गोपालचम्पू · अध्याय 1.27
[अनुष्टुभ्]
इति श्री-श्री-गोपाल-चम्पूम् अनु
रास-विलास-प्रसारणं नाम
षड्-विंशं पूरणम्
॥26 ॥
(27)
अथ सप्तविंशं पूरणम्
रास-प्रपञ्च-पञ्च-पूरणी-पूरणम्
[1] मधुकण्ठ उवाच-
अथ विलसित-खेद-स्वेद-कुल्यायमानाः सह हरि-वर-गौर्यः सूर्य-पुत्रीं समीयुः ।
यद् अमित-शतम् एताः सा भजन्ती स्रवन्ती सरभ-सरस-पूर्तिं तत्-क्षणाद् एव भेजे
[मालिनी]
अतिक्रम्य स्व-मर्यादां श्यामः श्यामाश् च मां ययुः । इतीव यमुना श्यामा द्राग् अतिक्रामति स्म ताम्
[अनुष्टुभ्]
[2] अथाङ्ग-रुचा घन-चपला घनायमाना, वाचा च चाटक-भणित-स्तनितायमाना घनागम-लक्ष्मीर् इव लक्ष्मी-लक्ष्मी-पतीनां सभा सा मिहिरजा-प्रवाहे नभसि हस्त-ग्राहम् अवगाहमाना भासते स्म ।
मिथः प्रहसित-प्रथा-कल-कलः समाकर्षणं मुहुः स्तिमित-गात्रता पृथुल-वेपथु-प्रक्रमः । तद् एतद् अथ यत् स्थितं बत जलावगाहात् पुरा तद् एवम् अनुमीयते समुदियाय तस्य च्छविः
[शिखरिणी] हंसा गतीश् चक्र-खगाः पयोधरान्
मीना दृशः सारसनानि सारसाः । तासाम् उपेत्यापगता यतस् तदा तेषां तु साम्राज्यम् अपूरि सर्वतः
[इन्द्रवंशा] मुख-वृन्दं खलु तासां
कमलान्य् अभिभूय बभ्राजे । तज्-जातिषु तद्-अधिकता
विधुता वा किं निदानम् अस्ति स्म?
[उद्गीति] ॥
[3] ततश् च लोचन-निकोचं हसन्तीषु तासु स्वयं तेन नागर-चन्द्रेण प्रवर्तिता व्यात्युक्षी, यथा-
मेघं विद्युद् विद्युतं चात्र मेघः सिञ्चत्य् उच्चैर् मेघ-तुल्ये प्रवाहे । चित्रं चित्रं चित्रम् एतत् किम् एतत् नाट्यं पश्येत्य् ऊचिरे व्योम-रामाः
[शिखरिणी] अम्बुज-गन्धि तथाम्बुज-
रूपं मधु-युग् यथाम्बुजं तद् इव । तासां तस्य च वदनं किं जल-केलाव् अदाद् भ्रमं न मिथः
[मालिनी] पद्मिन्या मुख-पद्मं
मुद्रितम् अपि स मधुसूदनः पिबति । इति मिष-कलया सुदृशश्
छलित-दृशस् तद्वद् आचरत् कृष्णः
[वसन्ततिलका]
अलक-वलयि-नेत्रं कञ्ज-नेत्रेण कीर्णं
स्वम् अनु मधुप-तीक्ष्णं कञ्जम् उन्नीय तस्याम् । सभयम् अपगतायां तत्र सेनाधिपायां स तु तद्-अनुग-सैन्यं प्राविशच् चाविशच् च
[मालिनी]
ततश् च-
नीर-केलि-भृत-राग-चक्षुषाम् अट्ट-हास-निभ-हास-रोचिषाम् । मार-युद्ध-लसद्-उद्धत-श्रियां रौद्रवद् व्यजनि सोऽ प्य् असौ रसः
[शिखरिणी]
ततश् च-
मराल-कूजिता नीर-वसना नीर-जाननाः । चञ्चद्-भ्रमरका नीरजानां नाल्य इव स्थिताः
[अनुष्टुभ्]
अथ हा हा हास-शब्दाः प्रवृत्ता नीर-तीरयोः । एके चातक-गीस्-तुल्याः परेऽ ल्प-स्तनित-प्रभाः
[अनुष्टुभ्]
[4] ततश् च बहुधा परिहस्य विनोद-विशेषणाय सख्यातिरेक-विवेकाय च द्वाभ्यां द्वाभ्याम् एकम् एकम् अंशुकं दत्तवान्, हरिस् ताः सर्वा वस्त्रैकैक-वेष्टित-द्वि-द्वि-काय-यष्टीर् उत्थिता निरीक्ष्य प्रतिमुखं परीक्ष्य च बहु जहास । हसित्वा च तासाम् उत्तम् उत्तमं वासस् तथा धारयन्तीनां चञ्चलता-सम्भृतं तिर्यग् अञ्चलता-संवृतं सम्भवद् अरुण-गुणं, मध्ये मध्ये स्तम्भ-निपुणं क्वचन क्वचन चाकस्मिक-स्मित-लम्भनं विनापि दृग्-अम्भः क्रन्दितेन विलोकित-दम्भं विलोचन-संरम्भं लम्भं लम्भं त्रिलोकी-मोहने चिकीर्षित-तदीय-रुचि-दोहने कुसुमासार-कारिणी विमान-चारिणी-संहतिः प्रशस्त-वस्त्रालङ्कार-माल्यादीनां पुटीः पेटकाश् च तत्-पुरतः शनैः पातनम् अनैषीत् ।
[5] कृष्णस् तु ताः सर्व-स्तुताः समुन्न-वस्त्राः पश्यन्न् अति-समुन्नतानन्द-वश्यः स्वयम् अनुरज्य समुपयुज्य विभज्य च तानि वस्त्रादीनि प्रत्तवान् ।
[6] तत्र प्रथमतः स्वल्पेनैव तेन तेन विच्छित्तिर् जाता, यथा-
मज्जनेन तनु-रोचिर् आचितं सूक्ष्म-शुभ्र-वसनं सत-च्छवि । चित्रकं द्युति-विचित्रम् इत्य् अदः प्रायवेशम् अरुचन् हरि-प्रियाः
[रथोद्धता] ॥
[7] बहुभिर् भूषणैस् तु तत्र तत्र मिथुने परम-शोभा नेत्र-लोभाय जायते स्म । तथा हि-
यदा यदा नूतन-वेश-यौवनं तथाविधाभिः समम् ईक्षते हरिम् । मत्वा तदा नव्य-वधू-वरान् अमून् दिव्यो जनः पुष्प-कुलानि वर्षति
[उपजाति 12]
[8] अथ वन-विहाराय हरिणाक्षीणां ततिर् एवम् आदि-व्याजं व्याजहार-
अनङ्गो नाम सेनानीः कृष्ण कस् तव विद्यते । हन्त दर्शय तं नित्यं सखीयं मां ब्रवीति यम्
[अनुष्टुभ्]
[9] श्री-कृष्णस् तु गूढ-स्मितम् ऊचिवान् तत्र श्री-राधां प्रति, यथा-
राधे, मैषीर् द्रष्टुम् अनङ्गम् । तस्य तु पश्य गणं कृत-सत्-कृत-सुकृत-सुलम्भित-सङ्गम् ॥ध्रुवम्॥
तरु-वल्ली-तति-दम्पति-पल्ली भवतीम् अतिथीयन्ती । आकारयति चलन्-नव-पल्लव-पाणिभिर् आत्मीयन्ती ॥अ॥ सा पुनर् इह कुसुमानि किरति पथि रचयितुम् आस्तर-चर्याम् । कोकिल-कुलम् अपि तव हूतिं किल कलम् अनु कलयति वर्याम् ॥ब्॥ भ्रूङ्कारेण च भेरी-शब्दं भ्रमरा विदधति स-सुखम् । शिखि-शतम् अपि बत तनुते नर्तनम् अभितश् चाली-प्रमुखम् ॥च्॥ निज-रुचि-दीपं परितः प्रथयति सोऽ यं रजनी-स्वामी । एष च पन्थाः स्वं विस्तृतवांस् त्वत्-पद-रजसां कामी ॥द्॥
। इति ।
अथ सवितृ-सुताया धन्य-वन्या-प्रदेशे विरचित-बहु-वेशे ता विरेजुः स-कान्तम् । तम् अनु परपरस्मिन् वासरे कार्यम् अन्यद् विलसितम् अनुकान्तं सूचयामास कान्तः
[पृथ्वी]
[10] अथ स्निग्धकण्ठः पप्रच्छ-
रात्रीः किञ्चिन् मात्र-शेषत्वम् आगाद् बम्भ्रम्यन्ते स्मापि तस्मिन् सपत्न्यः । क्रीडा-तृष्णा धृष्णग् एवाङ्ग जाता हा किं चक्रे तत्र कृष्णाङ्गनाभिः?
[शालिनी]
[11] तत्र मधुकण्ठ उवाच-ततश् च तद्-वनस्य निर्वर्णन-पूर्वकं वर्णनं विधाय, केलि-कलापे विधीयमाने-
अन्योऽ न्यं निह्नुतान्वेषण-कृति-विहृतिं प्रेयसीभिर् मुरारिर् यां चक्रे सा रहस् तन्-मिथुन-मिथुनता-कारणं जायते स्म । यत्रान्विष्यानुयाता विविध-गति-वपुः-स्फूर्तिना तेन या या कुञ्जान्तस् तं गृहीत्वा पृथग् अपर-दृशां दूरतां साञ्चति स्म
[पुष्पिताग्रा]
[12] अथ क्रम-वशाद् अद्भुत-भयानक-रौद्र-बीभत्स-वत्सल-करुण-वीर-हास्य-शान्त-शृङ्गार-रसाः शृङ्गारानुकूलतया यथायोगं रसयितुम् आसादिताः । [13] यथा-
क्वचिद् अहीन-तुहिन-मरीचि-मरीचि-वीचि-रोचमान-कानने परिचितापरिचित-नाना-विध-मृग-पक्षि-वृक्ष-वल्ली-विलक्षणता-विलोकनाय कृत-परिभ्रमणम्;
क्वचिद् अपि मदाकुल-भ्रमर-कुल-सङ्कुल-गूढ-कुडुङ्ग-कुसुम-चय-चयनाय कम्पमान-प्राण-प्रणयिनी-जनस्य प्रकटं चाटुता-घटनाय तत्र बलाद् इव विरचित-प्रवेशनाभिनिवेशम्;
क्वचिद् अपि धृष्ट-षट्पद-दष्टता-लब्ध-कष्ट-स्पष्ट-दुष्परिहर-बाष्प-ललनावकलनाद् उद्दण्डितेन सनाल-केलि-खरनाल-दण्डेन तद्-दण्डनाय मकर-कुण्डल-तुण्ड-पर्यन्त-स्पर्शि-रोक-कोक-नदायमान-नेत्र-पुण्डरीकम्;
क्वचिद् अपि ललितविलास-वलितानन-ललना-वपुर् अनुभूय जुगुप्सिती-कृत-स्थल-कमल-स्थलावलोकनम्;
क्वचिद् अपि शुक-निकराधिगमनीय-रमणीय-वाणी-विलास-कलनाय सलालन-कलित-कल-कला-कलापम्;
क्वचिद् अपि निज-लीला-मिलद्-उल्लल-भाव-विलुलित-सुललित-मुकुल-कुल-लता-वकलनेन विकलतया विगलित-नयन-जल-लेशम्;
क्वचिद् अपि प्रौढता-समूढ-गूढ-गर्व-पर्व-खर्वणाय सदम्भरम्भोरु-वरूथम् अनु निर्व्यूढ-प्ररूढमार-सम्प्रहारम्;
क्वचिद् अपि मिथुन-मिथः-केलि-कलानुकृति-नियति-वलित-प्रतिच्छायावलोक-कौतुक-वाहितया विहित-बहु-हासम्;
क्वचिद् अपि परस्परम् अपरस्पर-स्पर्श-सुख-परामर्शजात-निवृत्ति-चित्त-वृत्तितया निमीलद्-विलोचन-रोचमानम्;
क्वचिद् अपि निर्यन्त्रण-रमण-श्रम-परतन्त्र-तन्द्रायाम् अपि तद् एव रमणं भूयः समनुभूय राग-सागरायमाण-जागरम्--
[14] स एष केशवः प्रेयसीभिः सह विललास ।
भ्रमरम् इह निभाल्य दत्तचुम्बं व्रततिषु कीरम् अपीह दाडिमीषु । पुनर् अपि रमणो मनोजवश्य- स्थितिरमणाय बभूव वल्लवीषु
[पुष्पिताग्रा] ॥
[15] तच् च तच् च न वर्णयितुम् आत्मशक्तिं निर्वर्णये, यतः-
तां ज्यौत्स्नीं तच् च वृन्दा-विपिनम् अपि च तत् कुञ्ज-वृन्दं तथा ताः शय्या द्वे द्वे च ते ते हरि-हरिण-दृशौ ताश् च स-प्रेम-लीलाः । पश्यत् पश्यन् मनो मे सपदि विषयिताम् उज्झद् अत्रानुमुह्यत् पश्यद् द्राग् याति तत्-तद्-विषय-वलयतां हन्त पश्यानि केन?
[स्रग्धरा]
[16] तद् एतद् इह सामान्यतया वर्णितम्, विशेषतः पुनर् एवम्-
अन्या वर्णाः सन्ति यत्र स्फुरेन् न श्रीराधायाः कापि सौभाग्यलक्ष्मीः । तस्याः स्फूर्तौ वर्णनायां न शक्या साप्य् एवं चेद् अन्यवार्ता तु दूरे
[शालिनी] ॥
[17] ततश् च परस्परं पर-परागमनातङ्कया मङ्क्षु सङ्कुचित-लीला-विलासाः स-विश्लेषं वेषं संश्लेष-वलितं विधाय वल्ली-गृह-पल्लीनां बहिर्-वर्ति-सन्निवेश-वेषं स्थली-विशेषं क्रमतः क्रामन्ति स्म, यत्र कृष्णस्याप्य् ऐकध्यम् उद्बुध्यते स्म । [18] तथा च तं क्रान्त्वा च दारुणता-पदारुणता-प्रकाश-सान्निध्यं निध्यायन्ति स्म । ततः-
पूर्वस्यां दिशि काचनारुण-रुचि-च्छायावृणोच् चन्द्रिकां चन्द्रोऽ प्य् आशु तदा पतन्न् इव करैर् आलम्बतास्ताचलम् । इत्थं कैरविणी-कुलं किल दर-ग्लानिं ययाव् इत्य् अमूस् तद्-रासाङ्कित-रात्रि-शान्ति-विबुधा मम्लुश् च कृष्ण-प्रियाः
[शार्दूल]
[19] तत्र खेचर-स्त्रीणां वचनम्
नीच-भाव-वलयी बलाद् व्रजन्न् ऊर्ध्वतां निपततीति निश्चितम् । पश्य गोप-सुमुखी-मुखातिगः पुष्करात् स्खलितवान् असौ विधुः
[रथोद्धता]
किं च-
अह्रियत कुवलय-माला-
लीला गोपाङ्गनापाङ्गैः । इति किल दूनित-बन्धुः
कुवलय-बन्धुः पपात हा सिन्धुम्
[उपगीति]
[20] श्री-व्रज-देवीनाम् अपि-
ताराणां वृन्दम् आमृद्नन्न् अस्माकम् अपि सर्वतः ।
अयम् आक्रमतेऽ नूरुर् व्योम चाक्रमति द्रुतम्
[अनुष्टुभ्]
[21] ततश् च तासां तथा-भावं विभाव्य भव्य-स्वभावः स श्रीमान् नव्य-किशोरता-नव्य-सद्-भावः प्रतिस्वम् आलिङ्गितानां दर्शित-प्रणय-सम्पद्-इङ्गितानां वक्त्र-कमलं स्रवद्-अस्रं ममार्ज ।
[22] सान्त्वयन्न् एव चेदं सान्त्वम् उवाच-
अच्छिन्नं समयं वहामि भुजयोर् अन्तः सखि त्वाम् इति प्रत्याशा यदि सिध्यतीह तद् अपि स्वान्तं न मे तृप्यति । सिद्धौ तत्र तु विघ्न-जातम् अतुलं बन्ध्वादि-सम्भालनं तस्माद् गेह-गतेर् अवश्य-वलने मा म्लानिर् आसाद्यताम्
[शार्दूल]
[23] इति पूर्ववद् एव प्रत्येकं हस्तेन व्यतिषज्य सज्यमान-विहारतया व्रज-वर्त्मानुवर्तते स्म ।
यद्यपि वनिता-वशताम् अन्तर् यातस् तथाप्य् असौ कृष्णः । भजति स्निग्धान् अन्यान् सत्-पुरुषाणाम् इयं शैली
[आर्या] ॥
[24] अथ लब्ध-परस्पर-विच्छेदेषु च तत्-तत्-पल्ली-वर्त्म-भेदेषु प्रायेण प्राप्त-गण-सङ्गम-त्रोटताम् अधिक-कोटतया भाविनी-समुदयः स्वयं न भावयितुम् ईशाम्बभूव ।
[25] क्रमेण चात्यन्त-रङ्ग-तत्-तद्-अङ्गना-गणे गणेयतयावशिष्टे तेन सह निज-निजोपवनान्तर्-वर्ति-गेहाङ्गण-वर्त्म-भेदम् आसाद्य, क्षणं गमनाद् विरराम रेमे च । तत्र च-
गाढोपगूढ-चिरतां पटु-चुम्बितं तद्- विश्रम्भ-भाग्-अभिहितं बहु-मानितं च । तासां गतौ रचयता व्रज-राज-पुत्रे- णाकारि किं न किम् इतो गणनां न वेद्मि
[वसन्ततिलक]
[26] ततश् च ताः स-गद्गदं जगदुः-
सम्भावितं न वलते स्म यद् अस्मकाभिस् त्वत्-प्राप्तिर् अत्र भवितेति तया च जातम् । विज्ञापनं तु न इदं शृणु कृष्ण तस्मिन् अङ्गीकृतं परिहरन्ति न जातु सन्तः
[वसन्ततिलका]
ततश् च-
मिथो मिथुनम् उत्तरं विरहम् ऊहमानं मिथः
पतन्-नयन-वारिभिः समभिषिक्तम् आश्लिष्यत ।
तद् एवम् अखिलं वपुर् नियतम् आर्द्रम् आसीद् बहिस्
तद् अस्य हृदयं पुनर् व्यजनि तादृग् अन्तर् बहिः
[पृथ्वि]
[27] ततश् च, सह-कान्तः कान्ता-समुदयः शकुन्त-कुल-कल-कोलाहलात् प्रातर् इति -कलित-चमत्कारः कम्प-सम्पत्-सम्पतद्-अस्रम् अजस्र-भावना-निदानं कथञ्चिद् एव विश्लेषम् इयेष ।
[28] तथा विश्लिष्य च-
तिर्यक् पश्यन् मुहुर् अपि मिथस् तत्र तत्रापि सास्री- भावाद् व्यस्रं मिथुनम् अथ तत् कृष्ण-राधादि नाम । गेहं गच्छद् यद् इह गमनायाशकन् तन् न चित्रं धन्यानां स्याद् उचितम् अखिलं यत् प्रयत्नं विनापि
[मन्दा]
अजनि बहु-व्यथतान्तर् बहु-दयितानां वियोगतस् तस्य । सर्वावरक-रुग्-अन्तरम् इव जज्ञे सा तु राधिका-वियुतिः
[गीति]
ज्यौत्स्नीं शारदिकां विहृत्य विविधं तस्मिन् बलाद् आगतं वीक्ष्य ब्राह्म-मुहूर्तम् उल्लल-धियश् छन्नाध्व-मूर्ति-क्रियाः । तत्-तत्-केलि-कला-विलास-वलित-स्वान्ताः स्व-कान्त-प्रियाः सान्तस् तर्षम् अनन्तर् ईषद् उदित-श्रान्ति व्रजं प्राविशन्
[शार्दूल]
[29] स एष रासोत्सव-विशेषश् च निवृत्त इति बहिर् एव वृत्तं नान्तः, यतः-
रासोत्सवं किल समाप्य गृहादि-कृत्य- व्यग्राश् च तन्-मयतया व्रज-वाम-नेत्राः । नाना-विलास-मय-नर्तन-गीत-वाद्यं साक्षाद् इव व्यदधतात्र च तत् तद् एव
[वसन्ततिलका]
नेता येषु तु रास-केलिषु भवेत् कृष्णः स्वयं नायिकाः श्री-जैत्र-व्रज-सुभ्रुवो, रस-कथास् तत्रैव निर्लाञ्छनाः । तत्-तद्-वर्णनम् एव काव्य-विबुधाः कार्त्स्न्येन कुर्युः परं किन्तु श्री-शुक-सम्मतं न यद् इदं पूर्येत तैः सर्वकैः
[शार्दूल]
[30] स्निग्धकण्ठ उवाच-हन्त, चत्वारस् ते कुमारकाः क्व गताः? ।
[31] मधुकण्ठ उवाच-पूर्वम् आरूढ-महा-तरवः पश्चान् निज-प्रभोः स्व-गृह-वर्त्मानुवर्तनम् अवधाय, दूर-चरिष्णुतया तूष्णीम् एवानुवर्तिष्णुताम् अवापुः इति ।
[32] तद् एवं मधुकण्ठः प्रथितम् अपि रास-लीला-वर्णनं त्रियामानियमतः संक्षिप्य तदीय-समाधेर् विक्षिप्यमाणता-सञ्जनाय साञ्जलिर् व्यञ्जयामास-
स ईदृग् वल्लभो लब्धस् त्वया श्रीमति राधिके । यं भेजे रास-रभसात् त्रिलोकी नायिका-निभा
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0