भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.29

1.29.1

इति श्री-गोपाल-चम्पूम् अन्व्
अम्बिका-वन-गमन-संविधानं नाम
अष्टविंशं पूरणम्
॥28॥
(29)
अथैकोनत्रिंशं पूरणम्
रहः-कुतूहल-वह-बहल-रहः क्रीडाख्यम्
[1] अथ रात्रि-कथां पुनः स्निग्धकण्ठः प्रथयामास-
यदा रासाद् वासं रहसि ययुर् आभीर-वनितास्
तदा शङ्कां जग्मुः स्वयम् अपि तु नासां गृह-जनाः । यद् अन्यास् तद्-रूपा व्यधित हरि-माया प्रति-गृहं
यथामीभिर् ज्ञातं निववृतिर एताः पथ इति

1.29.2

[2] अथ तद्-अनन्तर-रात्रि-सन्ततीर् नाना-रस-रास-विलासादिभिर् अतिवाहयति श्री-गोविन्दे वृन्दा तु विविध-साहायकं समाहरति स्म, यथा-
उपव्रजं न्यस्यति सा तमालान्
दीप्रौषधीश् च व्रज-दूर-देशे । इत्य् आदि तत्राभिसृतौ स-वृन्दा
वृन्दा हरेः सेवनम् आचचार

1.29.3

तदा च-
अचीचकासद् विपिनान्य् आजीहयद् इह प्रियाः । रासायत-त्वरद्-रात्रीर् अत्रामूर् अजजागरत्

1.29.4

आररम्भत रम्भोरूर् लम्भं लम्भं ततो हरिः । हारान् इव विहारांस् तान् कारं कारं दधे हृदि

1.29.5

[3] कदाचन चौर्य-चर्यया तासां गृहम् आयाति । तत्रेयं दिक्-
साहाय्ये ललितायाः कलयन् वेशं विशाखायाः । विपरीते विपरीतं हरिर् अविशत् तमसि वेश्म राधायाः

1.29.6

[4] तत्रान्धे तमसि काम्यमान-वाम्याम् आलिं प्रत्यालि-च्छल-वचनम्-
सुसखीयति ते सुभ्रूर् असौ गोप-मतल्लिका । शपे तुभ्यं लपेयं च स्वयं सख्यम् उरीकुरु

1.29.7

[5] तत्र कथंचिद् अपि तद्-आगमने वृद्धाभिः किंचिद् इवावगते कुञ्जानेव स्व-लीलया कञ्ज-लोचनस् ताभिः समं रञ्जयति ।
[6] तत्र तत्-प्रेयस्या वृद्धाभिवञ्चना-चञ्चुता, यथा-
यस् त्वां रात्रिषु वृद्धे माम् अपि देवो विभीषयते । स तु मन्त्रिभिर् उत्कलितो गोष्ठात् कुञ्जान् विमर्दयति

1.29.8

[7] तस्माद् अत्रान्यथा मावगास् तत्र च मागा इति ध्वनितम् ।
[8] अथ सख्याः-
सत्यं जरति मद्-आल्या वर-युजि गण्डे मकर-वतंसाङ्कः । न मया लिखितः कुतुकान् न मृषा-मुष्याः सपत्न्या च

1.29.9

[9] अत्र मम सखीत्वेन तस्याश् च सपत्नीत्वेन विरोध-लक्षणा-प्राप्तेर् मयैव लिखित इति तया ध्वनितम् । [10] तद्-अनुवादिना कविना तु तस्य म्र्षात्वम् इति ।
[11] अथ व्रज एव विघ्न-निघ्नतया प्रोषित-भर्तृका वर्ण्यते । [12] तत्र श्री-कृष्णस्य भावना-
राधां पश्यसि जल्पसि स्पृशसि च स्वात्मन्न् अथालिङ्गसि
स्वस्मिंस् तत् तद् अनुक्रियाम् अपि तयारब्धां भजन् नन्दसि । विश्रम्भं न हि मन्यसे तदपि चेद् अन्यां दशां यामितस्
तत्-प्राप्तिं मनुषे तया कथय भो किं ते सुखं सेत्स्यति

1.29.10

[12] श्री-कृष्णं प्रति सखी-वचनम्-
भूषणम् अग्नि-प्रायं भूषण-निभम् अग्निम् अप्य् असौ राधा । त्वद्-विरहे या कलयति सा कथम् अन्यैः समाधेया

1.29.12

[13] अथोत्कण्ठिता । तत्र च तं प्रति सखी-वचनम्-
ताम् एव प्रेरयत्य् उच्चैर् उत्कण्ठा त्वां तु नैति सा । इति तस्याम् असौ कृष्ण वितृष्णा-शर्म नाञ्चति

1.29.13

अस्रैः कम्पैर् विवर्ण-च्छवि-कुल-वलनैर् गद्गदै रोमहर्षैः
स्वेदैः स्तम्भैर् विमोहैर् मुरहर दलित-प्राय-देहां विधाय । न त्यक्तुं न ग्रहीतुं कथम् अपि सुशका प्राण-घातावरोधाद्
उत्कण्ठा कण्ठ-लग्नाशन-कवल-निभां तां तु दुःखाकरोति

1.29.14

परम-गुणस् त्वं माधव
दोषापूर्ण-प्रभावोऽ सि । कथम् इव तां गुण-रूपा-
कृतिम् अधिचित्तं समदध्याः

1.29.15

[15] अथाभिसारिका । तत्र तां प्रति कस्याश्चिद् उत्प्रास-वचनम्-
सन्ध्यायां क्व नु यासि लोल-नयनाप्य् अग्रायनैकाग्रहा
तत्राप्य् अग्रतमं स्थलं किम् अपि तच् चेतस्य् अलम् बिभ्रती । सा चैषा न हि बुध्यते तव गतिर् दृष्ट्वा तमालं मुहुर्
विष्टब्धा धृत-भङ्गि-सङ्गि-सवयो-मध्ये मुहुर् लीयसे

1.29.16

अम्बर-मणि-संवलितं चरमाचलम् अधिजगन्थ पूर्वाद्रिम् । शङ्के यन् निज-कृत्यं कर्तुं कृष्णान्तिकं यासि

1.29.17

[16] तत्राभिसारो, यथा-
अन्याश् चाभिसरन्ति भाव-वलिताः शुभ्र-क्षपायां कृतैः
शुभ्रैर् वेष-वरैर् विधाय पिहितं स्वं सत्यम् एतद्-वचः । तस्मिन् गोप-वराङ्गनाः पुनर् अमूः कान्ताङ्ग-सङ्ग-स्मृतेर्
जातानन्दतया स्मित-द्युति-वृतास् तेषां व्यधुर् व्यर्थताम्

1.29.18

सामानाधिकरण्यं तेजस्-तमसो रहो कलितम् । कवयन्त्य् अपि यत् कृष्ण-भ्रान्तिं तमसि व्रज-स्त्रीणाम्

1.29.19

आरम्भाद् अपि कम्पते हृदयकं प्रस्थानतः स्तम्भते
पाद-द्वन्द्वम् अहो मनस्य् अनुमिलन् देहं निरुद्धे प्रियः । यासां गोप-नत-भ्रूवाम् अभिसृतौ तासां परं कारणं
दैवं यन् नयते तद्-अन्तिकम् अमूस् तं वा बलात् कर्षति

1.29.20

[17] कदाचित् काचित् कांचिद् दिवापि कृष्ण-समीपं छलतः संवलयति, यथा-
आलि पश्य परितः शिखि-वृन्दं
भीति-रीति-रहितं नटद् अस्ति । बाढम् अस्य विहरन्न् अधिगम्यं
नव्य-नीरद-वरः प्रतिभाति

1.29.21

[18] अत्र निर्जनत्वं मध्य-स्थित-कृष्णत्वं च ध्वनितम् । अथ वासकसज्जा-
पुष्पाण्य् आचिनुते विचित्य चिनुते तल्पं व्रजस्याङ्गना
यन् नास्ति त्रिजगत्य् अपि स्फुटम् अहो वैकुण्ठ-वीथिष्व् अपि । एवं वासक-सज्जिका लसति सा छाया-द्वितीया यदा
सङ्गिन्य्-आचित-सङ्गतिः पुनर् असौ वेत्तीव किञ्चिन् न हि

1.29.22

तत्र चोत्कण्ठावश्यायां तस्यां तं प्रति सखी-वचनम्-
तल्पं कृत्वा भवद्-अभिगमं चिन्तयन्ती समन्तात्
तत्रादृष्टे भवति समय-क्षेप-लेशाक्षमा सा । चक्रे चक्राङ्कित-कर महा-कम्प-सम्पद्-विहस्ता
शस्त-कल्पं कृतम् अपि च तत् कल्पयन्ती विशीर्णम्

1.29.23

[20] अथ विप्रलब्धा । तत्र च तं प्रति सखी-वचनम्-
भुक्तिं मुक्तिं च तनुते न परं भवद्-आगमः । भक्तिं व्यनक्ति च व्यक्तं सुहृत्सु परमेश्वर

1.29.24

[21] अथ खण्डिता । तत्र च तं प्रति सखी-वचनम्-
कुर्यास् त्वं खण्डितां कांचिन् नखराद्य्-अङ्ग-सङ्गतः । तं विना यां तथाकार्षीस् तत्र ते महती कला

1.29.25

[22] खण्डितां प्रति तस्याः सुहृद्-उपालम्भ-रचनं तद्-दूती-वचनम्-
मानिनि वच्मि त्वाम् अहम् इह सुहृदां तव शृणोतु वृन्दं च । सहजा या निज-वृत्तिर् गोविन्दे स्वयम् उपास्व ताम् एव

1.29.26

[23] तत्र कठोरायमानां प्रति च-
मानाग्नि-मय-दृग्-वाणं मुञ्च त्वं किं नु गर्वसि । राधे कृष्णश् च दृक्-पर्यक्-पर्जन्यास्त्रं विमोक्ष्यति

1.29.27

[24] अथ सम्भ्रमाद् आगतस्य नखरादि-स्पर्शात् क्षतायमान-रक्तिम्ना समक्तस्य कान्तस्य वचनं तस्याः प्रतिवचनं च ।
दयिते दयित कथं त्वं मलिन-मुखी धिग् न वेत्सि हा किम् इदम् । नख-रदन-क्षतम् ऊहेत् त्वयि सुप्ते सुप्ति-राक्षसी चक्रे

1.29.28

[25] अथ तस्याः सख्या संवादः-
जलदे विलसति विद्युद् बिभ्यति हृदयाणि भीरूणाम् । हससि हरिं किमु मुग्धे न हि हृदि चित्रं स्तुवेऽ हम् एतस्य

1.29.29

[26] अथ तस्याः कृष्णं प्रति-
आवृणुतामरुणांशुर् नख-पद-सिन्दूर-चिह्नानि । अञ्जनम् अपि कृष्णाभं तत् तु तवौष्ठः स्फुटं कुरुते

1.29.31

स्त्री-भावम् आकलयितुं कमठानुकारं
गच्छन्-महाद्रि-तलम् आश्रितवान् भवान् यत् । तच् चाजितस्य न तवानुचितं यतस् त्वं
स्वां देवतां रमयितुं सुधयोद्यतोऽ सि

1.29.34

[27] तत्र श्री-कृष्णस्य वचनम्-
राधे वपुषा तन्वी कोमल-हृदयातिसूक्ष्माधीर् असि च । मानः कथम् एतावान् माति त्वयि तत् तु पृच्छामि

1.29.36

[28] भवतु च-
यथा मे रोचते मानो न प्रसादस् तथा तव । यत्र स्वाधीनता-व्यक्तिं कुरुषे ताडनेन च

1.29.38

[29] तद् एवम् उपवदमाने तस्मिन् पुनस् तस्या वचनम्-
निर्वृत्य्-अम्बुधि-कुम्भजः स्थिति-महा-मेघावली-मारुतः
प्राणानां पवनाशनस् तनुवनी-नैदाघ-दावानलः । सोऽ यं ते विरहो यया बत मया सोढस्तया वा कथं
सोढुं हन्त न शक्यते नव-नवः पद्मापते दुर्नयः

1.29.39

[30] एवं रुदतीं सखीम् आलक्ष्य सखी तं प्राह-
अनुरागवती सन्ध्या स्वच्छोऽ यं वासरस्ततः । स्थाने तया तस्य सङ्गो न रात्र्या मलिनात्मना

1.29.40

[31] त्वयि तु तद्-एतद्-विपरीतं प्रतीयते ततो न स्वच्छतेति व्यञ्जना । ततः सा मानिनी पुनस् ताम् आह-
दीप-ज्वाला मम हृदि गता स्नेहम् उद्धूय वक्रे
चक्रे येन प्रतिहति-मिता तं कथं निन्दसि त्वम् । निर्द्वन्द्वाहं सपदि भवितास्म्य् एव सोऽ प्य् एष नाना-
गोपी-सङ्घात् प्रमदम् अयिता हन्त किं कस्य दुःखम्

1.29.41

[32] अथ तस्य तद्-बाष्पापसारणाय व्याज-रचनं वचनम्-
मीनाद् अपि तन्-मुक्ता-
फलम् उद्भवतीति रत्न-शास्त्रार्थम् । पश्यन्न् इव मम हस्तस्
तव मुखम् अभियाति मानिनि प्रसभम्

1.29.42

[33] ततश् च सा विमुखी-भवन्ती मनसीदं वदन्ती कलहान्तरिता-भावम् आससाद ।
ऐषीस्त्वं यदि मानस मानेनामुं वशीकर्तुम् । वशगेऽ प्य् अस्मिन् कृष्णे त्यजसि न किं तं वृथा-भूतम्

1.29.43

[34] तदा च सखी तम् उवाच-
या तव हृदय-विदारं नखरैर् अकरोन् मुराराते । तां मनुषे प्रिय-दयितां ज्वलति तु तस्माद् दृग् अस्माकम्

1.29.45

[35] इति सखीषु पराङ्-मुखीषु बहु तटस्थतां घटयन् दूर-देशीय-देशम् अटति स्म यदासौ, तदा तु-
राधाया दृष्ट-मानायाः सृष्ट-रोमाञ्च-सञ्चयाः । वैणव-ध्वनि-जातीया जीयासुः कीचक-स्वनाः

1.29.46

[36] तद् अवगम्य वामाया वचनम्-
न वदसि परुषं रुषं न धत्से
मनसि च तत्र कथं कृतापराधे । हरि हरि सततं विमानिताहं
त्वयि बत शर्म कदापि नापराधे

1.29.47

[37] तत्र तस्या मनः-कथा-
मानं कुर्विति वक्ति सा प्रिय-सखी मानं न वेद्मि स्फुटं
कौटिल्येन यदि प्रसिध्यति स तत् कौटिल्यम् एवात्र किम् । हा तस्य स्मित-कञ्ज-चारु-नयनं श्यामस्य मन्-मानसं
द्रष्टुं वाञ्छति हन्त कष्टम् अपरां स्फूर्तिं कथं गच्छतु

1.29.49

ततश् च-
बलान् मानं शिक्षयन्तीर् अपि तत्र सखी-ततीः । राधया सार्धम् आकर्षन् जीयाद् वेणु-कल-स्वनः

1.29.50

[38] तस्या मुखम् अवकलय्य तत्-तद्-उपमा-जातियतया संशय्य स्थितवन्तं कान्तं प्रति सखी-वचनम्-
तस्मिन्न् अपि विधु-बुद्धिं कर्तुं मा कृष्ण साहसं कार्षीः । सर्वं जेतृ तद् एतद् भ्रू-धनुर् अनु नेत्र-वाणम् उत्क्षिपति

1.29.51

ततश् च-
भ्रमरीवाम्बुजारण्यं शफरीव जलाशयम् । कृष्णं लब्ध्वा पूर्वमेव दृष्टा साभून्न तूत्तरम्

1.29.52

अथ स्वाधीनभर्तृका ।
नित्यं या याचितापि प्रियतम-हरिणा नेच्छति स्पर्श-मात्रं
वाचा सेयं मुहुस् तं निदिशति रसनाम् अप्य् अहो संवरीतुम् । तन् मन्ये नूनम् अस्यावयव-समुदितिर् दिव्य-सीधु-प्रकारः
सङ्गाद् अप्य् अङ्ग यस्य प्रभवति मुहुर् उन्माद-लक्ष्मीर् अमूदृक्

1.29.53

तत्र च वक्ति रूपं यदा कृष्णस् तदा सा राधिकाधिकम् । शृणोति नैव तत् तस्य पश्यन्ती रूपम् अद्भुतम्

1.29.54

[39] एतद्-अनन्तरं सखीनां निभृतालापः-
अपि लीलायितम् अनया चम्पकलतया तमालाधः । प्रागल्भ्यात् पुनर् एतां तद् उपरि रमण-स्पृहां वेद्मि

1.29.55

[40] अथ श्रीमत्-परम-रूप-गुरूपदेश-मय-स्वप्न-कलितं प्रातस्तन-ललित-राग-संवलितं ललिता-गीतम्-
जागरणाद् अथ कुञ्ज-वरे । वीक्षित-भास्कर-रुचि-निकरे ॥कान्ता-निद्रा-भङ्ग-करे । अपि सङ्कलित-स्व-परिकरे ॥मम धीर् मज्जति कंस-हरे । मौलि-शिखोपरि-पिञ्छ-धरे ॥[ध्रुवम्]
मुहुर् उल्लासित-युवति-करे । सममन्या बहिर् अनय-चरे ॥घन-गहनाध्वनि गमन-परे । तत्र च बहु कृत-सुख-वितरे ॥आशास्तम्भित-विरह-गरे । धाम्नि सनातन-शर्म-हरे ॥इति॥

1.29.56

[41] दिनान्तरे सखी-सौभाग्यम्-
किंचिद् विलोक्य कुञ्जे सख्याः प्रागल्भ्यम् एकान्तात् ।
स्मेरा करम् अनु मुरलीं प्रागाद् बर्हावलिं शिरसि

1.29.57

[42] तां प्रति श्री-राधा किम् अपीदम् आचार्य प्रोवाच-
शेते मञ्जु-निकुञ्ज-तल्पम् अनु स प्रेयान् इति प्रेयसि
त्वां वेणुं किल हर्तुम् अस्य कुतुकात् प्राहैषम् अस्मि द्रुतम् । तं तु त्वं परिहृत्य चागतवती श्रान्तेव च प्रेक्ष्यसे
तद्-वर्त्मान्य् अदुरी-चकर्थ रभसा यन् मादृशां दुर्गमम्

1.29.58

[43] तद् एवं तासां तस्य च प्रावृषिज-कृषिवद् दैव-वशत एव वशे वशंवदे तद्-अनन्तरं वसन्त-पञ्चमीम् अनु वसन्त-रागं जनयन् गोपाल-जनीभिर् मिलित्वा श्रीमान् गोपालः खलु खेलति स्म । [44] तथा हि-तस्यां पञ्चम्याम् उत्कण्ठित-षट्-पद-खण्डित-तुण्ड-मुद्राकुल-मुकुल-मण्डलतया प्रथमम् उन्मीलितेषु केषुचित् पुण्ड्रकेषु श्रीमन्-माधव-राधादीनाम् अबाधम् आगमनम् असम्भाव्य भृशम् उन्मनायमानायां वृन्दायां सुमनायमाना काचिद् आलि-पालिर् आगम्य ताम् उल्लासितवती-[45] सखि वृन्दे ! कथम् इव मन्दतां विन्दसे ? आगम्य रम्यम् इदम् अवगम्यताम् ।
[46] वृन्दाह--कीदृशम् ?
[47] सा प्राह-यादृशं भवद्-अभिरुचितम् ।
[48] वृन्दाह-कथ्यतां तथ्यम् ।
[48] सा प्राह-काचिद् आली माधवी-मण्डलम् अनु माधवं माधव-प्रकाश-दर्शनतः समुज्जृम्भित-राधा-विप्रलम्भ-बाधं निभाल्य ताम् उल्लोलयामास । उल्लोल्य च सङ्गतश् चलन्ती सखीभिर् इदं वसन्त-रागेण गायन्ती वल्लभम् अपि लम्भयामास ।
[49] गानं यथा-
कृष्ण-वनं सखि भाति सरङ्गम् । भवतीम् इव लघु नेतुम् अधीशं । सेवित-मधुर-स-सङ्घम् ॥[ध्रुवम्]
जागरम् इतम् इव माधविकाशतम् अनुकृत-जृम्भा-भङ्गम् । चुम्बति मधुप-गणे कृत-भङ्गि स्मारयति प्रिय-सङ्गम् ॥सरस-रसालज-मुकुल-कुलं परिपुलकयद् इव समम् अङ्गम् । आकारितम् इव तव कुरुते पिक-कलम् अनुकलयद् अनङ्गम् ॥त्वां चेला-कलि-चन्दन-मरुता वासयतानुलवङ्गम् । कर्षति मधुरिपु-मधु-पर्वोदित-वीणा-वेणु-मृदङ्गम् ॥नीतायां त्वयि माधवि माधव-माधव-गान-तरङ्गम् । किरति पराग-चयं लोचनम् इव नटयति चारु-कुरङ्गम् ॥इति सा लब्ध्वा वल्लभम् अनिशं मनसा वलितासङ्गम् । जयति निरुपम-रूपिणि मध्ये यमुना-मानस-गङ्गम्

1.29.59

[51] अत्र च पद्यम् एकं गद्यते-
वन-रुचि-रुचिरः श्रीमान्
मदन-विनोदाय नुन्न-गोपीकः । अभितः सुरभित-देशः
सहचरि पश्य माधवः स्फुरति

1.29.60

[52] तद् एवं निशम्य तत्र विन्दमानां वृन्दाम् अनु पुनर् एवं दर्शयामास, यथा-
राधा हरिर् अपि पुलकि-वसन्तम् । गायति निज-नुदम् अनु विकसन्तम् ॥ध्रुवम्॥ उपदिशते दिशि दिशि गुणयन्तम् । पिकम् अनु पञ्चमम् अतिचिरयन्तम् ॥वासन्ती-मधु रहसि धयन्तम् । शंसति मधुलिहम् अनुगायन्तम् ॥मधु-रसमनु गानं रमयन्तम् । रसयति विनिमितम् अधरम् अयन्तम् ॥मलयज-सुरभि-धुरं खञ्जन्तम् । कवयति गन्धवहं प्रसजन्तम् ॥वाद्य-गणं गुण-वलित-दिग्-अन्तम् । अनुनृत्यति मद्-अलोल-दृग्-अन्तम् ॥चपलाघन-सम-रुचिम् अनु तं तम् । नटयति शिखि-गणम् अपि निपतन्तम् ॥किरति चूर्णम् अनु पूर्णद्-अनन्तम् । समम् आलील-ललनाभिर् अनन्तम् ॥श्रम-जल-कण-गणम् अनु विलसन्तम् । वहति पराग-भरं रुचिम् अनन्तम्

1.29.61

इति ।
[53] अथ तावतीं गतिम् अप्य् असहमानाः सहमाना गुरवः कुरवम् आचर्य पर्यवस्थया तासां स्वतन्त्रताम् आवार्य सर्वतो निरोधम् उद्बोधयामासुः ।
[54] यत्र खलु रक्षिणी-वर्गस् ताह् सर्वतः समचक्षिष्ट । येन स्वत एव कृष्णस्य च तद्-वश्यता जाता । तद् एवं विधुरेण सर्वत्र च तत्र विधुरे सति-
पद्यां पश्यति वेणुम् आकलयति प्रेष्यादिकं प्रेषयत्य्
अन्यं कृत्स्नम् उपायम् आचरति यत् कान्तः स-कान्तः पुरा । तद् गुर्वादि-निरोध-बन्ध-विधिषु प्रौढेषु हाकर्षणं
जज्ञे निष्फलनम् एव येन च तयोर् मर्माणि भेदं ययुः

1.29.62

[55] तत्र चोभयोर् मनः-कथा, यथा-
न प्राग् दृष्टिर् अमुष्य यत् प्रिय-जनस्यासीत् तद् उच्चैः सुखं
मन्ये सा बत साम्प्रतं समभवद् यत् तस्य तद् दुःखम् । तस्य स्वस्य च या क्रमेण ममता जाताधुना सा द्वयं
चूर्णीकर्तुम् अथेच्छतीह किम् अहं कर्तास्मि कर्ता स किम्

1.29.63

रात्राव् अद्यातिमात्रं प्रणयि-जनम् अहं तं ददर्शाप्य् असौ मां
नैतावन्-मात्रम् अत्र प्रतिनव-मदनं हन्त पस्पर्श च द्राक् । यद्य् एष स्वप्न एव स्फुरति न हि तदाप्य् आत्मनः प्राण-रक्षां
मन्ये जाग्रद्-दशा वा तद् अपि न हि हहा कृष्ण-कान्ते क्व नु त्वम्

1.29.65

इति ।
एवं संचक्रुधुस् ते ते रुरुधुश् च वधुर् यदा । तदा कृष्णस् तीर्थ-यात्रां तृष्णया च्छद्म निर्ममे

1.29.66

यदा कृष्णानुरक्ताभिः सा यात्रा ताभिर् आकलि । मनो-राज्यं तदा प्राज्यम् अचायि निरचायि च

1.29.69

तथा हि-
ताभिः स्वस्य विदूरकाभिर् अभिसारोऽ द्यन्-मदाभिस् तदा
गत्य्-अर्थं कृत-वासकाभिर् उदित-प्रोल्लासि-तत्-केलिभिः । काभिश्चित् परिवञ्चिताभिर् अतिव्याप्ताभिर् उद्वासित-
द्वन्द्वाभिर् विविध-स्व-केलिम् अभजत् तस्मिन् स कृष्णः पथि

1.29.71

[56] तत्र ज्योतिर्-मन्त्र-योग-तन्त्र-विदुषी-वेषो, यथा-
सर्वज्ञे किं त्रिलोक्यां सुख-कर-सदनं कृष्ण-गोष्ठं किम् अस्मिन्न्
आजीव्यं कृष्ण-गानं किम् अतुल-भविक-प्रापणं कृष्ण-लिप्सा । किं भोग्यं कृष्ण-रूपं परिणतिर् इह का कृष्ण-लब्धिः समन्ताद्
इत्य् एवं राधिकायां प्रतिवचन-कृती पातु नः कृष्ण-दम्भः

1.29.72

[57] दूती-वेशो यथा-
कासि प्रेश्या किमीया तव तम् अनुगता किंगुणा तस्य तुल्या
तत्र स्यात् किं प्रमाणं विजन-गृह-गता पश्य मे सर्वम् अङ्गम् । इत्य् एवं दिग्-वितान-प्रणिहिति-वलितं स-स्मितं तन्-निदिष्टा
राधा-गीर्-भङ्गि-मात्रात् परिचितिम् अकरोद् अस्तु तत् काम्य-वस्तु

1.29.73

[58] तद् एवं श्री-राधया तद्-विरह-चिन्ता-संबाधयापि गत-तद्-बाधया क्वचिद् अन्यथान्यथा च रजन्य् अन्तरे पुनः पुनर् अन्य-बहु-विध-वेशं केशवं निशाम्य भणितम्, यथा-
सेयं भिषग्-असिताङ्गी मम हृद्-दाहं चिकित्सितुं लब्धा । स्पृशती सखि कर-नाडीम् अन्याङ्गं धिक् कुतः स्पृशति

1.29.74

श्यामा वैणविकीयं
विदूर-वासा निशार्धम् उद्भूतम् । सख्य-स्थलम् इदम् अल्पं
तन् मम तल्पं तु संकुचद् भवतु

1.29.82

[59] अथ श्रीवत्स-लक्षणस्याप्य् एतद्-उपलक्षणं बहु-रचनं वचनं लक्षणीयम्, यथा-
सीवन-विज्ञा स्वयम् अपि पर-शिल्पानां विलोकनात् कर्त्री । साहं प्रणयि-व्यक्तिर् लोकय गोपि स्व-हृद्-गतां चोलीम्

1.29.86

[60] तत्र च सति-
कङ्कण-कारि-स्त्रीवद्-वेशं
केशवम् उपेत्य याः काश्चित् । दक्षिण-वाम-चरित्रं तेनुस्
तन् न हि करवामहे सदसि

1.29.87

अन्धकार-मय-पक्ष-लक्षिताम्
अम्बिका-वन-गतिं विधाय ताम् । यद्य् अदिष्टम् अभवन् मुरारिणा
मिष्टम् इष्टम् अतनिष्ट तद् बहु

1.29.88

[61] तद् एवं सति-
कंसारेर् हृदयाब्ज-सम्भवद्-अली-वीथीयमाना व्रज-
प्रेयस्यः स्फुटम् अन्तरान्तर-पदं याताः क्रमाद् अन्ततः । एवं चेद् भवतान् न तत्र च वयं संदिह्य विब्रूमहे
राधा यत् किल कर्णिका-स्थितिम् अगाद् अस्माकम् अत्राग्रहः

1.29.89

[62] अथ समापनम्-
सुदर्शनस्य शापान्तकारी राधे सुदर्शनः । अतिकान्तस् तवावाति-कान्तः सोऽ यं बकान्तकः

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc