गोपालचम्पू · अध्याय 1.30
इति श्री-श्री-गोपाल-चम्पूम् अनु
रहः-कुतूहल-वह-बहल-रहः क्रीडाख्यम्
एकोनत्रिंशं पूरणम्
॥29॥
(30)
अथ त्रिंशं पूरणम्
निर्व्रीड-होरिका-विक्रीडनं
[1] अथ मधुकण्ठः प्रभातकथां क्रमतः प्रक्रमते स्म-
अम्बिका-वन-गतिर् बभूव सा केलि-कर्मणि हरेः समर्धनी ।
आगतावपि तदा पुनर् व्रजे होरिका-प्रमद-पर्व-पद्धतिः
[2] तत्र च पर्वणि सर्व एव स्त्री-पुंस-जनः प्रमत्त-गण इव गायन् नृत्यन् युध्यन् क्रिडतीति मध्य-देशतः समुदाचारः प्रचरति भविष्योत्तर-पुराण-प्रामाण्यस्य पुराणानां मान्यतया ।
[3] अथ तत्र यदा पूर्ण-गुण-फाल्गुन-पूर्णिमा-निशायां कुतुक-तृष्णक् कृष्णश् च रामश् च ढुण्ढा-परपर्याय-होरिका-गृह-गृह्यायां भुवि रमते स्म । तदाकस्माद् उत्तरस्माद् आगतः कश्चिद् यद्यपि गुह्यकाधिप-संग्राह्यस् तथापि गुह्यक-गर्ह्यतया कंस-शुभाशंसनस् तत्र क्रीडन्तीर् व्रज-युवतीः प्रति दुर्दृष्टिं विधाय तद्-आकृष्टिं चिन्तितवान् ।
[4] चिन्तयन्न् एव च सहसा तत्र प्रविष्टः स खलु दुर्ध्यानाविष्टस् तस्माद् अकस्माद् अङ्गनानां गणम् उदजवज् जवतः कालयामास ।
[5] अथ साग्रजः सोऽ यं गदाग्रजस्तमसभ्यस्वभावमुपलभ्य पूर्वं तत्पर्वरसिकवैहासिकवेशविशेषं दधृषं मन्वानः स्थगित इवासीत् । ततश् च-
प्रतिहरि-गति-चेष्टा शङ्खचूडेन रुद्धा
दृग् अपि रुतिर् अपि द्राक् कृष्ण-रामेति तासाम् ।
यद् अयम् अतुल-वेग-द्रोहि-रूपाति-शब्दैः
प्रतिपदम् अनुवर्ती वृत्ति-लोपं चकार
[6] अथ तत्र श्री-कृष्ण-वाक्यम्-
प्रत्ययन्त्योऽ प्य् अतिजव-भराद् अस्य घोरान् निवृत्ताः
पश्यन्त्यो नाव् अपि धिग् अमुतस् त्रास-विध्वस्त-नेत्राः ।
क्रोशन्त्योऽ पि प्रतिरुतिकृतानेन नीरुद्ध-शब्दाः
भ्रातस् तर्ह्य् अप्य् अहह किम् अमू रक्षितुं न द्रवाव
[7] तद् एवं निश्चिन्वानौ तं भीषणारम्भतया स्तम्भयितुं विचिन्वानौ सहसा शाल-द्वयं सहसा त्रोटयन्तौ पुनस् तद्-विटपादिकम् अपि प्रमोटयन्तौ सुदृढ-भुजाग्र-जाग्रत्-तद्-युगलतया प्रबलतया च ताव् अनुदद्रुवतुः । तद् अनु विद्रव-वशाद् अन्येऽ पि संविद्रते स्म । तदा च-
इत्थं न तर्कितं लौकैर् अनयोः शाल-हस्तयोः ।
शालौ किं लघुतां यातौ विग्रहौ गुरुताम् उत
ततश् च-
अग्रे शुभ्रं रौहिणेयं विधाय
श्री-गोविन्दः प्रद्रवच् छङ्खचूडम् ।
कीर्ति-स्तोम-प्रायतां तस्य तन्वन्न्
एष प्रायस् तं पुरस्तात् करोति
विलोक्य स-बलं हरिं परम-विक्रमं स-क्रमं
विसृज्य वनिता-जनं त्वरितम् अद्रवद् गुह्यकः ।
बलस्य किल कालताम् अमत मृत्युतां यद् धरेर्
मृगं तद् उचितं यतः स स जगाम तत् तत् कृतिम्
[8] तेन विसृष्टायां चावलावलावयं बलाभिधस् तत्-संवलनाय तत्र स्थितः ।
[9] अथ श्रीमान् दनुज-गजसिंहस् तद्-अनुजस् तु स-विक्रमं विक्रममाणः प्रहस्य स्फुटम् औत्तराह्वस्य च तस्य दाक्षिणात्यं पलायनम् अवेत्य दूरेत्यं तं प्रत्यवज्ञया तरु-यष्टिं हस्ताद् विभ्रष्टां चकार ।
[10] विद्रुत्य लब्ध-सनीडं पुनर् असौ विक्रीडन-चतुर-चित्तस् तत इतस् तं विद्राव्य चेष्टितेन वेवेष्टि स्म । नृसिंह इव हिरण्यकशिपुं रिपुं स-निग्रहम् एव जग्राह च ।
[11] ततस् तं हस्त-रोधं गृह्णन्न् अह्नाय मणि-गृहीतये स्फुरन्न् उरसिलः कर-सरसिजेन तच्-छिरसि कक्खटी-भाव-विघटित-तद्-अधीचि-मुन्य्-अस्थिजेन गृहीत-संग्राह-सारं प्रहारम् आजहार उत्तरस्मिन्न् अनेहसि मृत-देह-प्रतीकादानम् अनुत्तरम् इतीव भ्रंशयामास च तस्य तम् उत्तंसम् ।
[12] स पुनर् आततायी दुर्मायी मणिम् अनु प्राणान् अपि व्यक्तम् एव त्यक्तवान् । तद्-धन-मात्र-जीवन-यात्रः खल्व् असौ । ततश् च-
जीवो रत्नं वेति भेदाक्षमं तज्-
ज्योतिर्-मात्रं वस्तु यक्षाद् गृहीत्वा ।
पश्यन्तीनां योषितां कंस-वैरी
निन्ये कामं राम-सायुज्यम् एव
[13] तं चाभिपन्नं मुखं व्यादाय विन्नपातं पन्न-मणिं व्यापन्नं दृष्ट्वा श्री-कृष्णाभिप्रायम् अभिप्रयद्भिर् दिविषद्भिर् उपहसितम्, यथा-
स्त्री-रत्नं पुरु परकीयम् आदिथस् त्वं
स्वं चूडामणिम् अपि हारयां चकर्थ ।
अत्याक्षीर् बत निज-जीवनं च धिक् त्वां
व्यादाः किं मुखम् अथ वक्त्रम् अत्र यक्ष
[14] तद् एवं कर्ण-रसनया रस्यमानम् आचर्य रहस्यं विहस्य च स्निग्धकण्ठः पुनः स-बाष्प-कण्ठम् उवाच-
तत्-क्षोभणं तद् द्रवणं तथा तद्-
विक्रीडनं तद्-धननं स्व-शत्रोः ।
तद्-रक्त-रज्यन्-मणि-पाणि-रोचिर्
मय्य् अद्य सद्यः प्रभम् अस्य भाति
[15] पुनर् मधुकण्ठ उवाच-तद् एवं दलित-चूडे शङ्खचूडे निष्पीडिते क्रीडिते च व्रीडितेन निवृत्ते कोलाहल-परम्परातः कातरता-विरत-प्रकृतयः सर्व एव व्रजोर्वीपति-प्रभृतयः समागत्य विस्मित्य च तादृश-दुष्ट-नष्टीभावतः पुनर् भय-सन्देहेनास्पृष्टाः स्पष्टानन्द-सन्दोह-दोहास् तत्-पर्व-क्रीडां निर्व्रीडा इव विवव्रुः ।
[16] विवृत्य च शास्त्र-विप्रतिपत्ति-विप्रयोजयितृ-विप्रेभ्यः सूत-सर्वानन्द-गुण-प्रभूत-सूत-मागध-वन्दिभ्यश् च परमावदानानि दानानि बहूनि चक्रुः । ताभ्यश् च शस्त-वस्त्रादीनि प्रस्थापयामासुः । स्वस्थायमानाः समाजग्मुश् च कृष्ण-कृष्णाग्रजौ पुरस्कृत्य निजं व्रजम् इति ।
एवं विचित्र-विक्रीडः पुत्रस् ते गोष्ठ-नायक ।
तं क्रोध-वह्नौ ढुण्ढाग्रे यक्षोर् अभ्रं जहाव यः
[17] अथात्र रात्रि-कथायां मधुकण्ठस् तां होरिका-कथाम् एव विशेषतः सेवयामास ।
शिव-क्षपायाम् अथ यापितायां
वल्गूत्सवा फाल्गुन-पूर्णिमागात् ।
पक्ष-द्वयस्यास्य यथैव कान्तिः
पर्व-द्वयस्यास्य च तद्वद् अस्ति
हिमे गते हिम-रुचिर् उज्ज्वलं बभाव्
अफल्गुनि स्व-महसि फल्गु-पर्व च ।
न वाभवन् कथम् अथ तत्र गोपिका
मदोत्कराद् अपि परिभूत-गोपिका
[18] अथ बलक्ष-पक्ष-सपक्षकैर् अवप्रकर-शोभाकर-करनि-कर-करम्बितां स्व-मनोरथ-प्रथनावलम्बितां क्षपम् अन्वीक्ष्य सर्वास् तत्-पर्वानर्वाचीन-समुदाचार-गर्वान् मुदा बहिर् आविर्भवन्ति स्म, यथा-
मुहुर् अगणित-गौरवाः समन्तात्
प्रणय-मदात् परिधाय दिव्य-वेशम् ।
अपि बत जनतासु होरिकायां
हरिम् अभिसस्रुर् अहो व्रजस्य नार्यः
[19] तद् एवं सद्म-सद्मनां सखी-पद्म-वरूथिनीभिः सह यूथ-नाथ-कवच-स्थिति-रचन-कञ्चुलिकादि-वस्त्रैः सुरभि-कषाय-मोचन-यन्त्र-प्रभृति-शस्त्रैर् बहुल-काहलादि-वादित्र-विचित्र-कुतूहलैः स-केलि-गालि-रीति-मय-गीति-कोलाहलैः सार्वत्रिक-तत्-पार्वण-रीत्या निर्लज्जतया सज्जतया च व्रज-पुर-द्वार-पुरः-स्थित-होरिकायतनाग्रीय-समग्रायत-प्राङ्गण-विहार-सङ्गर-रङ्ग-भुवि संगता बभूवुः ।
[20] याः खलु बल-बलानुजयोर् यथास्वं पृथक् पृथग् अनुराग-धरणाद् विभागम् आगतास् तत्-तन्-निष्ठ-दृष्टितया तिष्ठन्ति स्म ।
[21] तत्र ताभिर् ईर्यमाणं वर्धित-शौटीर्य-परिमाणं कल-कलम् आकलय्य जय्यतामय्यस् ता इति भावनां पर्यवसाय-साहाय्याय सखि-घटया कटकं सङ्घटय्य तद्वद् एव सज्जतया बल-बलानुजाव् अपि वल्गु वल्गन्तौ तत्रैव गच्छतः स्म ।
[22] गतौ चानवद्य-वाद्य-घोषेण घोषं वधिरयन्तौ प्रतिसेनाम् अवधीरयामासतुः । येन समुद्दीपित-मानाः प्रतिसेनायमानाश् च तास् तथा वाद्यतः संमुखताम् आसाद्य परितस् तान् अपि सर्वान् अतिचित्रयामासुः ।
[23] यत्र प्रतिस्पर्धया वर्धमानयोस् तयोर् यूथ-वरूथिनी-प्रमाणयोर् एकत्र माधवः परत्र तु राधा राजायते स्म । जायते स्म च तेन जनानाम् अतिविस्मयः । तथा हि-
यद्वच् छुभ्रतर-प्रकीर्णक-मणि-च्छत्रादिकं श्री-हरेर्
आसीत् तद्वद् अमूभिर् अप्रथि तदा श्री-राधिकायाम् अपि ।
किं चाभ्यां न परस्परं नयनयोः प्रान्तश् च सेहे
यथा जेतृत्वं क्व नु जेयता च भविता कुत्रेति नात्रोहितम्
[24] तद् एवं परस्परम् उत्साहमानताम् असहमानताम् अप्य् अधिकृत्य कृत-कृत्यता-समाहारयोर् मनोहरणायाभिहार-विहारयोस् तयोर् अनीकिनी-सहितयोः सर्व-महितयोः समञ्जसताम् इव संजयन्ती व्रजराज-सवयः-पुरोहित-श्वशुरावरज-दारतया गन्तव्य-पक्षं नर्म-शर्मणा रञ्जयन्ती काचिद् अर्ध-वृद्धा तत्-प्रेम-समृद्धा मध्यस्थ-पदवीम् अध्यास्य प्रगल्भतया गत्या वात्यायमाना राधा-वर्ग-मध्यात् तत्-प्रतिपक्षस्य क्ष्माधवं श्रीमन्-माधवं संनिहितवती । संनिधाय च यथा-यथं प्रथमान-स्मिततया कृतेऽ भिवादनेऽ भिवदने च तेषां सर्वेषां शृण्वताम् अब्रवीत्-
[25] अहं किल प्रज्ञा प्राज्ञा च महा-धराधीश-गण-कृताराधाया श्री-राधाया दूत-कर्मणि प्रभूतताम् आसन्नास्मि । तद् एतद् अवधार्यताम्-
[26] इत्य् उक्त-मात्राम् एतां मधुमङ्गलः सहासम् आह स्म-किम् उक्तम् अवधार्यताम् इति ।
[27] तच् छ्रुत्वा सर्वस्मिन् प्रहसति सोवाच-वधिरोऽ यं भवतां सभासद् इति ।
[28] मधुमङ्गल उवाच-युक्तं तवेदं निरर्गलत्वम् । यतस् तस्या धराधिशाया वशा भवती कस्य वान्यस्य वशा भविष्यति ।
[29] श्री-कृष्णस् तु स-गाम्भीर्यम् उवाच-निकामम् एव निवेद्यताम् ।
[30] दूती तु तया शिष्टाचार-प्रतिपालयित्र्या विशिष्टम् इदम् आदिष्टम् इत्य् अर्धोक्ते विष्णु विष्ण्व् इत्य् उक्त्वा प्रोवाच-शची-जयि-तदीय-सचिव-वराभिर् इदम् आदिष्टम् । सर्वत्र प्रसृमर-समज्ञाम् अस्मदीय-राज्ञीम् अवज्ञाय दूरतश् च किम् उत पूरतश् छत्रादिक-धारणं भवताम् असाधारणम् ।
[31] अथ कृष्णः सभाभिः सह हसित्वा प्रोवाच-सत्यं तद्-आदेशतस् तद्-अभिनिवेशं त्यजामः । किन्तु युद्धं विना राज्ञां वेद-बुद्धं स्याद् इति युद्धाय संनद्धया भवत्या भाव्यम् इत्य् एव वक्तव्यम् ।
[32] अत्र मधुमङ्गलः संमुखं गतस् तद् इदम् आह स्म-देव तद् इदम् एव समाकर्ण्यताम् । जातितः स्त्री चास्त्री यो जनस्तस्मिन् वामतारामे नाममात्रेण रामास्पदमागते नार्जवचर्यया कार्यमर्यते । तस्मादार्जववर्जनादूर्जस्विनस्ते वयम् एवदूत्याय स्थापनीयाः प्रस्थापनीयाश्च । अस्मासु चाहम् एवप्रहापणीयः । यतः कोविदोऽ स्मि ।
[33] दूती सहासमाह स्म-लालाटिक भवान् यदि कोविदस् तर्ह्य् अन्यः कोऽ विदः ।
[34] मधुमङ्गलः सोत्प्रासम् उवाच-जल्पाकि कलयामि भवती तस्याः सभाया विन्दुर् अस्ति । तथापि त्रयीतनोर् ममाग्रतः स्थितिर् अपि तव न स्थिरतां लभेत ।
[35] दूती सावज्ञम् उवाच-विशारदाया मम पुरतः शारदस् त्वं कियद् वा वदितासि । तस्मान् नीवाकवलितम् आकलय ।
[36] मधुमङ्गलः स-रोषं श्री-कृष्णम् अवलोच्य वक्ति स्म-पर-वक्तव्या खल्व् इयं वक्तव्या भवतीति नास्माकं वक्तव्या भवितुम् अर्हति । किन्तु सेयं तावद् अत्र निरुध्यताम् यावद् अहं तद् वृत्तम् अवबुध्य सुध्य्-अग्रणीर् भवन्तम् अवरुणध्मि ।
[37] दूती स-हासम् उवाच-नूनं भवतां दूतः सोऽ यम् अग्रत एव व्यग्रताम् अवाप । यन् मामत्र रुद्धन्न् एव तत्र जिगमिषति । तस्मान् न मादृग् इव निःशङ्कं सोऽ यम् इति भवतां कलङ्काय परं प्रतिपत्स्यते । युक्तम् एव च तत्-तद्-आवयोः । स्वामि-गुणा हि परिजनम् अनुयन्ति ।
[38] कृष्ण उवाच-भामिनि स्वामि-गुणत्वं पुनः प्रकारान्तरेण मन्तव्यम् । सा खलु वामा वयं तु दक्षिणा इति ।
[39] दूत्य् उवाच-यूयं खल्व् अपसव्या इति सत्यम् एव यतः स्वेषां दक्षिणतावाचित्वेऽ पि प्रतिकूलतां न जहीथ ।
[40] मधुमङ्गलस् तु तद् अशृण्वन्न् इव प्रोवाच-महाराज वामात्वम् एव खलु तासां बलाय कल्पते यस्माद् अबलाः ।
[41] दूत्य् उवाच-दोष-ज्ञाः खलु भवन्तः कथम् इव गुणानुसन्धानं कुर्वन्तु ।
[42] मधुमङ्गल उवाच-दोषैक-दृक् पुरोभागीत्य् एवं यच्-छाब्दिकैर् मतम् तस्मात् त्वम् एव पुरतः सुधीभिस् ताभिर् आहिता ।
[43] दूत्य् उवाच-असङ्ख्यावतां भवतां पुरतः कथम् एक-सङ्ख्यावती प्रत्युत्तरं दद्याम् । भवांस् तु तत्रानुबन्ध एव । तथापि सर्वे शृण्वन्तु । तासाम् अबलात्वं खलु विरोधि-लक्षणया यतः शस्त्र-शरीरत्वम् एव दृश्यते । तद् एतच् च तन्-मुख्याम् उपलक्ष्य लक्ष्यताम् ।
केशाः पाशाश् चल-नयन-युगं वाण-युग्मं नमद्-भ्रूश्
चापः कर्णावरि-परिदधतौ नासिका दिव्य-शस्त्री ।
दन्ता वज्राण्य् अपर-तद्-अपरं तर्क्यम् एवं तद् एतच्-
छस्त्रै राधा स्वयम् उदयति को वा बलीयान् अतोऽ न्यः
[44] अत्र को वा बलीयान् अतोऽ न्य इति कृष्णम् एव कटाक्षेण पश्यन्ती प्राह स्म- [45] एवं विवदमानयोर् अनयोः कृष्णस् तु तया प्रस्तुतं तस्याः सौन्दर्यम् अवधार्य क्षणं धीरतां संधार्य प्रोवाच-दूति जातित एव प्रतीपदर्शिन्य् असि । किं ब्रुवे । किन्तु मदीय-दूत-निर्मिता राज-नीतिर् इयं न तु भीतिः ।
[46] ततो भवती तावद् अत्र स्थितिम् अनुभवतु । मम दूतस् तत्र गच्छतु । ततः संचारकाणाम् आचारेण समाचारेण साचारे लब्ध-प्रचारे यथायथम् आचरितव्यम् ।
[47] पुनर् मधुमङ्गलं प्रत्य् उवाच-भद्रं स्वयम् एव तत्र गम्यताम् इति ।
[48] दूत्य् उवाच-
न्याये युक्तौ प्रमाणे च स्थितो मध्यस्थ उच्यते ।
परं मध्ये स्थितो यः स्यात् स मध्य-स्थावरः स्मृतः
[49] सोऽ यं पुनश् छेक एव । ततः शिक्षाम् अपि नार्हतीति स्वैरम् एव गच्छतु ।
[50] मधुमङ्गलस् तु विशस्ता खल्व् इयं कथं शस्तं वदतु नामेति निवेद्य यथादिशन्ति महाराज-महाशया इति प्रस्थितवान् । प्रस्थाय च तासां स्थानम् आसीदन्न् आशी-राशिभिः प्रसादम् आसादयामास ।
[51] सर्वाश् च नमस्कृत्य स-स्मितं कृत्यं पृच्छन्ति स्म ।
[52] मधुमङ्गलस् तु भवतीनाम् एतन्-नृत्य-दर्शनम् एव कृत्यम् इति प्रोच्य प्रत्युवाच-किं च भवतीनां दूती तत्र गता वर्तते ब्रूते च । अस्माकं राज्ञी सार्वभौमं भवन्तं मिलितुम् इच्छतीति । तद् अवधार्य विस्मयाद् अस्माकं राज्ञा चाज्ञापितम् । सा खलु परानुगता जातास्तीति श्रूयते । तस्माद् एतन् न श्रद्दध्याम । अतः स्वस्य स्वसा काचिद् अस्मासु कस्मैचन विवहनाय दीयताम् । तदा तस्याः श्वोवसीयसाय स्याद् इति ।
[53] सर्वाः स-भ्रू-विजृम्भम् आहुः स्म-वाचाट-तापाटवमय-धूर्तताया मूर्तिर् एवायं स्फुटम् अन्यथाकारं वदन्न् अस्मान् वञ्चयितुम् एवानञ्चितवान् अस्ति । स कदाचिद् एवं न कद्वदायते । सा पुनर् अस्माकं संचारिका नेमां कुचरताम् आचरेत् । किन्तु बद्धेति संबध्यते ।
[54] विशाखोवाच-यथाकारं तथाकारं वा वदतु । सोऽ यं कथंकारं यूयम् इदं विचारयथ । यतो विप्रस्यास्य कृतं खलु विप्रकृतम् एव भण्यते । कथम् इव प्रकृतं स्यात् ।
[55] मधुमङ्गल उवाच-को वात्र मम लाभः ।
[56] विशाखोवाच-अये भद्र विप्र लब्धमपि तथैवानुसन्धेयम् ।
[57] तद् एवं प्रत्यादिष्टस् तु मधुमङ्गल उवाच-सर्व-क्लमथ-मथनानां शमथ-दमथ-सत्पथ-प्रथन-पराणाम् अथ कथं न भवत्य् अस्माकम् एवायं दोषः । यत् खलु सन्ध्य्-अनुसन्धानम् एताभिस् तु युद्धम् एवानुबद्धम् अस्ति ।
[58] अथ श्री-राधिकाभिदधाति स्म-किं बलः संवलते भवदीयः स राजा । यस्माद् एतावद् गर्वायसे ।
[59] मधुमङ्गल उवाच-
उच्चाटनं गुण-गण-प्रथनाद् विकृष्टिर्
वंशी-कलाद् विकलनं वर-रूप-वृन्दात् ।
स्तम्भो विलास-वलयाद् वशता च वाणी
माधुर्यतः सुमुखि यस्य बली ततः कः
किं च-
द्राघिष्ट-क्षेपिष्ठ-प्रेष्ठ-वरिष्ठ-स्थविष्ठ-बंहिष्ठाः ।
अस्मन्-नृपतेः पुरतः सर्वे गर्वेण रिच्यन्ते
अपि च-
वृन्दिष्ठ-क्षोदिष्ठ-ज्येष्ठ-गरिष्ठ-ह्रसिष्ठ-साधिष्ठाः ।
अस्मन्-नृपतेर् अग्रे विपरीताभा-परीताः स्युः
[60] अथ श्री-राधा तु तद्-अवधारणाद् अन्तः-प्रेम-बाधां कथम् अपि समाधाय ललिता-मुखम् ईक्षितवती । ललिता तु स-विप्रलापम् आललाप-
स वेणुर् मूक-वधिरो यत्रागाद् वावदूकताम् ।
तत्रायं किं न वाग्मी स्याद् ब्रह्म-वंश-समुद्भवः
[61] किन्तु यथास्माकं दूती निरुद्धा तथा तम् एतम् अपि निरुध्य युद्धाय संनह्यामः । अनन्तरं तु परम-प्रचण्डाः स्व-पितृ-पुरोहित-पौगण्डाः समादिश्यन्ताम् । ते च स्त्री-वेशम् एवास्य बलात् कुर्वन्तु । कृते च तद्-वेशे श्री-व्रजराज-पुरोहित-भागिनेयः सोऽ यं न चार्भकस् तत्र गच्छन्न् अस्मदीय-संदेश-वर्णांस् तत्-कर्णाभ्यर्णान् करोतु । अस्माकम् अन्या कन्या न विद्यते । किन्तु सिंहल-द्वीपाद् दीपाभा पद्मिनीयम् एका जित-सर्वातिरेका नीतास्ति । सा तु स्वयं राज्ञा परिणीयताम् ।
[62] तत्र पद्मिनी-प्रायेण दुष्कुल-सद्मजेति नावज्ञातव्या ।
विषाद् अप्य् अमृतं ग्राह्यम्
अमेध्याद् अपि काञ्चनम् ।
नीचाद् अप्य् उत्तमां विद्यां
स्त्री-रत्नं दुष्कुलाद् अपि ॥[गर्प् 1.110] इति हि स्मर्यते ।
[63] मधुमङ्गल उवाच-ननु भवत्यश् च पद्मिन्यस् तर्हि ता एव कथं कुले नानर्हिताः ।
[64] ललिता स-रोषम् उवाच-
आवृता जगति पद्मिनी यया पद्मया जितवती सदापि ताम् ।
राधिकादिर् अपि पद्मिनीतया भण्यतां ततिर् अहो मृगी-दृशाम्
[65] अथ श्री-राधिका हसित्वा चिल्ली-चालनया लसित्वा च स्व-पितृ-पुरोहित-बालकानां पञ्चाशतं तद्-वेशायादिश्य राज-पुरोहित-स्वस्रीयेण च तथा संदिश्य युद्ध-कौतुकायाभिनिविश्य तस्य स्त्री-वेशस्य पुरतः स्थितिं निदिश्य चामूभिश् चमूरु-चक्षुश्-चमूभिर् अभिक्रन्तवती युद्धाभिमुखतया च स्थितवती कृष्णं च मनस्याहितवती । तत्र च-
अबीभषद् अयं होरीम् अबभाषद् इयं तथा ।
अदीदिपद् असौ भावम् असौ च तम् अदीदिपत्
[66] ततश् च राजायमान-गोकुल-युवराजस् तं निकार-प्रकारं बटु-मुखतः कटु-निभं कर्ण-पुटम् आनीय तां दूतीं स्व-पक्ष-रक्षिताभिः काभिश्चित् प्रगल्भता-लक्षिताभिस् तादृश-स्त्रीभिः पुरुष-वेशां विधाय तेन बटुना संदिदेश । तस्याः कन्यायाः सोऽ यम् एवधन्यो वर इति ।
[67] संदिश्य च ताम् अपि मधुमङ्गलवत् पुरः प्रःईयाभिषेणयामास ।
[68] तद् एवं मिथः कृते नियते नेत्रोः काभिश्चिद् अन्याभिः कुतुक-कृते तटस्थतया तत्र सङ्घटमानाभिः प्रकट-हठतया द्वयोस् तत्-तद्-वेश-विशेषिणोः कृत-सन्धे पटाञ्चल-बन्धे जाते चोभयतश् च नाना-हास-प्रबन्धे श्री-राधा-पक्ष-लक्षिताभिर् मृगाक्षीभिर् इदम् आख्यायि ।
[69] वर्षीयसानेन वरेणास्मत्-पद्मिनीयं धर्षिता । तस्माद् युद्धार्थम् उद्यमः संबध्यताम् ।
[70] ततः संबद्धेषु शुषिरादिभिः सार्धं युद्ध-वाद्यार्थम् आनद्धेषु ।
नर्माङ्ग-गालिर् उदक-क्षिप-यन्त्र-युक्तिर्
दण्डी-प्रपातन-निवर्तन-केलि-रीतिः ।
कान्ताकृति-व्यति-कृत-ग्रहणं सखीनां
साहायकं युधि बभौ हरि-होरिकायाः
[71] चिरतश् च कृष्ण-केलि-कलावकलन-केवलतया विकलित-स्व-स्व-केलि-कलह-प्रलापेषु राम-श्रीदाम-सुदामादि-कलापेषु तल्-लीला-तृष्णक्-कृष्ण एव स्व-प्रेयसीभिः सह सहसाहव-निभं विहरति स्म ।
[72] प्रथमं तावद् असाव् अमूश् च परस्परं स्निग्धा व्यतिषज्य व्यतिबिद्धा बभूवुः, यतः-
भ्रू-कार्मुका नेत्र-बाणा ये तेषां मार-संयति ।
अङ्गास्त्राणां हन्त किं स्याद् अपराद्ध-पृषत्कता
[73] अथ पुनर् दण्डादण्डिदण्डनपूर्वकं बाहाबाहविबहलमेवायं हरिराहवमुवाह । तथा हि-
दोरान्दोलनम् अङ्गुली-परिमलं केश-ग्रहं वेशनुत्
पाण्योश् चञ्चलतां तथा पर-परं वाच्यां विचारात् परम् ।
कुर्वंस् तत्-पर-दार-सैन्यम् अविशत् कृष्णस् तथा स्वं यथा
कुत्रागाद् इति वेद न स्म जनता साप्य् अस्तु नापि स्वयम्
[74] ततश् च क्रमशः पर-परातिक्रम-पूर्वकम् अपूर्वोत्साह-वृतयोः सखीभिर् आवृतयोर् असाधारण-क्रीडा-रण-जवयो राधा-माधवयोर् एव व्यतिषङ्गः प्रसङ्ग-मायातः । तत्र च । यथा-यथं तत्-कौतुकावकलनतः स्व-स्व-व्यापारं परित्यज्य रज्यमान-चित्रतया चित्रायमाणा वर-वर्णिन्यः सौवर्ण-वर्णाकारतया वृण्वाना मिथस् तद् वर्णयामासुः ।
[76] तथ हि गीतम्-
पश्य पश्य सखि होरीयुद्धम् ।
राधा-माधव-कृतम् अनुरहसं सुचिरं भवद्-अनुरुद्धम् ॥ध्रु॥
दण्डादण्डि-गते परिखण्डित-तरतमतो व्यतिरोधम् ।
व्यतिषञ्जनम् इह भाति तडिद्-घन-रुचि-जय-लसद्-उद्बोधम् ॥
मस्तक-वस्त्र-स्खलनारम्भात् पिहिते तन्-मुख-युगले ।
भ्रमर-वरायितम् एकेनास्मिन्न् अन्यस्मिन् बहु कमले ॥
भुज-भुजगेन हरेर् बहुधारचि हृदि तस्याः फण-लीला ।
चक्रवाक-युग-गीर्णिर् अवाकलि यत्र मुहुः कृति-शीला ॥
अपि पुनर् अस्मिन्न् अवकलयत किल निरवनिरुह-तति-देशम् ।
अभिनव-कनक-लता-परिवलयित-तरुण-तमाल-कुलेशम् ॥
तं युवती-कुल-साहायक-कृत-बल-राधा-वश-बलिनम् ।
रचयति नयति च निज-विषये दिशि रभसरसाद् अपि वलिनम् ॥
नीतं तं नव-पीत-पटं मृग-नाभि-जलैर् अभिषिक्तम् ।
तनुते सुतनू-ततिर् इह वितनु-प्रमद-मदाद् अतिरिक्तम् ॥
सेयं राधा स्वयम् इह मुरलीं यद् बत हरति स-यत्नम् ।
न तद् अद्भुतम् इव यद् अहरद् अस्य प्रथमं हृन्-मणि-रत्नम् ॥
अथ रामादिः सखि-जनता तं पश्यन्ती विनिरुद्धम् ।
सन्धिम् अधित्सत विसृजन्ती ताः प्रति दूतं गुण-शुद्धम् ॥
रामः स यदा फाल्गुन-पर्वणि देयं मेने दातुम् ।
प्रतिभुवम् आदायाथ तदा हरिर् आभिर् अमन्यत रातुम् ॥
जाते सन्धाव् अखिलेनापि च शंसति दिव्ये लोके ।
निज-निज-कान्ता-मोह-विरोहण-गीतिः स स विलुलोके ॥इति॥
[77] एवं स्थिते परस्परं चर्चरिका-रचन-निचायने विस्मायके जाते समाज-द्वये च मिथः किंचिद् दूरं याते कस्माद् अप्य् अकस्मान् मूढ-धीः शङ्खचूडः समागतः । स तु विगीत एवेत्य् अलम् अति-तद्-विस्तरेण ।
[78] अथ समापनम्-
शङ्खचूडं निहतवान् यन् मणिं दत्तवान् अपि ।
राधे कान्तस् तवायं तत् कृतवांस् त्वत्-कृते द्वयम्
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0