गोपालचम्पू · अध्याय 1.24
इति श्री-श्री-गोपाल-चम्पूम् अनु
प्रथम-सङ्ग-रङ्गज-वाको-वाक्य-भङ्गी-सङ्गीतं नाम
त्रयोविंशं पूरणम्
॥23॥
(24)
अथ चतुर्विंशं पूरणम्
श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम
[1] ततः स्निग्धकण्ठ उवाच-
[2] अथ सङ्क्षेपेण वर्णितं, यथा-
ताभिः समेताभिर् उदारचेष्टितः
प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः ।
उदार-हास-द्विज-कुन्द-दीधितिर्
व्योरोचतैणाङ्क इवोडुभिर् वृतः ॥[भ्प् 10.29.43] इति ।
[3] तत्र प्रथम-चरणः श्लोक-सात्क्रिययालङ्क्रियया परिचर्यते-
कान्तस्य ताभिः स्व-करं स्पृशन् करः
सर्पन् परं चावयवं वितर्कितः ।
कीर्णश् च तस्यान्तरम् अन्तरं भजन्[*5]
दृष्टः पुनस् तज् जितकाशितां गतः
[इन्द्रवंशा]
[*5] व्रजन् (घ)
[4] अथ द्वितीय-चरणः-
प्रियं नियुतशोऽ प्य् अमूर् न हि विलोकमानाः समं
निमेषम् उपसेदिरे यद् इयम् एव दिव्या स्थितिः ।
प्रियेण निजम् अर्पितं यद् अवलोक-शुद्धामृतं
समं बुभुजिरे पृथक् तद् अधिकं तु किं वर्ण्यताम्?
[पृथ्वी]
[5] अथ सिंहावलोक-न्यायाद् द्वितीय-तृतीय-चरणौ च, यथा-
यथा दृशां दिशि दिशि ता दधुर् मुहुस्
तथा हरिस् तद्-अभिमुखं दधे दृशम् ।
यदान्वभूद् अरहित-चातुरक्ष्यता
तदाहसीत् स्फुटम् असकृत् कृत-क्रमम्
[रुचिरा*]
[6] तद्वद् उत्तरार्धं च-
कविभिः कृष्णे शशिता तासु च नक्षत्रता कविता ।
किन्तु स्मित-मुख-दीव्यद्-विलसित-वृन्दैर् अमी वरिताः
[अनुष्टुभ्]
[7] ततश् च नाना-नर्म-कर्मठतया हठवत्तया च कृष्णेन किंचिद् असंकोचे विरचिते, प्रायशः सर्वावयवे चावलोचिते, निचोलादि-विपर्यये च परिचिते सास्रं बहु विहस्य तद् इह सर्वम् एव यथावत् पर्याचितम् आचेरे ।
[8] तद् एवम् आचार्य ससुखम् उदङ्-मुख-गति-चर्यया यमुना-तीर-वन-श्रेणीं शोभयन्न् एणीदृशस् ताः स्व-कान्तिभिर् आचकर्ष, [9] यत्र लब्ध-हर्षश् चन्द्रमसम् अपि निज-दक्षिणतः समाकर्षन्न् इव सङ्गितयाङ्गीचकार । [10] तद् अनु च सर्वाभिर् अर्वाचीन-यौवनाभिस् तम् एकम् अनुसरन्तीभिर् अत एव परस्परं सङ्गम् अपरिहरन्तीभिर्, अत एव सहसानुपलब्धानुरहस-कणिकाभिर्, अत एव तन्-मिलन-विशेषाय कलित-पुरूत्कलिकाभिः सह, स हरिस् तादृशताम् एव परामृशति स्म-
[11] अथान्यथानुपपत्त्या सङ्गानसुखम् एवावलम्बमानः केवलं चञ्चच्-चञ्चरीक-लुलित-ललित-सुकुमार-कुसुमाञ्चितं वनम् एवायं सर्व-गुण-शाली वनमाली चञ्चति स्म । किन्तु,
सङ्गानं तद् इदं परस्पर-गुण-ग्रामानुभूतिः स्वतः
शर्माप्य् अत्र मनोरथान्तर-कृतेः शश्वद् बभूवास्पदम् ।
यत्रालिङ्गन-चुम्बनादि-विधये तासां हरेर् अप्य् अदः
सौख्यं लक्ष्यम् अभूत् परावृति-विधां चावेशिता निर्ममे
[शार्दूल]
[12] तद् एतद् वर्णितं यथा श्री-बादरायणिना-
उपगीयमान उद्गायन् वनिता-शत-यूथपः ।
मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥[भ्प् 10.29.44] इति ।
[13] गाने विशेषश् च श्री-पराशरेण-
कृष्णः शरच्-चन्द्रमसं कौमुदीं कुमुदाकरम् ।
जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥[विप् 5.13.52]
विधुर् अयम् आगतवान् शरदं प्रति सम्प्रति ।
इतवान् विधुर् अथ नहि भवतीः प्रति ।
माधव जय गोकुल-वीर जय जय कृष्ण हरे ॥अ॥
कुमुदाकर-चलनं न भवेद् इति सेयं ।
कौमुदिकागाद् इदम् उन्नेयम् ।
केशव जय हार्द-शरीर जय जय कृष्ण हरे ॥ब्॥
कुसुम-वनी मधुपैर् इयम् अञ्चति कान्तिम् ।
मम भवतीषु प्रथयतु कान्तिम् ।
श्यामल जय हार्द-समीर जय जय कृष्ण हरे ॥च्॥
पुष्पित-कुञ्ज-चये वृन्दाचित-शोभा ।
भवद्-अनुगतये किल कृत-लोभा ।
मोहन जय संविदि धीर जय जय कृष्ण हरे
[दशावतारस्तोत्र]
[14] तद् एवं गायते प्रियाय प्रतिगृणतीषु तासु नव-युवतीषु पुनः श्री-शुक-वचनाति-रहस्यं, यथा-
नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् ।
जुष्टं[*6] तत्-तरलानन्दि-कुमुदामोद-वायुना ॥
[*6] रेमे, वल्लभ, गीता प्रेस्स्
बाहु-प्रसार-परिरम्भ-करालकोरु-
नीवी-स्तनालभन-नर्म-नखाग्र-पातैः ।
क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम्
उत्तम्भयन् रति-पतिं रमयाञ्चकार ॥[भ्प् 10.29.45-6] इति ।
[15] तद् एतद्, यथा-तद् एवं भ्रामं भ्रामं जात-प्रसरेऽ प्य् अलब्धावसरे स-तृष्ण-कृष्ण-सहित-महित-महिलाविसरेऽ भिलषित-विलसिताय विरलता न जाता ।
[16] अजातायां च तस्यां कृष्णया तरङ्ग-कर-निकर-चितम् अहरहर् अवकलितं पुलिन-विशेषम् एव तद्-उचितं प्रबलम् अवकलयामास ।
[17] बलानुजन्मा यः खलु हिम-बालुकेव बालुका यस्मिंस् तादृश इति परम-शुभ्र-शुभ्र-गुणतया विभ्राजते स्म ।
[18] यत्रैव च तादृश-सर्व-गुण-पूर्ण-पूर्णिमा-निज-द्विज-राज-विराजमान-सुषमासुषम-प्रतिसङ्क्रम-पर-भाग-जागरूक-महा-महसा सहसा नयनानि नाभ्युदय-दयनानि भवन्ति स्म ।
[19] यत्रैव च तूलिकावद् अनुकूलिका बालुका वस्त्र-मात्रम् आस्तरणम् अपेक्षते स्म; यत्रैव च कलिन्द-तनया स्वयं वलित-सखीनया सौगन्धिक-सुगन्ध-गन्धवाह-वहनादिना सेवां वहति स्म ।
[20] तत्र चात्र श्री-केशवः प्रवेशम् अनुभूय प्रतिप्रेयस्य् अपि युग्मीभूय बाहु-प्रसारादि-लीलां शीलयामास ।
[21] सा चेयं परमरहस्येति रहस्य् एव किञ्चिद् व्यस्यते ।
[22] यथा मिथस् तत् तन् मिथुनम्-
बाहु-प्रसारम् अकरोत् परिरम्भणाय
बाहू तु तत्-करणतां चिरम् ईयतुर् न ।
यो यस्य नैति वशतां स कथं नु तस्य
प्राप्नोतु साधकतम-स्थितिम् अञ्जसैव?
[वसन्ततिलका]
कृतं च परिरम्भनं न परिहर्तुम् ईशाव् अमू
बभूवतुर् अघारि-तत्-प्रिय-वधू-जनाव् आत्मना ।
कथञ्चिद् अपि वीरुधा भवति चेत् तरोः संगमस्
तयोः कथम् अपृक्तता स्वयम् अनीहयोर् जायताम्?
[पृथ्वी]
सखीनाम् अप्य् आस्या-रहित-समये यत् प्रणयिनोः
परीरम्भारम्भात् प्रबल-सुख-मूर्च्छा समजनि ।
तयोस् तां विच्छेतुं परम् अहह नाना-विलसित-
प्रतीक्षा सुप्तेव स्वयम् अथ जजागार परितः
[शिखरिणी]
ततश् च-
रहसि सङ्कुचती पुनर् अप्य् असौ
निज-करेण हरेर् अकिरत् करम् ।
व्यथितताम् इव तां तु विवृण्वतीं
तद् अनुमृष्टि-मिषाद् अयम् अस्पृशत्
[द्रुतविलम्बिता]
वदनं तव वृण्वते बत
भ्रमरा नानुगतास्ति काचन ।
इति लालयति स्म स च्छलाद्
अलकानां ततिम् अप्य् अमूम् अनु
[वियोगिनी]
उरु-स्पर्शे निरस्तेऽ पि नीवीम् अस्पृक्षद् अच्युतः ।
निःशङ्कयाचकानां हि तथाचरितम् ईक्ष्यते
[अनुष्टुभ्]
कलयति संवस्त्रयति
संहस्तयते स्म तस्य या रामा ।
प्रणयी स हरिस् तस्याः
स्पृशति च चोलीं वितूस्तनव्याजात्
[गीति]
वक्षस् ते किम् अपि निरीक्ष्यते प्रफुल्लं
स्पर्शं चाण्व् अपि सहते चलाक्षि यन् न ।
तस्मान् मन्-नख-नखरञ्जनी-स्पृग् एव
स्यान् नीरुक् तद् इति हरिर् जहास चात्र
[प्रहर्षिणी][*7]
[*7] थिस् वेर्से दोएस् नोत् अप्पेअर् इन् च, घ.
मधुसूदनतां मुखाम्बुजे
हरितां हृद्-भव-कुम्भि-कुम्भयोः ।
गतवान् बत नन्दजः कथं
रति-नाथ-प्रभवाय नार्हति
[वियोगिनी]
अथ यत् कथनीयतोचितं
कथितं तत् प्रथितं च किञ्चन ।
यद् अथाकथितं द्वि-कर्मकं
स्मृति-रीत्या तद् अवेहि पाणिनेः
[वियोगिनी]
[23] इत्य् एवं स्थिते-
गोप्यस् ताः प्रतिपद्य सर्व-विषय-श्रेयांसम् आत्म-प्रियं
स्वाधीनं सपदि प्रतिस्वम् असकृत् तत्रातिगर्वं दधुः ।
लोकश् चेद् बहु-राज-राष्ट्र-वसतिर् जङ्गन्ति भङ्गं तदा
तस्यान्तर्-हितता हितेति किल सोऽ प्य् अन्तर्दधे माधवः
[शार्दूल]
[24] तेन च विचारितं खल्व् इदं-अहह, मम परमम् उद्देश्यम् एव विस्मृत-देश्यम् अभूत्, यतः सर्वाभिर् एव निर्विशेषं रममाणे मयि रमा-शिरोमणीयमाना राधापि साधारणतां गता ।
[25] किं च, स्व-मनोरथ-प्रथनायां राधायाः प्रथमा प्रथमाना-गमनता सम्प्रति प्रतिपन्ना, तस्मान् महा-मह एव मम हिताय महीयते । स च शारदता-विशारदतायाम् अस्यां पौर्णमास्यां रास-रस एव तूर्णं पूर्णताम् अर्हति । एष तु सर्वासाम् ऐकमत्य-प्रतिपत्त्य्-अनुसारत एव सारताम् प्रसारयति । ऐक्यमतं च प्रत्येकं साभिमानान्तरासु परासु किञ्चिन् मद्-उदासीनता-परं दासी-कर्तुम् आसीदति । तस्माद् अशेष-गुणाधिकां राधिकाम् आदाय तिरोधाय स्थास्यामि इति ।
[26] तद् एतद् विभाव्य भाव्यम् अर्थं साधयन्, माधवस् तत्र तत्रालस-कर-चरणादि-क्रियां प्रियां प्रियां प्रत्य् उवाच-नूनं वञ्चित-काञ्ची-ध्वनितया कयाचिद् अप्य् अत्र स्थीयत इति नास्थीयते । तच् च मम भवद्-एकानुचारि-विहारितया विचारितीक्रियते । तस्माद् अत्यायासवत्या भवत्या स्थीयताम् । मया तु समया मृगयमाणतां निर्माय नातिसमय-विरामम् आगमनीयम् ।
[27] तद् एतद् अभिधाय, ततस् ततः सर्वतश् चान्तर्धाय राधया सह सहसा जगाम ।
[28] अथ समय-कतिपय-व्यत्ययम् असहमाना सा सा च ततस् तत उत्थाय प्रस्थाय च तम् अन्विच्छन्तीति भ्रमणात् क्रमशः एक-द्वादितया परम्परं मिलिताः । मिलिताश् च ताः परम्परम् अप्रतीतितः शपथं प्रथमानाः कृष्ण-पथम् एवान्वेषयामासुः । किन्तु-
अन्वेष्टुं कृष्णम् इष्टं निकटम् अभिगतं चिन्तयित्वा प्रदूनाः
कर्तुं तन् नैव शेकुः परम् अहह गताः क्लान्तिम् एता निपेतुः ।
स्थित्वा तद्वच् चिराय स्फुरण-मयम् अमुं प्राप्य सर्वाः समन्तान्
मत्वान्योऽ न्यं तम् एव प्रतिहत-मतयश् चक्रुर् आलिङ्गनादि
[स्रग्धरा]
ततश् च-
यास् तु तृष्णाकुलतया कृष्ण-भाव-वशं गताः ।
कृष्णायन्ते स्म ता एव सर्व-पालकताम् इताः
[अनुष्टुभ्]
[29] अथ कथञ्चिद् अनुसंहित-बहिरर्थाः समयं गमयितुम् असमर्थाः पूर्वाभ्यास-वशान् निज-रक्षाया वशान् निखिल-सुखद-शीलां बाल्यादि-कतल्-लीलां गातुम् आरब्धास् तद्-आवेश-परिरब्धा बभूवुः ।
[30] तत्र च कृष्णम् अन्विच्छन्त्यस् तत इतो गच्छन्त्यस् तरु-वल्ली-पल्लीम् अपि मुहुर् अपि पृच्छन्ति स्म, उन्माद-वृत्तेर् अनुवृत्तेः, यथा-
लीला गायंस् तत्-तद्-आवेश-वश्यस्
तत्-तद्-भावं प्राप गोपी-निकायः ।
चित्रं कृष्णावेशिताम् आप या या
गौराङ्गी सा कृष्ण-वर्णा प्रतीता
[शालिनी]
अद्यापि स्मृतम् उत्तपत्य् अहह मच्-चित्तं यद् एता मुहुः
पृच्छन्ति स्म हरिं वियोग-विधुरा हा हा तरून् अप्य् अहो ।
आस्तां तन् मम हृद्य् अरुन्तुदम् इदं गीताभिर् एतत्-कृते
घोराद् भीतिभिर् उन्मदिष्णु-हृदया घोरानुकारं दधुः
[शार्दूल]
[31] तदीदृशलीलावेशः परपरगच्छपृच्छाभिनिवेशतः क्रमशः प्रचित-निष्क्रमीकृतिम् अवाप, यत् पृच्छाभिनिवेशश् चैवम् अपगच्छति स्म, यथा-
कांश्चित् विकासि-कुसुमैर् उपहास-भावान्
कांश्चिन् नताग्र-वलनैर् विमुखी-कृतास्यान् ।
कांश्चिन् मदालि-विरुतै रूषितोक्ति-युक्तान्
मत्वा तरूंस् तद् अनुयोग-रसाद् विरेमुः
[वसन्ततिलका]
[32] ततश् च क्षितिम् एव प्रश्न-लक्षिती-कृतवत्यः, यथा-
अहो किम् अकरोस् तपः कियद् इहोर्वि यच् छ्री-हरेः
पद-स्पृग् अनु विन्दसे पुलक-रूप-नानाङ्कुरान् ।
त्रिविक्रमज-विक्रमात् किम् इव तत् त्वया सम्भृतं
वराह-परिरम्भतः किम् अथवा क्वचित् किन्तु न
[पृथ्वी]
पृथ्वी क्षमा च नाम्ना त्वं तत्-पदाङ्कम् उदङ्किता ।
तस्मात् त्वाम् एव तं प्रष्टुं ता वयं गतिम् आगताः
[अनुष्टुभ्]
[33] तद् एवं सर्वासु तर्व्-आदिकं पृच्छन्तीषु तत इतश् च गच्छन्तीषु तदीयं सौरभ्यं परिरभ्य, जगत्-प्राणेषु सन्निधानं प्रति प्रणीत-प्रयाणेषु, तद्-वैदग्धी-दिग्ध-स्निग्ध-हृदया राधा-सखी-समुदया हरिणीं प्रति कृत-प्रणयाः सानुमोदतया हारि व्याहरन्ति स्म-
अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस्
तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः ।
कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥[भ्प् 10.30.11] [वसन्ततिलक]
बाहुं प्रियांस उपधाय गृहीत-पद्मो
रामानुजस् तुलसिकालि-कुलैर् मदान्धैः ।
अन्वीयमान इह वस् तरवः प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकैः? ॥[भ्प् 10.30.12] [वसन्ततिलक]
[34] अत्र खलु एणेति पत्नीति सखीति पद-त्रयेण-हे प्रशस्त-नेत्रे ! मादृश-मानुषी-सदृश-विचार-संचरित-वृन्दावन-क्षेत्रे ! तत्-तद्-अस्मदीय-सुख-प्रख्येण सुखेन लब्ध-मद्-विध-सख्ये ! इति व्यज्य सुख-रज्य-मान-हृदयाः प्राह-
[35] प्रियया समम् अच्युतः श्री-कृष्णः श्लिष्टतया तस्याः सकाशाद् अविश्लिष्टः सन्न् अदसीय-शोभा-कृतासङ्गैर् अङ्गैर् युष्माकं तादृशां दृशां केवल-स्व-दर्शनजानन्दाद् अप्य् अतिशयितम् आनन्दम् उत्कर्षयन् किं युष्मत्-समीपम् आप? तत्र तन्-मिथुन-श्लाघा-गर्भ-वचनेन हेतुं रचयन्ति कान्त इति । गोकुल-राज-कुल-तिलकस्य या कुन्द-माला, तस्याः कुत्राप्य् अलभ्य-सौरभ्यम् इह तद्-भार-मिलज्-जव-भङ्ग-निभ-वायु-सङ्गतः प्रसरति । कीदृश्याः? मालायाः कान्ता-परम-पुण्येन परम-सर्व-साद्गुण्येन तस्यापि लालसस्य या परमास्पद-रूपा, तस्या अङ्ग-सङ्गे कुच-कुङ्कुम-पङ्क-कुल-सङ्कुलायाः । अतः सन्तत-परिचय-विशेषेण तत्-सौरभ्य-विशेषं परिरभ्य स्फुटम् आभिस् तथा समुपलभ्यत इत्य् अर्थः
।
[36] अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन तर्षेण स्थगित-वचनाम् आशङ्क्य, तेन च तयोः सङ्गमम् एव निष्टङ्क्य, परमानन्दतस् तदीय-विलास-विशेषं वन्दमानास्, तत्र पल्लवादि-भर-नम्राणां कम्राणां पुरूणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष-भावेन तद्-वन्दनम् उत्प्रेक्ष्य, प्रियया सह विहार-रतेन तेन तेषाम् अभिनन्दनं सन्दिहानास्, तयोस् तादृश-विलासावेशातिशयम् आह-बाहुम् इति ।
[37] अथ तस्याम् उदासीना वदन्ति स्म-
लता इमाः पृच्छत या न लोकिताः
पुरा तरु-श्लिष्टतयापि पुष्पिताः ।
सम्प्रत्य् अमूः स्पर्श-वशाद् बकी-रिपोः
पुष्पान्वितास् तन्-नख-चित्रम् अत्र हि
[उपजाति 12]
[38] अथ तस्माल् लब्धविस्मये, पुनर् अकस्माद् अखिलशुभपद्यानि तदीय-पदनलिनयोर् अमलिनानि पदानि दधाना, वसुधा सुधाम् इव सुधामावलिं तासाम् अन्यासाम् अपि तदप्रतीतिस्पृशि दृशि किरति स्म, यानि प्रेक्ष्य चामूभिर् उत्प्रेक्ष्यते स्म-
इयं क्षितिर् मुनि-चरिता तद्-उत्तरं
ददे न हीत्य् अवमृशती पुनर् ददे ।
ध्वजाम्भ्जाद्य्-उपवलिताङ्घ्रि-लाञ्छन-
प्रदर्शनाद् इव लिखती तद्-आगमम्
[रुचिरा*] ॥
[39] कियद्-दूरे तु ताभिस् तत्-पदान्तराण्य् एव पदान्तराणि प्रतिपन्नानि । तथा हि-
तद् अनु तस्य पदं पदम् अन्तरा
पदम् अनीदृशम् आददृशे परम् ।
अनतम् अल्पम् अमध्य-कृशं ध्वजाद्य्-
उपचितिं विपरीतदिशि श्रितम्
[द्रुतविलम्बिता*]
[40] तत्र चेदम् अनुमीयते स्म-
मृगाक्ष्या लक्ष्यं स्याद् इह चरण-चिह्नं हरि-पद-
प्रसक्तं वैशिष्ट्याद् अपि तु नहि पूर्वत्र किम् अपि ।
स्फुटं तस्मात् काञ्चिद्द् हृदि विदधद् अत्रार्पयद् असौ
प्रसिद्धा स्तेनानां जगति हि हताङ्क-प्रशमिता
[शार्दूल]
असव्य-सव्यौ यूनोर् यत्
पदाङ्कौ व्यतिमर्दिनौ ।
तत् तर्क्यते मिथः स्पष्टम्
अंस-न्यस्त-प्रकोष्ठता
[अनुष्टुभ्]
[41] तद् एवं साधारणीनां वर्णनम् आकर्ण्य राधा-सख्यः पुनर् आलपन्ति स्म-
परस्पर-करग्र-स्फुरद्-अमन्द-खेलास्पदं
प्रमत्त-करि-दम्पति-स्थिति तयोस् तु यूनोर् युगम् ।
यद् अत्र विजने वने विगत-शृङ्खलं लीलया
विधास्यति परं महस् तद् अतिसुष्ठु पुष्णाति नः
[पृथ्वी]
[42] अथ तत्र सुहृदां वचनम्-
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥[भ्प् 10.30.28] इति ।
[43] अयम् अर्थः: नूनम् अनया परम् अनयया कोऽ प्य् अनश्वर-शक्तिर् अङ्गीकृत-भक्त-भक्तिर् ईश्वर एव निर्बाधितम् आराधितः, न तु देवता-मात्रम् । स च सकल-हरित्-पति-पतिः श्री-हरिर् एव, न च हरः सृष्टि-करश् च । हरितायाम् अपि सर्वावतार-विस्तारवान् स्वयं भगवान् इति सम्भाविती-भवति न चान्यस् तद्-अंशतयापि लब्ध-प्रशंसः ।
[44] तादृश-चमत्कार-कारणम् अप्य् अवतारयन्ति, यन् नः इति । यां खलु गुण-रूप-महसा सहसा निखिल-हृदयं विन्दमानः श्री-गोविन्दः स्वयम् अयं निनाय, न तु न इव न निनाय । तत्-परिपाटी च प्रत्य्-उरसं विधाय प्रीति-रीति-परीततया कृता, न तु तद्-विपरीततया । प्रीतिर् अपि स्मर-महः-प्रवह-रहः-संहततया, न तु सामान्यता-मान्यतया । रहः-संहननम् अपि शर्म-सम्पद्-अंहति-बृंहित-गुण-बंहिततया, न तु तद्-असंहिततया । तच् च सर्व-गुण-विस्मायिकानाम् अप्य् अस्माकं त्याग-जागरूक-समयत एव, न तु तद्-विनिमयत इति स्वयं यन् गच्छन्न् एव निनाय इति ।
[45] तद् एवम् एव मन्यामहे-या खलु धन्या राधाभिधा विधात्रा निःसाधारण-नाम-गुण-रूपतया निर्मिता, सैव दैव-कृतानुकुल्या भवितुम् अर्हति । तत्र यद्यपि तादृश-भगवद्-आराधन-साधनतया तन्-नाम-निर्वचनं सचित-रचनं भवेद्, अथापि फल-सम्बन्ध-निर्बन्ध एव श्रेयान् इति राधयति गोविन्दं, गोविन्देन वा राध्यत इति निरुक्तिर् एव युक्ति-मतीति मति-गम्यम् इति ।
[46] अथ पुनस् तस्याम् उदासीनाः प्रोचुः-
अयि कलयत एते रेणवोऽ प्य् अत्र धन्या
यद् अजित-पद-पद्म-स्पर्श-भाजः स्फुरन्ति ।
ध्रुवम् अघम् अपहर्तुं ब्रह्म-भर्गाब्धि-कन्या
दधति शिरसि यांस् तद्-दर्श-भाग्यं स्तवाम
[मालिनी]
[47] अथ काचित् तस्यां प्रतिस्पर्धिनी वर्धमान-मत्सराग्निर् धूम-शिखायमानं वचनम् उज्जगार-
भवति सुखदम् अस्मिन् श्री-हरेर् अङ्घ्रि-चिह्नं
यदि न सजति तस्या हन्त दुर्नीति-मत्याः ।
कलयत बत धार्ष्ट्यं सुष्ठु भावत्क-भोग्यं
तद्-अधर-मधु जुष्टं कुर्वती सा निलिल्ये
[मालिनी]
[48] अथ तस्याः सख्यः पुनर् ऊचुः-
कथम् अहह पदानि तानि तस्याः
सुभगतराङ्क-पदानि न स्फुरन्ति ।
अपि हृदि दधद् एव तां निनिन्ये
सखि दयितां दयितः सुजात-गात्रीम्
[पुष्पिताग्रा]
[49] अथ पुनः प्रतिस्पर्धिनीनां वचनम्-
पश्योत्सङ्ग-कृताङ्गना-वलयिनः कामातुरस्यासकृत्
तद्-वस्त्रादिक-संवृति-प्रथनया व्यग्रस्य लक्ष्माण्य् अतः ।
निम्न-व्यस्त-पदानि माल्य-घुसृणास्तीर्णानि घर्माम्भसा
भूयः सिक्ततमानि वेल्लि-तलता-क्षेपान्त-वर्त्मानि च
[शार्दूल]
[50] तस्याः सखीनां वचनम्-
न्यग्-जानु-द्वय-लक्षणस्य पुरतः सूक्ष्मं पदाङ्क-द्वयं
वैमुख्येन धृतं व्यनक्ति सुदृशस् तस्यास् तद्-ऊर्वोः स्थितिम् । इति ।
[51] अथ स्पर्धिनीनाम्-
तस्मिन् गर्भक-माल्य-खण्ड-पतनाद् उद्दण्डम् आलक्ष्यते
कामिन्याः किल कामुकेन रचिता केशस्य वेशक्रिया
[शार्दूल]
किं च-
अत्राप्रगुणताबद्धा मिथः पद्धति-पद्धतिः ।
राधा-माधवयोः क्रीडां निर्व्रीडां वेदयत्य् असौ
[अनुष्टुभ्]
[52] अथ ताः सनिजवृन्दया वृन्दया परिष्कृतस्य लतामन्दिरवृन्दस्य द्वारं तयोः प्रवेशद्वारं विविक्षन्ति स्म ।
[53] तत्र तया समधुतया मधुरं पुष्पवृन्दं तथा प्रवेशदेशे निवेशितम्, यथा तल्लोलुभ-शुभंयुमधुकरनिकरा एव दौवारिका इव निवारका जाताः । [54] ते हि प्रवेशारम्भत एव धृतसंरम्भाः प्रविशताम् अभिमुखं धावन्तः स्वकशिलीमुखताम् अर्थान्तरेणापि प्रथयन्ति स्म । [55] अथ कथञ्चन श्लथतां चिरतः प्रथयमानेषु तेषु क्रमशः सर्वास् तर्वादिपल्लववेल्लनपूर्वकम् आविद्धपद्धतितया प्रविश्य परम् अपूर्वं तद् धाम निशामयामासुः, यथा-
पिक-प्रथित-पञ्चमं भ्रमर-पूर्ण-मन्द्र-स्वरं
मरुच्-चलित-पल्लव-प्रकट-वाद्यम् उद्यत्-प्रभम् ।
भुजङ्ग-रिपु-नर्तन-ज्ञपित-चञ्चलावारि-भृद्-
विभा-वलित-तद्-द्वयातुल-सभासद्-अङ्गीकृतम्
[पृथ्वी]
विचित्र-कुसुमैश् चित-स्थलम् अनल्प-तल्पाकुलं
बहु-व्यजन-चामरं सुरभि-वीटिका-सम्पुटम् ।
स-चन्द्र-वर-चन्दनागुरु-गुरूरु-पात्रान्वितं
लता-गृह-रहः-पुरं ध्वनयति स्म ताः प्रत्य् अदः
[पृथ्वी]
(युग्मकम्)
अयं कुसुम-संचयश् चरण-पात-जात-श्लथस्
तद् एतद् अपि तल्पकं विघटिताङ्ग-भङ्गी-स्थिति ।
इदं व्यजन-चामरं गलित-यन्त्रजान्दोलनं
तथा सुरभि-वीटिकाद्य् अपि विभुक्त-मुक्ती-कृतम्
[पृथ्वी] ततः किम् इव पृच्छथ स्व-वदवेत माम् उज्झितं
परं द्रुतम् इतः परं व्रजत तत्र तं प्राप्नुत ।
अमी पिक-मुखा मम स्फुटम् उपेयुर् उत्पित्सुतां स्वयं
भवति दुःखिते भवति कस्य वाङ्गीकृतिः?
[पृथ्वी] (युग्मकम्)
किं च-
इदं मृग-मदावृतं घुसृण-बिन्दु-मन्दोक्षितं
क्षितं शयनकं ततः स-परिवृत्ति-लक्ष्माप्य् अदः ।
परस्पर-विपर्यय-प्रथिति-शालि यद् बान्धवं
कुलं कथम् अमुष्य न स्फुरतु पारिभावी दशा
[पृथ्वी]
[56] अथ तयोर् वृत्तम् अनुवृत्त्यताम् । [57] यदा तु निकुञ्ज-पुर-द्वारि प्रवेश-कृतावेशानां तासां कोलाहल-विकलतावकलिता, तदा सम्भ्रम-वलितेन राधा-ललितेन तेन ततः प्रचलन-कलनाय तस्याः स्वस्य च चेल-सम्भालनादिकम् आरब्धम्, न तु लब्धम् । किन्तु-
उत्कर्णता-समवकर्णन-वस्त्र-वेषा-
धानानि या विवशता निजगार तां च ।
तूर्णिर् यदा निगिरति स्म तदा मुरारिर्
लब्ध-क्षणः प्रणयिनी-वलितं निलिल्ये
[वसन्ततिलका] ॥
[58] अथाग्रिम-कथा-प्रथनाय परामृश्यते ।
[59] न चैवम् अपि तासां तस्य च कामुकता-सामान्यं मन्यताम् । तन्-निकाम-कता-निवारणस्य करणस्य कारणं स्वरूपं तावन् निरूप्यते-
प्रेत-प्राय-शरीराः सर्वे ते कामुकाः कलिताः ।
कृष्णः सान्द्रानन्दस् तस्य च राधा-मुखाः शोभाः
[उपगीति] ॥
[60] यथोक्तम्-
त्वक्श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्तम् अतिविमूढा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥[भ्प् 10.60.45]
कृषि भूर्-वाचकः शब्दो णश् च निर्वृति-वाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥
नराकृति परं ब्रह्म ।
त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते । [भ्प् 10.14.22],
ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः ।
व्यारोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥[भ्प् 10.32.10] इति च ।
[61] भावश् च न कामतां भावयते, किन्तु तन्-निभ-प्रेम-विशेषताम् एव, यतः-
उत्कण्ठा प्राप्ति-योगः प्रतिपद-मिलनाश्लेष-चुम्बादि-केलिः
श्री-गोपी-कृष्णयोर् अप्य् अवर-तरुणयोर् अप्य् अमी तुल्य-रूपाः ।
किन्तु प्राचोर् मिथः स्युर् निरुपाधि-हिततामात्र-शर्म-प्रधानास्
तेऽ र्वाचोर् आत्म-तृप्ति-प्रवलन-परतामात्र-क्प्ताः प्रथन्ते
[स्रग्धरा]
[62] यथैव स्वयम् एव तास् तत्-प्रेम-देवता वदिष्यन्ति-
यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु । [भ्प् 10.31.19] इत्य् आदिना ।
[63] तस्माल् लक्षणविशेषात् तत्प्रेमविशेष एवासौ कामवेशायत इति कामतयो-पचर्यते न तु वस्तुतस् तत्तया स्मर्यते । अतस् तत्केलिश्रुतिफलश्रुतिर् अपि तथा विश्रुतिः-
विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितोऽ नुशृणुयाद् अथ वर्णयेद् यः ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥[भ्प् 10.33.39] इति ।
[64] तासाम् एष च भाव-विशेषतः खलु सर्वेषाम् अपि महतां महत्तराणां महत्तमानाम् अप्य् अन्वेषण-पदवीम् अनवच्छिन्नतया नवीकरोति । यथा च प्रथयिष्यते श्रीमद्-उद्धवेन-
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एवम् अखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥[भ्प् 10.47.58]
[65] अतएव तादृश-तत्-प्रेम-तृष्णः श्री-कृष्णश् च तेन स्वस्य वशताम् उरीकरिष्यति-
न पारयेऽ हं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः । [भ्प् 10.32.22] इत्य् आदिना ।
[66] तद् एवं सति तासु सर्व एवान्येऽ पि गुणाः स्वत एवानुगुणा भवन्ति-
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः । [भ्प् 5.18.12] इतिवत् ।
[67] ततश् चैवं वर्ण्यते-
यद्-अमित-रस-शास्त्रे व्यञ्जि वैदग्ध्य-वृन्दं
तद्-अणुम् अपि न वेत्तुं कल्पते कामि-लोकः ।
तद् अखिलम् अपि यस्य प्रेम-सिन्धौ न किञ्चिन्
मिथुनम् अजित-गोपी-रूपम् एतद् विभाति ॥[*8] [मालिनी]
[68] तद् एवं सति च सर्वासु तासु श्री-राधा पुनर् असाधारणतां धारयति । यथोक्तं, अनयाराधितो नूनम् इत्य् आदिना । [69] तद् एवम् आकलिते निर्गलिते फलितम् अवकलितं क्रियते ।
[*8] थिस् वेर्से इस् मर्केद् अस् अ qउओते इन् पुरि दस्ऽ एदितिओन्, बुत् इ हवे नो एविदेन्चे थत् इत् इस् इन्देएद् सो.
एवं राधा-प्रेम-धामा ययाऽसाव्
आत्मारामोऽ प्य् आप्त-कामोऽ प्य् अदभ्रम् ।
रेमे यस्मात् कामिनां कामिनीनां
न्यक्कारोऽ भूद् आत्मनैवेति मन्ये
[शालिनी]
[70] आत्मारामता ह्य् अत्र परमानन्द-रूपतया आप्त-कामता च परम-लक्ष्मी-लक्षण-गोपी-लक्ष-वल्लभता-विलक्षणतया, [71] अदभ्रता च ताः परित्यज्यापि तस्याम् अखण्डितताया व्यज्यमानतयेति प्रसज्यते । [72] तत्र च सति-
अन्योऽ न्यानुगतिं यदप्य् अनुसृतौ प्रेम्णः प्रवाहौ तयो
राधा-माधवयोस् तदप्य् अनुपदं कौटिल्यम् आसीदतः ।
यो गाम्भीर्यम् अपां जवं च दधते पूरः स हि प्रेक्ष्यते
सावर्त-प्रचयस् ततः परतरः सारल्य-कैवल्यवान्
[शार्दूल] [73] यथोक्तम्-
अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिलो भवेत् । अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥[उन् 15.102] ॥
[74] तद् एवं स्थिते तन्-मय-विलास-विशेषो वर्ण्यते-
दर-मुकुलित-नेत्रा तिर्यग्-आलम्बि-कण्ठी
शिथिलित-भुज-युग्मा स्तब्ध-सक्थीयम् आसीत् ।
तद् अपि च मधु-हन्त्रा जानता स्वं कृतार्थं
मुहुर् अपि हसिता किं भ्रू-कुटिं नापि कुर्यात्?
[मालिनी] ॥
[75] तद् एवं वृत्ते वृत्ते नेतरि चानुनेतरि मान्वत् तस्याः किञ्चिद् अहं-मान-स्पर्शोऽ पि सदर्शो बभूव । यथा च तया पूर्वं नात्यूहापोह-सामर्थ्यम् आसीद् इत्य् अधुना खल्व् इदं भावितम्-
एतावन्तं दिष्टम् अज्ञासिषं न
प्रेयः-सङ्गात् किन्त्व् इदानीं तद् ऊहे ।
प्रेयान् सर्वाः प्रोज्झ्य माम् एव रम्यां
सङ्गम्यान्तः-काननं यन् निनाय
[शालिनी]
[76] ततश् चाग्रिम-गमनाय व्यग्रेण नाथेन प्रार्थितापि सा लालित्येन किञ्चिद् आलस्यम् अपि व्यञ्जयामास, यथा-
त्वद्-गात्र-स्पृष्टता-मात्र-
श्लथाङ्ग-गतितां गताम् ।
स्पन्दाय चातिमन्दां मां
यत्र तत्र स्वयं नय
[अनुष्टुभ्] ॥
[77] तद् अनु च तद्-उदासीनताधीन-भाव-समूहम् ऊहमानः प्रणयवान् अपि प्रणय-मानवान् इदं सोपलम्भ-परीहास-लम्भम् उवाच-कथं भवत्या मुह्यते? मम स्कन्ध एव स-निर्बन्धम् आरुह्यताम् इति । [78] तदा च तज्जया सेर्ष्यालज्जयाधःसज्जदाननम् अस्याः पश्यन्न्, अन्तर्हितवान् अपि सकौतुकम् अन्तर्हितवान् । सहसान्तर्हिते च तस्मिन् विस्मिता विस्मिता च सा विधुरहिता कुमुदिनीव विधुरिता बभूव । तत्र किल सानुलापं विललाप च-
हा नाथ ह रमण हा प्रियतातिकान्त
हा हा क्व गच्छसि महाभुज हा क्व वासि? ।
दास्यां सदा कृपणताजुषि नन्व् अमुष्याम्
आत्मोपकण्ठम् अपि सूचय जीवितेश
[वसन्ततिलका]
[79] अत्रास्तु तावत् तव रूप-निरूपणं त्वन्-निकट-भूमिम् इवोधघटनयापि धीरतां धारयामीति ध्वनितम् ।
[80] ततश् च, यद्यप्य् एवम् अपि चतुर-शिरोमणिना तेन विचारितम् अस्ति स्म, यथा-यद्य् एतस्याश् च मया परित्यागः परित्यक्ताभिः सम्प्रति प्रतीयते, मया पृथग् एनया च सङ्गम्यते, तदा परस्परम् आसत्त्यां सत्यां महा-रास-महः सम्पद्यते इति, तथापि स्नेह-वशान् मूर्च्छन्तीं ताम् आगच्छति तस्मिन्न् अच्छ-हृदये मृगयमाणा मृगलोचना द्रुतम् आगच्छन्ति स्म ।
[81] ततश् च सम्भ्रमतः प्रच्छन्नतां गच्छति श्री-कृष्णः-
एषा चम्पक-मालिकात्र पतिता किं चन्द्रलेखाथवा
कान्तीनाम् अधिदेवता भवति वा वृन्दावन-श्रीर् उत? ।
हा कष्टं नहि चेष्टते किम् इयम् इत्य् उद्विग्न-धी-वृत्तयस्
ताम् आवव्रुर् अमूश् चमूरु-नयना भृङ्गी-निभाः पद्मिनीम्
[शार्दूल]
तत्रान्यास् तु सखी-निभाः समभवंस् तस्यां द्रवन्-मानसाः
प्राण-प्राण-समाः स-मान-मनसः सख्यश् चितं तत्यजुः ।
यस्मिन् नास्त्य् अवलम्बनं किल किम् अप्य् अस्मिन् विधिः सद्-विधिस्
तादृक्षेषु विलक्षणेषु वलयत्य् अन्यच् च धन्यं बहु
[शार्दूल]
कृष्ण-प्रसङ्ग-परिवासितम् अङ्गनानाम्
अङ्गं यदा तु नसि सङ्गतिम् अङ्गति स्म ।
सारङ्ग-लङ्गिम-दृशः परम् अङ्ग-सङ्घाश्
चाचेतिषुः सवयसोऽ पि तदाङ्ग-तुल्याः
[वसन्ततिलका]
[82] तदा तु-
काश्मीरार्द्रं क्वापि सिन्दूर-लिप्तं
क्वापि च्छिन्नं क्वापि भिन्नं क्व चापि ।
अन्तः-पीताच्छादनं तन्-निचोलं
पश्यन् सङ्घः सङ्गिनीनां ननन्द
[शालिनी]
स्वयम् अपि यदपि तदा सा
हरि-परिमल-भाग् अथापि तासां तु ।
आगन्तुक-सुबहूनां
गात्रात् तद्-भाग् उवाह वैलक्ष्यम्
[आर्या]
[83] तद् एवं सर्वा एव हृद्य-सौहृद्य-विस्रब्धास् ताम् आत्मैकध्यम् आगतां मध्यम् अध्यास्य तया सह परस्पर-परीरम्भ-बद्धाः सुदुस्तर-दुःख-नद्धाः पुरु रुरुदुः ।
[84] सुदुस्तरं रुदित्वा च ताम् अमूस् तु पप्रच्छुः-अस्माकं खलु न दुःखं पञ्चभिः सहेति कल्पेनानल्पम् अपि दुःखं कल्पत्वाय नाकल्पत कल्पम् । ततस् तन् नातिप्रष्टव्यं भवतीत्य् अनन्य-गत्या भवत्यास् तु तत् त्यागः कथम् इति कथ्यताम्, कथं वा विकलता-हेतुः केवलता जाता, तद् अपि च ।
[85] सा पुनर् अनुताप-विपद्-उत्तरम् उत्तरम् उवाच-
कुतः कथं कुत्र च तेन नीता
चकार किं वाहम् इदं न जाने ।
अनेन हीना तु विचारयामि
स्वीयं तु दौरात्म्यम् अनर्थ-हेतुः
[उपजाति 11]
[86] ततश् च धैर्य-पर्ययतः पुनः क्रन्दनम् अनुविन्दमाना खिन्नता-नति-भिन्न-सखीकाभिः काभिश्चित् कृत-सान्त्वना मार्जितानना वेश-निवेश-कृत-मानना सा समम् उन्नमयामासे ।
[87] तया च समम् उन्नयनम् आयामसे-सम्प्रति च कुत्र स प्रतिलभ्यते? इति । [88] सा चोवाच-नातिदूरम् अक्रूर-चेताः स तु कुतुकितया विलसति, न तु कितवतया-
यतः गोकुल-राज-कुमारः
शुचि-रति-गम्भीर-धीर् ह्रीमान् ।
तद् अपि च मर्यादां नः
स्वीकारायात्यजत् करुणः
इति [उपगीति]
[89] तस्मात् तदीय-चरण-चरित-वर्त्मानुचरणम् एव नः श्रेयः । तद् एतद् वचनं रचयमाना वन-प्रचयं पुष्पावचय-परा इव विचिन्वन्ति स्म । ततो ध्वजादि-पदानि पद-पद्म-चिह्नानि क्रमतस् तावद् अमूर् अन्वक्रामन् यावत् तानि स्पष्टानि दृष्टानि । परतस् तु परिवीरुन्-महीरुह-निविडतम् आरण्य-धरण्य्-अन्ध-तम-प्रविष्टानि दृष्ट्वा न्यवर्तन्त, न च तत्रावर्तन्त ।
[90] तत्र चेदं विचारयामासुः-नूनम् अस्मज्जया लज्जया सज्जन्न् असाव् इह सहसा न साक्षाद्-भवितुम् अध्यवस्यति, तस्मात् तद् अबोध-निधाय-भूर् इयं दूरतः परिहरणीया परिहृत्य च सा पुलिन-धरणिर् एवानुसरणीया ।
[91] यत्राहम् अत्रास्मि-तत्र-भवत्यस् तु कुत्रत्यताम् इता इत्य् अपदेशाद् अपत्रपाम् अपनयन्न् अयम् अपरोक्षतां प्रपनीपद्यते ।
[92] तद् एतद् विचार्य समाचार्य च पर्यन्वेषणास् तम् उद्दिश्य दिश्यं दिश्यं वनं प्रविश्य, स्वयम् अन्विच्छन्तम् इव संचरन्तं दैन्य-सैन्य-मयम् अतिगान-वितानम् आचरन्ति स्म इति ।
[93] तद् एवं तेषां सभासदां कथा-समाधेर् अवधाय कथकः समापनम् आह-
ईदृग् एष वरः कृष्णस् तव वृन्दावनेश्वरि ।
त्वां विना तु परः-कोटीर् अपि नाङ्गीचकार यः
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0