भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.26

1.26.1

[अनुष्टुभ्]
इति श्री-श्री-गोपाल-चम्पूम् अनु
विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम् नाम
पञ्चविंशं पूरणम्
॥25॥
(26)
अथ षड्विंशं पूरणम्
रास-विलास-प्रसारणम्
[1] अथ स्निग्धकण्ठ उवाच-
सुवचनम् अघशत्रोः शृण्वती श्रेणिर् आसां विरहजनितदुःखं पूर्वसिद्धं व्यधावीत् । परम् इह न तद् एव व्याधुनोत् किन्तु शङ्का- न्तरम् अपि यद् अमंस्त स्पष्टम् आयत्तम् एतम्

1.26.2

[मालिनी]
[2] तद् एवम् अमूर् उत्फुल्लवदनकञ्जसदन-मञ्जुनयनखञ्जरीटाः स पुनर् मञ्जुलम् आभाषते स्म-
युष्मत्कृते स्म सुचिरान् मनसास्मि दूय- मानेन यूयम् अपि तस्थ मदर्थम् एव । तस्याथ दुर्लभतमस्य मनोरथस्य प्राप्ताव् इहानुरहसं महम् आचराम

1.26.3

[वसन्ततिलका]
[3] स च रासरूप एव निरूप्यते । तथा हि-
दीपः शारदभूरिपूरितशशी यत्रास्ति वृन्दावनं रङ्गः श्रीव्रजनायिकाः स्वयम् इमा यूयं कलाकोविदाः । तं चेमं समयं समेत्य मुदितः सोऽ हं हरिः किं परं कर्तास्मि क्षणम् अन्तरा तम् अपि किं रासं विना भोः प्रियाः

1.26.4

[शार्दूल]
[4] इति क्षीणतमा व्रजजलधिसम्भवाक्षीणचन्द्रमाः सर्वा अपि ताश् चकोराक्षीर् अषडक्षीणयुगपद् लिङ्गनादिना सुखलक्षलक्षितीकृत्य, बलवद् आदृत्य, रासनृत्य-विधये निर्जम्बालम् अस्तम्बजालम् अबन्धुरं बन्धुरं कमलबन्धुजापुलिनम् आवृत्य, परस्परकरसंवलनया वलयाकाराश् चकार ।
[5] कृते च वलये-
कृष्णायाः पुलिनं गतेन रमणेनापूरि कामस् तदा तेनामुष्य मनस् तथा प्रतिपदं तेन द्वयं चक्षुषोः । तेनाङ्गस्फुरदङ्गनासमुदयस् तेनाथ पूर्वं परं सर्वं पर्व च तद् ब्रुवे किम् अपरं नाद्यापि विश्राम्यति

1.26.5

[शार्दूलविक्रीडितम्]॥
[6] तद् एवं स्व-कलित-चये वलये वनमाली शोभानिचयम् उपलभमानश् चिन्तयामास-
उपरि यथोज्ज्वलम् इन्दोर् वलयं पुलिनं तथा भुवि च । किन्तु कलङ्कस् तस्मिन् निर्मल-रमणी-कुलान्य् अत्र

1.26.6

[उपगीति]
[7] तद् अहो ! चामीकर-मणिसराकारोऽ यं रमणीय-रमणी-वलयः प्रति-युग्म-मध्यं यदि महामर-कतायमान-नायक-सम्बध्यमानताम् आबध्नाति, तदा हृद्यताम् आपद्यते ।
[8] तच् च तथावेशेन मत्-प्रवेशेन परं सिध्यतीति निधाय स्थितः सन्न्, अकस्माद् यथा-मनोरथाकारम् एवावस्थितवान्, यथा स्वयम् अपि कथम् इति तु न तत्-प्रथनम् अवाप । ततश् च-
हरि-हरिणाक्षी-वलितं पुलिनं तद् वल्गु भाति स्म । स्व-प्रतिबिम्बेनादाद्
यद् विधु-बिम्बाय सारूप्यम्

1.26.7

[उपगीति]
सुहृद् इन्दोः पुलिनं तत्- पुलिनस्याभून् नत-भ्रुवां प्रचयः । तत्-प्रचयस्य च वलनं श्रीयुत-गोपाल-मूर्तीनाम्

1.26.8

[आर्या]
यत्र च,
परस्पर-करावलि-ग्रथित-मण्डली-मण्डनीर् अनुस्वम् अबला मिलन्न् उभयतस् तदा माधवः । तदीय-भुजपाश्यया कलित-मृष्ट-पृष्ठस् तथा तद्-अंस-निहितात्म-दोर् अभवद् एष रासोद्यमे

1.26.9

[पृथ्वी]
गौरी-कृष्णौ गौरी-कृष्णाव् इत्थं लक्षे लक्षे युग्मे । वृत्ताकारे वंशी-शंशी राधा-सङ्गी तस्थौ मध्ये

1.26.10

[विद्युन्माला]
रासं प्रारभत स्वयं हरिर् असौ कैशोरकं मानयन्न् इत्य् एवं स पराशरोऽ पि भगवान् प्रावोचद् उच्चैर् यतः । तस्माद् गोप-वधूभिर् एव सफलं तज्-जातम् इत्थं तु मे हंहो पश्यत वच्मि वा किम् अपरं रोम्णां च जातं महः

1.26.11

[शार्दूलविक्रीडितम्]
स विविध-वनिता-वृन्दैर् यदपि बहु-प्रेयसी तदा जज्ञे । तदपि च राधा ज्ञप्तिर् मन्ये तस्यापराः कृतयः

1.26.12

[आर्या]
तद् एवम्-
अनङ्गम् अङ्गेन निजेन साङ्गं
कृत्वाधि-रङ्ग-क्षिति सङ्गमय्य । अङ्गीचकाराङ्ग तम् अङ्ग-हारैर्
नव्याङ्गना-सङ्गम-मङ्गलाय

1.26.13

[उपजाति 11]
कलित-कनक-भासः स्मेर-नेत्रा विधूति-
क्षुभित-वलय-वीथी-शिञ्जित-व्यक्त-तालाः । विविध-गति-विहारानङ्ग-साराङ्ग-हारा हरि-हरि-मणि-मूर्तीर् अन्तरा ता विरेजुः

1.26.14

[मालिनी]
ततश् च-
नवीन-विनत-भ्रुवां निज-नवीन-कान्त-च्छवी- जुषां नटन-चातुरी-कुल-धुरीण-लीला-युजाम् । चलद्-वलय-शृङ्खलावलित-नूपुराणां ध्वनिर् नटाध्व-निधि-तालतां ध्वनयति स्म यावद् दिवम्

1.26.15

[पृथ्वी]
रासे शिञ्जित-ताल-जालम् उदभूत् तद्वद् यथा खेचरान् अप्य् आकृक्षद् अहो विदूरतरतः कृत्वेव पूर्व-स्थितान् । द्यो-यानाभिध-मञ्च-सञ्चय-गता वाद्यं च गीतं च ये सभ्यत्वं च समं मदाद् विदधतः स्वं नात्र निश्चिक्यिरे

1.26.16

[शार्दूलविक्रीडितम्]
[9] तत्र देवीनां सञ्जल्पः-पश्य, पश्य-
हरिणा गानम् आसादि गानेन रमणी-कुलम् । रमणीभिर् अथो गानं गानेन स हरिः पुनः

1.26.18

[गीति]
[10] तत्र स्वयम् आरम्भे लास्य-सम्भेद एव जातः । [11] तद् यथाभिनयं यथा-
अङ्ग-हार-चलद्-अङ्ग-हारिषु स्वान्तहारि विलसद्विहारिषु । लास्य-कारिषु च लास्यम् आचरन् भ्रू-नटी-घटित-नेत्रा नर्तकाः

1.26.19

[रथोद्धता]
[12] तौर्यत्रिक-शौर्य-वराणां खेचराणां वाद्ये तूद्भूते ताण्डव-मण्डलं च साभिनयम्, यथा-
उद्यद्-दुन्दुभि-मड्डु-डिण्डिम-डमर्-वाद्ये मृदङ्गं गते वाद्ये द्यो-पद-विद्य-वेद्य-नदने सद्योऽ थ विद्योतिते । ते तर्ह्य् उद्भट-नाट्य-नीति-घटना-सङ्घट्ट-निष्कुण्ठता- सूत्कण्ठाः पद-पाणि-कण्ठ-कटि-सम्मोटालि-कोटिं दधुः

1.26.20

[शार्दूल]
[13] तत्र च शस्त्र-प्रशस्तानाम् इव तेषां कृत-हस्तकानां पुनर् लक्ष्याद् अच्यव एव लक्षितः । तथा हि-
हित्वा हित्वाप्य् अत्र हस्तालि-बन्धं तालालम्बा हस्तकानि प्रदर्श्य । गौरी-श्यामा लाघवात् पूर्णमाना रासोल्लासे तद्वद् आसन् पुनश् च

1.26.21

[शालिनी]
पुष्प-वृन्दम् अपतन् मुहुर् मुहुः कृष्ण-गौर-तनु-मण्डलीम् अनु । वृष्टिर् ऊर्ध्वम् अधरत्र नीर-भृद् विद्युद्-आलिर् इति यत्र चित्रता

1.26.22

[रथोद्धता]
[14] अत्र देवा देव्यश् च भव्य-भाव-भवान् नव्य-परिभवात् कमलाक्षं साक्षाद् इव सम्बोधयन्तस् तथा योग-मायाया योगतः परं स्व-स्व-योग्यम् अन्तः समधिगम्य रम्यम् इदं वाद्य-कोलाहलावृतम् उज्जगुः ।
[15] तद् एतद् एकीकृत्यानुगीयते-
जय जय सद्-गुण-सार । जगति विशिष्टं कलयितुम् इष्टं गोकुल-लसद्-अवतार ॥अ॥ध्रुवम्॥कमल-भवेश्वर-वैकुण्ठेश्वर-पत्नी-चिन्तित-सेव । राजसि रासे वलित-विलासे निज-रमणीभिर् देव ॥ब्॥ नटवत्-परिकर निखिल-कलाधर रचित-परस्पर-मोद । आलिङ्गन-मुख-वितत-महा-सुख वल्लव-वधु-हृत-तोद ॥च्॥ व्यतिवीक्षण-कृत-सात्त्विक-परिवृत-मण्डलम् अनु बहु-मूर्ते । व्रज-तरुणी-गण-रचित-नयन-पण-सचित-वशीकृति-पूर्ते ॥द्॥ चरण-कञ्ज-धृति-कर-पल्लव-कृति-चिल्ली-वलित-विहारान् । मध्य-भङ्ग-तति-मणि-कुण्डल-गति-पुलक-स्वेद-विकारान् ॥ए॥ कलयति भवता घन-साम्यवता तडिद् इव सर्वा ललना । अपि वः परिमिति-तरतमताम् इति सेयं ज्ञपयति तुलना ॥f॥ सुमधुर-कण्ठे नृत्योत्कण्ठे तव रति-मात्र-प्रीते । त्वत्-स्पर्शामृत-मद-चय-संवृत-चित्ते
भाव-क्रीते ॥ग्॥
युवती-जाते गीतज-शातेनावृत-विश्व-प्रभवे । यस् त्वं राजसि तत्-सुख-भाग् असि नम एतस्मै प्रभवे ॥ह्॥ या सह भवता विस्मयम् अवता स्वर-जातीर् अतिशुद्धम् । गायति सेयं निखिलैर् गेयं कलयति निज-गुण-रुद्धम् ॥इ॥ तत उत्कर्षं वलयित-हर्षं वलयति येयं गाने । सा श्री-राधा वलिताराधा भवता कलिता माने ॥ज्॥ येयं रासे श्रमज-विलासे विगलन्-मल्ली-वलया । सा भवद्-अंसे लसद्-अवतंसे धरति करं वर-कलया ॥क्॥ या चांसं परि भुज-परिघं परिचुम्बति तव स-विनोदम् । हृष्यति सेयं तन् न गणेयं यद् रोम च सामोदम् ॥ल्॥
चल-कुण्डल-धर गण्ड-मुकुर-वर समिष-स्पर्श-विधाने । ताम्बूल-द्रव-परिवर्ताद् द्रवम् अयसे चुम्बन-दाने ॥म्॥ एषा नर्तन-कीर्तन-वर्तन-शिञ्जित-जात-सुताला । तव रामानुज करम् अतुलाम्बुजम् इषम् आधाद्द् हृदि बाला ॥न्॥
अथ रास-क्रम-परिवलित-श्रम-वनितालम्बित-देह । परितो-भ्रमणक-गण-विश्रमणक समुदित-परम-स्नेह ॥ओ॥ कवि-कृत-निश्चय-शुभ्र-यशश्-चय-माला-समुदय-हारिन् । जयजयजयजय जयजयजयजय जयजय रास-विहारिन् ॥प्॥

1.26.23

। इति । [8 x 8 x 12]
[16] राजसि रासे वलित-विलासे इत्य् उक्तं रूपम् एवं निरूपयन्ति-
रूपं यन् निजनित्यसौभगशिरोरत्नं नराकृत्य् असाव् आनीयात्र यदीयशक्तिविभवस्याग्र्यां स्थितिं प्रैक्षयत् । चित्रं विस्मयते यतः स्वयम् अपि स्वाशेषसंवेदिता तस्मिन् भूषणभूषणेऽ प्य् अधुर् अमूः शोभां स्वया शोभया

1.26.24

[शार्दूलविक्रीडितम्]
[17] तद् उक्तम्, यन् मर्त्य-लीलौपायिकम् [भ्प् 3.2.12] इत्य् आदि, तत्रातिशुशुभे [भ्प् 10.33.6] इत्य् आदि च ।
[18] तद् एवं सति श्री-राधिकायां तु कैमुत्यम् एव स्तुत्यं जातम् । [19] युवती-जात इत्य् आदाव् एवं वर्णयन्ति-
तासां व्रज-किशोरीणां नित्यम् अप्रसवात्मनाम् । गुणैः स-प्रसवैः पूर्णं विश्वम् अप्य् अन्वयैर् इव

1.26.25

[अनुष्टुभ्]
[20] या सह भवता इत्य् आदाव् उपश्लोकयन्ति च-
शर्व-ब्रह्म-सुरेश-मुख्य-दिविषद्-वृन्दानि यद्-गानतः शश्वन् मोहम् अयुस् तम् एव दयितं कृत्वानुगं या जगौ । सार्धं तेन पराश् चमत्-कृति-परास् तां निर्मिमाणाम् अपि व्यर्थीकृत्य विविक्त-राग-वलनां वन्दामहे राधिकाम्

1.26.26

[शार्दूल]
[21] ताम् एवोद्दिश्य चल-कुण्डल इत्य् आदाव् च कवयन्ति-
तद्-अधर-रसम् आचान्तं प्राग् अकृत द्विर् यद् एष तद् युक्तम् । द्विज-संस्कृत-ताम्बूलं कथम् अद्याद् अन्यथा तस्याः

1.26.27

[आर्या]
किं च-
कृष्णः स्नेहस्य मूलं किल लसति वपू-रूपम् इत्य् एवम् अस्मिंस् तादृग् नन्द-व्रजान्तर्-जन-सदसि सदैवानु-भूति-प्रचारः ।
सोऽ यं यासाम् अमंस्त प्रणय-मय-ऋणान्य् आत्मनि प्रेयसीनां तासाम् अप्य् ऊर्ध्वम् ऊर्ध्व-प्रथित-निधि-मणिं राधिकाम् एव नौमि

1.26.28

[स्रग्धरा]
राधा स्व-कान्तं वशितं विधाय निःशेषम् आक्रीडति तेन सार्धम् । नाहं तथेतीव शिवा शिवान्तस्- तनौ निलीनार्ध-तनु-च्छलेन

1.26.29

[उपजाति 11]
अथवा-
अर्धेनार्धेन तन्वा व्यतिमिलनवतो रुद्रयोर् एष भावः काव्य-ज्ञैस् तर्क्यते यः स पुनर् इह मया मन्यतां भण्यमानः ।
प्रेम्णा यौ पूर्ण-रूपौ त्रिजगति विदितौ राधिका-माधवाख्यौ पूर्णाङ्गत्वं तयोर् अप्य् अति-तद्-असमयोर् नाव् अपीत्य् औचिती न

1.26.30

[स्रग्धरा]
[22] तद् एवं सति-
वाद्ये गीते च दिव्ये प्रमद-शिथिलिते भूषणानाम् अलीनाम् अप्य् आसीद् ध्वान-वर्गः प्रतिनिधि-समये तस्य तस्यापि तत्र । खेदे जाते तथागात् प्रबल-नट-कला लास्यतां येन केश- कर्णोत्तंसावतंस-प्रमुख-वर-सभा तद्वद् उल्लास्यते स्म

1.26.31

[स्रग्धरा]
एवं परिष्वङ्ग-कराभिमर्श- स्निग्धेक्षणोद्दाम-विलास-हासान् । समं प्रियाभिर् व्यतिकृत्य नृत्यन् व्याञ्जीद् असौ स-प्रतिबिम्ब-बिम्बम्

1.26.32

[उपजाति 11]
ततश् च-
मालाः केशालि-वेशान् कुच-युगल-पटीर् मण्डनान्य् अन्य-वासांस्य् अप्य् एता नैव शेकुः कलयितुम् असकृद् रास-पर्वावसाने । ध्याते यत्रापि सम्प्रत्य् अपि मुनि-विततिर् विस्मरत्य् एव सर्वम् चित्रं तत्-प्रेयसीनां तद् इह भवति किं तादृशे तत्-प्रसङ्गे

1.26.33

[स्रग्धरा]
तं दृष्ट्वाप्य् अथ रासम् अम्बर-गता रामाश् च कामार्दिता मोहं प्रापुर्, अदश् च तावद् अभितोऽ प्य् आस्तां परं श्रूयताम् । चन्द्राद्यैर् उपलक्षितं नभसि यद् बम्भ्रम्यते सर्वदा ज्योतिश्-चक्रम् इदं च विस्मय-करी चस्कम्भ यन् माधुरी

1.26.34

[शार्दूलविक्रीडितम्]
[23] तद् एवं लीला-लुब्धासु परमावेशतः स-प्रियासु तासु विलुभित-क्रियासु रास-विलासः समुपरराम । [24] उपरमति च तस्मिंस्, तत्-तद्-अननुसन्धान-सन्धिम् अनु तानि मिथुनानि यथावत् कुञ्जाय कुञ्जाय पृथक् पृथग् अन्तर्दधिरे । अन्तर्धाय च, तत् तन् मिथुनं परस्पर-परिकर-परिष्कार-परायणताम् आससाद । [25] तत्र च प्रत्येकं तेषाम् आलिङ्गनादि-सचिवं वचनादि-रचनम् एवासीत् । यथा-
हन्त माम् अन्तरा कान्तम् अन्तर् आप्तं तमस् त्वया । इति ब्रुवन्तं श्लिष्यन्तं तं सासिञ्चन् निजाश्रुभिः

1.26.35

[अनुष्टुभ्]
ततश् च-
हन्त क्लमः समजनि स्फुट-मद्-विहाराद् अस्या नवीन-तरु-पल्लव-कोमलायाः । ज्ञातश् च हन्त न मयेऽ ति पृथक् स तासां साश्रुर् ममार्ज मुहुर् आनन-घर्म-बिन्दून्

1.26.36

[वसन्ततिलका]
बाष्पे मृज्ये हरिर् बाष्पं स्वेदे स्वेदं तदा दधे । गोपाल-कुल-सुभ्रूणां श्रमे रास-विलासजे

1.26.37

[अनुष्टुभ्]
[26] तत्र बहुल-सामग्री-वाहिनीनां वृन्दा-सखी-वाहिनीनां कृत-प्रश्न-वृन्दायां वृन्दायां श्री-कृष्ण-वर्णनम्, यथा-
सास्रालोकनम् अञ्चलानिल-कृतिर् वक्त्रालकाद्य्-उन्मृजा- गण्डान्तः-परिचुम्बनं पट-युगाधानं तनू-चर्चणम् । ताम्बूलार्पणम् अत्यपूर्व-मधुरालापः स्तव-प्रक्रिया सेयं रास-परिश्रम-प्रशमनी कान्तासु कृष्ण-क्रिया

1.26.38

[शार्दूल]
[27] अथ कान्ता-वर्णनं, यथा-
वक्र-स्मेर-विलोकनं नव-दलैः संवीजनं मार्दवाद् अङ्गानाम् अभिमर्दनं विघटित-स्रग्-वस्त्र-संयोजनम् ।
सम्यङ् मर्मग-नर्म-शर्म-रचनं ताम्बूल-चन्द्रार्पणं सेयं रास-परिश्रम-प्रशमनी कृष्णे प्रियाणां क्रिया

1.26.39

[शार्दूल]
[28] ततः स्वयम् आगत्य प्रत्यक्षीकृत्य चान्यथा मन्यमानायां तस्यां स-स्मितं पुनर् अमूर् ऊचुः-
दृष्टं देवि मिथो हरि-व्रज-वधू-द्वन्द्व-व्रजेनामुना स्वीकृत्य प्रमदात् प्रयत्न-विधिना नेपथ्यम् अङ्गे धृतं । एतद् यत्र सखि क्षणाद् अपगतं किं ब्रूमहे तद् वरं गीर्णं सद्-भवतान् मृषा न तु रहस् तद् व्यक्तिम् आपद्यताम्

1.26.40

[शार्दूलविक्रीडितम्]
[29] अथ वृन्दा स-स्मितं चेतसि चिन्तयामास-सत्यम् आहुर् इमा, यत् पुनः पुनः श्रमापनोदनं सर्वेन्द्रियामोदनं शुभ-वेशं गान-विनोद-विशेषम् आरभमाणानि तानीमानि मिथुनानि मृश्यन्ते ।
[30] अथ स्निग्धकण्ठः समापनम् आह स्म-
राधे त्वद्-वल्लभः सोऽ यं सर्वेषाम् अपि दुर्लभः । वरीतुं त्वाम् अन्तरङ्गाम् अन्या गोपीर् वृतीयति

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc