गोपालचम्पू · अध्याय 1.22
[अनु]
इति श्री-श्री-गोपाल-चम्पूम् अनु
कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणं नाम
एकविंशं पूरणम्
॥21॥
(22)
अथ द्वाविंशं पूरणम्
यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिः
[1] अथ प्रभात-कथायां प्रभात-प्रथायां मधुकण्ठः स्फुरद्-उत्कण्ठस् तल्-लीलान्तरं शंसन् शंसद्-उपलब्धं कर्तुम् आरब्धवान् ।
[2] तत्र श्री-दशम-स्कन्ध-प्रबन्ध-सङ्गमन-मङ्गलाचरण-पूर्वकं तत्-कथनम्, यथा-
गत्वा काम्यकम् अद्रि-धातु-रुचिमुक् कुर्वन् व्रजं दक्षिणं
घर्मर्तौ धवलानिखव्रशततृड्-निर्जिष्णु-कृष्णां व्रजन् ।
वृक्षान् सुष्ठु पथि स्तुवन् धवलया पीतां च कृष्णां पिबन्
क्षुद्-व्याजाद् अधियज्ञ-पत्नि-करुणा-कारी हरिः पातु वः
तथा हि-
अथ गोपैः परिवृतो यशोदानन्द-नन्दनः ।
वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः
निदाघार्कातपे तिग्मे च्छायाभिः स्वाभिरात्मनः ।
आतपत्रायितान् वीक्ष्य द्रुमान् मित्राण्य् अभाषत
[भ्प् 10.22.29-30]
[3] तत्र च मेघ-निर्घोष-निभ-गम्भीरता-सम्भृत-मधुर-स्वरत एव हर्षम् उत्कर्षयन् मित्र-मुख्यान् प्रत्येकं रचिताभिमुख्यांश् चकार । यथा-
हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
विशाल र्षभ तेजस्विन् देवप्रस्थ वरूथप ॥[भ्प् 10.22.31]
[4] तत एव च तान् अमृत-कृताभिषेकान् इव कृत्वा स-कौतुकम् उवाच-मां सुखयन्तु एवाभिमुखतस् एते तरवो विराजन्ते, तस्माद् भवद्भिर् विलोक्य पृथक् पृथग् उपश्लोक्यन्ताम् ।
[5] सर्वे विहस्य प्रोचुः-भवान् एवास्मासु विस्मायकतया कवि-मण्डलाखण्डल-गण्ड-मण्डनम् अस्ति । तस्माद् आत्मनैव वर्णयतु ।
[6] कृष्णः स-स्मितम् उवाच-श्रूयतां नाम-
एतेनाङ्गत एव किन्तु गुणतोऽ प्य् अद्धा महान्तो मता
यत् तापादि-निवारणैः स्व-वपुषो जीवानवन्तः स्थिताः ।
एषाम् एव च जन्म यत् तु फलवद् दृश्येत तच् चेत्थम् अप्य्
ऊहध्वं यद् अशेष-जीवनतया राजन्त्य् अमी सर्वतः
किं च-
फलैः पुष्पैश् छाया-च्छदन-समिद्-आद्यैश् च तरवः
स्वभावाद् विश्वेषाम् उपकृति-विधा धन्य-तनवः ।
नराः कर्ह्य् अप्य् एके विधि-वशतया तत्-कृति-कृतस्
ततो भक्ताः पूर्वे सुकृतम् अनु भाक्ताः किल परे
[7] अत्र वृन्दावन-वास्तव्यता पुनर् एषां स्तव्यताम् अप्य् अतिक्रामति इति गूढम् अभिमतम् ।
[8] सर्वे स-स्मितम् ऊचुः-कवि-चक्र-चक्रवर्तिना भवता न किं वा सुप्रशस्तङ्करं भविता, ततो यद् एव योजयिष्यते, तद् एव विजेष्यते । तथा हि-
वाचो-युक्ति-पटुर् यत्र त्वं वदावदतां गतः ।
वाचस्पतिश् च तत्र स्यान् न वाचः-पतिर् अण्व् अपि
[9] कृष्णोऽ पि स-स्मितम् उवाच-भवतु, कदाचिद् एतद् अप्य् अनुभविष्यथ इति नाना-सुख-वितरकर-पुरुह-भूरुहाणां वन्यया मिहिर-कन्या-तीरम् उदन्यया मुदा जगाम । तत्र च-
व्यज्जन्न् अङ्घ्रिप-शंसन-स्ववचनं यज्ञाङ्गनानुग्रहं
चात्मीयागमि भोज्य-वर्त्म स यदा सन्त्यज्य कृष्णां गतः ।
तर्हि स्वच्छतरा हिमाः शुभ-कराः स्वादूर् अपः पीतवान्
अघ्न्यानां निकरस् ततः स्वयम् अपुर् गोपालकास् तन्-मुखाः
[10] ततश् च विदूरं समुज्झितातलिन-फलिनतर-तरु-व्रजस्य व्रज-राज्ञी-प्रहित-माध्याह्निक-भोज्य-सम्पत्ति-वियोज्यता-भाग्-उपसत्तिकस्य कृष्णस्य तत्-तृष्णतां वितर्क्य तद्-भाव-भाविततया स्वयम् अप्य् अतीव तत्-तृष्णा-भाजः स्तोककृष्णादयस् तद्-अभाव-भावना अपि प्रणय-मय-पर्युत्सुकतया व्यञ्जित-तत्-कृत-भोजन-वर्त्म-वञ्चनाः कराञ्चल-चालन-पूर्वकं तद्-याच्ञाम् अकुर्वत-
राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण ।
इतोऽ विदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥[भ्प् 10.23.1]
[11] कृष्णस् तु स-स्मितम् उवाच-अत्रालोक-पथाशोक-वनिकायाम् अनशनीय-प्रसवायाम् अशनायन्तस् ते भवन्तः कुत्र वा प्सातव्यं लप्स्यन्ते ?
[12] आर्तिश् चेद् वरिवर्ति, तर्हि निकटाम् अपि कुटिलया सूरतनया-घटनया दूरायमाणाम् इतस् तु दक्षिणाहि या शूरसेन-पुरी, ताम् उत्तरेण निरवज्ञं यज्ञ-शाला-मालाम् आलोकयन्त एवानेन सम्यग् उपतिष्ठमानेन पथा प्रतिष्ठध्वम् । गत्वा च तान् कार्मान् कर्मठाचार्यतमस्य मम च नाम्ना याचध्वम् । किन्तु भिक्षाकाणां तितिक्षा-मात्रम् उचितम् इति शिक्षा मनसि कार्या ।
[13] अथ तेऽ पि केऽ पि संवलिताश् चलिताः । स्वयम् अयं तु तदीय-गत्यागति-दृष्ट्य्-अर्थम् उपनदं महा-कुट्टिमम् अधितष्ठौ । ततश् च-
सौरभ्यं धूम-धारा यजुर्-अनुपठनं शुभ्र-शाला द्विजानां
गत्यागत्यादि-चेष्टाः शुभ-युत-हुतभुग्-वेदि-भाग्-ऋत्विजश् च ।
गत्वा नत्वाप्य् अभीक्ष्णं पुटित-करतया नादरेऽ प्य् अस्थुर् एते
यस्माद् ब्रह्मण्य-देव-स्वतुलित-सुहृदः किन्त्व् इदं मां दुनोति
[14] ततश् च तान् प्रकृति-श्लेषेण केनाप्य् आकृति-विश्लेषेण वेषेण च गोपान् ज्ञात्वा विप्रता-गर्व-पर्वतम् आरूढास् ते तु व्यूढ-बहुल-स्थल-दृष्टयस् तिष्ठन्ति स्म । तथापि सखायस् ते कृष्णस्य बुभुक्षा-सुक्षामतां साक्षाद् इवानुभूय दूयमान-मनसः स्वयम् एव निवेदयामासुः । यतः-
हुं फट् श्रौषड्-वौषड् इत्य् एवम् आद्याः
शब्दाः यस्मिन् न क्वचित् कृष्ण-मुख्याः ।
तस्मिंस् तेषां किं रुचिः स्यात् परन्तु
श्री-कृष्णार्थं किं न ते मानयन्ति
[15] अथ निवेदनं चेदम्--भो भो भूमि-देवाः ! किञ्चिद् एवावधानं विधीयताम् । राम-रामानुजौ खलु परम-प्रभाव-युजौ श्रुतवद्भिर् भवद्भिर् अवधारिताव् एव स्तः । तौ चात्र भवद्-विधानां सन्निधानम् एव धेनु-सेवनानुरोधाद् आगतवन्तौ । किन्त्व् अद्य सद्य एवानवद्य-क्रीडा-मय-शूरता-कौतुक-पुरतस् तत इतः सङ्गत्यासन्नापि प्रत्यासन्नापि श्री-गोपाधिभू-सदन-भूर् विदूरायमाणास्माकं भाति स्म । गृह-लोकेन च न तथालोचयाम्बभूविमहे । तत एव साक्षाल्-लक्ष्मी-पति-गृहायमाण-गृहाद् भोजन-संयोजनं विना क्रीडा-युधि च क्षुधिताव् अभूताम् । ततश् च कुल-परम्परा-प्राप्त-व्यवहारं पर्यायतया पितृ-पर्यायतया भवत्सु सङ्कोचम् अपर्यालोचमानौ पितृ-भवनाद् इव भवदीय-सवनाद् अन्नं याचितम् अकुर्वाताम्
इति ।
[16] अथ तथापि मनस्य् अभक्ति-रसिकता-वशिकतया तद् असत्-कृत्य तुष्णीम्-भुष्णुषु तेष्व् अन्तर्-वाणिं-मन्येषु तादृग्-अधन्येषु पुनर् अमी मनसि मीमांसयामासुः-[17] नूनम् अस्मान् एते मूढान् मत्वा गूढानुभासणा बभूवुस् तस्माद् गत्य्-अन्तर-रचन-निषिद्ध-भावाय सिद्धान्ततश् चामीषां सुष्ठु मौन-बिद्धान्तस्तां कुर्म इति । [18] अथ स्पष्टं पुनर् ऊचुः-
दीक्षाद्य्-अग्नीषोम-पश्वङ्ग-होम-
प्रान्तं विज्ञैर् याज्ञिकान्नं न भोज्यम् ।
सौत्रामण्यां सर्वदा नेति विप्रास्
ताभ्याम् अन्यत्रास्ति तद् ग्राह्यम् एव
इति ।
[19] तत्र-भवद्-भवद्-अनुष्ठान-दृष्टित एवास्माभिस् तद्-अवसरः स्फुटं निष्टङ्कित इति भावः ।
[20] तद् एवं भिक्षा-निष्ठानाम् इव तस्मिन्न् उपतिष्ठमानानाम् अपि शास्त्रार्थं नयमानानां तद् अवधार्य ते वार्याचार्या मनसि पर्यालोचयामासुः-हन्त ! ब्राह्मणा एवास्माकम् एतान् ब्रह्म-विचारम् अपि विशिष्टतया लोभाद् अनुशिष्टवन्तः सन्ति । येन तत्रापि कृत-मुखतया मुखरताम् आपन्नाः । भवतु, तथाप्य् एते परमेभ्ययोपलभ्यमानाः किञ्चिद् दान-रूपम् अवदानं विना प्रत्युतादानाय परम् अत्रागताः । अहो ! कलि-प्रवेश-देशस्य देश-रूपम् इदम् ।
[21] किं च, केचिच् च विपश्चितस् तयोर् ईश्वरताम् आरोपयन्ति । तर्हि बत गर्हितं क्षुधादिकं कथम् एतावर्हतः ?
[22] तद् एतद् विभाव्य दुर्भाव-भावतया तथा स्थितेषु बहु-पचनतायाम् अपि मितम्पचेषु द्विर्जाततायाम् अपि यथा-जातेषु याज्ञिक-कितवतां यातेषु तेषु याच्ञायां वदनानता-कदनतः परस्परम् ईक्षित्वा मन्दं मन्दं मन्दाक्ष-मन्दतया श्री-गोविन्दम् एव ते विन्दते स्म ।
[23] गोविन्दश् च तांस् तथाविधान् नेत्र-पथान् विधाय मनोहतान् विज्ञाय च हसति स्म-एहि मन्यामहे, याज्ञिकेभ्यः स्व-लभ्यम् अभ्याददिध्वे यथा वृक्षेभ्यः इति ।
[24] तेऽ पि स-स्मितम् ऊचुः-तत् तु भवन्त एव जानन्ति, वयम् अपि यत्-प्रेरण-समीरण-विकीर्ण-मनसो जाताः ।
[25] कृष्णस् त्व् अन्तर् यज्ञ-पत्नीनां स्वावलोक-प्रयत्नानां सञ्जानंस् तत्र चावश्य-लाभं प्रतिजानानः प्रहस्य प्रोवाच-आ एवं मन्यध्वे तर्हि भद्रम् । मया तु पत्रिणाम् एषां सत्रिणां च तेषां तारतम्यावधारणार्थम् एव तत्र-भवन्तः प्रस्थापिताः । ततश् च-
अमानिनां यथा धर्मः स्थितस् तद्वन् न मानिनाम् ।
अद्यापि चेन् न प्रतीथ द्राक् तत्-पत्नीः प्रतीत च
[26] भवन्ति च भवन्त इव यज्ञ-पत्नी-जना मत्-प्रेम-मात्र-सयत्न-धनाः । ये खलु धृत-मद-नव-लोक-धर्मं द्व्यह-तर्षं जलं पिबन्ति, त्र्य्-अहात्यासं द्वित्र-ग्रासं भुञ्जते ।
[27] सर्वे स-वैलक्ष्यम् आचक्षत-हन्त सत्यम् एवेदम् ।
[28] कृष्ण उवाच-बाढम् ।
[29] सर्वे साश्चर्यम् ऊचुः-तर्हि कुतुकम् इदं विदाङ्कर्वाम ।
[30] इति कृष्णोद्यम् अनु सोद्यमतया तत्र तन्-निमेषत एव जिगमिषत्सु तेषु स-प्रणयवत्सु कृष्णः स-तृष्णम् उवाच-अन्नं च तत्र श्रीमद्-आर्यादि-सहित-मद्-अर्थम् अर्थयध्वम् ।
[31] अथ पुनर् अतीव कौतुक-द्रवतः परस्परम् अतीत्य द्रवनः पत्नी-शालायां द्विज-पत्नीर् विलोकयामासुस् ताभिर् विलोकयामासिरे च, कृष्णात् प्रति च इति च निश्च्क्यिरे ।
[32] विलोकनात् पूर्व-क्रमस् तु यथा-
सा कापि ध्वनि-माधुरी-स्वर-कला-राग-वल्ल-वल्गुता
वर्ण-न्यास-शुभंयुता कवि-जन-स्तव्यार्थ-चित्र-प्रथा ।
कंसारेर् गुण-रूप-केलि-कलना बाष्पादिभिः सार्द्रता
यज्ञ-स्त्री-कलिता क्रमाद् इह सखीन् आर्द्रान् अकार्षीन् मुहुः
[33] ततश् च ताः-
गवाध्व-सम्बन्ध-निबन्ध-वस्त्रवान्
प्रशस्त-वेत्रान् मुरली-पुरस्कृतान् ।
पिञ्छावतंसान् अवतंस-सुन्दरान्
विलोक्य कृष्णागम् अप्य् अमंसत
ततश् च यत् कृष्ण-समागमं ते
व्यजिज्ञपन् विज्ञ-वराः प्रणम्य ।
तास् तद् द्विरुक्तायितम् अप्य् अपूर्वं
पूर्वं च मत्वा न विदुः स्म कृत्यम्
यस्याजस्र-दिदृक्षया विदलित-प्रायाः सदामूः स्थितास्
तस्य प्राण-सुहृद्-वराः स्वयम् अमी तत्-प्रेरणाद् आगताः ।
तत्-सम्प्राप्तिम् अवादिषुः पुनर् अदः प्रार्थ्यं च किञ्चित् तद् अप्य्
अन्नं तत्र कथं कथं कथय ताः प्राप्स्यन्ति धैर्य-स्थितिम्
ततश् च-
योग्यम् अत्र किम् अयोग्यम् इत्य् अमू-
नेयभोज्य-विवृताव् अनिर्णयाः ।
तत्-तदीयम् अखिलं च भाजनं
क्षिप्रम् आददत विप्र-सुभ्रुवः
अथ पुरस्कृत-गोप-सुतायुता
विविध-भोजन-भाजन-मस्तकाः ।
प्रतिपद-क्रमणं कियद् अग्रतः
स इति तर्षि-गिरः परिचक्रमुः
आमोदः कान्ति-पूरः सुखददपदता गर्जद् ऊर्जस्वि-भाषा
विद्युद् विद्युद्-घन-श्रीः स्मित-वदन-विधु-द्योत-लक्ष्मी-प्रचारः ।
आयान्त्व् इत्य् उक्ति-हस्त-प्रथन-मधुरिमा यत्-क्रमाद् आविरासीत्
कंसारातेस् तद् आसां प्रतिपदम् उदभूद् बाढम् आकर्षणाय
यामुने समम् अशोक-कानने
गोपकैः स विहरन् मुदान्वितः ।
ऐक्षि भूसुर-वधूभिर् ईक्ष्यतां
ध्यानम् एव गतम् इत्य् अमानि च
यत्र भूसुर-भार्यास् तं सुर-भाव्य-पदं ययुः ।
अशोक-काननं तत् तु बभूवाशोक-काननम्
[34] ततश् च ताः सपुलक-पुलकतया तम् अवलोकयामासुः ।
[35] तथा हि लोकानां गीतम्-
कृष्णम् अपश्यन् पीत-दुकूलम् ।
बिभ्रतम् अर्चिततमम् अर्चिर् नव-घन-चपलारुचि-मूलम् ॥ध्रुवम्॥अ॥
शिरसि शिखण्डावलिम् उरसि स्रजम् अपि दधतं गिरि-धातुम् ।
इन्द्रधनुर् युग-मध्य-मधुरतर-सन्ध्यां धुर्वम् अतियातुम् ॥ब्॥
उदयद्-अरुण-दर-किरणं तम इव विरचित-चिरतर-शोभम् ।
नव-किसलय-दल-वलितं कच-कुलम् अनु कलिताखिल-लोभम् ॥च्॥
भालोपरि-मिलद्-अलक-ततिं श्रुति-कुमुदम् उदञ्चि कपोलम् ।
स्मित-मुखम् उपमित-लक्षण-तारा-युग-धर-शशदर-गोलम् ॥द्॥
कृत-नट-वेष-विशेष-विलक्षण-लक्षण-क्षणम् उपचित-रूपम् ।
कर्तुम् इवामृत-वृष्टिम् उदितम् इह कञ्चन जलधर-भूपम् ॥ए॥
चित्रं तत्र च मित्र-स्कन्धार्पित-बन्धावर-हस्तम् ।
निर्मल-कमल-विधूनन-दक्षिण-दक्षिण-कर-रुचि-शस्तम् ॥f
इति ।
श्रुत्वा शश्वत् स्फुटम् अहह यं द्रष्टुम् आशा निबद्धा
स द्राग् ऐक्षि स्वयम् इति गतस् तत्-कृतस् ताप-वर्गः ।
यः कश्चिद् वा व्यवहिततया तस्य लेशस् तु शिष्टः
सोऽ प्य् आवेशान् मिलन-तुलितात् तासु न स्फूर्तिम् आप
[36] अथ भोजन-भाजनानि शिरस्तः-कृत्य स्थितासु तासु सकल-भाव-विचक्सणः स्मितावलोक-लक्षण-स्वमुख-माधुर्य-धुर्यः सुविचार्य यस्य कृते प्रयस्यन्ति स्म, तास् तद् एतद् अवधार्य तासां वाञ्छितं किञ्चिद् अञ्चयन् वञ्चयंश् च काञ्चन-वसनः काञ्चन वाचम् उवाच-स्वागतं वो महाभागाः [भ्प् 10.23.25] इति प्रायश् चायम्म् अस्याभिप्रायः-
अहो बत महाभागा युष्माकं भूरि-भारता ।
जाता सङ्कोचयत्य् अस्मान् पृच्छध्वे स्वागतं ततः
इति ।
[37] तद् एवम् एहि-स्वागतां क्रियाम् आचर्य तत्-प्रत्युत्तर-सङ्कथने तासां सङ्कोचं विचार्य पुनर् उवाच आस्यताम् इति ।
[38] अस्य चायम् अभिप्रायः-
स्वागत-पृच्छादिकम् अपि
विश्रम-कार्यं विलम्बितं तनुते ।
तस्मात् तत्-परिपाटीम्
अजहां भवतीभिर् आस्यताम् एव
इति ।
[39] ततश् च प्रणय-प्रणेयतया विख्यातः सोऽ यम् आसाम् असङ्कोचाय स्वयं भारम् अवतारयन्न् एव समुपविशन्न् एव च ताः सदेश एव समुपवेशयामास ।
[40] पुनर् उवाच च-करवाम किं इति ।
[41] अत्र चेदं निवेदनम् इव विभावितवान्-
अस्मान् यम् उपकर्तुं वाञ्छति
तद्-ऋते स तु सङ्कुचन्न् आस्ते ।
इति सङ्कुचितात्मानः स्वयम्
अनुजानन्तु तत् तु भू-देव्यः
[42] अथ तासाम् आत्म-दर्शन-मात्र-वाञ्छा-विमर्शन-पूर्वम् उवाच-यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः [भ्प् 10.23.25] इति ।
[43] अत्र चायम् अर्थः-
अस्मद्-दर्शन-मात्रं यद् वोऽ भीष्टं तद् एव युक्तं च ।
तत्र हि हेतुर् यूयं तादृश-सुष्ठु-स्वभावाः स्थ
[44] अथ तस्य स्वभावस्य सुष्ठु-भावत्वं विभावयन् पुनर् उवाच-
मद्-विषया वः प्रीतिः कौशल्याद् एव नान्यतः सचते ।
यन् मयि कुशलाः सर्वे वीक्ष्यन्ते प्रीति-कर्तारः
[45] तत्र कुशलानां कैमुत्यं प्रत्यायन्न् उवाच-
पश्याम्य् अहम् इह सर्वं
मत्-प्रेमांशाद् अशेषग-प्रीतिम् ।
निरुपधि यन् मयि जन्तुः
प्रीणात्य् अन्यत्र सोपाधि
[46] तद् एवं साधारणतावधारणं तथा सन्निधान-स्थिति-विधानम् उपसीदत् प्रत्याचक्षाणः प्राह स्म-
सर्वत्र तु मत्-स्फूर्तिर् न भवति बत सर्वदेति पूर्तिर् नः ।
भवतीर् अनु सा नित्या यैव च मत्-सन्निधान-रूपैव
तस्मात् पति-सुत-वलितं निलयं त्वरया प्रयात ता यूयम् ।
मम च ततः सुखम् उच्चैः सामञ्जस्यं हि सर्वतो वश्मि
[47] तद् एवं व्रजदेव-कुमारतः श्रुतं सुकुमारम् अपीदं वचनम् आपात-सम्पात-हीनतया दुःसह-रचनं मन्यमानाः प्रतिवचनम् आचेरुः-
एतत्-प्रकारम् अपि नार्हसि वक्तुम् ईश
प्राहुर् भवान् इव भवान् इति तत् प्रसीद ।
सत्यं कुरुष्व करवाम किम् एवम् अङ्गी-
कारं निजाङ्घ्रि-परिवार-दशां दिशस्व
विहाय सुहृदः परान् व्रज-नरेश-गेहेश्वरी-
पदाम्बुजम् उपाश्रिताः परिचरेम तं त्वा सदा ।
इमां वचन-चातुरीं बत तुरीय-पूर्तिं गताम्
उरीकुरु पुरु-श्रवः श्रवण-मङ्गल श्रीपते
[48] अथ विकचमान-कमल-समान-लोचनः सङ्कोचम् अनयं चालोचमानः सवैनयम् उवाच-
यथा वो बान्धवा नाभ्यसूयेरन् न च मज्जनाः ।
सुरेशाश् चानुमोदेरंस् तथा कुरुत नान्यथा
युष्माकं विप्र-भार्याणां परिचर्यार्थम् आहृतिः ।
केनापि नानुमोद्येत प्रतीक्ष्य समयस् ततः
[49] तद् एवं लोचन-तृष्णास्पदाय च कृष्णाय ताश् चिर-स्थिरतां प्रत्यरोचमानास् तस्य सङ्कोचम् आलोचमानास् तत्र नातिविलम्बमानास् तद्-आज्ञाम् आलम्बमानाः पत्रामत्रादिषु भोज्यं संयोज्य निज-कुप्य-पात्राण्य् आददमानास् तेन सादरं विसर्जमानाः सखिभिर् अनुव्रज्यमाना मुहुः परावृत्य तम् एव विलोकमाना भृशं संवर्धि-कृच्छ्रं कलयमानाः कथं कथम् अपि गृह-गतिं प्रति सचमानाः स्व-वंश-प्रथमानां यशः-प्रथां प्रथयमाना वेश्मान्तः प्रविशन्ति स्म । किन्तु-
यां याम् आशाम् अहह वनितास् ता द्विजानाम् अपश्यन्न्
आशा-पूर्तिं प्रतिपद असाव् आचरत् तासु शीघ्रम् ।
सा हि श्यामं कनक-वसनं वीक्षिताकारम् आसां
वारं वारं दृशि विदधती चित्र-भावं चकार
[50] एवं चिरेण गृहं गृहीतवतीषु तु तासु-
अन्न-पात्राणि पात्राणि रत्नानां वीक्ष्य सक्षणाः ।
गृहाणि च गृहाधीशा न हीशामासुर् ऊहितुम्
[51] अनन्तरं तु-
बाल्य-क्रीडा-कृईत-फलेनानेन मणि-पूरितान् ।
स्व-गृहान् वीक्ष्य ते विप्राः स्व-पत्नी-मतिम् अन्वयुः
[52] ऊचिरे च-
तस्मै विश्व-जनीनाय यास् तद्-भोगीनम् आहरन् ।
ता एवासन्न् आत्मनीना दीनास् तु बत मादृशाः
मा जीवन् यस्य कृष्णाय क्रमते चक्षुर् आदि न ।
म्रियमाणश् च मा यस्य तस्मै तन् न प्रवर्तते
स किञ्जीवः स कुब्रह्मः सुपर्व-हतकश् च सः ।
राजीव-नयनं यस् तु नाजीवनतया भजेत्
अथ कृष्णाय तृष्णां ते दधुर् वृष्णि-पुर-द्विजाः ।
किन्तु धृष्णक् कंस-भिया नाजग्मुः कृष्णम् ईक्षितुम्
एकेन केनचित् पूर्वं भार्यामार्यातिगम् इव ।
निवार्य वार्यतालब्धा वार्यतायाम् इति श्रुतम्
[53] ततश् च तेषाम् उचितम् एव, यतः-
क्षणाद् उच्चैः क्षणान् नीचैर् गति-भाजां कनीयसाम् ।
रेणूनाम् इव कार्माणां विषमा रीतिर् ईक्ष्यते
पूर्वी कृष्णस्य सेवायाम् इष्टी वा तत्र यः सदा ।
अधीती वा भागवते भक्त-पूर्वी स तं भजेत्
[54] तत्र च तैर् भोज्य-मधुरादिभिर् उपयोज्यमानः श्री-कृष्णं मधुमङ्गल उवाच-सुष्ठु मिष्टम् इदं पाकिमतापन्नम् अन्न-जातं याचित कम् अप्य् अमृतायते । नेदृशम् आपम् इत्य् अकम् अमृतं वा । यत् खलु भूमि-स्खलितं सरजसं कणम् अप्य् अभ्यवहर्तुम् ईहामहे । तस्माद् अस्माकम् एव पर्णशालाभ्यर्णे ताः कुटीर् विधाय तिष्ठन्तु, तत्-कृत-मधुर-परिपाक-पाक-शाक-सूप-पूप-पूटीस् तु सवयसो वयम् एव युष्मभ्यम् उष्णाः कोष्णा एव समर्पयिष्यामः । तत्राप्य् आह प्राग्रहरतया प्राग्रहर एव भविष्यामीति स्थिते को वायं दोषः । किन्तु रोष-भिया न वक्तुं शक्ताः स्म ।
[55] कृष्ण उवाच-आद्यून नूनम् उन्मदिष्णुतयापत्र-पिष्णुताम् अप्य् अतिचरिष्णुर् जातोऽ सि ।
[56] अथ सर्वेऽ पि हसन्तः प्रोचुः-प्रिय-वयस्य ! यद्य् अप्य् असौ परान्नतारोचनम् आपन्नस् तर्हि स एष एव तुन्दपरिमृज इव विप्र-सुन्दरीणां तासाम् उपासनां घटयमानस् तद्-बाट-तटगम् उटजम् अधितिष्ठन् सम्भवद् आशितम्भवान् मिष्टम् इष्ट-विघस-भोजनान् निजम् इष्टं रचयतु ।
[57] कृष्ण उवाच-साधूक्तं व्यक्तम् इदं भगवती-विदितं विधास्यामः ।
[58] मधुमङ्गलस् तु स-क्रोधम् इवोवाच-युवराज ! गर्धनतया कुक्षिम्-भरयस् ते एत एव मुहुर् अशनायां स्मरयन्तः सर्वत्र च घस्मरा एव भण्यन्ते, भिक्षायाम् अक्षाम-समुद्यमतया सर्वान्नीनाश् च लक्ष्यन्ते, न तु वयम् ।
[59] सर्वेऽ प्य् ऊचुः-वावदूक ! विप्रतया भवान् एव यायजूकतायां जञ्जपूकताम् आसीदन् पुरोभाशानां दन्दशूकस् तद्-आस्वादाय जागरूकताम् आसादयति । अस्माभिस् तु भवज्-जातेर् द्विजातेः परीक्षैवाचरिता इति ।
[60] तद् एवं हसत्सु सखि-सभासत्सु स्वयम् आशितम्भवेनोदन-सम्भारेण भुक्त्वा सुहितः सर्व-हितः श्रावित-वेणुर् धेनुः प्राप्य तत्-तत्-कथा-कौतुकतस् तद्-अर्थम् अनुगवम् आसादित-दृष्टि-व्रजं श्रीमद्-व्रजम् अवाप्य निज-विरह-दहनं निर्वाप्य स्वक-रूपामृतेनाप्याययामास ।
[61] सखायस् तु याज्ञिकेषु जग्मिवांसो जक्षिवांसश् च वयम् इति सङ्कोचेन न कञ्चिद् अप्य् ऊचिवांसश् च ।
[62] अथ कथकः कथा-समापनम् आह स्म-
मिस्सिन्ग्!
सोऽ यं श्री-गोकुलाधीश कुलाधीशस् तवोदितः ।
आकर्षणाद् गुणा यस्य सर्वान् अनुगुणान् व्यधुः
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0