ते महा-शैल-प्रान्ते पल्लव-लसद्-उरुतर-तरु-तल-विलसित-शिलायाम् उपविश्य विराजन्नुस्रावार-चारं प्रति भूरि-दूरी-भावम् इतेषु मित्रेषु निज-सौरभ-रभस-समुदित-मधुर-मधु-कर-निकर-गान-कृतावधानस् तद्-धूङ्कार-कारण-स्वर-सारम् अनु कुतुक-कृतानुसन्धानस् तद्-अनुसारि-वेणु-चारि-रणितेन सुरचित-सारसादि-रसाधानः सोऽ यं रमते स्म ।
[32] तच् च, यथा-
रम्य-तिलक-नव-तुलसी-दल-भव-वन-मालातिविकासी । निज-सौरभ-वश-मधुप-गीतम् अनुगायति वेणु-विलासी ॥अथ सारस-युत-हंसायुत-ततिर् अलम् अनुगम्य परीता । परितो न्यविशत ताम् आविशती रुतिम् इह या हरि-गीता

1.31.29

[33] ततश् च ततस् ततः समागते साग्रजे समग्रे सखि-वर्गे तदानीन्तन-बर्हि-प्रबर्ह-बर्हादि-नाना-वन्य-नेपथ्य-प्रथ्यमान-शोभ-लोभनीय-रूप-वरीयस्तया प्रशस्त-स्रजीयस्तया च विस्तृत-शातस्य तस्य गोचारण-चरितं प्रचारणीयम् ।
[34] तथा हि-क्वचिद् अपि क्षिति-भृति वृक्ष-शून्य-क्षिति-गत-पुण्य-तृणं धेनुषु चरन्तीषु वह्नीयमान-माध्याह्निक-ललाटं-तप-तपन-तापापनोदाय वेणुं वादितवान् । यत्र बलाहकास् तत्-प्रतिमल्ल-निभ-मल्लार-राग-बलाद् आहृतास् तेषां शीतलता-वलनाय बभूवुः ।
[35] यच् च वाद्यम् उद्भवत्-पुरु-गुरु-गरिम-गिरि-द्रोणीः प्रतिधवन् यत् तत् परम्परया च सर्वम् अपि तथ रणयत्-त्रिलोकी-लोकम् अपि तत्-कौतुकालोकनायाकर्षति स्म ।
[36] तथ च सति तत् तद् अनुभूय भूयश् च ताभिर् इदं तस्याम् एव सभायां वर्णितम्-
धृत-वन-माल्य-वतंस-लसद्-वन-वेश-ततिर् बल-सङ्गी । गिरि-तटम् अनु गोचारण-कारण-वेणु-विनोदन-रङ्गी ॥विश्वं भ्रमयति कर्षति वर्षति मुदम् अपि घन-गण-हारी । सान्द्र-च्छायाम् अनु शीतल-तनुर् अनु सखि-सुख-संचारी ॥कुसुमं वर्षन् निज-रुचि-वितरण-सौहृदम् एनम् उपास्ते । अम्बु-धरः स्फुटम् उपगन्ता न च किं तु छत्रम् इवास्ते

1.31.30

[37] ततश् च तत्रातिघने घन-च्छाये विहारं विच्छायति स्म ।
[38] तद् एतच् च व्रजराज-जाया-समाजम् अनु साधारण-सम्प्रधारणतया ताभिर् वर्णितम्, यथा-
स्व-सुतं कलयत केलि-कला-बुधम् आत्मोपक्रम-वेणुम् । विधि-शिव-मोहन-विविध-स्व-रमय-राग-निवर्तित-धेनुम्

1.31.31

इति ।
[39] तद्-अनन्तरं च प्रायशः काश्चिद् व्रज-देवीर् व्रजाद् अह्नि चापह्नुत्य् व्याजं व्यज्य वा तद्-आगमन-वर्त्मनि तद्-अनुवर्तनाय वर्तमानास् तं पश्यन्तीः पुनर् अपश्यन्तीर् इव दूरात् परिहरन्तीर् इत्थं काश्चिद् दूतिकाः परिहसन्ति-
मदान्धे राजते पिञ्छी न सपिञ्छी पुरस् तव । वेणु-ध्वानी जगत्-प्राणः स जगत्-प्राण एष नेति

1.31.32

[40] श्री-कृष्णं च छलेन विज्ञापयन्ति, यथा-
ज्योत्स्नां तनोति ललितां दधते विचित्रां
शाखां दधाति निखिलं जयतीति-भाङ्ग्या । चन्द्रावलीं च ललितां च विशाखिकां च
राधां च ताः सखि-सदस्य् अपि सूचयन्ति

1.31.33

[41] तत्र काश्चिद् देव-पूजा-व्व्याजेन दुष्प्राप-पुष्पादिकम् अवचिन्वाना बहल-कलह-मूलतां प्रयान्ति ।
[42] काश्चित् तु नव्य-भव्य-गव्यादिकं तद्-अर्थम् एवानयन्ति तथापि नात्मना तस्मिन्न् अर्पयन्ति । तत एव कृत्रिम-दान-चत्वर-देशम् अपदेशम् अवरुध्य वर्त्म विनिरुध्य पृच्छन्तं तं प्रति क्रय-विक्रयिक-रीत्यान्यथा ख्यापयन्ति । दिव्याद् अपि दिव्यम् एतद् विज्ञाय यज्ञ-पत्नीर् अनु कृत-यत्नासु क्रयिकताम् आश्रयमाणासु यज्ञ-भुक्-पति-व्रतासु सत्याकृति-कृतिनीवाक-परीपाकम् आकलय्य कृत्स्नं वस्नं च संकलय्य विक्रेतव्यम् इति ।
[43] तत्र पुष्पावचये प्रणयिना सह वाकोवाक्यम्, यथा-
का यूयं वन-देवताः कुरुथ किं पुष्पाणि संचिन्महे
किं निर्मास्यथ देवतार्चनम् अतो यूयं कथं देवताः । तच् च क्रीडनम् एव नः स्फुटम् अभूद् अस्माभिर् ईदृग्-विधैर्
ऐकात्म्यं व इति प्रसह्य विहरन् हारी हरिः पातु वः

1.31.34

[44] कदाचिच् च-
का यूयं वन-देवताः कुरुथ किं पुष्पाणि गृह्णीमहे
राज्यं नस् त्रिदशैर् विहापितम् इदं देव्यो वनस्यात्र काः । अस्मज्-जातिभिर् अर्पितं यदि तदाप्य् अस्माकम् उच्चैः स्थितिः
स्याद् एवं स-विवादम् अङ्गज-रणः कृष्णस्य ताभिर् बभौ

1.31.35

[45] कदाचिच् च कस्याश्चिद् दूत्या सह कृष्णस्य वाकोवाक्यम्-
इयं का स्त्री स्त्रीत्वं भवति कथम् ईषत्-पदम् इदं
किम् अस्थाने सिद्धं तव वचनम् अस्थानकम् इदम् । न काकोर् उद्भूतं भवति तद् अहो काकूर् इह का
तद् एवं दूती-वाग् जयति हरिणाक्ष्या हरिम् अनु

1.31.36

[46] अथ गव्य-विक्रय-व्याजतः क्रीडा-विवादो, यथ-
का यूयं किल गव्य-विक्रयिकिका लक्ष्मीम् अतीत्य स्थितिं
प्राप्तानां न तद् अस्ति सम्भव-पदं युष्माकम् आसां क्वचित् । मूल्यं ताम् अतिपत्य तस्य विदितं तस्मान् न तद्-दूषणं
दानं तर्हि ममापि तद्वदम् इदं दत्ताथ घट्टेशितुः

1.31.37

[47] अथ सखीन् प्रति श्री-कृष्णस्यादेशः-
गृह्णीध्वं पूर्वम् आसां फलम् अतुल-बलाद् घट्ट-चर्या-विघट्टं
कर्त्रीणां तस्य चास्ते वितनुत परितो रोदनं बोधनं च । बुध्येरन् यद्य् अमूर् न स्फुटतरम् अटवीकारया धारयिष्याम्य्
एताः किं वा हरिष्ये स्वयम् अथ पिहिताः सम्यग् अन्विष्य नीवीः

1.31.38

[48] तद् एवम् उदित्वा मुदित्वा च तत् तद् आचरितवति तस्मिन् कथंचिद् गृहम् आगत्य गत्य्-अन्तरेण सखीषु तत्-प्रख्यापयन्तीभिर् इदम् अपि गीतम्-
तं शृणु सद्-विध-मोहन-करणम् । ध्वज-वज्राङ्कुश-लप-दार्पण-भूरुह-पुनर्-अङ्कुरणम् ॥ध्रुवम्॥ गजगति विहरति गायति नृत्यति वादयते च स वंशम् । अस्मत्-पद्धतिम् आवृणुतेऽ पि च नाथति घट्टगम् अंशम्

1.31.39

[49] तद् एवं नौकया रमणम् अप्य् अवगमनीयम् ।
[50] यदा हि क्वचिद् अमूश् चमूरु-दृशस् तदीय-सौन्दर्य-सारावलोकन-कुतुकि-दृशः समूह-व्यूहम् आचर्य विहार-चर्यया तम् उपसद्य च परिहासतः परतश् चरण-चर्याम् आचरन्ति । तदा चतुरानन-विमोहनः स च खलु सहचर-सहस्र-विस्रम्भ-महकरः सहचरतया सर्वतः पर्वत-निर्झरानेकी-भावेनावर्ज्य स्फुटम् अर्ज्यमान-सुखतया मध्ये तासां वामता-युजां मोहनाय कूल-मुद्-रुजां दुर्ध्यान-कारणां दुर्निवारणां सरिद्-वरां प्रवर्तयति । प्रवर्त्य च पुरुष-द्वयद्वयसीयम् इति व्यवसीय-मानतया तस्यां नाव्यतया भाव्यायां बहुल-पलाश-दल-मयीं महा-तरणिं सरणिम् अनु सखिभिर् अखिल-मणिः प्रणीय कर्ण-धारायमाणस् ताभिर् आतर-वितर-विस्तारादि-कातराभिः प्रणय-मय-नयतया प्रणीत-कलहं बहुल-विलासं
निचुलितालङ्कार-कलनाय कलयति ।
[50] तद् अपि गीतं, यथा-
सरितं नावं रचयति च द्रुतमस्माकं पथि तस्याम् । आरोहयते पारयितुं नः स्पृशति मिषादपि यस्याम्

1.31.40

[50] ताभिर् एवात्र श्लोकितं, यथा-
आरोहाय विधाय संस्तरमिलत्पर्यक्स्तवं तद्वचः- साहाय्यं विरचय्य नः सखि नदीमध्यं यदा जग्मिवान् । वृण्वन् दुर्वितरं तदातरपणं विष्कभ्य नौकां न कां चक्रे वक्रकलाकलापकलनां चक्राङ्कपाणिः स तु

1.31.41

[53] तद् एवं साक्षात्-कृत-मनोरथ-ततिः समभीप्सित-गृह-गतिः सखिभिश् चरित-जल्पः पुनः स्नानादि-रचिताकल्पस् तत्रैव च कुत्रचन तटिनी-तटे कदापि यमुना-निकटे पयः-पायनाय संकटितां गो-घटां घटयन् क्रमशश् च गणनया गणशः प्रकटयंस् तन्-मनन-चरितार्थतया जगौ ।
[54] तच् च ताभिर् अनुपठितं, यथा-
मणि-माला-कृत-गो-गण-गणना-पूरणम् अनु सानन्दम् । प्रणयितरांसग-भुजम् उद्गान-हृत-हरिणीकम् अमन्दम् ॥कृष्णं कलयत मोहन-मन्त्रगम् एणीम् एणी-नयनाम् । न यदि तदा कथम् उभय-व्यक्तिं वीक्षे तद् अपृथग्-अयनाम्

1.31.42

इति ।
[55] ततश् चेतस् ततः सखिभिर् अखिलैः प्रणीतानीतामन्द-मकरन्द-सुन्दर-कुन्द-दामभिर् मुकुन्दः कृतालङ्कृतिर् यथा निजहार । श्रेणीकृत-गो-समाहृतिर् यथा चाससार । तथा वर्णितम् । किन्तु तद्-विलम्बतः कातर्य-पर्याकुलायाः श्री-व्रजेश्वर्याः सभागततया स्वभाव-गोपनया । तथा हि-
आगतम् इव हरिम् अचिरम् । कलयत सुहृदां दयया यद् असौ नगम् अपि दध्रे सुचिरम् ॥ध्रुवम्॥ कुन्द-स्रग्-अवित-कौतुक-वेशं गो-गोपैर् विहरन्तम् । मृदु-मृदु-मरुद्-अनुवीजितम् अनु लवम् अखिल-मनांसि हरन्तम् ॥सुर-वन्दिभिर् अभिवन्दितम् अवहित-तत्-कृत-नर्तन-वाद्यम् । मुनि-समुदय-नुति-गुणितं गुणिता-निपुणं जगद् अभिवाद्यम् ॥अथ गो-धन-गणम् अनु समम् अनुगैस् तद्-वर्णित-गरिमाणम् । श्रम-कान्तिभिर् अपि सुख-कारिणम् इत-वेणु-कला-वरिमाणम् ॥खुर-रेणु-प्लुत-माल्य-मनो-हरम् ईषद्-घूर्णित-नयनम् । एतं पश्यत निज-जन-मानदम् ईप्सित-गव्यानयनम् ॥कुण्डल-लक्ष्मी-भृत-पाण्डु-द्युति-गण्डं गज-पति-खेलम् । क्षणदा-पतिवत् प्रमुदितम् उदितं प्रागधि-सन्ध्या-वेलम्

1.31.43

इति ।
[56] अथ वैष्णवं वाराहम् अपि पुराणम् अनुसृत्य गत्य्-अन्तरं प्रत्याययिष्यामः ।
[57] एवं समयन-समयानवलोकतः समयाकरणाय तद्-वर्णनावगाह-रोचनासु कर्णजाह-विलोचनासु चेतसि रचित-तदीय-शोचनः श्री-कमल-लोचनः समागम्य यथा-यथम् अवितथ-रम्य-सुख-धारया सर्वं सुखाकुर्वन्न् अपि तासां विरह-दहन-ज्वाला-विशेषावशेष-सन्तप्त-भङ्गुरापाङ्ग-पात्र-सपत्र-कृतस् तद् अपसारणाय मुरली-कली-कलया गो-धनालय-गोवर्धनाचलयोर् अन्तराले ता एवानन्य-गतितया संकलय्य निर्वृतिं परिकलय्य च वसन्त-सन्तत-रासाय युक्ति-मुक्ति-विषयां संवलय्य तासाम् आशासानानाम् आशां ददमानः स्व-व्रजतः प्रगर्जद्-अरिष्ट-कृतारिष्ट-कष्टतः प्रकटम् आक्रुष्टं श्रुतवान् । श्रुत-मात्रे च तत्र निज-निज-वर्त्मना ताभिः सह सहसा व्रजम् आवव्राज । तद्-अनन्तरं तु वृत्तं पूर्वम्
एव वृत्तम् अस्ति । तत्रेमां गाथां प्रथयन्ति-
गतस्य रास-विक्रीडाम् आगतस्य वृषासुरम् । देवैर् न दृष्टः कृष्णस्य सम्भ्रमः किम् उत श्रमः

1.31.44

[58] यदा खलु रिष्टः सोऽ यम् अरिष्टस् तदापि तद्-अरिणा हरिणा निजाविष्टता नापकृष्ता । वीर्यस्य बहु-विकीर्यमाणताम् अवाप्तास्य पर्याप्त-विषयतां सोऽ यम् अनासीदन् दिति-सूनुर् आसीदिति ।
[59] अनपकृष्टायां च तस्यां सरङ्ग-भूतागस् तत्-सङ्गमतः सागस्क इव पार्ष्णि-प्रहाराल् लम्भित-विदरतया विभागम् आगमितः । य एव विभागस् तीर्थतां समर्थयन् निखिल-पुरुषार्थं प्रत्यव्यर्थताम् आससाद ।
[60] यत्र च श्री-हरिर् इयं स्वयम् अखिलैः सखिभिर् मज्जन् सज्जनानाम् आचारं प्रचारयामास । पातालान् महा-तीर्थम् इदं समुत्थितम् इतीत्थं व्यज्य निमज्ज्य समुन्मज्ज्य बहु विसर्ज्य च सर्व-व्रज-जनतया जनित-शर्मा गीति-रिपु-विजय-कर्मा व्रजम् एवावव्राज ।
[61] आव्रज्य च श्री-व्रज-राजादीन् प्रणय-विनयाभ्यां सुसभाज्य विश्रमण-व्याजतः शय्या-गृहम् आसज्य सङ्केतित-वेणु-संक्वणितेन परमानुराग-सागरः सर्वतः श्रेयसीर् अमूः प्रेयसीः पूर्व-कृत-व्रज-व्रज-बाह्य-विभाग-मय्यां मह्यां संकलय्य केनाप्य् अवयज्यतया पुनर् अपि रासायासादितवान् । तत्र च-
राधयास्वादिता यासीन् माधुरी माधवाधरे । सैवानुभूता मुरली-कली-खुरलिकाम् अनु

1.31.45

तत्रैव च-
अभिसारे चलचेला व्रज-तन्वीनां तती रुरुचे । अपि किं विजय-पताका दधिरेऽ नङ्गस्य सङ्गतिः

1.31.46

[62] यत्र च पथि प्रथम-लब्ध-निर्गमया परम-रमया निखिल-कलिताराधया राधया समम् एकान्ततः कान्तस्य नर्म महदेव शर्म पुपोष ।
[63] यदा हि चिन्ता-सन्ताप-तान्त-स्वान्ता सा कान्ता तादृश-विपत्तिम् उत्तीर्णं तं कान्तं रहः संहितवती तदा लज्जा-मर्यादाम् अप्य् असज्जन्ती परिष्वज्य व्यज्यमान-स्तम्भ-मुख-सात्त्विक-सम्भवा चिरं विचार-रहितताम् आचरति स्म ।
[64] स च तथैव ताम् अनुचरति स्म ।
[65] ततश् च सखीभिः कथंचन सान्त्वितयोः कान्तयोः कान्तस् तु स्व-निर्मितं तत्-कुण्डं तासां दृष्टि-किर्मीरितं निर्मिमाणः सनर्म कान्तां व्याजहार ।
[66] पश्य पश्य मम कमलाकरोऽ यं सागर इव गिरिराजम् आसज्य कमलोद्भवं भावयिता । सुधाकर इवैक-देश-स्थित्यापि निज-रुचिभिः कुमुद-वनं विकासयिता । दम्भोलि-पाणिर् इव स-दम्भोलितया विलासी । अम्भोज-जनिर् इव भुवन-विसर्जनेन प्रभासी । त्रिपुर-जिष्णुर् इव सह-सागर-मान-शमनः । श्रीमान् विष्णुर् इव परमहंस-चक्राश्रयता-कमनः । श्री-राम इव रोहिणी-सुख-संचारी । किं बहुना, श्री-रामानुज इव च शिष्ट-कष्ट-प्रद-पापारिष्ट-हारी । तद् एतन् मया खलु कृत-सुकृत-प्रसरं सर इदम् अचिरं विरचय्य चरितार्थता लब्धा । भवत्या तु नेदृश-नैपुण्यं पुण्यं कृतम् इति गुण्य्-अनुगुणता कथम् आप्स्यते ?
[67] अथ तस्याः सवयसस् त्व् इदं परिहसन्ति स्म-[68] न वयं वृषघ्नता-निघ्नतया विघ्नम् आप्ताः । येन प्रायश्चित्तत इव लोकस्य प्रायश्चित्तम् आराधयामः ।
[69] कृष्णः सहासम् आह स्म-न खल्व् असौ वृषः । किं तु वृष-विरोधी वृषता-मिषवान् असुरः । तस्मात् तत्-पक्षपातितया भवतीनाम् एव वृषघ्नता पर्यवस्यतीति भवतीनाम् एव निष्कृतिः कृतिर् विषयताम् अर्हति ।
[70] तत्र च प्रजाकृतं राजनीति राजनीति-न्यायेन भवदीय-राजायमानायाम् अस्याम् एव सा जायमाना स्याद् इत्य् असाव् एव तत्र प्रधानतयावधीयते ।
[71] सख्य ऊचुः-भवतु, तथापि यथा-कथम् अपि भवत्-प्रसङ्गत एव सङ्गतः खल्व् अयं दोष इति तन्-मोष-कृते भवत्-कृतम् एवानुकर्तव्यम् ।
[72] या खलु भवन्-मङ्गलतः सरसी-भूतायाः सवयसः सरसी भविता सा पुनर् अमर-तरङ्गिनीव कृष्णाङ्ग-राग-विलासिनी । अमृत-निधि-प्रियावलिर् इव बहुल-ताराङ्गता-भासिनी । सूत्राम-गृह-नेत्रीवोपेन्द्र-देव-रतामोदातिरेकिणी । सावित्री-मुख-विचित्र-श्रुतिर् इव नालीकिनी । उमा-मूर्तिर् इव गिरि-राजाद् उद्भव-धात्री । मामूर्तिर् इव हरि-हृदि विलास-पात्री । राम-शक्तिर् इव गाम्भीर्यतः प्रलम्बमान-मद-मज्जनी । किं बहुना, राधेव राधान्तिक-पूर्ण-विधोर् वशता-सज्जनीति ।
[73] अथ स-तृष्णः श्री-कृष्णस् तु राधा-चिबुकं करेणादरेण दराप्य् उन्नम्य स्मित-रम्यम् इदम् आह स्म-
तद्-वक्त्रं यदि को विधुः स्मित-कला सा चेत् प्रभा निष्प्रभास्
ते दम्भा यदि भानि धिग् यदि च ते नेत्रे चकोरैर् अलम् । इत्थं सर्वजनाद् असौ सह-गणं स्वं प्रत्य् अवज्ञा-वचस्
त्वत्-प्राशस्त्य-मयं निशम्य हृदये राधे मुहुर् म्लायति

1.31.47

[74] अथ पुरतश् चलित्वा क्रमतः सर्व-पथीनाभिः सर्वाध्वनीनाभिः सर्वाङ्गीन-कम्प्राभिः सर्वाभिर् मिलित्वा विधु-विधूत-तमसि यमिन्यां स-पर्वतः पर्वत-राजम् अनु ऋतु-राज-विराजमान-कानन-गतं सर्वतोऽ प्य् अधिक-विलास-विततं रासम् उल्लासयामास ।
[75] तत्र देवीनां वाणी-
इयं विद्युद् इदं शक्र-धनुः सोऽ यं नवाम्बुदः ।
शश्वद्-घन-रसं वषन्-नमूः कर्षति चातकीः

1.31.48

[76] तत्र वयः-सौभाग्यं, यथा-
कान्तिः कान्ति-समूह-जात-घन-जिल्लावण्यम् ईदृग्-घन-
प्रोद्यन्-मौक्तिक-जेतृ-रूप-वरिमा विश्वादि-कृन्-मोहनः ।
एवं चेद् अजितस्य सार्वदिकता कैशोरके वा तदा
पूर्णे कः कविताम् इयान् नव-नवास् तत्रापि यत्र श्रियः

1.31.49

[77] यथा च पुर-स्त्री-जनोदितम् अनुमोदितं श्री-बादरायणिना-
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥[भ्प् 10.44.14] इति ।
कान्तीनां मथनाद् भवन्तु जलदाः केचित् कदाचित् क्वचित्
तेऽ प्य् उच्चैर् विलसन्ति तर्हि तडितः क्रिडन्ति चेत् तादृशाः ।
इत्थं कृष्ण-घने तडित्-तुलनया ता वर्णयन् श्री-शुकस्
तासाम् अव्यभिचारि-शोभयितृतां व्यानञ्ज पश्य स्फुटम्

1.31.50

[78] तथा च तेन तद्-वर्णनम्-
पाद-न्यासैर् भुज-विधुतिभिः सस्मितैर् भ्रू-विलासैर्
भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्डलोलैः ।
स्विद्यन्-मुख्यः कवर-रसना-ग्रन्थयः कृष्ण-वध्वो
गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥[भ्प् 10.33.7] इति ।
[79] तत्र च सम्प्रति, यथा-

1.31.51

मिस्सिन्ग्!
प्रतिक्षणम् अमी गुणा हरि-रमासु वृद्धिं गता
दिनं दिनम् इति ब्रुवे किम् इह सर्वदैवं स्थिते ।
नवे वयसि किंतराम् इह च तत्र वा किंतमाम्
अरिष्ट-शमनान्त-निश्य् अजनि यत्र सा चर्चरी

1.31.52

[80] रासोत्सवोऽ यम् अपि, यथा-
यदा पूर्वं वृत्तः शरदम् अनु रासः किल तदा
बभूवाद्यारम्भद् दिविजम् अपि वाद्यादि-सचिवम् । यदान्ये तत्-पश्चाद् व्यरचिषत ते तर्ह्य् अखिलजिन्- महा-सङ्गीतार्हं व्यरचि हरि-राधादिभिर् अदः ॥51॥
उपर्य्-उड-गणः क्षितौ सुरभि-चित्र-पुष्पावलिस् तथा तद् अनु चन्द्रिका विविध-रत्न-लक्ष्मीर् इह ।
स तत्र शश-लाञ्छनी विमल-वक्त्र-सङ्घा इतस् तद् एवम् उभयोः स्थितिर् गगन-रास-रङ्ग-श्रियोः

1.31.54

यतः-
ज्योत्स्नी स दिद्युते सेव स रङ्गः स्व-तुलाधृतः ।
सुदृशोऽ मूर् अमूदृश्यः कृष्णः स्वोपम एव सः

1.31.55

सौन्दर्यम् इव साद्-गुण्यं सर्वोर्ध्वं यत्र दीव्यति ।
साद्गुण्यम् इव सौन्दर्यं राधिका साखिलाधिका

1.31.56

[81] स एष एव महा-रास-रसः किंचिद् आगम-कृता चावगमितः ।
वसन्त-कुसुमामोद-सुरभी-कृत-दिङ्-मुखे ।
गोवर्धन-गिरौ रम्ये स्थितं रास-रसोत्सुकम्

1.31.57

इति ।
[82] अथ तद्-वसन्त-रास-विलास-रजन्याः प्रातर् एव सखीभिर् अगण्याभिः कृताराधया तदीय-साहायक-संबाधया श्री-राधया स्व-कर-कमल-कलिते ललिते सर्व-सुखं वलयितुम् उल्लले तस्मिन् पल्लले तयोः कान्तयोर् अलम् एव सुख-परिमलः समुल्ललास । तथा हि-
कदाचित् कुण्डस्याम्भसि विहरते कर्ह्य् अपि बहिः
कदाप्य् अन्तः-कुञ्जे क्वचन-समये रास-वलये ।
समं राधा-देव्या हरिर् अखिल-सख्यालि-सुखदः
पुरा तत् तन् नित्यं स्मरयति मनो नः स्वम् अभितः

1.31.58

[83] किं बहुना ? तत्रेयम् अपि पुराणानां गाथा-
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥इति ।
[84] पुनः स्मृतिम् अभिनीय समापनं पद्यं निजगाद-
अन्योऽ न्यं मिलन-स्पृहा-मिलनम् अप्य् अस्याहतिर् दानवाद् यस्मात् तद्-धितरात्त-नर्म-मिलनं कुण्ड-द्वयस्य क्रिया ।
सर्वासाम् अधि मध्यम् उज्ज्वलतया रासान्तराल-स्थितिः श्री-राधा-जितयोर् मनो मम मनाग् अद्यापि नैवोज्झति

1.31.59

[85] इति वैवश्य-पारवश्यम् आसीदन् सीदन्न् इव मूर्च्छम् ऋच्छन् स्निग्धकण्ठः सर्वान् एव च तत्-तद्-भव-भवनान् भावयामास ।
[86] तच् च युक्तं, यथा-
अतिपूर्वं यद् अपूर्वं निज-मतिर्
दुर्लभम् अतीव हृद्यं च । वृत्तं तत् प्रतिनवतां प्रयाति
भूयोऽ नुभूयमानं च

1.31.60

[87] तद् एतद् वर्णयित्वा स्निग्धकण्ठः समापनम् आह स्म-
राधे त्वद्-वल्लभः सत्यं सर्वैर् अपि सुदुर्लभः । सुलभोऽ प्य् अधुना योऽ यं भवत्या मन्यतेऽ न्यथा

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc