भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.25

1.25.1

[अनुष्टुभ्]
इति श्री-श्री-गोपाल-चम्पूम् अनु
श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम
चतुर्विंशं पूरणम्
॥24 ॥
(25)
अथ पञ्चविंशं पूरणम्
विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम्
[1] अथ मधुकण्ठ उवाच-तच् च गानम् अवधीयताम् । यथा-
व्रजविधो दशास्माकम् ईक्ष्यताम्
व्रजविधो दशास्माकम् ईक्ष्यताम्

1.25.2

जयति तेऽ धिकं जन्मना व्रजः
श्रयत इन्दिराप्य् अस्य भूरजः ।
तद् अपि हाऽजहा नस् त्वम् अत्र भो
वयम् इमः कथं वान्यतां प्रभो

1.25.3

परम-जाति-भाग् उत्तमं स्वतः
शरदिजं च यत् पङ्कजं ततः ।
दल-कुलावृतेः कान्ति-देवतां
हरसि यद् दृशा शश्वद् एव ताम्

1.25.4

कथम् अहो वयं स्वच्छताम् इता
भवितुम् ईश्महे तद्-बहिः-स्थिताः ।
अपि किल त्वया याच्ञया सिताः
स्वयम् अमूर् वरेणापि सन्दिताः

1.25.5

इति गतास् तव प्रेष्यतां पुनः
किम् उ तया दृशा हंसि तास् तु नः? ।
यद् इह शस्त्रतः केवलं वधः
स्फुरति नाक्षितस् तन्-मतं त्व् अधः

1.25.6

बहु-विधाद् भयाद् यत् त्वयावितं
सकल-गोकुलं काननान्वितम् ।
तद् अपि मन्महे स्वावनं यतस्
त्वद्-अनुरागतः सोऽ पि किं हतः?

1.25.7

कृपण-पालक श्री-व्रजेश्वरी-
तनुज योग्य-धीर् अस्ति नश्वरी ।
इति तवात्मवल् लिप्ति-रिक्तता
परग-पीडया भाति तिक्तता

1.25.8

त्वम् असि नान्यवत् कोऽ पि कोपनः
स्फुरसि यत् प्रभो विश्व-गोपनः ।
तद् इह पद्मजाभ्यर्थितः स्व-भूः
परम-सात्वताद् अन्वयाद् अभूः

1.25.9

इति तवेशितुः सुष्ठु यः करः
प्रथित-संसृतेर् भीति-भीकरः ।
शिरसि नः कुरु श्री-कर-ग्रहं
तम् इह नान्यथा भावयाग्रहम्

1.25.10

व्रजग-भी-हृतौ वीर योषितां
शमयसि स्मितेनैव रोषिताम् ।
तद् इह नान्यथा दण्डनं कुरु
प्रकटयानन-श्री-महः पुरु

1.25.11

यद् अपि ते पदं श्री-निकेतनम्
वृजिनजिन् महा-पुण्य-केतनम् ।
तद् अपि गो-गणस्यानुवर्तनं
विष-भृतः शिरो-वर्ति-नर्तनम्

1.25.12

यद् अधि तत् तद् अप्य् आत्त-दुःस्थिति
स्वयम् अभूत् ततः शान्तताक्षितिः ।
अहह तन् मनाग् नस् तु वक्षसि
स्व-विरह-ज्वले किं न रक्षसि?

1.25.13

मधुर-लीलया कर्ण-रम्यया
विशद-वाक्यया व्यक्त-गम्यया ।
मुख-सुगन्धितासात्म्यया चिरात्
तृषम् इता वयं हन्त ते गिरा

1.25.14

तव कथामृतं तप्त-जीवनं
कविभिर् ईडितं कल्मषार्दनम् ।
प्रवितरन्ति ये तेषु दुर्जनाः
सपदि नः कृते ज्ञप्त-वर्जनाः

1.25.15

प्रहसितं तव प्रेङ्खि-लोचनं
विहरण-क्रमाद् भाव-रोचनम् ।
मुरलिका-रुतं सर्व-शोचनं
विपिनतस् तु नः प्राण-मोचनम्

1.25.16

चलसि यर्हि वा धेनु-चारणे
दलति धीस् तु नस् तत्र कारणे ।
शिल-तृणाङ्कुरैर् याव-सन्नता
किल भवत्-पदोः सास्मकान् गता

1.25.17

अहह जाज्वलत्य् अन्तराणि नः
स्मर निजान् जनान् दीन-मानिनः ।
चरण-पङ्कजं हृद्य् अमूदृशां
रमण हे त्वया धीयतां भृशम्

1.25.18

अहह यर्हि यास्य् अह्नि काननं
कुटिल-कुन्तलं श्रीमद्-आननम् ।
मुहुर् अपश्यतां तर्हि स क्षणः
स्फुरति सर्वदा कल्प-लक्षणः

1.25.19

किम् इह तच् च वा वाच्यतां व्रजेन्
निमिर् अपीह यच् छप्यते व्रजे? ।
कथम् अहो वयं तास् तु गोपिका
न हि भवाम वा तत्र कोपिकाः?

1.25.20

वितत-गीतिका-जाल-सन्दिताः
स्वक-जनान् अतिक्रम्य चार्दिताः ।
करम् इता महारण्य-भृद् दिशि
च्छलमयः स्त्रियः कस् त्यजेन् निशि?

1.25.21

प्रहसितं प्रिय प्रेम-वीक्षणं
विहसितादिकं वल्गु-लक्षणम् ।
बृहद् उरः श्रियो धाम वीक्ष्यते
निज-विमूढतास्माभिर् ईक्ष्यते

1.25.22

दिन-लयेऽ लक-ध्वान्तम् एकतः
प्रसृत-गोरजः सन्ध्यम् अन्यतः ।
मुखतया मतं यामिनीश्वरं
दर्शयन् मुहुर् यच्छसि स्मरम्

1.25.23

स्व-रति-वृद्धितोऽ नन्य-काङ्क्षिणी
भवति वंशिका यत्र साक्षिणी ।
तम् अधर-द्रवं शोक-नाशनं
वितर वीर भोः प्राणदाशनम्

1.25.24

इति तु यत् त्वया काम-कल्पनं
किल कलाबलात् तच् च कल्पनम् ।
वयम् अनारतं स्नेह-भावनाः
कथम् अयामहे जातु कामनाः?

1.25.25

प्रकटता तु ते गोष्ठ-वासिनां
वृजिन-नाशिनी प्राण-भासिनाम् ।
वितर नः सकृत् त्वत्-स्पृहा-युजां
यद् इह सूदनं स्निग्ध-हृद्-रुजाम्

1.25.26

[राजहंसी]
[2] तद् एतद् उद्गाय तद् अप्य् एतद् इत्य् आहुः-यत् ते सुजात-चरणाम्बुरुहं [भ्प् 10.31.19] इत्य् आदि ।
[3] अत्र चेदं गद्यम्-यत् किल कमलतः कोमलता-युगलं तव चरण-युगलं स्तनाव् अनु स्नेहतः संहननायेहमानाश् च वयं ताव् अतिकर्कशाव् इति तर्कतश् च स्तम्भमानाः, शनैर् एव तयोस् तद् दधीमहीति वाञ्छामः । तद् अहो, कठिन-मनस्तया दुरटाम् अटवीम् अनुघटयति त्वयि कूर्पादिभिस् तत् किं न व्यथते? किन्तु व्यथत एव, यतस् तद्-भावना-जुषां भवद्-एकायुषाम् अस्माकं मनसि तन् मङ्क्षु सङ्क्रामति । तस्मात् तद् अटनम् एवास्माकं हृत्-पीडा, तल्-लालनम् एव तच्-छमनम् इति तल्-लालनम् एव देहीति भावः ।
[4] तद् एवं सति-
गीतेर् आसीद् विपरिणमनं तर्हि तासां विलापस्
तस्याप्य् उच्चै रुदितम् इति यन् नाद्भुतं तत् तु तासु ।
कृष्णं द्रष्टुं प्रभवति बलाद् यस्य तृष्णातिधृष्णक्
तस्यान्यस्याप्य् अहह शतधा दृश्यते तत् तद् अत्र

1.25.27

[मन्दाक्रान्ता]
[5] अथ तथा मसृणम् असृणिकम् अश्रु नुदतीषु रुदतीषु सुदतीषु, तद्-अनुषङ्गत एव तमसः सङ्गतः क्रमशस् तन् निशमयन् निशामयन् मुर-शमनः स्वक-नयन-सलिल-कलिलतया नयन-लक्षेणाप्य् अलक्षितः सहसा महसावृतः सर्वासां मध्यम् अध्यासितवान्, अम्बरावृततया स्व-प्रथाम् आवृतवांश् च ।
[6] एका तु तत्र तस्य मनाग् आगमनाधिगम-कमन-नयनापि पूर्ववद् इदम् अपूर्व-स्फुरण-पुरस्कृतम् इति केवलं कृष्ण कृष्णेत्य् अलं कल-कलतया कलं कलयामास ।
[7] आकर्णित-तद्-वर्ण-कर्णाश् च वर-वर्णिन्यस् तन्-निर्णायक-स्वाभ्यर्ण-तन्-निर्वर्णनास् तूर्णम् एव पूर्णताम् अवापुः ।
[8] महाघन-घनाघन-घन-सङ्गमान् निदाघ-द्राघीयस्तयातिह्रस्व-दोघा ह्रदिन्य इव । उभयत्र हि गत-प्राय-जीवनताभिप्रायम् आगता ।
[9] तन्-निर्वर्णनं च, यथा-
आविस् तासु बभूव नर्म तद् इति व्यञ्जन् वियुज्यापि स
स्मेरः सङ्कुचद् अनन्तरं स्वम् अधियन् पीताम्बर-प्रावृतः ।
कर्तुं सद् विनयं स्रग्-अंशु-युगलं हस्त-द्वयेनामृशन्
स्रग्वी मन्मथ-मन्मथ-स्थितिर् अतिश्रीणाम् गतिः श्रीपतिः

1.25.28

[शार्दूल]
ततश् च-
प्रियस् त्याग-व्रीडाद् विदधद् इव ताटस्थ्यम् अभितः
स ताभिः कान्ताभिस् त्वरिततरम् आसादि परितः ।
समुद्रः सङ्कोचं समय-कलितं चेद् वलयते
तदा नद्यः सद्यश् चपल-गतितां सन्निदधति

1.25.29

[शिखरिणी]
[10] तत्राहं-प्रथमिकया समुपेतासु तासु प्रथमतः श्री-पराशरेण कथिता काचित्, यथा-
काचिद् आलोक्य गोविन्दम्
आयान्तं अतिहर्षिता ।
कृष्ण कृष्णेति कृष्णेति
प्राह नान्यद् उदैरयत्

1.25.30

[विप् 5.13.43] इयं भद्रा-नाम्नी ।
[11] अथ श्री-बादरायणिना वर्णिता वर्ण्यते-
काचित् करं मुरारातेर्
आचचार निजाञ्जलौ ।
नव-पल्लव-पात्रान्तर्
यथा कमल-तल्लजम्

1.25.31

[अनुष्टुभ्] एषा चन्द्रावली ।
तथा,
काचित् तद्-अङ्घ्रि-कमलं
व्याजतो कुचयोर् दधे ।
लब्ध-वाञ्छित-निष्पत्तिः
कुर्वतीव शिवार्चनम्

1.25.32

[अनुष्टुभ्] एषा पद्मा ।
तथा,
काचिद् अञ्जलिनागृह्णात्
तन्वी ताम्बुल-चर्वितम् ।
यदा तदीय-रागस्य
पात्रीवाचरति स्म सा

1.25.33

[अनुष्टुभ्] इयं शैव्या ।
तथा,
काचिद् दधार तद्-बाहुं
अंसे चन्दन-रूषितम् ।
या देहतः स्नेहतश् च
व्यानञ्ज स्व-समर्थताम्

1.25.34

[अनुष्टुभ्] सेयं श्यामला वामतः ।
तथा,
अपगमित-निमेषा या तु तस्यास्यम् अब्जं
नयन-युगम् अलीन्द्र-द्वन्द्वम् उच्चैर् अपीप्यत् ।
अवकलितम् अकार्षीद् रूपकं तत् तद् एषा
रस-रसन-विभूतेर् जिग्यतुस् ते तु यद् यत्

1.25.35

[मालिनी] असौ ललिता ।
तथा,
तस्मिन् काप्य् अवलोक-मात्र-बलवल् लज्जा-प्रसज्जन्-मना
मीलन्-नेत्रतया विचित्र-पुलका चित्रायमाणा स्थिता ।
ताम् अन्तर्-वलित-प्रियां प्रति ममाश्चर्यं वियोग-स्थितेर्
मध्ये योगम् इहापि भोगम् इतवत्य् एषेति या चिन्त्यते

1.25.36

[शार्दूल]
एषा खलु विशाखा ।
तथा,
प्रेमा कोपं प्रसवति वृथाप्य् अस्त्रम् अत्रास्ति नेत्रं
तच् च स्थानाद् अचलम् अपि सद् विध्यद् उद्भाति दूरम् ।
वेधश् चासौ व्रणम् अपि विना श्रीहरेः क्लेशदः स्याद्
एवं यस्याः किम् अपि चरितं ताम् इमां वर्णयेत् कः?

1.25.37

[मन्दाक्रान्ता]
असौ तु श्री-राधा, ता एताः सम्मुखतः ।
तथा,
कृष्ण-मेघागमोल्लास-
पल्लवद्-वदन-श्रियः ।
सर्वाश् च लब्ध-पर्वाणः
सद्यः सिद्धाः पुनर् नवाः

1.25.38

[अनुष्टुभ्] एताः सर्वतः ।
अतिपरिमिति-शोभा-भाजनं कृष्ण-रूपं
नयद् अनुपम-कान्तिं यौवतं तद् विरेजे ।
इदम् उपमिति-शून्यं यत् तु काव्यं समाप्तं
स इह न मम दोषस् तद्द् हि तत्त्वं तथैव

1.25.39

[मालिनी]
[12] तद् एवं तासां तस्य च परस्परं परम-मदन-मद-प्रद-वदन-नयन-निलय-लीलया चन्द्र-चकोर-शीलता लतावद् उत्फुल्लतां गता ।
[13] तथा च क्षण-कतिपये लब्ध-क्षण-प्रचये ताः सादरम् आदाय, जल-जात-जात-समीरण-समीर-सरणि-तरणिजा-तरलतर-तरङ्ग-रङ्ग-निभ-नीर-सनीड-तीर-सरसैक-सैकत-पुलिनान्तरं निर्व्रीडं क्रीडन्न् एव वृन्दावन-देवः सेवयामास ।
[14] तद् एव खलु प्रशस्त-भङ्ग-सङ्घ-लक्षेण हस्त-लक्षेण परम-धन्यया स्वयम् एव रवि-देव-कन्यया कञ्ज-किञ्जल्क-पिञ्ज-लता-मञ्जुल-गन्ध-गन्धवाह-परिरब्ध-कोमल-सिताभ्र-शुभ्र-बालुकाभिर् अतिनिश्चित-चित्त-याचितम्, तत्र च शारद-सुधाकर-कर-निकर-सुधा-लिप्ततया दूरतोऽ पि तमस्तोम-शमनं, जल-स्थल-कुसुम-समुदयामोदा-मोद-मदित-मुखर-मधुकर-मधुरी-कृतम् उरीकृतवान् ।
[15] उरीकृते च तस्मिन् परमादेये नादेये पुलिने, स्मित-विलसित-नेत्रः स्व-नाम्ना सित-शत-पत्र-नेत्रः सर्वासाम् अर्वाचीन-वयसां सवयसां स्व-हस्त-विन्यस्त-प्रशस्त-कुङ्कुम-ग्रस्त-नव-स्तन-वस्त्र-विस्तृती-कृत-स्वस्तिकासनस् तत्र स्तोत्र-भङ्गी-सङ्गीत-कला-रङ्ग-भूमिताम् अवाप स ताप-नोदनः । यथा,
ऊर्ध्वं ग्लौर् आतपत्रं तलम् अनु पुलिनं हीर-चूर्णाचिताङ्गं
श्रीमत्-पीठं समन्तात् कुसुम-वन-शतं तोरणानीव यस्य ।
तं दिव्य-स्वर्ण-वर्ण-व्रज-कुलज-रमा-राजि-विभ्राजि-देहं
स्नेह-श्री-काम्य-गेहं हरि-मणि-रुचिरं प्राण-नाथं स्मरामि

1.25.40

[स्रग्धरा]
[16] ततश् च वृन्दावन-सेविकाभिर् वृन्दा-प्रधान-कानन-देविकाभिः परम-प्रयत्न-पाल्य-माल्य-दिव्य-गन्ध-सन्ध-चन्द्र-चन्दन-मधुर-मधु-मदानुकूल-ताम्बूलाद्यं ददानाभिर्, मुहूर्तार्धं वर्धमान-परिहास-विलासं प्रेयसी-सहितः प्रेयान् महित-महत्तया शुशुभे ।
[17] शोभमानश् च निगूढ-मानाभिर् अमूभिर् व्रज-चमूरु-दृग्भिः संवादम् अक्प्त ।
[18] ततश् च तासां वृथा-परित्याग-दोष-लब्ध-पोष-रोष-मयाभिप्रायकतया जातं चित्त-शोषं मोषं नयन्तीनां तोष-प्रायं व्यञ्जयन्तीनाम् अनुनय-गर्भ-नाना-विनोद-सन्दर्भ-वार्तां वर्तयति तस्मिन्,
काचित् करं चरणम् अस्य परा तथोरुम्
अन्यावलग्नम् अपरा मृदु मर्दयन्ती ।
अन्तर् निगूढ-कुपिता बहिर् अच्छ-भावा
भ्रू-लोचन-प्रसृमर-स्मितम् अभ्युवाच

1.25.41

[वसन्ततिलका]
[19] केचिद् एवं च वर्णयन्ति-
नयन-वलनैश् चिल्ली-चालैर् निगूढ-मृदु-स्मितैर्
ललित-लपितैर् अन्तर्-भङ्गैर् बहिर् वलितार्जवैः ।
चतुर-मनसस् तस्मिन् कृष्णं प्रियं वश-वर्तिनं
प्रणय-नयतः प्राहुः पृक्त-प्रहेलिकम् अङ्गनाः

1.25.42

[हरिणी]
[20] अयि चतुर-पुर-पुरन्दर! प्रहेलिका-कलिकाम् एकां विकाशय । यथा,
भजन्ति भजतः केचिन् नान्येऽ न्यान् एव केचन ।
उभयांश् चापरे केऽ पि नोभयान् अगतीन् परे

1.25.43

[अनुष्टुभ्]
[21] श्री-कृष्णस् तु चित्ते तद् अवबुध्याभिधत्ते स्म-
अर्थज्ञाः कृत-हन्तारो धार्मिका धर्म-गाथिनः ।
विमूढ-पूर्ण-मुक्ताश् च दयावन्तश् च ते क्रमात्

1.25.44

[अनुष्टुभ्]
[22] तच् छ्रुत्वा च परस्परम् असरण-चिल्लिभिर् अमूभिश् चिल्ली-वल्ली-वेल्लनेनेदं ज्ञापितम्-
चातुरीभिर् इह नस् तु कर्षतो
धर्म-धाम दिशतः समुज्झतः ।
निर्दयं पुनर् अमुष्य शिष्यते
येन नास्मद्-अतिदुःखम् ईक्ष्यते

1.25.45

[रथोद्धता]
[23] अत्र चातुरीभिः इति तस्यानर्थज्ञता, धर्म-धाम दिशतः इत्य् अधार्मिकता, तद्-उभयाभ्यां तद्-उभय-रहितता, पुनः चातुरीभिः इति विमूढता, ताभिर् नस् तु कर्षतः इति पूर्णता मुक्तता च । तत्र स्वकृतानुद्देशेन कृत-हन्तृता च निषिद्धा । त्यागे चास्मद्-दुःख-वीक्षणाभावेन निर्दयता तु शेषितेति श्लिष्यति ।
[24] स तु तद् एवम् अवबुध्य स्व-शुद्ध्य्-अवगमनाय पुनर् उवाच-
नाहं तेषां सदृग् अपि तु मां लुब्धम् ऊहध्वम् ऋद्धौ
प्रेम्णस् तां तद्-विषय-विरहं हन्त कृत्वापि वश्मि ।
युष्मान् वाच्यं किम् इह मयका मायितावत्-प्रतीतेर्
एतद् यन् मे व्यसनम् असकृन् मां च दुःखाकरोति

1.25.46

यूयं हित्वा निखिलम् अनिशं कामयध्वे परं मां
मत्-काम्यास् तु प्रयुत-नियुतं प्रेम-भेदेन सन्ति ।
तस्मान् न प्रत्युपकृति-कलालेश-कल्पं विधातुं
शक्नोमीति प्रथयत निजैः सद्-गुणैर् एव तुष्टिम्

1.25.47

[मन्दाक्रान्ता]
[25] तद् एवम् अनवद्यं कृष्ण-वद्यम् अवधार्य-
मनोज्ञत्वेन न परं सुरूपत्वम् इहान्वभूत् ।
बुधत्वेनापि कृष्णस्य स-तृष्णोऽ यं प्रिया-गणः

1.25.48

[अनुष्टुभ्] ॥
[26] तत्र गीर्वाणीनाम् आकाशतः परिहासवाणीयम्-
रुचिम् अनु कुटिलाक्षीणां स्तुतिम् अनु जिह्मं ब्रुवाणानाम् ।
माधव गोप-वधूनां गुणतः कस्मान् मुदं तनुषे

1.25.49

[उपगीति]
स एको जयतान् मान-मातङ्गो व्रज-सुभ्रुवाम् ।
हरिणा निर्जितस्यापि यस्य वीर्याद् बिभीयते

1.25.50

[अनुष्टुभ्] ॥
[27] अथ समापनम्-
वैदग्धी-दिग्ध-बुद्धीद्धः सोऽ यं राधे सखा तव ।
अलम्भूष्णुं तत्र मेने यस् त्वां तुष्णीं स्थिताम् अपि

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc