गोपालचम्पू · अध्याय 1.2
[मन्दाक्रान्ता]
इति श्री-श्री-गोपाल-चम्पूम् अनु
श्री-गोलोक-रूप-निरूपणं नाम
प्रथमं पूरणम्
॥1॥
(2)
अथ द्वितीयं पूरणम्
श्री-राधा-कृष्णाभ्यां नमः ॥।
[1] अथ कथा-प्रथनाय ग्रथनम् इदम् आरभ्यते । [2] स्वभजन-लसन्-मानस-सन्-मानद-जन्मादि-लीला-भव्याय भुव्य् आविर्भावितस्य तस्य निज-व्रज-लोक-चक्रस्य दन्तवक्रं हतवता श्री-भगवता तत्र विगत-सर्व-शोके गोलोके पुनर् अपि संश्लेषः साधित इति चम्पू-द्वयस्य प्रतिसम्पूर्ति-वक्ष्यमाण-सप्रमाण-कथा-लक्ष्यतया विविक्तम् एव व्यक्तीकरिष्यते ।
सिद्धे तत्र तु संश्लेषे कुत्रापि रात्रिविशेषे शेषे गोलोकाद्वन्द्व-महेन्द्र-द्वारि हारि दुन्दुभि-द्वन्द्वम् उन्ननाद । नाद-विशेष-मिषेणानन्दम् एवेदम् उज्जगारेति मत्वा, लोकोऽ प्य् उज्जजागार । न च स एव केवलः, किन्तु कृष्णावलोक-तृष्णया सह, यथा कमल-समूहः परिमल-धारया । अथ निज-निज-वृन्दिनः सूत-मागध-वन्दिनः श्रीमन्-नन्द-राज-पुर-विराजमान-बृंहित-सिंह-द्वारि सर्वोर्ध्वं विन्दमानां चन्द्र-शालिकाम् अधिरुह्य, नूतनानि पूतनादि-दन्तवक्रान्त-दुर्बुद्धि-शक्रारि-चक्र-वध-सम्बद्धानि विरुदादि-च्छन्दांसि स्वच्छन्दतया नटन्त इवापर्यन्तं पठन्तः समन्ताद् एव जन-सन्दोहम् आनन्द-दोहं लम्भयामासुः । सानुराग-रागावलि-विभाग-लङ्गिम-सङ्गीत-सङ्गि-तल्-लीला-कथाकुलम् अप्य् आकलयामासुः
।
[3] तदा मुहुर् अपि हरेर् अवदान-गानतो लब्ध-तोष-पोषा घोषाधिपति-दम्पति-मुखाः परम-सुखाद् अतिशस्त-वस्त्रालङ्कार-भारं तेभ्यः स्वयम् ईहया विहापयामासुः । किन्तु श्रवणेऽ पि तृप्तिर् न क्प्तिम् अवाप, कथं वा तत्रावश्यम् एव वशनीया सातिः सातिम् आसीदतु? तद् अनु च समुद्भूत-प्रेम-रस-राशिर् व्रज-वारि-राशिः स्वयम् एव निज-निज-हृदयङ्गम-व्रज-मङ्गल-श्यामलाङ्ग-सङ्गान-तरङ्ग-सङ्घ-सङ्गितया विश्व-विस्मय-कारितां सङ्गतवान् । तत्र च, गीयमानतया सन्निधीयमानस्य तदीय-यशसश् चन्द्रमसः समताम् अनुमिमीमहे ।
[4] यदा तु श्रील-गोपाल-लीला-गान-ग्रहिला महिला गातुम् आरब्धास् तदा सर्व एव सतृष्णास् तूष्णीम् आसन्, कृष्ण-मुरली-काकलीम् अनु कोकिला इव । यद् एव गानं वैदग्धी-दिग्ध-कङ्कनादि-झङ्कारालङ्कृत-मन्थान-निर्घोषः स्वर-तालादि-दानम् इव कुर्वाणः स्व-पोषं पुपोष ।
[5] तद् एवं सति, सर्वतः-सारेण सप्रमाण-वर्णयितव्यानुसारेणापगतापर-पति-भ्रमाः सर्वा एव व्रज-रमा मारवाण-दलित-मर्माणस् तद्-एक-सेवा-
धर्म्येषु निज-निज-हर्म्येषु समम् एव लब्धागमनं तम् एकम् एव रमणं रमणतां गमयमाना न विरामम् इच्छन्तीति सखीभिर् एव प्राभातिकरागमय-गान-नर्मणा तस्माद् उपरमयामासिरे ।
[6] तच् च न सहसा, किन्तु क्रमशः । तथा हि,
बाहू विश्लथितौ श्लथीकृतम् उरो वक्त्रं दरच्यावितं,
तल्पाद् उत्थितम् एकदा विनिमयेनालम्ब्य यत्नान् मुहुः ।
याभ्यां स्पर्शसुखाग्रहोऽ पि दमितस् ताभ्यां हरिप्रेयसी
व्यक्तिभ्यां बत सोढम् अत्र सहसाक्रष्टुं न दृष्टिं मिथः
[शार्दूलविक्रीडिता]
[7] हन्त, तासु च सर्वाधिका या तु राधिका, सा खलु तद्-आरम्भ-सम्भवाद् एव प्रायः सर्वदा मूर्च्छाम् ऋच्छति । यत्र च,
"पूर्वानुराग-गलितां मम लम्भनेऽ पि
लोकापवाद-दलिताम् अथ मद्-वियुक्तौ ।
दावानल-ज्वलित-जाति-वनी-सदृक्षाम्
एतां कथं कथम् अहं बत सान्त्वयामि?"
[वसन्ततिलका]
इति सदा भावयन्तं, सम्प्रति चातिव्यग्रीभवन्तं व्रज-युवराजं प्रति समाश्वासनया विश्वासनया च तां व्यवहितां कुर्वाणाः, प्राण-तुल्याः परमाल्यस् तदीय-ताम्बूलोद्गारादि-संवलनया चेतनाम् आलम्बयन्ति; समन्ताद् अपि सान्त्विताम् अथ पृच्छन्ति च, "हन्त, केयं तव रीतिः?" इति ।
[8] सा पुनः सास्रम् आश्रावयति,
"न मूर्ख-धीर् अस्मि न वा दुराग्रहा
शरीर-भोगेषु न वातिलालसा ।
किन्तु व्रजाधीश-सुतस्य ते गुणा
बलाद् अपस्मार-दशां नयन्ति माम्
[वंशस्थविला]
[9] "किं कुर्महे? यया मर्म-पीडया क्वचन च शर्म न लभामहे वयम्" इति ।
[10] अथ पुनर् व्याकुली-भवन्ती सा शुभ्र-दन्ती रसान्तरेण ताभिः सान्त्विती-क्रियते । तद्-दिने तु तद् इदम् आचचक्षे: "अशेष-मङ्गल-सङ्गताचरणानां श्री-व्रजेश-गृहिणी-चरणानाम् आदेश-प्रवेश आसीत्, æहन्त, सर्वा एवार्वाचीन-वयसः समागताः, मत्-प्राणाधिका राधिका कथम् अधुनापि नागता?ऽ इति ।" तद् एवम् अवधारितवती श्री-राधापि सावधानी-भवन्ती, शीघ्रम् एव प्रातर् औचितीं विधाय, सर्वाभिर् एवोपशाय-विशाय-वलिताभिः कल्यम् आकल्य मिलिताभिर् ललिता-विशाखादि-सखिभिः सार्धं श्री-व्रजाधीश्वर्या धाम जगाम । गत्वा च, परम-कान्त-स्व-कान्ति-कन्दलीभिर् अन्तिम-गताभीर-कान्ताः समन्ताद् अप्य् अन्तर्-बहिर् अपि देवयामास । [11] यत्र तासां निर्निमेषता च जाता । सम्भावनावती भावना चेयं,
"अधि-विधु नीलाम्बुज-युगम् अपि तिल-पुष्पं सबन्धूकम् ।
यस्यां कनक-लतायां सेयं कृष्णाङ्गना चित्रम्
[उपगीति]
[12] अथ भक्ति-तृष्णङ्-मनाः कृष्ण-जननीम् अनु माननीयतया निजम् आननम् अवनीम् अवनीय ननाम । सा च तां सह-सभ्यानन्दम् अभ्यनन्दत् । तत्र च,
असौ चरणयोर् नता शिरसि हस्तम् आधत्त साप्य्
असौ भुवि तथा स्थिता कचम् अजिघ्रद् उत्थाप्य सा ।
असौ कुचित-विग्रहा भुज-तले निधायाथ सा
स-बाष्पकम् उदैक्षत द्वयम् अहो द्वयोह् किं ब्रुवे?
[पृथ्वी]
[13] तद् एवम् अपि रोहिणी-प्रभृतीनाम् आदराय भृत-निभृत-सङ्कोचाम् आलोचयन्ती राज्ञी ताम् अनुजज्ञे, "पुत्रि, वन्दस्व वन्दन-योग्याः" इति । सा च रम्य-गुणा पुरु-निपुणा भक्ति-पूरतः सर्वा एव गुरूर् अवनम्य दूर-देश एव निवेशं विनत-वक्त्रम् आससाद ।
[14] अथ ललितादिस् तद्-आलि-पालिर् अपि तासु गुरु-वनितासु तद्वद् एव कृत-वरिवस्या तस्या एव सदेशम् उपविवेश । [15] ततश् च श्री-राम-प्रसूः स्पष्टम् आचष्ट, "व्रजेश्वरि, सर्व-सुख-रोहिणी रोहिणी-ताराद्य विद्यते । तद् आदिश्यताम्: इयं सद्-भाव-धूत-सर्व-दिश्य-वधू-नैपुण्या, पाकादि-साद्गुण्याय पूर्वम् एव सोमाभानुलोमतया या रसवतीं प्रतीताः समम् अन्या धन्या मङ्गलाद्या मङ्गलाराम-रामानुज-रामास्, तथा याः परापर-नामानः कल्याणाराम-राम-रामाः समन्ताद् अप्य् अमूर् अमूम् एवानुवर्तन्ताम् । ललिताद्याः पुनर् अस्याः काय-निकाय-रूपा एवेति, न साहायकायास्माभिर् नियोजनीयाः ।"
[16] अथ तयापि तथादिष्टा शिष्टाङ्गना-गण-गणेय-गुणा शिरो नमयित्वा सखीषु तिरोभूय तत्-कालम् एव चचाल ।
[17] अथ प्रसङ्गम् अन्यम् अपि सङ्गतं प्रथयामः । [18] अथ धृत-प्रणय-नय-सारा वयसा महसा सहसा च कृत-सवयसः सभानुकाराः, स्वकुल-परम्परा-गत-परिचारक-शूद्राभीर-कुमाराः स्वावसर-विसर-प्राप्तावसरतया प्रातर् एव मोहनागार-द्वार-सारम् आव्रजन्तः समं विराजन्ते स्म ।
[19] ततश् च स्नानीयादि-रम्य-करैस् तैः किङ्करैर् अनुगम्यतया स तु वर-किशोर-वया निखिल-त्राता राम-भ्राता प्रातर्-आचारा-चरणाय सदेशम् उपवेश-प्रदेशं पूर्वम् एव विवेश ।
[20] तत्र च नर्म-मय-शर्मद-प्रणया वैश्याभीर-तनयाः सखायः सुबलादयः समम् एव समगंसत । तैः सङ्गतैः सह तु विलम्ब-कथन्ता-कथावलम्बेन मिथः परिहास-विलास-कौतुकी वरासनम् अध्यासामास । ते सर्वे प्रेम्णा परिचर्यायां परम् आश्चर्य-चर्याः, यतः-
आदेयाधारादि-भावेन भेदात्
प्राणा भिन्नाः प्राणिनः सन्ति भिन्नाः ।
ये कृष्णाद्याः स्निग्धता-शर्म-भाजः
प्राणा ज्ञेयास् ते मिथः प्राणिनश् च
[शालिनी]
[21] प्रभाते च प्रभाते, तादृशानाम् मध्ये तादृशस्य तस्य तु,
श्रीमद्-वक्त्र-कराङ्घ्रि-धावन-कला तैलादिभिर् मर्दनं
स्नानं गात्र-मृजांशुक-द्वय-धृतिः साचाम-पुण्ड्र-क्रिया ।
प्रातर् धर्मग-कर्म दिव्य-वसनं रत्नावली-मण्डनं
वंशी-शृङ्ग-शिखण्ड-दण्ड-कलना मच्-चित्तम् आकर्षति
[शार्दूल]
[22] तेषु च केषुचिद् अङ्ग-सेवकेषु विशेषः शेष-वचसाम् अपि शेषस्य विषयायते । यतः,
सौरभ्यं शिरसः पदाम्बुजयुगं बाहुप्रसारादिकं
लब्ध्वा-श्लेषविशेषतां दधति ये कृष्णस्य तृष्णान्विताः ।
वात्सल्ये परिषेवणे सखिपदे कान्त-स्थिताव् अप्य् अमी
सौख्यं यत् तद् अशेषम् एव दधते प्रेम्णा तदभ्यङ्गिनः
[शार्दूल]
[23] अथ तस्मात् तैः परिवीतः पीत-वसनः स्वाङ्गन-प्रवेशम् अङ्गीकुर्वन् सदेश-समवयस्काभिः समं, जनन्या जीव-न्यास इव प्रतिमया लभ्यते स्म । तत्र च,
"आगच्छज् जयताद् अहो मधुरता निर्मञ्छनद्रव्यतां
गच्छेयं, मम दृग्द्वयस्य भवताद् अत्रातिपक्ष्मास्थितिः ।"
इत्थं कञ्जविलोचनस्य कलयन्न् आकस्मिकीम् आगतिं
चित्रं चित्रजनः सदा भजति चेद् आसां तु किं तद् ब्रुवे?
[शार्दूल]
[24] अथ गुरवश् च ता रजनिजनिततद्विरहज्वालाकलितस्नेहपूरवशतया मुहुर् अगुरुताम् आसाद्यानवद्यामोदम् आविष्कुर्वत्यः पूर्वदिङ्मुखमहा-मन्दिरालिन्दाद् अवतेरुः । तत्र पूर्वं माता वत्सम् इव माता वत्सं मिलितवती, यत्र रोहिण्य् अपि रोहिणीवद् ऊहाञ्चक्रे लोकचक्रेण । [25] श्री-गोविन्दश् च द्वयोर् अपि तयोः पदारविन्दं क्रमाद् वन्दित्वा नन्दित्वा, मान्यानाम् अन्यासाम् अपि यथान्यायं मानम् उन्नमयामास ।
[26] तदैव च श्रीनीलाम्बरम् अनु समागतिकराः सहचराः श्रीदाम-सुदामादयः श्रीहरिसहविहारिविततयस्, तथा सर्वविद्यापटवः पुरोहित-बटवस्, तथा काश्चिद् अन्यास् तत्प्रसूसमानमाननीय-तन्माननीयादि-वराङ्गनासु गण्यास्, तथा सर्वसुखदोहाः स्वसृस्वस्रीयादिस्निग्ध-सम्बन्धिनीसन्दोहास् तत्प्रदेशं विशन्ति स्म । [27] वारं वारं प्रत्येकम् उत्थानाद्यभावार्थं तथैव हि सर्वैर् मर्यादा पर्यापितास्ति ।
[28] अथ खलु सिद्धानां परिषदि योगमायेति प्रसिद्धा भक्ति-सिद्धान्त-सद्-भाव-रते श्रीमद्-भागवते च योग-मायाम् उपाश्रितः इत्य् आदिना भगवल्-लीलाधिकारितया सिद्धा स्वरूप-शक्तिः स्वाभिव्यक्तिम् अन्तरेण रूपान्तरेण तापसीति व्यवसीयते, यस्याः पौर्णमासीति नाम-व्याहार-व्यवहार आसीत् । तस्याम् आगतायाम् अगर्वेण सर्वेऽ पि स-सम्भ्रमम् अभ्रमं नमः समम् अकुर्वत । तया चानन्दाद् आशीर्भिः स्फुटम् अभ्यनन्दिषत ।
[29] अथ यश् च सर्व-विद्या-निष्णातस् तस्याः स्नातकः श्री-कृष्णस्य रहस्य-नर्माणि बद्ध-तृष्णतया तद्-वयस्यतां वश्यताम् आनिन्ये, यश् चाविदूषण-भाव-रूषित एव देवर्षि-प्रकृतितया तस्य कौतुक-कृते विदूषकताम् अपि विभूषयति स्म, स खलु मधुमङ्गल-नामा नर्मणा मर्म-स्पर्शि-कुतुक-रचनैर् आशीर्-वचनैः सर्वान् अमन्दम् आनन्दयामास, निधिम् इव हरि-सन्निधिं चानञ्च ।
[30] ततश् च परस्परं कर-बद्ध-करौ सितासित-कुमार-वरौ मातृभ्याम्
उभयतः पृष्ठतः प्रदत्त-हस्तौ स्मित-वशंवद-वदन-शस्तौ मन्दं मन्दं तद् एवामन्दम् अलिन्दम् अविन्दताम् । [31] सुवर्ण-स्वर्ण-किर्मीरित-प्रयत्न-निर्मित-पृथु-रत्न-पीठम् अभि पृथक् पृथङ् निविष्टवन्तौ सुधा-वृष्टिम् इव च सर्वेषूपविष्टेषु दृष्टिं सृष्टवन्तौ ।
[32] अथ प्रतिमास्या सेयम् आस्या जन्म-तारा-गमन-मयीति श्री-यशोदा-यशो-दातुस् तस्य तदा तद्-आचार्याणाम् अर्भका दर्भकाग्रीय-नीराभिषेकं विवेकातिरेकवन्तः शन्तम-मन्त्र-प्रवचन-सचनया रचयामासुः । ततश् च,
मन्त्रा गीतानि वाद्यान्य् अपि च जय-रवाः कृष्ण-शोभास् तदीय-
प्रेयो-वर्गाति-चित्र-प्रणय-विलसितानीति पर्वण्य् अमुष्मिन् ।
प्रत्येकं तत् तद् एकीभवनम् अपि तदा प्राप रुच्यत्वम् उच्चैः
शृङ्गाराद्यो रसो वा कवि-कृतिर् अथवा षाडवो वापि यद्वत्
[स्राग्धरा]
तस्मिन् नीराज-निर्मञ्छन-भविक-पदार्थालि-संस्पर्शनानाम्
आज्यादर्शादि-दर्श-द्विज-निज-जनतार्चादिकानां शुभानाम् ।
कृष्णो गोत्रादिर् आसीत् प्रवर-वर-दशां तानि जग्मुः समन्ताद्
येभ्योऽ न्ये च प्रथन्ते शुभ-शत-निवहस्यान्वयाः सर्व-लोके
[स्राग्धरा]
ब्राह्मण्यस् त्व् अधिकचम् अच्युतस्य दूर्वा
पूर्वाणि न्यधिषत तत्र मङ्गलानि ।
यद्य् आशीर्वचनम् इहारुरोध बाष्पः
कल्याणं बत भवतान् मनोरथस्य
[प्रहर्षिणी]
दृगम्भः-स्तम्भ-रुद्धापि कुर्वती तिलकं प्रसूः ।
कुर्यात् किं यदि साहाय्यं नाकरिष्यत रोहिणी?
[अनुष्टुभ्]
मातुः पितुस् तस्य च तत्र मातृ-
भावान्विता-भ्रातृ-वधू-स्वसॄणाम् ।
उपायनं पुण्ड्रम् इतीयती गीर्
आसीत् तदीयार्थ-चये मितिर् न
[उपजाति]
[33] अथ प्राची-गत-द्वितीय-प्रकोष्ठाद् आगम्य रम्य-कुमारः कश्चिद् आचष्ट, यः खल्व् एतद्-अर्थम् एव पूर्वं विसृष्टः । "श्रीमन् व्रज-राज-कुमार, श्रीमद्-व्रज-राज-सभायां सर्व एव पर्वणीह संवलिता वर्तन्ते, किन्तु भवद्-यात्रा-द्वार-मात्रावलोकिनः । यानि च सर्वाराधन-धनानि श्रीमद्-व्रज-राज-चरण-राजीव-परिसराय सज्जितानि भवद्-विसर्जितानि ताम्बूल-दुकूलादीनि, तानि चाधुनापि मूर्धानं धुनाना नोपयुञ्जते स्म ।"
[34] अथ सोऽ पि तद् अवधारयन्न् एव, तद् एवावधारयन् मातरम् अनु कातर इव निष्क्रमण-क्लम-समनुज्ञा-याचनम् अनुसन्धाय, प्रणामादिना पौर्णमासीम् उटज-गृहाय विहाय, श्री-रामम् अग्रे विधाय, श्रीदामादीन् परितो निधाय, पश्चिमाग्रिम-प्रेम-दोलायमान-स्वान्तस् ततो निष्क्रान्तः; सहसा महसा वृतः सभ्यालिभिर् अभ्यालोकयाञ्चक्रे ।
[35] अथ सोदित-मेघाश् चातका इव, लब्ध-चन्द्राश् चकोरा इव, सङ्गत-जला जल-जन्मान इव, समुन्मीलित-प्राणा देहा इव, सर्वेऽ प्य् आनन्द-गर्वेण वन्दि-वृन्दादि-कलित-कोलाहलेन च समम् एव समुत्तस्थुः । [36] किन्तूत्कलिका-कलित-मनसोऽ पि स्व-स्व-मर्यादयापर्यापिता इव लब्ध-स्तम्भारम्भास् तत्र तत्र केवलं स्थितवन्तः । युक्तम् एव च तत् प्रोक्तं, यतस् तस्मिन् खल्व् अस्माकं श्री-नन्द-व्रज-राज-ग्रामे तत्-तत्-प्रेम-विशेष-रीति-नीतिर् एव ग्रामणीर् इव वर्तते । [37] तथा हि, कदाचित् कस्यचित् कञ्चित् प्रति वचनम्,
"तौ शुभ्र-द्युति-नीरद-द्युति-हराव् इन्द्राश्म-हेम-प्रभा
हृद्-वस्त्रौ सित-कञ्ज-नील-कमल-श्री-चोरि-चार्व्-आननौ ।
चञ्चत्-खञ्जन-गञ्जनाक्षि-युगलौ दन्तीन्द्रजिद्-विक्रमौ
तान् अस्तम्भयतां जनान् यद् अखिलांस् तन् मित्र चित्रं न हि
[शार्दूल]
[38] यदा च दक्षिणे सर्वानर्वाचीन-माहात्म्य-गुरवो गुरवो बभूवुः; ते च सर्वे पूर्व-पूर्वतः पूर्वजा एव तस्थुः । यत्र पुरोहिताः स्वयम् अनर्घम् अर्घ्यं दधानाः सर्वतः पूर्वे भवन्तः स्व-नाम-निरुक्तिम् इव व्यक्तीकुर्वन्ति स्म, "पुरो धीयन्ते" इति । तद् एतद् अपि युक्तं, श्लेषेण च प्रथमतो हितास् त एव हि भण्यन्ते ।
[39] अथ तादृश-निज-कुल-चन्द्र-प्रेमानन्दामृत-तुन्दिलिततया किल श्रीमद्-उपनन्दाभिनन्द-नन्द-सनन्द-नन्दनादि-नामानः प्रबल-नन्दन-स्नेह-मधुर-धामानस्, तान् अनु च प्रेम्णा सम्यग्-बन्धुता-बन्धिनः सम्बन्धिनः परापर-नामानस् तन्-मिलनम् अनुसन्धाय स्थिताः ।
[40] अथ वामेऽ पि तथैवालघु-प्रेम्णा लघूभवन्तो लघवः समवतस्थिरे । [41] सर्वे चैते यथा-पूर्वं यथा-यथं सर्व-चित्तारामेण रामेण सह हारिणा हरिणा मिलिताः समुन्मीलित-भावा बभूवुः, चन्द्रमसं विन्दमानाः कुमुद-सन्दोहा इव ।
[42] ततश् च क्षण-कतिपयाद् अक्षीणानन्द-वृन्दार्पित-सत्वर-विसृत्वर-मोहाद् उन्मग्नेषु तेषु तदीय-श्रीमन्-मुख-निरीक्षण-लग्नेषु श्रीमान् व्रज-राजस् तं व्याजहार, "तात, तवाद्य विद्यते सर्व-सम्पन्-मयी जन्म-तारा । तस्माद् व्रज-धाम स्वयम् आ मध्याह्नम् अध्यासितव्यम् । गो-सम्भालन-पालनाय पुनः प्रातर् एव मया समयास्थिता युक्ता नियुक्ताः सन्ति । स्वयम् अथ प्रथम उपविश्य दृश्यतां स्वजन-व्रजः" इति ।
[43] अथ सोऽ प्य् अवाचीनता-समीचीन-शिरस्कतया राज्ञां ताम् आज्ञां मालाम् इव शिरसि निधाय, श्री-राम-मुख-तामरसम् अवधाय, स्वजन-व्रज-सहिततया सहितम् अधिरुह्य चतुष्क-देश-गतं पुष्कलम् उपवेश-वेश्म वलित-स्मितं तारा-पतिर् इव पूर्व-पर्वतम् अध्यासितवान् । विप्रादि-सम्प्रदानतया यथा-यथं गवादिकम् अपि सातवान् । ततश् च तस्मिन्न् उपविश्य, पुनस् ताम्बुलादि-संविभाग-सुख-संवलनया सम्बन्धिभिर् मिथो नर्म-संवाद-सम्बन्धि-सन्धि-कुतूहलं कलयामास ।
[44] मुहूर्ताद् अथ कश्चिद् अन्तः-पुर-सारः कुमारः समागम्य साम्येनोपविष्टयोर् ज्यायः-कनिष्ठयोः सम्बन्धि-निवहाराधनाय धृत-तृष्णयोः श्री-राम-कृष्णयोः कर्णाभ्यर्णं लगितवान्, ताभ्याम् अनुमतः पुनस् तद्-रूप-तश् चित्रीभवितुः श्रीमद्-व्रज-धरित्रीशितुः । तेन च "अद्य श्रीवत्स-वत्स-प्रसाद-लब्धस्य वत्सस्य शुभ-सम्पन्-मय-जन्म-र्क्षम्" इति विनय-सन्धेन केवलेनाञ्जलि-बन्धेन व्यञ्जनया भोजनाय याचिताः सन्तोऽ ति-सन्तोषाद् व्यतिवीक्ष्य युगपद् उत्थितवन्तस् ते प्रस्थितवन्तश् चान्तः-पुरम् ।
[45] अथाग्रतः-सरेण तेन सुकुमारेण कुमारेण प्राङ्गणतः प्रतिरुद्ध-सङ्गमनासु शुद्धान्त-सङ्गताङ्गनासु प्रविष्टास् ते कंसजिद्-इष्टा गृहादि-शोभेक्षण-स्पृहातः क्षणम् आविष्टाः, क्रमशो भोजनालयाय कलयाम्-बभूवुः ।
[46] राम-कृष्णौ तु गवालोकन-सतृष्णौ तद्-अङ्गण-सङ्गत-मेर्व्-आकार-महागारम् आरुह्य, मही-महित-माहेयी-स्थानेषु पीयूष-वृष्टीर् इव दृष्टीर् विधाय, विधेयैर् विदूर-देशान् निदेशयामासतुः, "भो भो गोप-गणाः, वर्त्मनः सव्यापसव्ययोर् एव पातव्या गव्याः" इति ।
अथावतीर्णाभ्याम् आभ्याम् अभ्यागतैर् अपि,
अगुरुज-गुरु-धूपः शुभ्रता रत्न-पीठा-
वलि-मद्-अशन-पात्रासङ्गि-भृङ्गार-सङ्घः ।
नियत-सचिव-लोकः सादर-प्रेम चासीद्
इति दिशि दिशि धर्म्यं भोग-हर्म्यं व्यलोकि
[मालिनी]
"अङ्घ्रि-क्षालन-मार्जने इह भवान् जीयाद्" इति प्रार्थना,
सम्यग् वीजनम् अन्तरा प्रमदसूहास-प्रसू-सूक्तयः ।
रुच्यानां परिवेषणं मुररिपोर् दृष्टि-प्रसादामृतं
यत्रैवं सुहृदां सभोजन-विधिः सूते न किं वा सुखम्?
[शार्दूल]
[47] तत्रानुपयुक्त-युक्त-भोक्तॄणां विप्राणां पङ्क्तिर् एकत्र, सग्धि-दिग्धानाम् असन्दिग्ध-स्निग्धानां वैश्य-वंश्यानाम् अन्यत्र । तत्र तत्र च वृद्ध-मध्यम-नव-यौवनानां पृथक् पृथग् इति वियुताव् अपि, मिथो यथास्वं परिहास-विलासेन संयुतिर् इव वीक्ष्यते स्म । न च केवलेन तेन, तद्-अवलोचन-समुन्मीलित-लोचन-रोचन-विलासालाप-लीला-रस-वारिधेर् व्रजेन्द्र-कुल-सुधा-निधेर् असकृद् अनुभव-यौगपद्येन च ।
[48] यत्र च स एव सर्व-रस-सत्रम् अमत्रम् एकम् आसीत् । तत्र च,
परस्परस्य स्फुट-हास-वार्तां
सञ्चारयन्तः परितो हरौ च ।
षण्णां रसानां परिवेषका ये
ते सप्तमस्यापि बभूवुर् अत्र
[उपजाति 11]
[49] यत्र परिहास-बीजं च पृथग्-दिग्-देश-लोक-प्रसिद्धानाम् अत्रैव चान्यथा-सिद्धानां तेमनादीनां नाम नाम्नातुं शक्यते, नामान्तरेण वाम्नायते, सद्-आम्नाय-जन्मभिर् अपि बन्धु-सम्बन्धिभिर् इत्य् आदि लक्षणं लक्ष्यते ।
[50] किं च, तत्र मधुमङ्गलः कौतुकेन केनचित् प्रहितेन निज-हितेन श्रीमद्-व्रजेशं सन्दिदेश, "राज-वर, तद् एतद् अस्माकं ब्राह्मणा निवेदयन्ति: æशौक्ल-नाम-धेयं प्रथमम् एव जन्म तावद् अस्मादृशां भृश-शर्मणे चक्पे । यद् द्वितीये सावित्राख्ये जन्मनि लब्ध-स्व-कुलैश्य-वैश्य-द्विजतया राजन्यवद् ब्राह्मण-भोज्य-पक्वान्नैर् अपि भवद्भिर् विदूर-विभक्त-पङ्क्ताव् एव निवेशिता वयं न प्रतीमः, तत्र किं किं परिवेषितम् अत्र वा किम् इति । तस्माद् गोष्ठाधिपतिना स्व-दृष्टि-निष्टङ्किती-कृतान्य् अस्मत्-कृते पुनः प्रथमतः सर्वाण्य् एव तेमनानि परिवेष्यन्ताम् । यान्य् एव वार्षभानव्य्-आदि-स्व-हस्त-प्रयस्ततया पक्तानि परम-शस्तान्य् उत्तर-तापन्य्-अनुसारेण पूर्वं दुर्वाससापि क्रोध-दुर्वासनां निर्वासयता प्रसादम् अपि
भासयता रसनयाभ्यस्तानीति निखिल-मिष्टताविशिष्टतया किल वर्त्मन्य् एव परिवेशकैश् चोरं चोरम् उर्वरितानि, पराण्य् अपि दृशैव भुक्त-पूर्वाणि सन्ति, तानि च भुक्त्वा वैष्णव-यज्ञाय श्रुति-स्मृति-विहित-हित-प्रतीकार-मयं दैक्षसम् आख्यं तृतीयम् अपि जन्म द्रुतम् उरीकरिष्यतेऽ इति ।"
[51] तद् एतद् आकलय्य कलितं हास-कोलाहलं, गोकुल-कुलेश्वरी गृहाद् अवकलयन्ती स्वयम् अनल-पक्व-तुलितानि सूर्य-पक्वानि बहून्य् अनुप-भुक्त-चराणि विहापयामास, येन बहुलम् एव सहास-कुतूहलं निखिलः कलयाम्-बभूव ।
[52] तद् एवम् उदर-पूरण-मात्रेण तृप्ता, न तु तत्-तद्-बहुल-रस-पूर-कुतूहलेन, नतरां तत्-तद्-आनन्द-मूलेन सद्-आनुकूल-पीत-दुकूलेन प्रति-रुचि-नव-नवायमानता हि तत्रायता, तथापि बलाद् इव परिमल-रमणीयम् आचमनीयं दत्तम् । गत्य्-अन्तरेणासमापनीय-स्पृहणीयता हि तत्र बृहती । ततश् च,
दिव्य-ताम्बूल-चार्चिक्य
वस्त्र-माल्य-विभूषणैः ।
अर्चिता बन्धवः सर्वे
दक्षिणाभिश् च भूसुराः
[अनुष्टुभ्]
[53] लक्षितायां च दक्षिणायां, मधुमङ्गलः स तु नर्म-शर्मामृतम् अदुग्ध । "भो व्रज-महनीयाः, नास्याम् अक्षीणायाम् अपि दक्षिणायाम् ईर्षया वयं वीक्षणीयाः । भवतां भुञ्जानानाम् एकैक-व्यञ्जन-मूल्य-तुल्यतयास्माकं समस्तापि सा न प्रस्तावयति ।"
[54] तद् एवं बहल-हास-कोलाहल-कुतूहले निवृत्ते पितरम् उपेत्य सर्व-सुख-पालः श्रील-गोपालः शनैः सनिं प्रणयन् स-विनयम् आललाप, "अर्वाग् एव सर्वान् आदाय सभालय-वलयं स्वयं तत्र-भवन्तः समयन्तु । वयं तु श्री-राम-दाम-सुदामादयः समागत-प्रायाः ।" तद् एवं मातृ-गृहम् उपेत्य ताम् अप्य् उवाच, "मातर्, मातॄणां सम्भालनार्थम् अनुयातॄण् अस्मान् अनुमन्यस्व ।"
[55] माता च क्षरत्-क्षीर-कुल-कुच-मुकुलम् आललाप, "आयुष्मन्, युष्मद्-एक-प्राणा वयं, तस्मान् न विलम्बनीयम्" इति ।
[56] ततश् च तस्याः सवयसः प्रवयसश् च सर्वाः सङ्घशः सास्रम् ऊचुः, "वत्स, नाम्नैव ता मातरः, एषा तु तव मातैव, तस्माद् अस्यां कथं न विलक्षणं पक्षपातम् आपातयसि?" स च नत-वदनः सास्र-स्मित-वाचम् उवाच, "मातरः, किं कुर्मः? तास् तु पशु-जातयो न विवेकम् एकम् अपि लभन्ते, यतो मां विना तृणम् अपि न तृण्वन्ति ।"
[57] मातोवाच, "सम्यग् आह वत्सः, यतो धर्म एवास्माकं मर्मभेदी बभूव, येषां धनानि तनयाश् च सदा वनानि निलयान् कुर्वन्ति ।"
[58] कृष्णः सहासम्- आह स्म, "मातर्, अत्र वने न कोऽ पि त्रासः । स तु समूलकासं कषितानां केशिप्रभृतीनां सङ्गत एव गतः ।"
[59] मातोवाच, "तर्हि किम् आकर्ण्यते, यद् अद्यापि किञ्चित् तेषाम् औद्धत्यं विद्यते, प्रेतानाम् अपि तत्तदाकारतया सद्यः प्रेततां प्राप्तानाम् इव ।"
[60] कृष्णः सहासम्- आह स्म, "मातर्, न ते प्रेतजातिताम् अवाप्ताः । किन्तु, भवच्चरणरेणुगणगुणितभूमिम् अनु मरणप्रतापवर्गाद् अपवर्गम् एव गताः । वयं तु मायामयतत्प्रतिकृतिप्रपञ्चसञ्चयम् अञ्चन्तः सुखसन्तानाय मध्ये मध्ये लीलाम् अध्यस्यामः; यथा निलायनैः सेतुबन्धैर् मर्कटोत्प्लवनादिभिः कौशल्येयलीलाम् ।"
[61] ततश् च सर्वासु गत-सन्देहासु स्नेहातिशयात् कृष्ण-माता सव्येन पाणिना पृष्ठम्, अपसव्येन चिबुकं स्पृष्ट्वा कृष्णज्येष्ठं प्रति सबाष्पम् आचष्ट, "वत्स नीलाम्बर, तवेयम् अम्बा मम समक्षं बाल्याद् एव त्वयि नातीव वात्सल्यम् उल्लासयति, किन्तु स्वयम् उदासीनवद् आसीना भवति । तत् खलु मम तारल्यं कथम् इव वैरल्याय कल्यताम्? तस्माद् अहम् एव त्वाम् उपदिशामि: पीताम्बरेण समम् अविलम्बम् एवालम्बनीयं व्रजवर्त्म" इति ।
[62] अथ रामानुजं हितवती रोहिण्य् अभिहितवती, "तात, यशोदामात, बाल्याद् एव लाल्य-भावान् मातुर् उपदेशं जातु न च मन्यसे । मम तु तं न मतान्तरम् आतनोषि । ततः सकृद् अपि मम निदेशम् असकृद् इव मन्यस्व । मातुर् मनस्-ताप-विस्तारान् निस्ताराय निज-वदनांशु-सुधां विस्तारय त्वरितम्" इति ।
[63] अथ तासां चरण-पाताचरणाय कृत-रोचने निर्मल-कमल-लोचने सर्वाभिर् अनर्वाचीनाभिः सह गृहं हित्वा तत्-पाणिं गृहीत्वा प्राङ्गन-सङ्गितां गतायां गोप-पति-पति-व्रतायां, सर्वतः श्रेयस्यस् तत्-प्रेयस्यः सगवाक्ष-भित्ति-भित्तीकृत-निज-विलोकना विलोकयामासुः । तथा हि,
औत्सुक्यं प्रिय-माधुरी-मधु-मदं प्रेमातिपात-भ्रमं
विश्लेषागम-भीतिम् अप्य् अनुगता लज्जातिपर्याकुलाः ।
गोचाराय वनाय गच्छति हरौ तस्याङ्गनानां गणाश्
चित्राणीव निरीक्ष्य तस्थुर् अभितो द्वित्र-क्षणं भित्तिषु
[शार्दूल]
तत्र सति,
अच्युतस्य नयन-द्वयम् आसां
तृष्णग् अप्य् अतिह्रिया निमिमील ।
अस्य मानसम् अमूर् अतिगूढं
पश्यतीति मिलितुं तद् इवेच्छु
[रथोद्धता]
यदा च तासां स्फुरणं जगाम तन्-
मनस् तद् आशङ्कत तासु राधया ।
"अहो गुरूणां पुरतो विकारितां
लभेय चेत् किं कर-वैतराम्" इति
[वंशस्थविला]
तत्र मातृ-गणतः क्रम-पूर्वं
प्राप्य यन् बक-शमनः समनुज्ञाम् ।
अम्बकान्य् अहरत प्रतिबिम्ब-
व्याजतः स्वतनुगान्य् अखिलानाम्
[रथोद्धता]
[64] अथामर-दुर्लभ-च्छत्र-चामर-पट-पुट-ताम्बूल-सम्पुटादि-घटित-कराः सवयसः कर्म-कराः श्री-राम-दामादिभिः सह गच्छन्तं तम् अन्वगच्छन् ।
अथ ततभायां परम-सभायां
पितृ-मुख-लोकान् स्फुरद्-अवलोकान् ।
सुखयितु-कामः सह-सखि-रामः
समधुर-वेशः सपदि विवेश
[कुसुमविचित्रा]
तत्-तद्-वृन्दैः कृत-परिवेषः
क्षोणी-पृष्ठ-स्थित-विधुर् एषः ।
क्रमतो दृष्टि-भ्रमणाभ्रेष-
स्थिति-कृतम् अखिलान् अपि विशिशेष
[मात्रासमक]
रहित-निमेष-प्रथितोन्मेष-
स्वक-दृक्-प्रेष-प्रचितान्वेषः ।
अभवद् अशेष-च्छवि-सविशेष-
स्व-तनु-श्लेषः श्री-हरिर् एषः
[मात्रासमक]
[65] तद् एवं लब्ध-परमानन्द-मज्जनेषु सर्व-सज्जनेषु कुल-परम्परा-वरावार्यः कश्चन सूताचार्यः कतिचिद् आत्मीयान् परिवार्य पेशल-वेशौ काक-पक्ष-केशौ कौचिद् बालकौ पुरतः सन्धार्य तत्र प्राट, पाठयामास च ताव् आशीर्वाद-विरुदम् । तौ च चातकानाम् अन्तस्-तडित्वन्तम् इव सागराणां वारि-निधिम् इव, धन-चिन्ताचितानां चिन्तामणिम् इव, ज्योतिर्-मण्डलानां व्योम-मण्डलम् इव, तेषाम् आश्रयं तम् एकं श्री-व्रज-राज-कुमारम् आलोकयाम् आसतुः । ततश् च तौ स-परिवारम् एव तं पारावार-रहित-शोभावार-वारां-निधिं निध्याय क्षण-कतिपयम् अनुध्याय च स्वजन-स्तम्भित-पतनारम्भौ मूर्च्छा-प्रायम् ऋच्छतः स्म । तद्-उपरिष्टाद् एव कथञ्चिद् विशिष्टताम् आविष्टौ सगद्गदं जगदतुः,
"जयाशेष-चिन्ता-रत्न-नील-रत्नाकर व्रज-धरणी-धर! जय धरणी-भारावतार-वितीर्ण-धरणी-धर-शेष-पर्यन्ताशेष-सुख-समाज व्रज-युवराज! जय निज-वंशाग्र-व्रज-कीर्ति-ध्वज-समान-शुभ्र-धाम श्री-बलराम! जय जय!" इति ।
[66] पुनश् च कमल-लोचनं विलोचन्ताव् ऊचतुः,
"रोहिण्य्-उद्यद्-विधुः पक्ष इव कृष्णः स्व-जन्मनः ।
सोऽ यं यशोदानन्दः सन् यशोदानन्द-नन्दनः
[अनुष्टुभ्]
[67] पुनश् च साश्चर्यम्,
"यशः प्रशंसन्ति बुधा मुधागिरः
सर्वत्र शश्वद् विशदं भवेद् इति ।
अहो, यशोदा यद् असूत सा यशस्
तत् कृष्ण-रूपं पुरतो विलोक्यताम्"
[उपजाति 12]
[68] ततः श्रीमान् व्रज-राजः सुप्रलापं ललाप, "सर्व-सूत-चूडा-रत्न, रत्नचूड, काव् एतौ सुकुमारौ कुमारौ?"
[69] रत्नचूड उवाच, "सर्व-सम्पद्-विराजमान, श्रीमद्-व्रज-राज, मम भागिनेयौ ।"
[70] व्रजराज उवाच, "कतमाया भगिन्या भाग-धेय-रूपाव् एतौ?"
[71] रत्नचूड उवाच, "असपत्न-रत्न-गर्भा-पते! रत्नवत्याः । सा चैषा भवद्-अपूर्व-पूर्व-पुरुष-पुण्य-दर्शनाय कृत-परामर्शा समागतास्ति । नमस्करोति चेयम् ।"
[72] व्रजराज उवाच, "भगिनि, भागधेयेन वर्धस्व ।"
[73] रत्नचूड उवाच, "देव, मम भगिनी-पतिर् अप्य् अयं सुमति-नामा ।"
[74] व्रजराजः सस्मितम् उवाच, "बाल्ये दृष्टोऽ यं नातीव निष्टङ्कितुं शक्यते ।"
[75] तं च सत्कृत्योवाच, "मान्य, स्वयम् अग्रतः समग्रम् एहि" इति पृष्टवांश् च, "सम्प्रति भवतां कुत्र भवनम्?"
[76] स उवाच, "राजवीर, नीरधितीर एव ।"
[77] उपनन्द उवाच, "तर्हि दूराद् अभ्यागतोऽ यम् अभ्यागतः ।"
[78] अथ वदन-सुधा-करांशु-सुधा-स्नपित-दृगन्तः स्मित-मधुराधरावृत-कुन्द-कोरक-दन्तः श्री-कृष्णः स-तृष्णम् इव पृष्टवान्, "किं-नामानाव् एतौ?"
[79] रत्नचूड उवाच, "प्राणि-कोटि-निर्मञ्छनीय-नख-कोटे, मधुकण्ठ-स्निग्धकण्ठ-नामानौ ।"
[80] कृष्ण उवाच, "समान-नामानौ दृश्येते ।"
[81] रत्नचूड उवाच, "सहजाव् एतौ सहजाव् एव ।"
[82] उपनन्द उवाच, "रत्नचूड, किं खलु भवद्-विद्याम् अनवद्याद् अधीतवन्ताव् एतौ?"
[83] रत्नचूड उवाच, "अथ किम्, आकस्मिकतया विस्मायकौ गुण-विशेषाव् अप्य् अनयोः स्तः ।"
[84] उपनन्द उवाच, "कौ तौ?"
[85] रत्नचूड उवाच, "सर्वज्ञता तद्-अविता कविता च ।" इति । [86] ततश् च सर्वे साश्चर्यं पश्यन्ति स्म ।
[87] व्रजराज उवाच, "मान्य सुमते, कुत एतत्-प्रभाव-भावितव् एतौ?"
[88] सुमतिर् उवाच, "विश्व-पावन, स्वच्छ-कीर्ते, पृच्छ्येताम् एताव् एव ।"
[89] व्रजराज उवाच, "आयुष्मन्तौ, युष्मद्-वृत्तेनास्माकं चित्तं विस्मयम् एवाविवेश, तस्माद् अपनीयताम् अयम् ।"
तौ च साञ्जलि-वचसा व्यानञ्जतुः, "श्री-गोलोक-लोक-देव, श्री-गुरु-प्रसाद एव सर्वत्र दुर्वारं कारणम् इति तत्रभवन्त एवानुभवन्ति ।"
[90] व्रजराज उवाच, "के खल्व् ईदृश-महा-महिमानस् ते?"
[91] अथ तौ पुनर् घटित-कर-पुटाव् ऊचतुः, "सुगृहीत-नाम-धेया मद्-विध-भाग-धेय-रूपाः सर्व-सुख-वर्षि-श्री-देवर्षि-चरणाः ।"
[92] अथ सर्वेऽ प्य् ऊचुः, "तर्हि नाश्चर्यम् इदम् ।"
[93] पुनः ताव् ऊचतुः, "सम्प्रति च यद्-उपदेशाद् वृन्दावन-देशम् आगता वयम् । नूनं यत्-प्रसादाद् एव देव-वर्ग-दुर्गम-समधिगमस्य भवाभिभव-भावन-भावनस्य तद् एतद् भवदीय-वैभव-प्रदेशस्य प्रवेशे सदेश-रूपतां याताः स्म ।" [94] पुनश् च सर्वे साश्चर्यम् इदं पश्यन्ति स्म ।
[95] ततश् च श्री-कृष्णश् चिन्तितवान्, "आं आं, चिरान् ममाप्य् अनयोर् आगमनं स्फुरण-मयम् आसीत्" इति ।
[96] अथ श्री-कृष्णानुमतानुगततया श्री-रामस् तु समीपम् आगम्य व्रज-राजम् उवाच, "बृहत्-तात, तयोर् अनयोः कौतुकं द्रष्टुम् उत्कण्ठिताः स्मः ।"
[97] तद् अनुमोद्य पुनर् व्रजराज उवाच, "रत्नचूड, अद्य दिनम् आरूढम् । प्राघुणाश् च त एते घुणाक्षर-न्यायेनोपलब्धाः, तद् एषाम् आतिथेय-वस्तुभिर् अवितथम् आतिथ्यम् एवाद्य विधीयताम् ।" पार्श्व-वर्तिनश् चादिष्टवान्, "दीयताम् एभ्यो वर्षं यावद् भोग्या वरीयसी समग्रा सामग्री, सा च यथैवास्माकं तथैव । प्रातर् आरभ्य तु सभ्याः समाहूयन्तां कौतुकावलोकाय ।"
[98] अथ पुरस्कृतोपनन्देषु व्रजजन-वृन्देषु तत्र ज्ञापित-निजानन्देषु तथा तेषु सूतेषु च कृत-सर्व-क्लेश-वर्जनेषु भोज्य-भोग्य-योग्य-वस्तुभिः प्रस्तुत-विसर्जनेषु मध्याह्नः सोऽ यम् अह्नाय व्यतीत इति राज्ञे विज्ञाप्य विज्ञात-सकल-तत्त्वः श्रीमान् महा-सत्त्वः श्रीपतिर् अपि श्री-रामादि-सहित-गतिस् तत्-तन्-नमनादि-क्रमान् निष्क्रम्य प्रस्थितवान् । तत्र च,
बुद्धिर् एव सुहृदाम् अनुमेने
तं गवानुगतये न मनस् तु ।
सा हि मन्त्र-सचिवं सुविचारं
पाति तत् तु रहितार्गल-कामम्
[स्वागता]
अथो वनं प्रति चलितः सहाग्रजः
समित्रकः पृथु मुरलीम् अनादयत् ।
यतः श्रुताद् बत पुरतस् तु तस्थुषां
सुपूर्णताभवद् अतिशून्यतान्यतः
[रुचिरा]
तदा गुरु-व्यवहितिम् आगता मुदा
परस्परं पशुप-सुताः करैर् युताः ।
सभागतं जहसुर् अधीत्य कस्यचिद्
वचस् तदा स्खलितम् अनूद्य चापरे
[रुचिरा]
[99] हासे चोपरताभासे राम उवाच, "भङ्गुर, मधुमङ्गल, मातृभिर् अस्मासु विनीयमानेषु भवान् किम् अविस्पष्टम् आचष्ट, æव्रजेश्वरि, कथयिष्याम्य् अहं रहःऽ इति । किन्तु ताभिर् आवेशवशान् नावकलितम् ।"
[100] मधुमङ्गल उच्चैर् विहस्य निमील्य च मौनम् आललम्बे । क्षणाद् उवाच च, "हन्त, शन्तमम् अपि तद् विस्मृतम् इव ।"
[101] राम उवाच, "प्रियसख, शपथं प्रथयानि, तथ्यं कथ्यतां: किं तत्?"
[102] मधुमङ्गल उवाच, "यज्ञोपवीताय शपे, नान्यथा प्रथयानि । यतः,
"दान्तेन दमितः सोऽ हं शमितः शान्त-चेतसा ।
ज्ञप्तेन ज्ञपितः पूर्णेनाचार्येणास्मि पूरितः
[अनुष्टुभ्]
तेन छन्नेन चाभूवं छादितानृत-वाक् पुनः ।
कथं वा स्पाशितान् कुर्यां गुणांस् तान् स्पष्टम् इष्टदान्"
[अनुष्टुभ्]
[103] "किन्तु युवयोर् वधूनां चाज्ञाम् आज्ञाय परं विज्ञापनीयं तासु, तन् न चेन् न ।"
[104] कृष्ण उवाच, "उन्मत्त, प्रथमम् आवयोर् आवेदय ।"
[105] मधुमङ्गल उवाच, "यदि न खिद्याथे ।"
[106] उभाव् ऊचतुः, "नहि नहि ।"
[107] मधुमङ्गल उवाच, "एवम् उच्चैःकारम् अपि विवक्षामि, तयोर् अनयोर् यथास्वं प्रेयसीभिः सह सा सा श्रेयसी विद्या नाद्यापि विच्छिद्यमाना विद्यते, यन् मुहुर् आरभ्यत एव वनाभ्यन्तरे केलि-कलह-प्रलाप-कलापः" इति ।
[108] ततश् च कृष्णः सव्येन पाणिना तद्-अपसव्यं बाहुं गृहीत्वा दक्षिणाङ्गुष्ठ-मध्यमाभ्यां तद्-अधर-पुटं मृदु निष्पीड्य स्मयमान उवाच, "सुष्ठु घुष्ट-पट्ट-डोरकेण तद् इदं सीव्यते चेन्, मुनिताम् आपद्यते विप्रकीर्ण-बुद्धिर् अयं यन् मित्र-विप्रः ।" मधुमङ्गलस् तु तद्वन् मुद्रित-मुख एवाम्बू-कृत-निरस्त-ग्रस्त-वचनतया व्यक्तवान्, "तथा चेद् अन्तर्-लोभनम् अन्यत्र तु दुर्लभं निज-गृहान् मत्स्यण्डी-खण्ड-चयम् आदायाखण्ड-कालम् एव मन्-मुखं पूरयथः । ततः कथं वा किम्-अर्थं वा वाणी-व्ययं करवाणि? तद् एतद् अपि सेवनम् एव भण्यते ।"
[109] रामः सस्मितम् उवाच, "उत्कोचश् चामिषम् एव भण्यते, तद् अपि ब्राह्मणाः कामयेरन्?"
[110] तद् एवं सखि-सभासत्सु हसत्सु स्वयं स तु नर्म-पटुर् बटुः स-तृष्णं कृष्णं क्षणम् आलिङ्ग्य प्रेङ्खोलयन् प्रकटं जहासीति स्म ।
[111] अथ सर्व-गुण-शाली वनमाली बहल-कुतूहल-कलित-चित्ततया चलितः, सखिभिर् वलितः, फलित-शाखि-शाखा-शिखा-ललितेनाध्वना धेनूर् लब्ध्वा वेणु-ध्वनिम् उद्भावयामास ।
[112] ततश् च धेनूपलक्षणतया सर्वाणि यदाकृक्षन्त, तदा साश्चर्यं नभस्थः कश्चिद् आह स्म,
"सर्वः प्रवाहः सर्वत्र
स्वानुकूल्येन कर्षकः ।
वेणु-ध्वनि-प्रवाहस् तु
प्रातिकूल्येन कर्षति ।"
[अनुष्टुभ्] इति ।
अनन्तरं च--
गावः स्वान् ऋषभान् भुजङ्गम-भुजः षड्जान् पिकाः पञ्चमान्
अन्ये च प्रतिपद्य तान् निज-निजान् सुष्ठु स्वरान् वेणुतः ।
आश्चर्येण विकर्षणं मुहुर् अहो मोहं तथा भेजिरे
सर्वे चेद् असकृत् क्व सान्त्वन-विधिं कुर्वन्तु के वा तदा?
[शार्दूल]
स्वयम् अपि मोहं भेजे यदि निज-वेणु-ध्वनौ कृष्णः ।
स्याद् उर्वरितः को वा, जीवः स हि सर्व-जीवस्य
[उपगीति] इति ।
[113] किन्तु हन्त, वेणु-रव-श्रवण-सुख-विस्तार एव तत्र निस्ताराय बभूव । यतः,
मोहेऽ पि स्वप्न-कलितं निशम्य मुरली-कलम् ।
परस्परं जाग्रतस् ते पश्यन्ति स्म स-विस्मयम्
[अनुष्टुभ्]
[114] ततश् च स्वस्थी-भूतेषु तेषु समुत्थितेषु गाः प्रति प्रस्थितेषु च मधुर् मधुर-स्मितम् उवाच, "ब्राह्मणान् प्रति दुरनुध्यानस्य फलं सद्य एव जातं निध्यातम् । यद् अहो मम मूकत्वम् अनुध्यातं सर्व-मध्यम् अध्यासीनेनैकेन, सर्वस्यैव तु मूकत्वं जातम् ।"
[115] एवम् एव तेन सह हसन्तस् ते माथुर-देश-देश-रूप-गो-निदेश-
वचनतया,
सम्बोधने हिहीत्य् ऊचुः क्षेपे जिहिजिहीति तु ।
धीरीह इति विष्कम्भे गां नेतुं यमुनाम् अमी
[अनुष्टुभ्]
चोकारं पाथसः पाने झिरि-कारं वियोजने ।
तस्मात् पयस उत्थाने चक्रुस् तिरितिरीति ते
[अनुष्टुभ्]
स्तम्भयित्वाम्भसस् तीरे गो-सङ्ख्या गो-गणान् अथ ।
सम्भाल्य सम्भृतानन्दाः कृत-स्नानादिका जगुः
[अनुष्टुभ्]
प्रहापितं प्रतिशिशु मातृभिस् तदा
सुभोजनं सुरभित-योजनं मुदा ।
हरिः सखीन् परि परिवेषयन् हसन्
परीक्षितं सकृद् अकृत स्वजिह्वया
[रुचिरा]
[116] ततश् चाचरिताचामः श्रीदाम-दाम-सुदाम-वसुदामादिभिः सह कर्पूर-पूरित-खपुरानुकूल-स्वर्ण-वर्ण-पर्ण-शुभ्रतावकीर्ण-चूर्ण-मय- ताम्बूल-पूर्ण-कपोल-लोल-कुण्डल-मण्डनानन-लक्ष्मीकश् चक्षुर्-विजित-नालीकः स्वजनावलोक-नाभीकः श्रील-गोपालः स्वालयाय चचाल । यथा,
शनैः शनैः सरभसम् अन्य-वन्यया
स तर्णयन् सुरभि-तृणानि सौरभम् ।
व्रज-स्थितान् प्रति विरहाकुलीभवन्
बकान्तकः प्रतिचलति स्म तैः सह
[रुचिरा]
विधाय गा गोकुल-सम्मुखीना,
महा-तरु-च्छायम् उपास्य कृष्णः ।
देवोपदेव-स्तुति-गीत-वाद्यं
शृण्वन् मुहुः प्राप तटं व्रजस्य
[उपजाति]
गीर्-वाणैर् दिव्य-यानैः पथि पथि मुनिभिर् मन्त्र-योगादि-सिद्धैर्
गव्याभिर् घ्राण-दृग्भिस् तद्-अनुगत-नरैर् दृष्टि-देशे सरद्भिः ।
गोष्ठ-स्थैर् उन्नत-स्थैः प्रणिहित-वदन-श्रीमयूखः समन्तान्
नेत्राब्ज-प्रान्त-लक्ष्मी-कलित-सुख-कुलः पूर्ण-वेणुर् विवेश
[स्राग्धरा]
हम्बा-रावः पशूनां प्रमद-कल-कलः पाशुपाल्य-व्रजानां
स्तोत्रासारः सुराणां निगम-समुदयावृत्ति-घोषस् त्व् ऋषीणाम् ।
इत्थं सांराविणान्त-वधिर-सम-दशाम् आगते सर्व-लोके
वेणोः सूक्ष्मोऽ पि नादः स जयति नितरां यः समस्तं भिनत्ति
[स्राग्धरा]
[117] अथ वन-कुल-गोकुलाभ्यां मिथः सुखम् अभिमुखम् आगतयोर् महतां समूहयोर् महोदधि-तुल्ययोः सङ्गमः संवृत्तः; यथा नित्यम् एव तथानुभविनाम् अपि दिवौकसां चमत्कृतिर् अजायत; यत्र श्री-गोविन्द एव स्वयम् इन्दवति स्म, स्वयम् एव च वेणु-शिक्षया धेणूः पृथक् पृथग् अवातस्तम्भत् ।
[118] तत्र गोष्ठाद् बहिर् लम्भित-मुहुर्-उपष्टम्भानां दोहनादि-कर्मणा गवां तर्णकादीनाम् अपि शर्म निर्माय, दुग्धाय जनान् पुरो विधाय, सवयोभिः सवयोभिर् आवृतौ सर्वेषां मध्य-वृत्तौ सुवृत्तौ गोपुरम् आव्रजन्तौ गृहाय व्रजन्तौ, स्वकुल-यशोदादि-पुरन्ध्री-राजि-नीराजितौ राजितौ लाजादिभिर् अभिवृष्टौ समम् एव समस्त-नयन-दृष्टौ, गोष्ठाभ्यन्तरं प्रविष्टौ समम् एव निज-निज-प्रेयसी-समाकृष्टि-पटु-दृष्टि-विशिष्टौ निहत-दनुजौ राम-रामानुजौ चरण-मार्जन-वीजनादिभिर् विशश्रमतुः ।
[119] तत्र क्षण-कतिपयं जननी-जनित-लालन-निर्माण-शर्मानुभूय, स्नान-धामनि सम्भूय निज-सेवा-कृज्-जन-कारित-मज्जनादिभिः, सुवेशतया विभूय, पुनर् जननी-सनीडम् एवाजग्मतुः ।
[120] ततश् च सन्ध्यां गमयित्वा जनकादिभिः सह भोजन-लीलां जनयित्वा बहिः-सभा-भागम् आगम्य नाना-बन्धु-जनतया समागम्य तद्-विशिष्टौ सूपविष्टौ बभूवतुः, [121] यत्र नाना-गुणि-शतेषु समागतेषु ताभ्यां सुकुमारता-प्रभूताभ्यां कुमार-सूताभ्यां सह सुमति-रत्नचूडाव् आवव्रजतुः ।
[122] ततः श्रीमता गोलोक-साम्राज्यवता भोजनादिकं पृष्टयोस् तयोः परम-हृष्टयोः, श्रीयुत-रामानुजस् तु निजानुज-वद् एव तौ सूत-तनूजाव् आहूय भूयसा स्नेहेन सदेशम् उपवेशयामास । निज-व्रज-वासि-सूतादीनां प्रभूतानां भव्यानि काव्यानि तैर् एव श्रावयामास च । ततश् च तौ परम-हृष्टौ सन्तौ स्व-गुण-कलापं सफलयितुं बलवद् उत्कण्ठितवन्तौ ।
[123] अथ प्रहर-मात्रायां रात्राव् आचरित-यात्रायां नन्दित-सर्व-समाजेन श्री-व्रज-राजेन समज्या-प्रधानेषु प्रातर् नव्य-काव्य-श्रवण-निमन्त्रणम्
अपवर्ज्य विसृज्यमानेषु, तं निज-जनकम् अनुज्ञाप्य कनक-वसनस् तौ सुकुमारौ सूत-कुमारौ करे गृहीत्वा स्पृहान्तरं हित्वा मातृ-गृहान्तः सङ्गतवान् । मातरं प्रति तयोः प्रसङ्गं सङ्गमितवांश् च ।
[124] ततस् तु तां सर्व-स्तुतां तौ कुमार-सन्तौ सुख-सारं सम्भवन्तौ विविधम् एवं विचारितवन्तौ, "किम् इयम् अस्य गोकुल-कुल-चन्द्रस्य क्षीर-नीरधि-गम्भीर-वेला? किं वा पूर्ण-तद्-उदयाकर-राका-साकारतया लब्ध-मद्-विध-दृष्टि-मेला? किं वा प्राची दिग् एवम् आनन्दनया रचित-तनया? वस्तुतस् तु तनय-विषय-दया किल स्फुरद् एवम् उदयतया शीतली-कृत-लोक-समुदया" इति ।
[125] अथ सा च परम-रमणीय-चरिता मधुरेण व्यवहारादिनाभ्य्-अवहारादिना वस्त्रालङ्कारादिना च प्रचुरतरम् एव स्नेहं तयोर् आचरितवती ।
[126] ततश् च तयोर् मङ्गलाय मातरम् आशिषश् चित्वा, वाससम् आसादनाय चानुज्ञा-वितरं याचित्वा स्वयम् अपि स्नेहावेश-मय-तन्-निदेश-वशतया विश्रमाय संवेश-वेश्म प्रविशन् सर्व-सुख-सारः श्री-गोपाधिपति-कुमारस् तौ सूत-सुतौ स्वेन युतौ विधाय श्री-राधिका-सदेशम् आसादितौ चकार ।
[127] आसन्नौ च तौ विद्युद्-आवलिषु तद्-अधिदेवताम् इव, कमलिनीषु कमलालयाम् इव, सर्व-सम्पत्तिषु सद्-अनुकम्पाम् इव, गुण-श्रेणिषु स-विनय-नीतिम् इव, हरि-रति-जातिषु महा-भाव-सम्पदम् इव, निखिल-सखीषु श्री-राधाम् ईक्षामासतुः ।
[128] अथ तां पश्यन्ताव् एव प्रेम-वश्यं ताव् आत्मानम् अजानन्ताव् आत्मना कृष्ण एव सान्त्वयामास, सान्त्वितौ च तौ तं च तां च निचाय्य चिन्तयामासतुः,
"इन्द्रनील-रुचि-जीवनं महः
स्वर्ण-वर्ण-निकराकर-प्रभा ।
यच् च या च चयनं तयोर् इदं
द्वन्द्वम् आदि-रस-सार-कारणम्
[रथोद्धता] इति ।
[129] अथ कंस-रिपुणा परिचायितयोश् च तयोर् एषा स-कौतुकं बालदेव-रयोर् इव कुमार-वरयोः सशर्म सनर्म च पुरस्कारं चकार ।
[130] ततः सङ्गिनः प्रदाप्य मातुल-गृहम् एव तौ प्रस्थाप्य श्री-गोविन्दः स्व-मोहन-मन्दिरं प्रविवेश संविवेश च । तत्र,
आयाते रमणे ससम्भ्रमम् उपागम्यासनादि-क्रियाम्
आचर्य व्यजनादिभिः स्वयम् असौ सेवावधानं दधे ।
शय्यायां त्वरितं गते पुनर् इयं लीना सखीयाचिताप्य्
आसीत् क्वापि कदापि तत्परिचिता नास्मीतिवद् व्यञ्जती
[शार्दूलविक्रीडित]
[131] तत्र सखीनां वचनम्,
"अदृष्टे दर्शनोत्कण्ठां दृष्टे तु त्वम् अपह्नुतिम् ।
सर्वदा कुर्वती कृष्णे कीदृशीति न लक्ष्यसे
[अनुष्टुभ्]
ततः सखीभ्यां सुगृहीत-बाहुर्
नीतापि मध्ये-गृहम् आयताक्षी ।
स्तम्भेन बाह्येन तथान्तरेण,
कृतावलम्बा चकृषे प्रियेण
[उपजाति 11]
बलेन कृष्टा हरिणाप्य् अनल्पं
तल्पं गतासीन् मिलितुं च लोला ।
तथापि नायाद् ऋजुतां तु किन्तु
कराकरिप्रायतया ससञ्ज
[उपजाति 11]
अमिलन-हठ-कृद् यदामिलद् वा
हरिम् अथ भेदयितेयम् आशु केन ।
द्वयम् अपि चरितं न चित्रम् अस्या
यद् अलम् असौ रस-रूपताम् अयासीत्
[पुष्पिताग्रा]
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त- व्रज-वल्लभ पाहि माम्
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0