भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.23

1.23.1

इति श्री-श्री-गोपाल-चम्पूम् अन्व्
यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिर् नाम
द्वाविंशं पूरणम्
॥22॥
(23)
अथ त्रयोविंशं पूरणम्
प्रथम-सङ्ग-रङ्गज-
वाकोवाक्य-भङ्गी-सङ्गीतम्
[1] अथ रासारम्भे निज-शपथ-सम्भेदं वेदयंष्तदीदं याचनम् आचिनोमि ।
निजे काव्ये सर्वं रस-वलनम् अस्तिति लिखता
मया धार्स्त्यात् स्पष्टी-कृत-मति-रहस्यं तु यदीह ।
तद् एतद् गोविन्द-व्रज-विजन-कान्तानुचरणं
दधद्भिर् योग्यस्य श्रवसि परम् अर्प्यं न सदसि

1.23.2

इति । [शिखरिणी]
[2] अथ रात्रि-कथायाम् ग्रथ्यमान-प्रथायां मधुकण्ठः स्निग्धकण्ठं स्निग्धकण्ठम् अप्य् आलम्बमानः सम्बभाषे, यत्र प्रथममीदं प्राञ्जलि व्यञ्जयामास-
रास-केलिर् अजनिष्ट जागरं
स स्फुटं भवतु तत्-कथा तथा ।
कारणं भवति यस्य यद्-विधं
तस्य तद्-विधतया मता स्थितिः

1.23.3

[रथोद्धता]
[3] तद् एतद् आकर्ण्य सानन्दं निर्वर्ण्य च सर्वेऽ पि प्रोचुः-युक्ति-युक्तम् एव चेदम् उक्तम्, यतः-
परमा या रस-धारा
सा यदि मध्ये वियुक्तिम् आयाति ।
पूर्वापर-संवलना-
भावान् नैव स्वरूपम् आयाति

1.23.4

[गीति]
तस्माद् यथेच्छम् अविच्छेदम् एवेदं प्रस्तूयताम् ।
[4]मधुकण्ठ उवाच-
मुखं शशिमुखी-गण-प्रचुर-मोह-संरोहणं
दृशोर् युगम् अमूदृशां मृग-दृशां घूर्णनम् ।
तनुः सुतनु-मण्डली-धृति-विखण्डनी श्री-हरेस्
तदाजनि यदा जनिं मृगयते स्म रासोत्सवः

1.23.5

[पृथ्वी]
मुखं विधु-विमोहनं नयनम् अब्ज-दृग्-लोभनं
रुचिर् घन-रुची-हित-प्रथम-सङ्ग-रङ्ग-प्रदा ।
रमा-रमण-रामणीयक-विभूषि-रामावलेस्
तदाजनि यदा जनिं मृगयते स्म रासोत्सवः

1.23.6

[पृथ्वी]
[5] अथ पूर्व-क्रमेण पूर्णिमाश्रमे पूर्णाः पुलिन्द्यः [भ्प् 10.21.17] इत्य् आदिé वृत्ते निर्वृत्ते सत्य-पूर्नं-मन्यतया राधिका-मात्र-कर्षाय हरिस् तर्षं धृतवान्-कथम् अहो, निभृतमीदं सम्भृतं स्यात्?इति ।
[6] तत्र काचित् तत्-कुङ्कुम-लिप्त-चरी वन-चरी श्री-राधाम् अनु करुणया तरुणारुण-कमल-लोचनम् उवाच-
तव मुरलीम् इव नितरां विषम-शरः स विजितो भवता ।
अहह न जाने कथम् इव शुष्कां बिद्धां च ताम् कुरुते

1.23.7

[उपगीति]
[7] तदा च वन-गीर्वाणिभिर् आकाश-वाणीयम् उद्भाविता-
शुष्का तप्त-शलाकया च परितो बिद्धा सुवंशोद्भवा
सेयं ते मुरली प्रियेति नियतं विज्ञातवान् मन्मथः।
तां शुष्यद्-वपुषं विधाय कुलजां बाणैर् निजैः पञ्चभिर्
बिद्धाङ्गीं विदधाति हा बकरिपो त्वत्-प्रीतये सम्प्रति

1.23.8

[शार्दूल-विक्रीडीतम्]
[8] तर्ह्य् एव चाधीरतया भ्रमन् वनमाली क्वचन तमाले कुङ्कुमालेखम् इमम् आलोकयामास-
आनङ्गार्चिर् भिन्ना त्वद्-अतिशुभगाङ्गावृत-मना
मुरल्यां राग-श्री-परिमल-कुलं सम्भृतवती ।
सदा श्यामां कान्तिं दिशी विदिशि चाभावयमतो
मयाप्तं कृष्णत्वं तद् अपि न हि कृष्ण त्वम् अभितः

1.23.9

[शिखरिणी]
[9] तद् एतन् निशमन-पूर्वकान् निशामनान् मुरशमनेन तद् इदं विचारितम्-हन्त हन्त ! राधाया एवेयम् असाधारण-वाग्-अर्थवती लिपिः । सेयं सम्भवेत् । एवम् अपि कुल-जन्मतया तया मन्मथ-विकारम् आच्छादयन्त्या स्थीयते । तस्मान् निखिलावृति-ध्वंसनं वंशी-शंसनं परं मम शरणम् इति ।
[10] तद् एवं राधा-सुधा-दुर्भिक्षादितस् तितिक्षाम् अभजन् स पुनर् वेणु-शिक्षा-भिक्षम् एव केवलां सेवते स्म, यत्र वर्षा अपि तर्षाकरतया व्यतीयुः, समृद्ध-गर्धनतया शरद् अप्य् अर्धं वर्धते स्म ।
[11] तत्राह, रहः-शिक्षा तु यथा-
यर्ह्य् आकर्ष-विधिं हरिर् मुरलिका-शिक्षासु तस्याह् क्रमाच्
चक्रे तर्हि गताश् चिरात् पर-पर-क्षोभास् त एते तया ।
कम्पो घूर्णनम् आसनाद् विचलनं द्वित्र-क्रमा वास्तुतो
निष्क्रान्तिर् वन-वर्त्म-वर्तनम् उपव्रज्या च दूराध्वनि

1.23.10

[शार्दूल]
किं च-
राधाकर्ष-कृते कृता मुरलिका-शिक्षाथ या या तदा
सा सा तेन सदाशया वलयिताप्य् आसीद् अलं निष्कला ।
ताम् एतां नत-कन्धरः स-पुलकं वन्देऽ हम् उच्चैः सदा
या कृष्णस्य मनोरथावलिम् अहो पूर्णम् अकार्सीन् मुहुः

1.23.11

[शार्दूल-विक्रीडीतम्]
[12] तथा हि, तद् एवं प्रावृषि वेणु-शिक्षा-परीक्षा-तृष्णग् असौ कृष्णः समयं प्रतीक्षमाणः शरल्-लक्ष्मीम् आगतां लक्षितवान् । लक्षयन्न् एव च विचारितवान्-
[13] इयं खलु स्वभावतः स्वच्छा मल्-लीला-परिच्छदतां यदि गच्छति, तदा प्रमदावलिम् ऋच्छामः । किन्तु, समय-मयतया सर्ववश्य-कारिणम् अपि भावं वश्यं कुर्वतीम् एनां पश्यामि, यथा माम् अपि राधा ।
[14] ततो यद्य् अस्यां अपि वश्यताम् व्यस्यन् भावान्तर-भावितत्वं भावयितुं प्रभवामि, तद्-आराधायाम् अपि तद्-आधानाय निर्बाधतां गतवान् अस्मीत्य् अवदधामि ।
[15] तद् एवं विचारयन्न् अग्रेचरं मङ्गलं विलोचयन्न् उवाच-आहो ! श्वो-वसीयसम् एवाध्यवसीयते । यतः-
खञ्जन-खेला-रञ्जित-कञ्ज-नयनं नयन् विधिः स मम ।
राधा-मञ्जुल-नेत्र-स्फुरद्-आननम् आसु सञ्जयिता

1.23.12

[उपगीति]
[16] तद् एतच्छुभ षकुनमनुभवता, यावत् पौर्णमासंंआ समेव सर्वत एव वेणुधरेण वे नुस्वनचर्यासञ्चार्यते स्म । ततश् च-
वंशी-कलाद् उदयतः शरदि प्रभावान्
मल्लीभिर् अप्य् अतुल-फुल्ल-दशां गताभिः ।
रात्रीर् निभाल्य मुहुर् उल्लसिताह् स ऋआम-
भ्राता रतिं रति-कृतेऽ कृत वल्लवीभिः

1.23.13

[वसन्ततिलका]
[17] ततश् च तूर्णम् एव पूर्ण-चन्द्रा बहु-तिथी तिथिर् अतिथिर् इव तस्य प्रसन्नतां विधातुम् आसन्नवती । तत्र चाज्ञायाह्नि वन-विहार-शाली वन-माली धेनूर् आदाय व्रजागमनं विधाय सायं प्रत्यवसाय निज-चन्द्र-शालिकालिन्दं विन्दमानः स्फुटम् आदित्येऽ स्तङ्गत्य स्थिते स-तारा-समुदयं तं सान्द्र-चन्द्रिकं चन्द्रम् उदयन्तं पश्यंस् तद्-वश्य-भाव-विशेष-श्लेषतस् तद् इदं चिन्तयामास-
जागुड-पिण्ड-सपिण्डं किं विधु-बिम्बं तद् एतद् उन्नमति ।
किं वा रोषारुण-रुचि मुखम् इदम् उद्भाति कामस्य?

1.23.14

[आर्या]
पुनश् च,
कुङ्कुम-रस-सङ्कुलम् इव किं विधु-बिम्बं पुरः स्फुरति ।
अथवा राधा-मुखम् इदम् उदयति यमुना-वनात् पुरतः ?

1.23.15

[उपगीति]
[18] तत्र यदि विधु-बिम्बम् एवेदं, तदा तद् इदं विभाव्यते-
पूर्ण-चन्द्रोऽ यम् ऐन्द्रीं हरितम् अनुगतः प्रेयसीं दूरदेशाद्
अस्यावक्त्रं विलिम्पन् घुसृण-शवलितेनेव शश्वत् करेण ।
तद्-व्याजान् माम् अमूदृक्-कृतिम् उपदिशतीवाद्य सद्यः किशोरं
शुभ्रात्मा यस् तदीयं भवति विरचनं सर्वतो-भद्रम् एव

1.23.16

[शार्दूल]
[19] किं चायम् इदम् अप्य् उपदिशन्न् इव सम्भाव्यते-
विधुर् अहं हरितः प्रतिदिक्-पति-
प्रणयिणि रमयन् जन-शर्मदः ।
त्वम् इह किं नु विधो स्थगितायसे
पर-रमा-रमणं प्रति सम्प्रति?

1.23.17

[द्रुतविलम्बित]
[20] तद् एवं सर्वथैव दैवानुकूल्यतश् चन्द्र-चन्द्रिका-सान्द्रित शुभं तस्य ककुभम् एव गन्तुं शन्तुर् अस्मि, यतः-
निखिलम् एव वनं विधुनामुना
दिशि दिशि प्रतिरञ्जितम् ईक्ष्यते ।
मद्-अनुकूलम् इदं शकुनं भवेद्
इति गतिर् मम तत्र शुभावहा

1.23.18

[द्रुतविलम्बित]
[21] अथ यदि कामाभिधानस्य कोप-धामाननम् इदम्, तदा विषम-बाणस्य तस्यानुयानम् एव भय-निर्वाणं विश्राणयति । यदि च तस्या एव कान्ति-सदनं वनम् इदं विद्यते, तदा तु सुतराम् एव तद्-दिशं प्रविशतस् तन् मम शर्म-मर्म प्रविशतिति । किं च-
रयाणे वर्तते चित्तंण्र्त्यत्य् अक्षीच दक्षिणम् ।
तस्माद् वृत्तं चण्र्त्यं च कान्त् अभिर्भवितामम

1.23.19

[अनुष्टुभ्]
[22] तद् एतद् उट्टङ्क्य निष्टङ्क्य च प्रणय-पण-सन्तुष्टं दामादि-कुमार-चतुष्टयं सङ्गतः प्रसज्य, तद्-द्वारा निद्रा-व्याजाद् अन्यान् द्वार-पालकतया तत्रैव संवलय्य, निभृत-कृत-प्रतीहारतश् चरण-विहारतस् ताम् एव हरितं हरिर् मुरली-धर-करतयानुसरन् दिन-कर-तनया-तीरम् अन्वतीर्णवान् । आवतीर्य च विचारितवान्-
न क्रुद्ध-कामाननम् एतद् अस्ति
प्रयाति यच् छुब्र-दशाम् उदञ्चत् ।
वियोगि-राधास्यम् इदं च न स्याद्
यतः कलङ्कादि भवेद् विभेदि

1.23.20

[उपजाति 11]
[23] ततश् च म्र्ग-लाञ्छन एवायम् इति निश्चित्य पुनर् विचारितवान्-
शार्वरं षर्वरीशानः संहर्तुं सिंहतां गतः ।
पूर्व-पर्वतम् आरोहन् सर्वं पर्वति पर्वण

1.23.21

[अनुष्टुभ्]
किन्तु,
चन्द्रमा राधिका-वक्त्रम् अनुकुर्वन् विराजते ।
तदाकारम् इदं चेतः कथं मम विदूयते?

1.23.22

[अनुष्टुभ्]
[24] पुनर् विभाव्य चन्द्रं प्रति प्राह स्म-
अनुपम-रुचिर् अस्मि सर्व-लोकेष्व्
इति भगवन्न् अमृत-द्युते न दृप्य ।
न तु भवद्-उपमा दशापि तस्याश्
चरण-नखा विलसन्ति राधिकायाह्

1.23.23

[पुष्पिताग्रा]
[25] तद् एवं विचिन्त्य समुचित-स्थानं विचित्य दूरतश् चतुरांश् चतुरः कुमारन् वर्त्मनि वर्तमानतया विधाय, स्वयम् उपसरितम् उच्चतर-चत्वरम् आत्मना रूढं सन्धाय, व्रज-दिशम् अवधाय, वेणुं मुखे निधाय, वादयिष्यमानश् चिन्तयामास-प्रथमं राधा-
गमनम् एव साधयामः । ताम् विना फलस्य च विफलताम् कलयामि । तद्-आगमन-कमनीयतया तु रमणीनां अन्यासाम् अप्य् आगतिर् मम मनसि रमणीयताम् आयामम् आनयति । किन्तु तद् एव भव्यं कथं भव्यम् इत्य् एव प्रतिपत्तव्यम् । आम् आम्, बाण-विद्या-प्रवीणेनैव वैणविकेन मया तथा योक्तव्यम्, यथा तेन सैवाविष्टाकृष्टा च भवति नापरा इति ।
[26] तद् एवं सम्प्रधार्यावधार्य च तेन, वेणुम् एवं वादयिष्यामीति यदा विचार्यते स्म, तदा च ताभिः सान्द्र-चन्द्रिक-चन्द्रमसः सन्दृष्ट्-वशतया सान्दृष्टिकम् इदं परामृष्टम्-
हन्त ! स खल्व् अयम् ओषधीशोऽ प्य् आधि-व्याधित-जनान् अस्मान् अद्य सद्यः प्रतिरित्सेद् एव, न तु चिकित्सेत् इति ।
[27] ततश् च तत्-क्षणं किञ्चिद् विलक्षणं शश-लक्ष्माणम् आलक्ष्य वृन्दा चेदं चिन्तितवती-
हन्त हन्त !
तासां कृष्ण-वियोगाग्नि-बाष्पैर् विष्वग्-विनिःश्र्तैः ।
आदर्श इव पश्यान्धश् चन्द्रमा मन्दतां गतह्

1.23.24

[अनुष्टुभ्]
[28] अथ चमूरु-दृशाम् अमूषां मुहुर् अपि संमुखतया वशीकृतिम् इवापन्नः शशी स्वदिशि तदा मदाद् उन्नतेन कृष्णस्य गभस्ति-शतेन तस्य स्फूर्तिं समानिनायेति ।
[29] तद्-अवलोकनाय व्याकुलताकुलायमनासु तासु-
शारदेन शशिना हरिं प्रति
प्रस्थितिः समम् अयोजि सुभ्रुवाम् ।
प्रत्ययोजि किल तेन सा तदा
मङ्क्षु तस्य मुरली-कलेन तु

1.23.25

[रथोद्धता]
[30] यतस् तदैव च-
अनुरागेण रागेण वर्ण-भागेन माधुरीः ।
कलयन्तं कलं वेणोः कलयामास केशवः

1.23.26

[अनुष्टुभ्]
[31] तत्रानुरागो यथा,
साश्रु-कण्ठ-नयनं सकण्टकं
कम्प-सम्पद्-अयनं स-माधवः ।
राधिका-विरहजाधिबाधितः
श्रव्य-वेणु-कलभव्यम् आजगौ

1.23.27

[रथोद्धता]
[32] रागो यथा-
रागम् ईदृशम् असाव् अचीक्पत्
प्राप रागईव यः प्रिया-हृदि ।
यः स्फुटं न रसितः पुरा भुवि
क्वापि नामृतवद् अङ्ग-विश्रुतः

1.23.28

[रथोद्धता]
[33] तत्-प्रणाद-मय-वर्ण-विभागो, यथा-
अयि सुधांशु-सुधा-मुखि राधिके
मधुर-भाव-धुरा मधु-माधवि ।
मयि सदा दयिते दयिते चिरं
तव गुणैर् हृदयं मम दीर्यति

1.23.29

[द्रुतविलम्बित]
[34] अथ बाणईव वेणु-नादे प्रवीणः स्वयमषव् अनेन तस्याह् सिद्धां बिद्धताम् अवबुध्य सुध्य्-अग्रणीर् अन्याश् च तन्-न्यायम् आजुहाव । [35] तत्र वर्ण-विभागस् त्व् एवम्-
अहह गोप-सुता मम गीः-सिता
धरथ हन्त मनोरथ-दुर्धराः ।
इति भवामि भवज्-जित-लज्जितस्
तद्-उदयं सुदयं कुरुत प्रियाह्

1.23.30

[द्रुतविलम्बित]
[36] अथ यदा पीत-वसनेन गीतम् एवम् उद्गीतम्, तदा तासम् एव कर्णाभ्यर्णताम् आगतं तत्र च यथायथम् अभिरुचितम् एव चित्ती-कृतं रागादिकम् अवधार्य निवार्त्यतातिक्रम-निरतास्थिरताह् प्रतस्थिरे । तत्र च कृष्णाभिमुखताम् एवातस्थिरे, नान्यत् किम् अपि । तथा हि,
या यत्र कर्मणि गतास् तद्-अनुस्थितिं ता
विस्मृत्य तस्य मुरली-श्रुति-दिव्य-नेत्राह् ।
दृश्य-प्रभं तम् अभिवव्रजुर् अश्रु-नीर-
स्रोतस्वती-मयतया निज-जीवनेशम्

1.23.31

[वसन्ततिलका]
तदा च-
गोकुल-कुमुदाक्षीणां
कुमुद्वतीनां तदा तथा कुमुदाम् ।
अकुरुत कुमद्-आधीशः
स तदा शतधा पराम् सुमुदाम्

1.23.32

[आर्या]
तदा च-
शुश्रूषन्त्यः पतीन् काश्चिन् निरुद्धाह् प्रस्थितिं प्रति ।
कृष्णं तत्रैव ताह् प्रपुर् इत्य् एवं मुनि-जल्प्तम्

1.23.33

[अनुष्टुभ्]
[37] आत्र च ष्निग्धकण्ठेनान्तश् चिन्तितम्, ता एताह् खलु पाद्मोत्तरखण्ड-दृष्ट-दण्डकारण्य-गत-मुनि-वर्यतया साधक-चर्यस् तदानिम् अपि लक्ष्मी-वर्याणां राधिकादि-नित्य-तद्-भार्याणां स्व-काम्यं सुकाम्यं साम्यम् अनवाप्ता यथा तद् अवाप्य श्री-कृष्णम् अवाप्तास् तथा वर्ण्यम् इति स्थिते-
तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताह्।
जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाह् ॥[भ्प् 10.29.11]
इत्य् एव प्रतिपत्तये कल्पते ।
[38] उक्तं च पाद्मोत्तर-खण्ड [272.167] एव-
ते सर्वे स्त्रीत्वम् आपन्नाह् समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥इति ।
[39] किन्तु, नासूयन् खलु कृष्णय [भ्प् 10.33.37] इत्य् उक्त-दिशा तदीयास् तु न तद् ऊहितुम् ईशामासुर् इति ज्ञेयम् । यच् च जिघाम्सयापि हरये स्तनं दत्त्वापि सद्-गतिम् [भ्प् 10.6.35] इत्य् अस्य सदृशेन तम् एव परमात्मानं जार-बुद्ध्यापि इत्य् आदिना साधनस्य निकर्ष-रूपम् अपेर् अभिधेयं फलस्य तु सर्वोत्तम-रूपत्वं प्रतिपद्यते ।
[40] तच् च युक्तं, यतः-
तासां कृष्णः परात्मा न तु परैति न प्राप्नुयाज् जारतां तत्
प्रान्ते प्राप्तः पतित्वं ददद् उचित-मतिं जारम् अत्यापि वित्तः।
यद्वद् बक्यां जिघांसाव् अपि समुचितम् अत्यर्पणाल् लाल्य-भावं
लेभे धात्री-निभायां स्थिरतमम् इह यद् युक्तितस् तत् फलं हि

1.23.34

[स्रग्धरा]
[41] तथापि-
उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथागतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाह् ॥[भ्प् 10.29.13]
इत्य् अनुसाराता प्रेमाम्षेन तु तासां महद् एव वैलक्षण्यम् अनुगतम् ।
[42] ण च नित्य-कान्तास्व् अपि प्रकट-लीलायां जार-बुद्धिर् दृश्यत इति तस्याह् श्लाघैव वाच्या । यतः-
या नित्या एव कान्ता दनुज-कुल-रिपो राधिकाद्या न तासाम्
श्लाघां सा जारता-धी-सचिव-जनिर् इयात् किन्तु रागः स नित्यः ।
तां भित्त्वा विघ्न-कर्त्रीं द्रुत-मुदितवता तेन तं नित्य-कान्तं
प्रापुस् ता नापरासाम् इव वपुर् अपरं स प्रतीक्षेत तासाम्

1.23.35

[स्रग्धरा] इति ।
[43] तद् एतद् विचिन्त्य स्फुटं प्रोचे, ततस् ततः ?
[44] मधुकण्ठ उवाच-अभिष्र्तवतीनां विशेषो यथा-
श्रुते मुरलि-काकले निज-निजाह्वय-प्रापके
समं व्रज-नत-भ्रुवः सपदि फुल्ल-देहा बभुः ।
अनङ्गम् अपि वर्धितं विहितवान् अहो यस् तदा
कथं न किल वर्धयेन् निज-कला-बलेनाङ्गनाह् ?

1.23.36

[पृथ्वी]
[45] किं च,
सत्वर-प्रसारवत्त्व-सत्त्व-धाम-हायिनी
सर्व-गुर्व्-अहार्य-कूट-वारणतियायिनी ।
नाथम् एकम् अन्व् अनेक-दार-सम्पद्-अर्पिणी
ओघ-मोघम् अन्व् अनन्त-भक्त-लोक-तर्पिणी ॥अ॥
लोल-केश-शैवलाञ्चि-कर्ण-पूर-चक्रिणी
पुष्प-जात-निष्प्रपात-शुभ्र-फेण-चक्रिणी ।
उच्छलन्-नवीन-मीन-नेत्र-नीर-गात्रिणी
अग्रिमाध्व-मात्र-पात्र-सम्मुखानुयात्रिणी ॥ब्॥
मन्द-चाल-बाहु-नाल-पाणि-पद्म-सालिनी
अच्छ-बाल-कच्छपाङ्ग-वत्स-जन्म-जालिनी ।
जूति-धूति-कृत्-कुटीर-तीर-धीर-गामिनी
ऊरु-भूरुहालि-पात-सम्प्रपात-कामिनी ॥च्॥
काञ्चि-काञ्चि-कङ्कणादि-शिञ्जद्-अम्भ-सञ्जिनी
प्रायशस् तु हंस-सङ्घ-श्षब्दितानुरञ्जिनी ।
तूर्ण-तूर्ण-घूर्णनादि-सङ्कुलाङ्ग-नर्तिनी
पूर्ण-पूर्ण-भाव-गूर्ण-जाड्य-जात-वर्तिनी ॥द्॥
वेश-वस्त्र-सन्निवेश-चञ्चलत्व-भङ्गिनी
तत्-तद्-अर्थ-वैपरीत्य-कारि-वेग-सङ्गिनी ।
यन्-निमित्तम् आत्म-सर्व-सङ्ग-भङ्ग-भाविनी
यत्र सर्व-नाम-रूप-विस्म्र्तिश् च भाविनी ॥ए॥
श्याम-धाम-सुष्ठु-रामम् एतम् अत्र सद्-धवम्
सिन्धु-तुल्यम् उत्तरङ्गद्-अङ्गम् आशु माधवम् ।
पूर्व-पूर्व-भिन्नयातिर् उत्तराप्त-सङ्गतिः
आपगालि-सम्मिताप सेयम् आलि-संहतिः ॥f॥

1.23.37

[तूणक]
[45] तास् तत्र च-
शुभंयु-वन-मञ्जुले सवितृजा-रुचा सङ्कुले
प्रसून-गण-राजिते भ्रमर-कोकिल-भ्राजिते ।
सुगन्ध-मरुद्-अञ्चिते कुमुद-बन्धु शोभाचिते
समस्त-गुण-निश्चिते निधितया चिरं सञ्चिते

1.23.38

[पृथ्वी]
स्थले मणिज-चत्वरं समधिरुह्य तं सत्वरं
विचित्र-मुरली-कलं विरचयन्तम् उद्यत्-कलम् ।
घनाघन-घन-श्रियं तडीद्-अभीषु-वस्त्र-प्रियं
मणि-द्युति-विकस्वरं ददृशुर् अङ्गि दिव्य-स्मरम्

1.23.39

[पृथ्वी]
(युग्मकम्)
निर्माय कृष्णम् अभितः स्थितिम् अत्र गौरी-
पङ्क्तिस् तदा तम् अवलम्बितुम् उत्क-चित्ता ।
मध्ये तमालम् उपलभ्य सुवर्ण-वर्ण-
वल्ली-ततिर् विलसतीति किल व्यलोकि

1.23.40

[वसन्ततिलका]
अथ-
वंशी-दूतिकया निमन्त्र्य कलिताह् सौरभ्य-धारा-सखी
सङ्घैः साद्र्ति भूरि दूर-सरणेर् आनायिताह् सुभ्रुवः ।
प्राप्ताह् स्वान्तिकम् आत्म-रोचिर् अमृतान्य् अप्य् आशिताह् प्रेयसा
ट्र्प्तिं नैव ययुर् न वा विरमितं तद्-दान-कर्मामुना

1.23.41

[शार्दूल]
प्रत्युत-
नव्याह् कलाधराह् शुभ्रा भ्राजि-नक्षत्र-मालिकाह् ।
अराल-लोचनाह् कृष्ण-चकोरं ट्र्स्ण-जं व्यधुः

1.23.42

[अनुष्टुभ्]
[46] अथ कृष्णस् तत्र स-तृष्णम् अचिन्तयत्-अहो ! नव-तारुण्यस्य पुण्य-सम्पद एता, वर-लावण्यस्य मत्-क्रेतव्य-नव्य-पण्य-श्रेण्यस् त्रिलोकी-लक्ष्म्याश् चूडामणयः, स्फुरन्-मन्मथस्य जीवनौषधयः कुमुदायमान-मदीय-लोचनयोर् नवीनाश् चन्द्र-कलाह् सहावतीर्य रुचिं वितीर्य विराजन्ते ।
[47] तद् एवं स्थिते-
कृष्णापाङ्ग-शरः साङ्गं भित्त्वापाङ्ग-शरं मम ।
मनोरथिनम् उद्भेत्तुं किल प्राविशद् अन्तरम्

1.23.43

[अनुष्टुभ्]
इति ताह् प्रत्येकं प्रत्येतव्यं चक्रुः ।
[48] वस्तुतस् तु हरेस् तासु सर्वासु लतास्व् इव द्वित्र-लव-सेवन-पूर्वकम् अपूर्वतयाभ्रमन्-नेत्र-भ्रमर-युगलं कमलिन्याम् इव राधायाम् निर्बाधाम् स्थितिम् आतस्थे ।
[49] आस्थितवतीति च तत्रेदं स तु विचारयामास-
शोभायाह् शुभदा शोभा रमायाह् परमा रमा ।
सेयं मल्-लोचनस्यापि राधिका-चारु-लोचनम्

1.23.44

[अनुष्टुभ्]
[50] तद् एवं सति सा च तदीय-तादृश-दृशः स्पर्षतः कम्प-सम्पद्-उन्मीलन-रस-प्रसर-वशतया क्षोभं लभमानापि तं प्रति प्रहित-लोभां शोभाम् उवाह ।
[51] आत्र च प्रश्नोत्तर-मयं पद्यम्:
स्मेरयोः प्रति विधूद्यद्-अस्रयो
राधिका-नयनयोस् तुलांवद ।
शारदं विकच-मेचकोत्पलं
यन् मरन्द-झर-मोचि तत् किम् उ?

1.23.45

[रथोद्धता]
[52] तद् एवं स्थिते ताः पुरः-स्थिता यद्यप्य् अनवद्य-संवनन-प्रवीण-वेणु-विद्या-मदिता लज्जाम् उज्जहति स्म, तथाप्य् अवितथाभिजात्यतया नम्रता-कम्रा मुनि-व्रतम् एवानुववृतिरे ।
[53] श्री-कृष्णस् तु यदा विशीष्ट-ललना-मध्यम् अध्यावसन्न् एवम् अद्योतिष्ठ, तदा
तासां परम-दुर्लभ-परिमल-मात्राणाम् अपि वैणव-मधुर-गीत-मधु-मदिततया स्वयम् एव कृताभियात्राणाम् आगतिं दृशोः पथि निर्माय, स-नर्म-स्मितस् तद्-विधाम् बुद्धिम् उपधया लब्ध-शुद्धिम् अवधारयन्न् इव तन्-मुखाद् उन्मुखानुराग-जागरूक-वाग्-अमृतम् आस्वादयितुम्, तासु च समुत्सुकताम् आसादयितुं, निजान्तिक-स्थिति-याच्ञा-गर्भेण स्फुरद्-उपेक्षा-सन्दर्भेण वचसा ताह् क्षोभयामास । यथा-
महाभागा युष्मन्-मिलनम् अभवन् नः शुभ-कृते
ततः पृच्छाम्य् अत्रागमनम् इदम् अव्याहतम् इति ।
तद् एतावत्-क्लेशाद् अभिगमनतः सङ्कुचित-धीः
स भूयः सम्पृच्छे भवद्-अभिमतं किं नु करवै?

1.23.46

[शिखरिणी]
[54] तद् एवम् अत्रादर-ज्ञापनया ज्ञात्वाप्य् अज्ञान-विज्ञापनया च स्वेषूपेक्षापेक्षयोर् एकतरतया तद्-अभिप्रायं प्रायशो बोद्धुम् असमर्थासु तासु तत एवानभिव्यक्त-किञ्चिद्-अर्थासु पुनः स-नर्म च तथा वाचं प्राह-
पृच्छतोऽ पि पुरतो मम भव्यं
मौनम् एव कुरुथ प्रतिगीर् यत् ।
तद्-भवद्-व्रज-गृहे गृह-भाजां
किं निरामयम् अथ प्रतिभाति?

1.23.47

[स्वागता]
[55] ततश् च मिथः स-स्मित-निरीक्षितासु तासु पुनर् उवाच-
तद् इदं दुरभिप्रायं
बोद्धुं बह्वदीयम् अस्मि न समर्थः ।
स्वयम् इह यूयं तस्मात्
कथयत सङ्कोचम् उद्धूय

1.23.48

[56] पुनर् अतीव सङ्कचतीर् निरीक्ष्य योजनाविशेष-श्लेषमयतयापि तथा प्रथयामास-
अथ न भवति कार्यं ब्रूथ तन् नेति बुद्धं
व्रजम् अनु चल-चित्ता यात नाध्वं मयात्र ।
वनम् इदम् ऐत्घोरं रात्रिर् अत्रातिघोरा
स्वयम् अतिशयि-घोर-प्राणि-वृन्दैः परीताः

1.23.49

[57] अत्र नाध्वम् इति न यातेति वा योजना । पुनस् तद् एव श्लेषयितुं सोपान-विशेषं चकार-न चेदृशी स्वैरता भवादृशीनां सदृशी भवति यतः मातापितर-प्रमुखाः सहजाः पतयश् च वः सन्ति इति ।
[58] पुनः स-हासम् आह स्म-श्रूयन्तेऽ पि तनूजाः इति ।
[59] अत्र कथकश् चिन्तयामास-वृन्दा-पौर्णमासी-संवाद-गत-सिद्धान्तानुसारि-धिया-
सिषेव आत्मन्य् अवरुद्ध-सौरतः
सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [भ्प् 10.33.25]
इत्य् अनेन प्रतिपन्नस्य तत्रकीय-रसस्यालम्बन-वैरूप्याद् वैरस्यापन्नता-भिया च तद् इदं परिहसितम् एवेति विद्वन्-मततया व्यक्तीकरिष्यामि इति ।
[60] अथ तद् एव स्पष्टम् आचष्ट-[61] तद् एवं ताभिः सह रन्तुं कृत-वंशी-ध्वनिः स तु सरसानां शिरोमणिर् यद्यपॣ तासाम् उत्पत्तित एव स्व-मात्र-सात्कृत-पति-भावानाम् अन्यत्र पतिर् इति प्रतीतिर् लोक-संवदन-वशंवदता-मात्र-मयी केवल-स्व-सङ्गम-कामना-व्रतश् चापराङ्ग-सङ्गम-रूप-विरूपता-निर्जयीति विशदम् अर्थं तासु स्वीय-कान्ता-भाव-समुत्पत्त्य्-अन्यथानुपपत्त्या सम्भावितवान् ।
[62] यद्यपि च तासाम् अजात-पुत्राणाम् अपि देवरं-मन्य-पुत्रादिषु पुत्रता-व्यवहारः केवलं सन्निहित-बालक-विषयक-वत्सलता-स्वभावाकारस् तत्-सम्बन्धाभिमानस् तु बहिर् एवाचार इत्य् आप्त-वचनान् निर्धारितवांस् तथापि तत्-तद्-उल्लेखन-कर्मणा नर्म-मात्रम् आचरितवान् । तद् आचर्य च तद्-बन्धूनाम् अन्धायमानानाम् अपि तद्-अन्वेषण-निर्बन्धाद् भयं विचार्य सामर्षम् इव विवक्षितम् उवाच-कथम् इह तत्-तद्-भयं कुरुथ इति । अत्र च षष्ठी पञ्चमी वा समस्यते ।
[63] किं चात्र खण्डम् अखण्डं च पद्यं यथायथम् अनूढा ऊढाभासाश् च ता दृष्ट्वाचष्टेति गम्यते । तत्रानूढाः प्रति सहजा इत्य् अन्तम् । ऊढाभासाः प्रतिश्रूयन्तेऽ पि तनूजा इत्य् अन्तम् । अखण्डं तु सर्वाः प्रतीति ज्ञेयम् ।
[64] पुनश् चार्थ-ध्वनि-संवलनया चित्तम् आन्दोलयामास-
दृष्टं यद्-वनम् अत्य् अपूर्व-कुसुमैर् दिव्यर्तुना पूजितं
द्योतैश् चर्चितम् इन्दुना यमुनया चात्मानिलैर् नर्तितम् ।
सामग्रीयम् उदेति देव-निचितास्माकं विहार-क्रमे
तस्माद् एतद् अभावतस् तु व इह स्तव्या न वास्तव्यता

1.23.50

किन्तु-
दिष्टेनाप्ते तत्र गत्वा स्व-गोष्ठे
कष्टेनापि स्वीय-धर्मं कुरुध्वम् ।
पत्युर् भक्तिर् बाल-वत्सादि-पाल्य-
व्यक्तीनां यः पालनादिश् च दिष्टः

1.23.51

[65] ततः कष्ट-साध्यं तं धर्मं बाध्यमानं विधायात्राविकल-सर्व-धर्म-फले मम सुख-विहार-स्थले प्रविशत । [66] अन्यथा पुनर् उद्यद्-विधु-वनम् इदं भवतीनां विधुवनाय सम्पत्स्यत इति याच्ञा-पक्षाभिप्रायः ।
[67] पुनः स विमर्शम् इव प्रोवाच-
अहम् अहह न बुध्ये स्मेति पूर्वं प्रलापं
चकर तद् इह यूयं तद् विचार्य क्षमध्वम् ।
रति-विसर-विलासैर् यन्त्रणाद् आगता यस्
तद्-उचितम् अखिलं यत् स्निग्धता मय्य् उपैति

1.23.52

तद् अपि न यद्वद् विरहे प्रीतिस् तद्वन् न सान्निध्ये
भवति ततो गृह-यानं भवतीनाम् औचितीं चिनुते

1.23.53

[68] अत्र च प्रीति-विषयाद् दूरे स्थितिर् न युक्तेति विरोधि-लक्षणया याच्ञापक्षः सङ्गम्यते । ततश् च-
पूर्वं यच् चिरतः स्पृहावलनया संक्प्तम् आसीत् पुनर्
वंश्याकारणया बलाद् उपचितं तद् भग्नम् उच्चैर् यतः ।
तच् छ्रुत्वा दयिताद् व्यलीक-वचनं बाढं न निश्चिक्यिरे
किं न स्मः किम् उ वा स्म इत्य् अॡ तदा गोपाल-वाम-भ्रुवः

1.23.54

तद् आसां निश्चलाङ्गीनां काञ्चीनाम् अपि राजयः ।
समं समन्ततः क्लेशात् तूष्णीकाम् एव सङ्गताः

1.23.55

ततश् च-
बाष्प-व्याजाद् आसां प्रिय-कृत-परिहृति-समूढ-सन्तापः ।
मन्ये हृदयाम्भोरुह-निवहः स्वरसान् मुहुश् च सुस्राव

1.23.56

[69] अत्र चैवं विचारयामासुः-
प्राणांस् त्यजाम दयितस्य पदे लुठाम
कुप्याम तत्र विनिवृत्य गृहं व्रजाम ।
कृष्णां विशाम च न वा कठिनायमानम्
एतं स्वभालम् अभिहत्य निचाययाम

1.23.57

[70] तत्र तु-
शिरः-पीडा बाष्प-व्यथित-गलता हृद्-गत-महा-
प्रकम्पः प्रत्यङ्ग-स्खलनम् इति नाना-विकृतयः ।
प्रिये रूक्षे जाता दलयितुम् अमूर् आववृतिरे
परं तद्-वक्त्रान्तः-प्रसदनम् अगात् पालयितृताम्

1.23.58

मसी-वलित-दृग्-जल-स्रव-तमोभिर् आराद् उरः-
स्थलं वलित-कुङ्कुम-प्रचिति-सन्ध्यम् आवृण्वतीः ।
अवाङ्-मुख-विधुर् वधूः सपदि पौर्णमासी-शशि-
स्फुरन् निशि च तामसीर् इव चचाय तस्मिन् हरिः

1.23.59

[71] ततश् च किञ्चिद् अमर्षे सति-
श्वास-दीर्ण-मधुराधर-श्रियः
कोमलाङ्घ्रिअ-दल-कीर्ण-भूमयः ।
हन्त कान्तम् अपि तं नत-भ्रुवो
विव्यधुर् नयन-सायकास्रिभिः

1.23.60

[72] तद् एवं क्षोभे सति दाडिमाद् अन्तः-सक्त-रक्त-बीजानाम् इव निजानां भावानां हृदयान् निष्कुलाकृतिः स्वयम् एव जाता, तथापि वैदग्धी-दिग्धतया प्रिय-गीर्वद् एव सन्दिग्धम् ऊचुः । यद् अद्यापि गायन्ति-
इयम् इव मा कुरु पुनर् अतिवादम् ।
भक्त-जनान् भज मुहुर् इतरांस् त्यज
विभुर् इव रहित-विवादम् ॥ध्रुवम्॥
पति-पुत्रादिक-भजनम् इहाधिकम् इति यं वदसि विचारम् ।
स त्वय्य् एव हि तिष्ठतु न तु बहिर् इति विमृशामः सारम्

1.23.61

अनयोर् अर्थ-श्लेषोऽ यम् उभयम् एव पक्षं विशेषयति ।
अथ धव-सुत-मुख-गणतस् तव सुखम् अस्ति सतां हृदि यातम् ।
तद् अपि च न हि भवद्-अनुसरणं भवद्-इच्छति युवती-जातम्

1.23.62

अत्र सन्दिग्ध-काकु-पदं नहीति पदं तद्-इच्छा-निर्धारणे, यद् वा निषेधे-
स्वाम् आशाम् अनुवर्धय वर-तनु-ततिर् इह लभतां शातम् ।
सततानश्वर-वर वरदेश्वर न वितनु वितनूत्पातम्

1.23.63

अत्रानुवर्धयेति समेधने छेदने वा-
गृह-कर्माण्य् अनुचित्तं सुख-तनु भवता नह्य् अपिनद्धम् ।
चरणौ प्रचलत इह न च वलतः प्रतिगमनं किल बद्धम्

1.23.64

अत्र सुख-तन्व् इति भवतेत्य् अस्य चित्तम् इत्य् अस्य वा विशेषणम् । अपिनद्धम् इति बन्धनाभावे बन्धने वा न चेति पूर्व-नहि-वत् । किलेति निश्चयेऽ नृते वा ।
स्वभव-ताप-भरम् अमृत-धराधर-रस-झरतः स्वत एव ।
नाशय यदि न हि मादृशम् अपि स हि सङ्क्रमिता सखिदेव

1.23.65

अत्र स्वभवेति कामे स्वजाते वा । मादृशम् इत्य् अस्मत्-सदृशे वा जनेऽ स्मद्-अर्थे वा ।
लक्ष्मी-सुख-ददम् अपि भवतः पदम् अहह पुलिन्दी-भव्यम् ।
स्पृष्टं यद्-अवधि दृष्टं तद्-अवधि सर्वं जगद्-अपसव्यम्

1.23.66

अत्रापसव्यं प्रतिकूलम् इत्य् उभय-पक्षेऽ पि समञ्जसम् । आक्षेप-पक्षे पुन्लिन्दी-भव्यम् इति नीच-गामित्वं व्यज्यते-
लक्षीर् व्रजम् अनु तुलसी-वनम् अनु भवद्-उदय-स्फुरद्-उदया ।
दृश्यत इति तव पद-धूल्याप्लवम् इच्छत्य् अपि पति-हृदया

1.23.67

यस्या वीक्षणम् अपि वलित-क्षण-पार्षद-वृन्द-निधानम् ।
तद्वद् वयम् अपि हृदि वाञ्छाम् अपि नह्यामः सवितानम्

1.23.68

अत्रापि-शब्दः समुच्चये पूर्ववत् काक्वा निषेधे वा ।
तत्त्वं सुकृपय कृत-वृजिनात्यय तव याश् चरणे रक्ताः ।
ता भवतः स्मित-वीक्षण-विस्मित-चित्ताः कुरु निज-भक्ताः

1.23.69

इदम् उभयत्र च योग्यम् ।
अलकावृत-मुख कुण्डल-धृत-सुख हसित-विभूषित-नेत्र ।
दत्ताभय-भुज-वक्षः-श्री-युज दास्यो वयम् अपि तेऽ त्र

1.23.70

अत्र चापिः पूर्ववत् ।
तव मुरली-कलम् अपि च रूप-बलम् अनुभूयाभवद् एव ।
द्रुम-कुलम् अपि पुलकाङ्कुर-सङ्कुलम् इह का नारी देव

1.23.71

अत्र केति कौमुत्ये निषेधे वा-
व्यक्तं व्रज-भय-हर-लीला-चय देवस् त्वम् असि स कोऽ पि ।
तन् नो निज-करम् अपि शिरसि च धर दासीनां भ्रमतोऽ पि

1.23.72

[73] तद् एवं स्थिते-
तथा विलाप-तापेन न तासां विव्यथे हरिः ।
यथा राधा प्रेङ्खित-भ्रू-धनुर् इङ्खि-दृग्-आशुगैः

1.23.73

अथ व्यथित-मानसः प्रथित-भाव-कारुण्यतः
प्रहस्य मुदिताननः स्वक-रहस्यम् उल्लासयन् ।
प्रतिस्वम् अनयत् प्रिया द्रुत-मतिः स्व-पार्श्वं बली
बलाद् अपि बलानुजो वलयति स्म लीलां प्रति

1.23.74

आमृशन्न् अङ्गुलीः पाणिं प्रकोष्ठं बाहुम् अप्य् अथ ।
तासां हरि-करस् तृप्तिं नागान्धनम् इवाधनः

1.23.75

यद् अपि च राधा तासु स्वम् अभिजुगोपायुतादि-सङ्ख्यासु ।
तद् अपि च हरिणा स्पष्टं दृष्टा तारासु चन्द्रलेखेव

1.23.76

राधा यर्हि स्वकर-स्पृष्टा जाता मुरारातेः ।
अतिविस्मितये जज्ञे तर्हि च सा तत्र चन्द्रलेखेव

1.23.77

गोप्यः कृष्णं तत्र कृष्णश् च राधाम्
आश्लिषोच्चैर् आव्रजन् नर्म-शर्म ।
भाव-श्रेण्यः स्थायि-भावं स्वभावो
यद्वत् पुण्याद् वासनां पूर्व-लब्धाम्

1.23.78

[74] तत्र काश्चिद् भूरुर् इव निभाल्य वन-माल्यः परीहासतः परस्परम् ऊचुः-
जलदे विलसति विद्युद् बिभ्यति हृदयानि भीरूणाम् ।
किं परिहससि सखि त्वं किं न हि पश्यसि पुरश् चित्रम्

1.23.79

आत्मारामा अप्य् अहो यस्य गन्धाद्
ब्रह्मानन्दं बाढम् आच्चादयन्ति ।
पूर्णानन्दः स स्वयं हन्त ताभिः
स्वानन्दाय क्रीडनाय प्रयेते

1.23.80

[75] अथ समापनम्-
ईदृग् अप्ययि राधे यस् तासां मुख-निरीक्षकः ।
त्वद्-उत्कर्ष-रसायासीद् इव तासु परीक्षकः

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc