भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.28

1.28.1

[अनुष्टुभ्]
[33] अथ कञ्ज-नेत्रः कृताञ्जलितया प्रतीक्षितानुज्ञा-सारौ सूत-कुमारौ स्वान्तिकम् आहूय भूयः परिचस्कार निजानाम् अङ्गानाम् अङ्गनानाम् अपि परिष्कार-द्रव्येण ।
[34] यद् अनु दान-पर्वणा सर्व एव भासमानः सभा-सज्जनः प्रत्येकम् एक-व्यक्तिर् अपि क्रिया-लाघवाद् बहु-विध-निभां व्यक्तिम् अवाप ।
[35] ततो ब्राह्म-मुहूर्ते मुहूर्त-विश्रमाय सर्व एव स्व-स्व-धाम जगाम ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
रास-प्रपञ्च-पञ्च-पूरणी-पूरणम् नाम
सप्तविंशं पूरणम्
॥27 ॥
(28)
अथाष्टविंशं पूरणम्
अम्बिका-वन-गमन-संविधानं
[1] अथ प्रत्यहवत् प्रभात-भासमानायां सभायां स्वावसर-जात-प्रसरः स्निग्धकण्ठः सोत्कण्ठम् आह स्म- मधुकण्ठ श्रूयताम् अनन्तरं हरि-चरितम् ।
[2] ततः सर्वानन्द-वर्षे हरेर् नवमे वर्षे परुत्नाद् अप्य् अधिकतया यत्नाद् ऐषमस्त्ये सामस्त्येन कृत-विस्तारे गिरि-यज्ञ-सारे निर्वृत्ते मास-कतिपये च वृत्ते विलक्षण-लक्षणा शिव-क्षणदातिप्रचुरं जन-समाजम् आजहार । किन्तु प्रायशो यशोधनादिकाम् अनया सामानाधिकरण्याद् अम्बिकारण्याय समम् अम्बिका-पति-पूजनार्थं जना वर्षं वर्षं प्रति सहर्षं गच्छन्ति । यच्छन्ति च विविधानि धनानि किमुत तस्यां योगविशेषाद् असमायां समायाम् । यत्र कुतूहलावकलनादि-लीला-कल्लोलिनी-कल्लोल-लोल-श्री-गोपाल-चालित-चित्ता गोपालाः । किं बहुना, गोपाल-क्षिति-पाल-चरणाश् च तद्-यात्रा-स्पृहा-पात्रताम् अवापुः ।
[3] संचेरिरे च ते चिरेण महारम्भ-सम्भार-भार-हार-विशङ्कट-वार-निःसारणया । तत्र जनैर् नाना-सामग्रीर् अगर्ह्य-वह्यानडुहश् चानांसि वाहयन्तः कोलाहल-कुतूहलम् अन्वभुवंश् च ।
[4] यत्र पुत्रानुराग-परिमल-निर्मल-पात्री व्रज-धरित्री क्षिति-पालयित्री नाना-गोप-कलत्राणां सुख-सत्रायमाणतया तैः सह सत्र-यात्रां चकार । किं बहुना, गो-गोकुल-पालन-कृते कृतेहानुपनन्दाभिनन्दादीन् ऋते सर्व एव पर्व-पूर्वं चलन्ति स्म । यत्र लाल्य-भावतः संनन्द-नन्दनाव् अग्रजम् अनुव्रजतः स्म लालक-भावात् तज्-जन्मानम् अनु च ।
[5] तत्र विशेषतस् तु-
मुख-कमल-विराजन्-नाट्य-दृक्-खञ्जरीता
स्तन-कनकज-कुम्भ-भ्राजि-पत्रावलीका । चरण-सरसिजाणां हंसक-स्वान-रम्या
व्रज-निज-महिलाली तत्र भव्यं बभार

1.28.2

ततश् च-
न परं चाक्षुषम् आसीत् तद्-व्रज-जन-चलनं विदूरतः किन्तु । शकट-घटाटननाद् वादाद् अप्य् अन्ध-वेद्यं च

1.28.3

सुराणां नॄणां च प्रतिपद-बहूभाव-मयतां
स-वाद्यैर् गीताद्यैः सह कुसुम-वर्षैर् जय-रवैः । मुकुन्दालोकाय प्रथित-पथिकाली-शवलनैः
समन्तात् सङ्घट्टैर् अभिययुर् अमी आम्बिक-वनम्

1.28.4

तत्र च-
भ्रात्रा सत्रा हरिस् तत्रारुह्य कम्बलि-वाह्यकम् । विचित्र-मित्र-गन्त्रीणां वृतं पृतनयाययौ

1.28.5

कदाचिद् उन्नतं तत्र शकटं घटयन् पृथक् । अभीष्टं द्रष्टुम् उत्कण्ठी स स्म सुष्ठु प्रतिष्ठते

1.28.6

सखि-बल-बलवान् विहार-चर्यां
पथि विदधत्-कुतुकं च लोकमानः । मुहुर् उपचरितः स्वयं जनन्या
बकरिपुर् आम्बिक-काननं विवेश

1.28.7

तत्र च-
जङ्घालास् ते लक्षशो लोक-सङ्घास्
तीर्थं याताः कृष्णम् आपुश् च दैवात् । तृष्णा-दीनाः पाथसस् तत्-प्रयाताः
सौधीं यद्वद् वृष्टिम् अन्ते लभन्ते

1.28.8

[6] तस्मिन्न् इदम् अद्भुतम् उद्भूतम् अभूत्-
उत्फुल्ल-नेत्र-कमलं पुलक-प्रसार-
शैवालम् अश्रु-मिलद्-ऊर्मि-जन-प्रवाहः । आक्रम्य सेतुम् अधिगम्य सुरम्य-कृष्ण-
शोभा-महाम्बुधिम् अगाज् जलताम् अपीह

1.28.9

[7] ततश् चाभिख्या-मात्रतः कृत-सर्व-वशीभावस्य तस्य तद्-आसेचनक-रूप-निरूपणात् पश्य पश्येत्य् एवास्मिन् पश्यति लोके कथंचित् कृत-निवारणे च तस्मिन् कोलाहल-कारणे व्रज-वासि-जनः सर्व एव यथायथम् आवासम् आससाद ।
[8] आसाद्य च पुरोहित-हित-सहिततया कृत-स्नान-दान-व्यापारे श्री-व्रजराज-विराजमान-समाज-वारे कुतुकतस् तैर्थिक-सार्थ-दर्शनार्थं स्नातानुलिप्तता-दीप्तः सखि-रामाराम-रमणः कमन-कमल-लोचनस् तत्र तत्र भ्रमण-क्रमम् आचचार । यत्र नाना-देश-जनानां वेश-निवेश-निर्वेश-संवेश-भाषाभिनिवेश-क्रिया-विनिवेश-विशेषान् अनुभूय बहुल-कुतूहलम् आकलयां बभूव ।
[9] यत्र च कृष्णं पश्य रामं पश्य श्रीदामानं पश्येत्य् अमी पश्यन्तः कोलाहलं बंहयाम् आसुः ।
[10] यत्र च तदीय-वृन्दानि गोविन्दीय-सुन्दरता-मरन्द-विनिस्यन्दम् अमन्दं नयन-रसनया रसयन्ति । मोहातिशयवन्ति विहित-हित-सर्वस्वात्म-निवेदनं सास्र-नम्र-कम्र-वदनं सदन-सदनाद् असीदन्ति च संजिताञ्जलितया तस्थुः ।
[11] श्री-कृष्णस् तु तद् अङ्गीकृत्यापि शील-वृत्त्या तदीय-स्नेहं साङ्गीकुर्वन् मदीया एव भवद्-भवदीयार्था मत्-प्रत्यर्पणतः प्रतिस्वं यथा-निष्ठम् अवतिष्ठन्ताम् इति सन्तोषयन् क्रमशो निजाश्रमम् एवाश्रमम् आजगाम ।
[12] आगम्य च सायन्तनम् अशनं संगत्य मातुर् मानसम् आनन्देन वितत्य प्रशस्त-वस्त्र-मालालंकार-सारं परिकृत्य सखिभिर् आत्मानं परिवृत्य सर्व-भागवत-शिव-प्रदस्य भागवत-परम्परा-परम-गुरोः शिवस्य वरिवस्यायां शिव-रात्रि-यात्रिभिः पित्रादिभिर् एकाग्रतया स्व-मङ्गल-कृते कृत-जागरं स्वीय-परकीय-राजकीय-जनकीय-बहल-कोलाहल-प्रकारं शिवागारम् अनु नाना-विद्या-विस्मायकतया विद्यमानान् संपश्यति स्म ।
सर्वे व्रजजनास् तत्र कल्प-वृक्ष-समा बभुः । अधिदेव इवादीप्यद् धन्यः पर्जन्य-नन्दनः

1.28.10

[13] प्रभाते च प्रभाते वदान्यता-प्रचाराहृत-विप्रादीनाम् अगणेय-गणाय गुण-गुणितान्नादि-दानतः संमानतश् च वितानित-यशसि श्री-व्रजराज-सदसि तेषु तत्-तीर्थ-यात्रि-शतेषु च चिर-परिचित-चरवत् परम-प्रीति-स्फीतीभावन-नीतितः कथम् अपि प्रस्थापितेषु तस्याम् अमावस्यायां तास्मिन्न् एव व्रज-वसतिभिः सह पितृभ्यां लालितः स हरिर् वासतेयीम् उवास ।
[14] ततः सा च रात्रिर् यात्रिक-जन-प्राचुर्य-पूर्यमाणा नासीद् इति कोलाहलापगमेन ह्यस्तन-जागर-क्लमेन च सुप्तिः सर्वतश् च निर्भरम् एवाविर्भवति स्म ।
[15] यत्र दनुजामित्रस् तु व्रीडातः क्रीडातश् च किंचिद् दूरगतः सखि-जन-जनित-सुखं निद्रायते स्म ।
[16] अथ तस्यां निशि दिशि दिश्य् अपि दर्शित-तमसि रहित-दन्तगरः कश्चिज् जरद-जगरः सर्पः सर्पन् व्रजराज-चरण-राजीवं निजगार ।
[17] तेन च वीर्यवत्तया निगीर्यमाणे चरणे शरणेच्छुर् व्रज-धरणीशः सन्तत-कृष्ण-स्फूर्ति-पूर्ति-प्रचित-चित्ततया जाग्रद् एव कृष्णम् उद्दिश्य चुक्रोश । यथा-
कृष्ण कृष्ण बत कृष्ण कृष्ण हे
तात माम् अजगरो ग्रसेत किम् । इत्य् असौ स्मरणतस् तनूजनेस्
तस्य मोह-मय-भावम् अययौ

1.28.11

[18] अथ तत्-पार्श्व-वर्तिनः शूर-चक्र-वर्तिनश् चन्द्र-हासम् आदाय समुत्थिताश् चन्द्रमसं ग्रसमानं राहुम् इव बाहु-शालिनस् तं पश्यन्तः प्रव्यथिता व्यर्थी-भूत-तत्-प्रहार-प्रयासास् तद्-उपायान्तरम् अपश्यन्तश् च व्यग्रता-क्वथिताः शरारुभिर् ज्वलद्-अग्रोदग्र-दारुभिर् जघ्नुः ।
[19] तथाप्य् अत्यजति तत्राजगरे प्रथम-शब्दाद् एव जाग्रद्-व्रजराज-तनूजः सुर-गज-राज इव धावंस् तर्ह्य् एवाजगाम ।
[20] आगच्छतश् च तस्य स दीर्घतर-दीर्घ-पृष्ठः पुच्छम् अनु वाट-घटित-न्यायेन चरण-पल्लव-स्पृष्टतां प्राप ।
[21] तत्-स्पृष्टश् चायं विसृष्ट-तच्-चरणः स्वयम् अकस्मात् सर्पाकाराद् उत्सर्पन् वपुर् अन्तरम् अन्तरेण विद्याधराकारं धारयति स्म ।
[22] तत्-कर-पल्लव-स्पृष्ट-चरणाः श्री-व्रज-राज-चरणाश् च यथावद् विराजमानताम् आपुः ।
[23] ततः साश्चर्यं कृतावलोकेषु सर्व-लोकेषु सुदर्शन-नाम-धरः स तु विद्याधर-चरः पुनर्-लब्ध-स्वरूप-वरस् तं प्रशंसन् स्व-शाप-वृत्तान्तं शंसंस् तदीयां क्षमाम् आशंसंस् तद्-अनुज्ञातः स्वाधिष्ठानम् एव प्रतिष्ठते स्म ।
[24] ये पूर्वं तत्रापत्रपाम् अपहाय श्री-व्रज-पतिपत्नी-प्रभृतयः कुल-स्त्री-जनाः किम् उतान्ये संसृज्यमानतयानुसृत्य कृत्य-मूढताम् अनुबभूवुः ।
[25] सम्प्रति तु ते यथायथं मिथः समुपगूढाह् केवल-मूढ-रोदना बभूवुः ।
यथा तातं कृष्णश् च रामश् च कृष्णं रामं च मातरः । मातॄश् चान्यास्तथान्योऽ न्यम् अन्ये शिश्लिषुर् उन्मदाः

1.28.12

[26] तद् एवं कृत-क्षपणायां क्षपायां तत्-क्षणम् एव तूर्ण-गमन-मनसः समम् अनः-समूहम् आरोहयन्तश् चिर-गन्तव्यं पन्थानम् अन्तिकम् इवातिक्रान्तवन्तः प्राप्तवन्तश् च निज-व्रजम् ।
[27] यत्रोपनन्दादयः स-नन्दनं सहज-मात्रं श्रीमन्-नन्द-राजम् अनवद्य-वाद्य-गीत-परीत-वेद-घोषानुगत-सर्व-घोषा यथायथं संसज्य नीराज्य च व्रजोपवनम् आवास्य स्नपनादिभिर् उपास्य च तत्रैव निज-गृह-जनं प्रापय्य पाकं समापय्य च सर्वान् एव सम्भोज्य सुखेन संयोज्य च वर्त्म-वार्तां संपृच्छ्य हर्ष-धर्षादिकं समृच्छ्य च स्व-स्व-वसतिम् अनु वसतीं वासयाम् आसुः ।
[28] अथ समापनम् आह-
ईदृशस् ते व्रजाधीश पुत्रश् चित्रयशाः शशी । यद्-अङ्घ्रि-नखर-ज्योत्स्ना तमः सर्वम् अनीनशत्

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc