गोपालचम्पू · अध्याय 1
[अनुष्टुभ्] पुलिनं विलसत्-कृष्णं कृष्णं सालिङ्गनाङ्गनं कलय । आङ्गनम् अभिनव-गीतं गीतं सङ्गीत-सङ्गि-सङ्गीतम्
[पृथ्वी] यदा जलं न हि विविशुर् नत-भ्रुवस् तदामुना प्रसिषिचिरे समं तथा । अमुं यथा लघु-गतिम् अत्र मेनिरे विभूभवन्न् उदक-भृद् अञ्चतीति ताः
[वसन्ततिलका] जलाद् एवं सिषेचामुर् घनं घन-रस-प्रदः । विविशुर् जलम् एवामूर् यथासार-शरार्दिताः
[अनुष्टुभ्] तदावलग्न-दघ्नं वार्मग्नाश् चपल-लोचनाः । कृष्णसार-वधू-रूपाः पुरस्ताद् गतिम् अद्विषन्
[अनुष्टुभ्] यदा तासां नेत्र-प्रतिफलन-मिश्रा झष-गणा मुहुर् नैवागच्छन् परिचिति-विधानं कथम् अपि । तदा स्पर्धाबद्धा
इव मृदुलं क्षणगं भृशम् अमी स्पृशन्तो भीरूणां मुरहर-दृशोः कौतुकम् अधुः
[शालिनी] ततश् चाकण्ठ-निर्मग्ना महिलाः कमलाननाः । मधुसूदन-संसक्ताः कमलिन्य इव स्थिताः
[अनुष्टुभ्] गणे गौराङ्गीनां हरिर् अचित-धर्षात् परिभवं गते तत्र स्वर्णाम्बुज-घन-वनी निह्नुतिम् अदात् । विपर्यासो यर्ह्य् अस्फुरद् इह च नीलाम्बुजवनी तदा तस्यापह्नुत्य्-उचित-चिति-कृतेऽ भूद् अनुपमम्
[गीति] कथञ्चिद् अपि या लब्धा हरिणाम्भोज-कानने । किम् अपि व्यञ्जयामास तस्या हाहा-कृतिं परम्
[अनुष्टुभ्] स्मित-विलसित-नीलाम्भोजम् आसीदद् एका मुखम् अनु हरि-वक्त्र-स्फूर्ति-सन्दिग्ध-चित्ता । इह च वर-मरन्द-स्वादम् आसाद्य सद्यं समरुचि-युवतीभ्यः शङ्किनी स्वं जुगोप
[मालिनी] दुर्लभं यद् अजनि स्वयङ्ग्रहा- लिङ्गनं तद् इह जातम् अञ्जसा । यर्हि मग्नम् अनया गभीर-वार् उज्जहार हरिर् अप्य् अमूम् अथ
[रथोद्धता] द्रुतम् अथ वर-रामा वारि वक्षोज-दघ्नं युगपद् अयि भवत्यः प्राण-नाथं विजेतुम् । स्थगित-कृति-कराभ्याम् इच्छवः सेक्तुम् उच्चैः कथम् अथ बत जिग्युर् जिग्यिरे वा कथं
न
[गीति] हरिणा हृदये तासां वितीर्णा नखर-व्रणाः । अद्भुतं सहसा श्लिष्टा मदनेषु-कृत-व्रणाः
[अनुष्टुभ्] औपजानुक-भुजस् तु यदासौ पार्श्वतीय-मुखतीयतयासीत् । औपकर्णिक-दृशां स तद् आसाम् औपनीविक-करोऽ प्य् अजनिष्ट
[स्वागता] यदा राधा वारि-केलौ सखीनां पुरतो गता । विनापि सेकं स तदा जडताम् अभजत् प्रियः
[अनुष्टुभ्] राधा-पुरः-सरतया जल-केलि-युद्धे कृष्णं चकार जडम् उद्यमम् अन्तरापि । नैतद् विवेद वनिता-निचितिर् मिथस् तु स्वीयाम् अजिज्ञपद् असौ जित-काशितां च
[रथोद्धता] ततः क्रीडा-युद्धं दधद् अघ-रिपुर् नीर-विहृति- प्रथायाम् एकाकी व्रज-युवति-कोटीभिर् अभितः । तथा कृत्वा तीरं प्रसभम् इतवान् सम्प्रति यथा पुरा कात्यायन्या भजन-कृति-कन्यास्व् अकुरुत
[मालिनी] अथ भ्रमर-दम्पति-व्रज-जनः प्रतिस्वं निजा- लयाद् अनुगतिं दधद् भविक-गीतवद् गीतवान् । अहो किम् इव सोऽ पि तं निज-रमा-युतं तद्-वन- प्रभुं प्रमितवान् अनुव्रजति तत्र सर्वत्र च
[स्रग्द्] कथञ्चन ददर्श या क्वचिद् अपीह कृष्णान्वितां वधूं रहसि काम् अपि स्वयम् इदं-विधा काचन । प्रतीतिम् अगमन् न हि स्फुटम् अमूं तमालान्वितां स्फुटत्-पुरट-यूथिकां सपदि मन्यमाना हृदि
[पृथ्वी] शिञ्जितं विहग-काकली-कुलैर् गानम् अन्य-भृत-सम्भृत-स्वरैः । रूपम् अप्य् अथ तमाल-चम्पक- श्रेणिभिर् मुहुर् अवारि तादृशाम्
[रथोद्धता] यत्र सन्तमसम् अस्ति सन्ततं तद् वनं न पर-दुर्गमं परम् । कुञ्ज-मध्य-लसद्-ओषधी-श्रिया
तत्र तत्र मिथुन-र्द्धि-वर्धि च
[रथोद्धता] अथ रहसि गिरां विलास-कम्रं चलद्-अमलाङ्ग-विकासि-रोमहर्षम् । स्मर-वलयि-कला-स्पृहातिलोलं दिदिवुर् अलं युगलानि तत्र तत्र
[पुष्पिताग्रा] अलिर् इह वदनोपदंशम् आसीन् मधुरसपानकरः सरोजिनीनाम् । यद् अजितरमणीततिर् निरीक्ष्य स्फुटम् अभजन् मदनं विदूरतोऽ पि
तस्याः प्राणा भवान् सा च भवत्-प्राणा इति स्फुटम् । एतद्-वाचा लघूकर्तुं प्राणन्तीं मां तु धिक् प्रभो
पूर्वां हरितम् आक्रम्य निष्क्रामन् कृष्ण-नीरदः । निह्नुते शशभृल्-लेखां हरिद्-अन्तर-लज्जया
मामपि हित्वा क्रीडसि तामपि हित्वेति नानृतं वचनम् । एकं तत्र जहातेरन्यद्रूपं दधातेर् हि
नीरसा सरसा वेति विविक्तिर् नातिकामिनाम् । पश्य वंश्या मुखं नायं पिबन्न् उज्झति माधवः
मुखम् अब्जं तव रसना पल्लव-पत्री कथं वचः क्रूरम् । आं ज्ञातं किल यस्मात् तन्-मूलं भाति हृद्-वज्रम्
अर्दितोऽ पि रुषा राधे लीलाब्जेनास्मि नार्दितः । हन्त मत्-कण्टकैर् एतत् त्वद्-अङ्घ्रि-सुहृद् अर्द्यते
या खलु मानम् अमानं दधिरे त्वन्-मान-जीवना दयिता । घटते गोपी-वल्लभ तस्याः स्फुटम् असुगमः सुगमः
आगस्-कृतेऽ पि तस्मै रज्यति हृदयं खलं तद् एतन् मे । त्यक्तुं तद् अपि न शक्यं कथम् इव स हरिः परित्याज्यः
श्यामाङ्गम् अन्तरा देहः सुहृदः सर्व एव च । अन्तर्-मनो-भिदस् तापं दधते वह्नि-जालवत्
यदा प्रतस्थे गोविन्दो विन्दन् शकटम् उन्नतम् । तदा दृक्-पक्षिणां ताभिर् लक्षिता बन्धु-विच्युतिः
रात्रिं रात्रिं वसन्ति स्म यत्र ते तत्र निश्चितम् । अभूद् अमूषु सम्प्राप्तिर् विधोर् दाक्षायणीष्व् इव
यर्हि च तीर्थं याता गोकुललोकास्तदा हरिर्विदधे । गुणजीविस्त्रीवेशं तासामासत्तिसौख्याय
कविर् इयम् अतुला भवतु श्याम-व्यक्तिः स्वधीत-तद्-विद्या । अस्माकं रह एषा कथम् इव जानाति तन् न जानामि
श्यामा चित्र-करीयं चित्रं विजने प्रकाशयति । माम् इव काम् अपि यत्र स्व-तुलित-पुंसान्वितां सखि व्यधित
रहसि तद् एतद् वद्मि त्वयि सखि न परत्र कुत्रापि । ताम्बूलिकीयम् असिता मोहन-मन्त्रं विजानाति
सेयं माला-कारी-मूर्तिर् मालाः प्रसारयति । तस्य श्यामल-मूर्तेः कस्मात् पुष्पेषु वासनां तनुते
फल-विक्रयिणी श्यामा फलम् इह विविधं प्रसारयति । बिल्वं केवलम् अथ किं गृह्णत्य् अस्मान् विलोकयति
सेयं श्यामा न सती हार-व्यतिहार-सम्भवद्-द्रव्या । अपरिचितापि स्वयम् अथ मणिसर-परिधापनं वष्टि
यद्-अवधि
तद्-अगुरु-सत्त्वं तस्या गृह्णामि गन्ध-जीविन्याः । तद्-अवधि गुरवो मयि सखि कृष्णम् अकृष्णं च ब्रुवते
अहम् इह रञ्जन-कारी श्यामाभिख्या जगद्-गत-ख्यातिः । या मम वस्त्रं वस्ते विकसति हृत्-कञ्ज-रञ्जनाप्य् अस्याः
दर्पण-कार्मुक-विद्रुम-मुक्ता विक्रेतुम् ईहसे स्पष्टम् । गूढं सम्पुट-युगलं क्रेतुम् अहं तु व्रजस्त्रि पृच्छामि
संवाहन-निपुणात्मा सुतनुर् अहं तव निषेवणं लिप्सुः । मत्-स्पर्शांशज-सौख्यं सुभगे ब्राह्मं सुखं जयति
वृष-दम्भी स-संरम्भं रम्भणं यद्-व्यधाद् असौ । तेनासीद् व्यक्त-सन्दर्भः स्वयं गो-गर्भ-पातिना
वृषस् त्व् असौ रज इव पुच्छ-मार्जनी- परिभ्रमैर् घन-गण-लक्षम् उत्क्षिपन् । क्षितिं क्षताम् अथ खुर-वज्र-विज्वलत्- खनित्रकैर् विदधद् अगाद् धरिं प्रति
व्यवर्तत हरि-क्षिप्तः परं नोक्षासुरः क्षितौ । हासावेश-वशे क्षिप्तः स्वर्गेऽ पि स्वर्गिणां गणः
दिव्याः कानन-वीथयः क्षिति-धनं गोवर्धन-क्षौणि-भृन् नाना-रत्न-विलासि-रास-वलयं शुभ्रांशु-शुभ्रा निशा ।
लक्ष्मी-वन्दित-लक्ष्म-योषिद्-उपमा-चारूपमा-पुं-लसल्- लास्यं राधिकयाधिकं निखिलकं तत् केन किं वर्ण्यताम्
विशन्तं केशिनः कण्ठं कृष्ण-दोर्-दण्डम् एव किम् । जगत्-प्राणाशनं मत्वा तस्य प्राणा विदुद्रुवुः
द्विधाकृतं केशि-देहं वर्णयन्ति द्विधाकृतम् । जरासन्ध-निभं केचित् केचित् कर्कटिका-निभम्
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0