भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.21

1.21.1

[अनुष्टुभ्]
इति श्री-श्री-गोपाल-चम्पूम् अनु
वरुणलोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनं नाम
विंशं पूरणम्
॥20॥
(21)
अथैकविंशं पूरणम्
कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्
[1] तदानीं पुनः स्निग्धकण्ठ उवाच-
[2] अथ गर्ग-कृत-व्रज-वर्ग-भेद-मय-समयतः पश्चाद् उद्भूताः काश्चिद् अन्याश् च धन्याः प्रभूता नाना-कुल-प्रसूता या व्रज-कुमारिकाः स्वभावतः कृष्ण-भावानुसारिकास् तासां कौमार-पारम् आरभ्य वासना वर्णनीया यथा,
कुमारीणां तासां अघजिति पतिः स्याद् इति रुचिर्
यदा जाता तर्हि प्रतिपदम् उपायाकृत-धियाम् ।
विधु-श्रीणां शश्वद् बत बहुल-पक्ष-स्थिति-जुषां
तमस्कृद्-विश्वस्मिन्न् अहह कृशता नित्यम् अजनि

1.21.2

[शिखरिणी]
[3] ततश् च तद्-अर्थम् अनुरहसं नाना-देवताम् अर्थयमाना व्यर्थम् इव भ्रमन्ति स्म ।
[4] प्रार्थना चेयं-
व्रजेशित्रोः सद्म वासः परं श्वसुरतानयोः ।
कृष्ण एव पतिर् भूयान् मम जन्मनि जन्मनि

1.21.3

[अनुष्टुभ्]
[5] ततश् च कदाचित् कालिन्दीम् अनु परस्परं विन्दमाना बभूवुः ।
[6] युक्तं च तत्, यतः-
एकं पदम् उद्देश्यं
भवति समन्ताद् बहूनां चेत् ।
विविध-भुवाम् अपि तेषां
मिलनं घटते यथा स-तीर्थानाम्

1.21.4

[उद्गीति]
[7] मिलितानां तासां परस्परं हार्दम् अपि जातम् । तथा हि-
दिशि दिशि जाताः स्निग्धा व्यतिमिलिताः सुष्ठु बिभ्रति स्नेहम् ।
मेदुर-मुदिर-समूहे मुहुर् अपि यस्मात् तथा दृष्टम्

1.21.5

[आर्या]
[8] तत्र जाते चासौहार्दे हार्दम् अपि परस्परं व्यक्तम् । यतः-
ह्नुतम् अप्य् एकाश्रयिणां
हृदयं व्यक्तिं मिथो याति ।
तत् तु व्यतिमिलितं चेद्
वद तर्हि स्यात् पिधानं किम्?

1.21.6

[उपगीति]
[9] ततश् च परस्परं हृद्-बाष्पम् उद्गीर्णवतीनां दृग्-बाष्पम् अपि विकीर्णवतीनां तासां दशान्त-दशावशाङ्गतया सम्भाव्यमानानाम् अनुक्षणं सुखा-काङ्क्षिणी पारिकाङ्क्षिणी-वेश-विशेषं विन्दमाना तत्र वृन्दा गता ।
[10] सा ह्य् एवं पुरा चिन्तितवती-राग एव खल्व् आसां व्रजनागरस्य तस्य समागमाय वागगोचरशक्तिभाग् अवसीयते ।
[11] रागश् च लोक-रीति-मय-प्रणयत एव जागरूकतया गरीयान् वरीवर्तीति देवतान्तराराधनम् एव साधयितव्यम्, न तु तद्-आराधनम् इति ।
[12] अथागम्य च तत्-कृताभिवादन-स्व-कृताभिवदन-विधौ लब्ध-विधौ साभिदधाति स्म-[13] अहम् अत्रैव वने वसन्ती भवतीनां भाववतीनाम् अवस्थाः पश्यन्ती दया-विदीर्ण-हृदया समायातास्मि । तद् इयं मम सिद्धा विद्या स्व-कर्णानुबिद्धा विधीयताम् । नातिप्रयास-भावितता च भवतीनां भविता, किन्तु मास-मात्रम् अत्र श्रमाभासः । [14] सा खलु मन्त्र-मयी योगमाया मया दयावती साधितास्तीति ।
[15] तद् एवं तासां कर्ण-विवरम् अनु मन्त्र-वर्णान् निधिवन् निधाय तद्-विधिम् अपि स-विधिम् अभिधाय मुदान्तर्-हितवती सान्तर्हितवती । ततश् च तास् तद्-उपदेश-लग्नाः परम-सुख-मग्ना बभूवुः । यतः-
नित्यं तावद् अनल्प-राग-महिमा सर्वं सहायीयति
प्राप्नोत्य् एष तु योग्य-कल्पम् अथ चेद् धत्ते सद्-उल्लासिताम् ।
तस्मिंस् तादृग् अभूद् गुरुः स्वयम् असौ शक्तिः परा वैष्णवी
पूज्या मन्त्र-वरश् च वाञ्छित-धरस् तासाम् इतः किं सुखम्?

1.21.7

[शार्दूल]
[16] अतएवामूर् विश्रम्य मार्गशीर्षीय-शिर्षायामाणता-लभ्य-प्रतिपदम् आरभ्य संगत्य व्रतम् आरब्धवत्यः । यत्रारुण-कृतारुण-गुण-प्रसरम् अवसरम् अनु परस्परं गृह-विसरतः समाकारणापरा व्यतिबद्ध-करा यमुना-गमन-तत्-परा गान-परायणा बभूवुः; यत्र परस्पर-परीहास-प्रायतया निजाभिप्रायं व्यञ्जयामासुः । यथा-
त्वाम् उपयन्ता सखि वनमाली ।
सकल-शुभाकर-वर-गुण-शाली ॥ध्रु॥
यत्र व्रज-पतिर् इत-रुचिर् उचिताम्
वार्तां चालयिता सुख-सचिताम् ॥अ॥
श्रुत्वा तत् तव मातर-पितरौ
सुखम् अयितारौ कृत-धन-वितरौ ।
हरिर् अपि मुदम् इह हृदि गोपयिता
सखिभिर् नर्मणि यः कोपयिता ॥ब्॥
गणक-निदिष्ट-तरे सुदिनाहे
वेशं धास्यति स निजविवाहे ।
नील-रुची-चित-गौर-दुकूलम्
घन-चपलाभिरुचाम् इव मूलम् ॥च्॥
अन्तर-वसनग-कञ्चुक-पीतं
चित्र-प्रच्छद-रुचि-परिवीतम् ।
मुकुट-किरीट-तिरीट-विराजम्
अलकावलि-मणि-चित्रक-भाजम् ॥द्॥
कुण्डल-मण्डित-गण्ड-विभागम्
ताम्बूल-च्छवि-जिद्-अधर-सुरागम् ।
अधरावृतये कर-धृत-चेलम्
ग्रैवेयकम् अनुकृत-मणि-मेलम् ॥ए॥
साङ्गद-कङ्कण-मुद्रिक-हस्तम्
आवापक-धृति-वलयित-शस्तम् ।
हारवलित-हृदि धृत-मणि-राजम्
वनमालादिक-माल्य-समाजम् ॥f॥
मणिमय-शृङ्खल-लसद्-अवलग्नम्
चरण-विभूषण-गण-रुचि-मग्नम् ।
वेषे चास्मिन्न् एतद् अपूर्वम्
यत् तु न दृष्टं क्वचन च पूर्वम् ॥ग्॥
अङ्गं भूषणम् अपि किल सर्वम्
सर्वाभरणं स्वयम् इति गर्वम् ।
अथ मणि-शकटाधिष्ठितम् एतम्
कलयिष्यन्ति सुहृद्भिर् उपेतम् ॥ह्॥
तं जन्यानां शकट-परीतम्
कुसुमैर् वर्षिष्यन्ति सगीतम् ।
शकट-ध्वनि-युत-वाद्य-शतेन
मुदम् आप्स्यति स स्वयम् अपि तेन ॥इ॥
तद्-ध्वनि-कलनात् तव सखि चित्तम्
धृतम् अपि यत्नाद् भविता भित्तम् ।
स यदा गन्ता द्वार-सदेशम्
सखि विसृजेः सुख-मूर्च्छा-वेशम् ॥ज्॥
तम् उपव्रजिता सा तव गोष्ठी स्त्री
ततिर् अपि गास्यति बिम्बोष्ठी ।
उपयानं तद्-वाद्य-वितानम्
गालि-प्रायं तद् अपि च गानम् ॥क्॥
सारात्रिक-निर्मञ्छन-दृष्टिं
कर्तारस् ते स-कुसुम-वृष्टिम् ।
मण्डप-वरम् उपनीते श्यामे
सुख-सम्मर्दो भविता रामे ॥ल्॥
गोपेन्द्रादिक-गण-पूजाम् अनु
नर्म-कुतूहलम् उदयेद् वरतनु ।
पूर्वं विधिम् अपि कृत्वा सद्विधि
आनेष्यन्ति त्वाम् इह सहनिधि ॥म्॥
वरपुरतस् त्वां शिथिलितगात्रीम्
स्थापयितारः प्रियरतिपात्रीम् ।
तातस् तव करम् अथ दधद् अबलम्
ग्राहयिता वरकरम् अनु सजलम् ॥न्॥
तत्र च भवती सुमुखि सुखेन
किम् भवितेति ज्ञाता केन? ।
किं बहुना, तव करसंयमनम्
कृतम् इव पश्याम्य् अमुना कमनम् ॥ओ॥

1.21.8

। इति । [मात्रासमका]
[17] तद् एवं यमुनां प्राप्य द्रुतम् एव गानं समाप्य वेलायां बाल्य-चापल्येन कल्ये प्रोज्झित-चेला एव मिथः कृत-मेला वेलायां निमज्जन्ति स्म । निमज्ज्य च-कौषेयतया क्षालनां विनापि न परिहेयम् इति तद् एव चेलं परिधाय सेव्याया देव्याः सैकताम् अर्चाम् अर्चितां विधाय मन्त्रम् अनुसन्धाय धाम समायान्ति स्म ।
[18] तद् एवं तावन् मासं यावद् विधाय तत्-पूरक-दिनं व्रतस्यापि पूरकं जातम् इति परमानन्द-पूरणतः सूरजा-पूरम् अनु दूरनिर्जनता-जात-निर्व्रीडतया क्षणम् अक्रीडन् ।
[19] तद् एवं पूर्व-पूर्वं जानन् व्रज-राज-नन्दनस् तुष्ट-मनाः कुमार-चतुष्टयम् अनुविधं विधाय तत्र प्रस्थाय गुप्तम् उप्त-चित्ततया ताः पश्यति स्म ।
[20] ये खलु दाम-सुदाम-वसुदाम-किङ्किणि-संज्ञास् तस्य प्रज्ञाहङ्कार-चित्त-मनसां बहिः-प्रकाशतया लब्ध-समज्ञास् तन्त्र-विज्ञातृभिर् विज्ञायन्ते, त एते हि कुमारा जात-चतुः-पञ्च-वर्षाः परस्पर-सवयस्कता-धृत-हर्षाः कृष्णाद् अनुदिनम् आसादित-प्रेम-वर्षाश् चलनारम्भत एव-कुत्र यामः? इति पृच्छन्त एव गच्छन्तः कृत-तत्-सङ्गम् आगच्छन्ति स्म । तद् एवं-
सङ्गे विधाय चतुरश् चतुरः कुमारान्
आगम्य तत्र कर-वारित-तत्-प्रहासः ।
नम्रीभवन्न् अलम् अलक्षिततां प्रपद्य
सद्यस् तद्-अंशुक-चयं स हरिर् जहार

1.21.9

[वसन्ततिलका]
हृत्वा स सत्वर-कदम्ब-नगाधिरोह-
पूर्वं स-डिम्भ-निकरः स्फुटम् उज्जहास ।
श्रुत्वा प्रहासम् अथ गोप-कुमारिकाणां
वर्गः समं सभयम् ऊर्ध्वित-दृष्टिर् आसीत्

1.21.10

[वसन्त]
गम्भीर-स्वर-सङ्गतं तद्-इतरानुद्भाव्य-भव्य-श्रियं
हासं तं परिचित्य बाल्य-वलितास् ताः प्रेक्ष्य चान्योऽ न्यतः ।
वस्त्राण्य् अप्य् अनभीक्ष्य तत्र विधृतान्य् उच्चं तु वक्षः-स्थलं
कृत्वा नीचम् उदक्त-वक्त्रम् उदके न्यक्-चक्रिरे पद्मिनीः

1.21.11

[शार्दूल-विक्रीडितम्]
अतलिन-नलिन-वनानां भ्रमम् इह चक्रुर् मुखानि तासां न ।
हेमन्ते तद्-अयोगात् किन्तु न्यक्-कारम् एवात्र

1.21.12

[आर्या]
ततश् च,
क्षणम् अधि जल-मध्यं तस्थुर् आनम्र-नेत्राः
पुनर् उदयति शीतेऽ द्राक्षुर् एताः कदम्बम् ।
अपि हरिर् अधिशाखं गुप्त-मूर्तिः पुरासीत्
पुनर् अवृतिम् अयासीच् चात्म-लक्षाय ताभिः

1.21.13

[मालिनी]
तासां जलस्थ-वपुषां वदनेषु कृष्ण-
स्यारूढ-नीपक-तरोः सहसा दृग्-अन्तः ।
पद्मेषु पद्मप-कलाम् अदधाद् अमुष्मिन्
यासां च नीरभृति चातकरीतिम् आप

1.21.14

[वसन्ततिलका]
ततश् च-
उच्चकैर् जहसुर् बालाश् चुक्रुशुस् तत्र बालिकाः ।
ऊचुश् चेदं तु वः कृत्यं व्रजादृत्यं भविष्यति

1.21.15

[अनु]
[21] अथ कृष्णेन मुहुर् अपि शिक्षिता बालाः प्रोचुः ।
[22] तत्र प्रथमं, यथा-
कृत्यं वा किम् अकृत्यं वा न विद्मो वयम् अण्व् अपि ।
शिक्षार्थं किन्तु वः प्राप्ता वीक्ष्याज्ञासिष्म तत् पुनः

1.21.16

[अनुष्टुभ्]
[23] अथ सर्वाः सलज्जं परस्परम् ईक्षित्वा पुनर् ऊचुः-
यः कश्चिच् छिक्षकस् तस्माद् भवद्भिः सुष्ठु शिक्षितम् ।
अभ्यस्यथ व्रजे तच् च स्व-गुरोर् मान-वृद्धये

1.21.17

[अनुष्टुभ्]
[24] पुनस् तच्-छिक्षिता डिम्भाः प्रोचुः-
किमर्थोऽ यम् उपालम्भस् तन् न विद्मस् तु किञ्चन ।
भवत्यो जल-चारिण्यो वयं वृक्षाग्र-गामिनः

1.21.18

[अनु]
[25] ता ऊचुः-
विक्रान्तिर् लुण्ठतां योग्या यद् वः शाखाग्रगामिता ।
दीनता लुण्ठितानां स्याद् यन् नः सलिलगाहिता

1.21.19

[अनु]
[26] अथ श्री-कृष्णः स्वयम् एव स-कोप-विस्मयम् इव वक्ति स्म-किं लुण्ठितं भवतीनाम्?
[27] ता ऊचुः-अहो बत! कथम् अस्माकम् असङ्ख्यतया दुःसंवरम् अम्बरं संवरणम् आपद्यते?
[28] श्री-कृष्ण उवाच-भवतीनाम् अम्बरावरणता विद्यत एव, तद् अम्बरं वा कथम् अपहारेण संवलनम् अवलम्बताम्?
[29] ता ऊचुः-
अम्बरम् अप्य् अम्बरताम् आसादयितुं तवास्ति सामर्थ्यम् ।
इह दामोदर चौर्यं कियद् इव शौर्यं समर्पयतु?

1.21.20

[आर्या]
[30] अथ कृष्णः स-स्मयम् आह स्म-न नग्ना एताः पाथसि मग्नाः । तद् इदं तु मया परिहसितम् एव । दृष्टं भवद्भिर् दुष्ठु-प्रकृतीनाम् आकृति-मात्र-सुष्ठुता-युतानाम् आसाम् अनुष्ठितम्; यन् मदीयान्य् एव शस्तानि वस्त्राणि विहारतः समस्त-व्यस्ततया यत्र तत्र विस्रस्तानि । तान्य् एता दरिद्राणां कन्याः स्फुटम् अन्यायतया परिचित्य च विचित्य परिदधाना, मादृशस् तु दृशः सकाशाद् गोपनं कामयमाना बाढं जलम् एवावगाढाः । यानि खल्व् अतिस्वच्छानां तिग्म-च्छवि-कन्या-जलानाम् अन्तर् अप्रच्छन्नान्य् एव लक्ष्यन्ते, यान्य् एव चासां जल-मग्न-प्रत्यङ्ग-लग्नानि स्वर्ण-सवर्ण-वर्णानि वर्णा इव निर्वर्ण्यन्ते । तस्मात् प्लवन्त एव भवन्तः प्रत्येकम् एताः कर-गृहीत-कराः समानयन्ताम् ।
[31] तद् एतद् अवधार्य तीर-पर्यन्तम् अवतीर्य सम्भ्रम-प्रतीक्षिताल्प-कालान् कृष्णाज्ञा-पालान् बालान् अमूः प्रत्यूचुः-[32] कथं स्तम्भम् अवलम्बध्वे? निःशङ्कम् एव सङ्क्रामत ।
[33] सखीः प्रति च प्रावोचन्-अत्रैवानीय पानीय-वास-सुखं लुण्ठाकान् एतान् आकुण्ठम् आसादयत ।
[34] अथ तान् प्रति च-
आहर-वसनाम् आहर- वनितां यस्मात् क्रियां सदाधीध्वे ।
कात्यायनी-प्रसादात् तम् अपि विकर्षाम तोयान्तः

1.21.21

[आर्या]
[35] अथ तद् एतच् छ्रुतवन्त एव द्रुतवन्तः स्खलन्त इव नीप-तर्व्-अन्तम् आसद्य सद्यस् तम् एव तरुम् आरुरुहुः ।
[36] कृष्णस् तु स-हासं स्पष्टम् इदम् अभ्यचष्टे-अहो, शुभंयूयमानानाम् आसाम् अहंयुता भवतीनां भवतु, पश्यामस् तत्र-भवतीषु देवता-प्रभावम् । यावद् एव तद् एतम् उदवासम् उरीकृत्य भवत्यस् तिष्ठन्ति, तावद् वयम् अपि धृत-निष्ठास् तरोर् उपरिष्टाद् एव नभो-वासम् उररीकृत्य तिष्ठाम ।
[37] अथ तत्र तद्-उत्तरम् उररी-कुर्वत्यः सर्वाः सश्लेषम् आत्म-हृद्-गतम् उद्गमयामासुः-
न नादेय-भयं तस्य तरौ यस्य भवेत् स्थितिः ।
पात्र-सात्कृत-गात्राणां पृच्छ्या नादेयता पुनः

1.21.22

[अनुष्टुभ्]
[38] ततश् च तन्-मुख-तुषार-करतस् तुषार-कर-तरङ्ग-निकरतश् च कम्पमानाः स-नर्मानुकम्पम् अमूर् अयम् उवाच-
[39] अहो, हिम-श्रथ-श्लथाङ्ग-सन्धयः परम-दुर्बलाः ! सर्वाभिर् एवार्वाग् आगम्यताम् ।
[40] तास् तु भ्रू-भङ्ग-सङ्गतम् ऊचुः-पुनः किम् अर्थम् आगमयितुम् अर्थयसे?
[41] कृष्ण उवाच-वनदेवतया हृतं मया तु प्रसह्य तस्याः समाहृतं वासः समासाद्यताम् ।
[42] ता ऊचुः-किम् अतः शेषम् अन्वेषामः?
[43] तद् एतद् उक्त्वान्तर्-वारिण एव प्रसारित-कराः किञ्चिद् अभ्यानञ्चुः । कृष्णस् तु साङ्गुलि-व्यङ्गम् उवाच-अये शत-पत्र-पत्र-नेत्राः ! सविधेऽ त्रागम्यताम् ।
[44] ता ऊचुः-तवैतद् एहीहं कर्म कथम् इव?
[45] कृष्ण उवाच-मम दृष्टिर् विसृष्टिश् च विशिष्टताम् आप्नोतिऽ इति ।
[46] ता ऊचुः-तर्हि किम् अर्हितं भवेत्?
[47] कृष्ण उवाच-ग्रहणातिवृत्तिर् वस्त्र-परिवृत्तिश् च न स्यात् ।
[48] ताश् च परस्परम् ऊचुः-अहो मुग्धाः! वञ्चयितुम् एवेयं प्रपञ्चना ।
[49] कृष्णस् तु ताः सन्दर्श्य जिह्वां सन्दश्य बभाषे-सत्यम् एवेदं ब्रवीमि, नासत्यम् ।
[50] ताः पुनः प्रत्यूहम् ऊहमाना व्यत्यूचुः-अहो, मूढ-बुद्धयः ! सुव्यक्तान्तर्-निगूढ-हासः परीहास एवायम् अस्य ।
[51] कृष्णस् तु गूढम् अपि स्मितम् अगूढ । समूढ-प्रिय-वद्यतयाप्य् अवादीत्-हन्त, नहि नहि, यस्माद् व्रत-कृशतया भृश-दया-विषया एव यूयम्, न तु दूयमानताम् अर्हथ ।
[52] ता ऊचुः-
स्पृहयालुश् चान्य-वस्त्रं गृहयालुश् च यः स तु ।
शीतलुषु दयालुश् चेद् आश्चर्यातिशयालुता

1.21.23

[अनुष्टुभ्]
[53] भवतु । विस्रब्धं वदत, कदा सत्यं वक्तुम् आरब्धं तत्र-भवद्भिः?
[54] कृष्ण उवाच-कदापि नानृतं वचसि कृतवान् अस्मि ।
[55] ता ऊचुः-कः कथयति?
[56] कृष्ण स-हासम् उवाच-अहो, कूटकूटं घटयमानाः! यद्य् अन्यथा मन्यध्वे, परम-धर्म-परान् एतान् एव समेतान् पृच्छत?
[57] ता सहासम् ऊचुः-सत्यम् एते भवतः प्राप्त-मर्माणः स-धर्माणश् च दृश्यन्ते ।
[58] कृष्ण उवाच-हन्त, मुष्टि-सम्बध्य-मध्यमाः, प्रतीतिम् अतीथ चेत् प्रत्यक्षत एव लक्ष्यताम् । सर्वाभिर् एवागम्य न वा सर्वान् अतिरेकया कयाचिद् एकयापि ।
ततश् च-
तस्य तत् क्ष्वेलितं श्रुत्वा
बालाः प्रेम-परिप्लुताः ।
व्रीडिताः प्रेक्ष्य चान्योऽ न्यं
जात-हासा न निर्ययुः

1.21.24

[भ्प् 10.22.12] इति ।
तीरे गन्तुं लज्जा स्थातुं
नीरे च शीतम् इत्य् उभयम् ।
समजनि जाड्यं युगपत् तद्
इमास् तत्रैव किञ्चिद् अब्रुवत

1.21.25

[अनु]
व्रज-नृप-कुल-रत्न त्वं व्रज-प्रीति-शाली
व्रज-जन-महनीयश् चासि याचामहे तत् ।
वयम् अतितर-शीत-व्यग्रता-ग्रस्त-चित्ता
वितर वितर वासश् चानयं मा च कार्षीः

1.21.26

[मालिनी]
[59] कृष्ण उवाच-ममानयं को वा नयन-विषयः कृतः? प्रत्युत सत्-कुल-प्रभवतीनां भवतीनां वन-देवताहृत-वस्त्राणां साहाय्यम् एव कार्यम् इति तथा मयारब्धम् अस्ति । न तु भवतीनां चेल-चेल-प्रचये मादृशाम् अभिलाष-मेलः सम्भवति । तस्माद् अस्मत्-परितोष-पोषणाय यदि किञ्चिद् अपि दत्थ, तदा तन्-मदाद् एव देवता-विरोधम् अप्य् अनुरोध-विषयी-कुर्मः ।
[60] अथ तद् एतद् एवम् अवधारितवत्यः कात्यायनी-व्रतवत्यस् तद् एतन् मनसि विचारितव्यः-हन्त, यद् अस्माभिर् मनसि रञ्जितं, तद् एवायं व्यञ्जितं कर्तुं प्रयतते । तस्माद् अस्माकम् अयम् एव समयः । किन्तु किम् अपि लक्ष्यम् एवात्र लक्ष्यम्, तद् अपि स्वत एव लब्धम् यत् पृथु-शीत-भीततादिकम् अत्र प्रकटम् एव घटते ।
[61] अथ तं प्राहुः-हा, हा, द्रुतम् अनेन हैमनेन पवनेन शीत-परीततया जीवन-विपरीततां वयम् आयाताः, तस्मान् मर्म-भेदकं नर्म वृथा मा कृथाः, किन्तु वस्त्रम् एव सेवय । यद् वा वाञ्छसि, तत् तु लाञ्छनम् अङ्गीकृत्यापि करिष्यामः ।
[62] कृष्णः स-स्मितम् उवाच-हन्त, यदि मदिष्टं दास्यथ, तर्हि दास्यम् एव स्वीकुरुत ।
[63] अथ ताश् चिन्तयामासुः-हन्त, सहसा मर्म-स्पर्शे कर्मठताम् एव लब्धवान् असौ । भवतु, वयम् अपि नर्माश्रित्य तद् एव शर्माङ्गी-कुर्मः ।
[64] स्पष्टं च प्रोचुः-श्याम्सुन्दर ते दास्यः [भ्प् 10.22.15]
[65] कृष्णश् च स-स्मितम् आह स्म-तत्र च यन् ममोदितम्, तद् अनुमोदितं पुरतः कुरुत ।
[66] अथ ताः परस्परम् आलोचन-पूर्वं निकोचित-लोचनम् ऊचुः-भवतु, करवाम तवोदितम् इति ।
[67] तद् एवम् अपि कृष्णे स-तृष्णेऽ पि तुष्णीम् एव स्थिते पुनर् ऊचुः-देहि वासांसि धर्मज्ञ इति ।
[68] अत्र चान्यथा निजाङ्गीकार-सभङ्गी-भावाद् धर्म एव मर्म-बाधायां नात्मानं संवर्मयेद् इति भावः ।
[69] तथापि तथा स्थिते तस्मिन् कौतुक-निगूढ-स्मिते पुनर् ऊचुः-नो चेद् राज्ञे ब्रुवामहेऽ इति ।
[70] अत्र च भय-निर्मुक्तम् इमं तद्-युक्त-मात्रम् आचरितुम् उक्तम् इदं न तु वस्तुतः ।
[71] तद् एष व्याज-पदेन राज-पदेन यं विशेषम् अबुध्यते, तम् एव बुध्यतां नाम निकामम् इत्य् अभिप्रायः ।
[72] कृष्णश् च तद्-उपयुक्तम् उक्तवान्-अहो, कदा दास्यो भविष्यथ? कदा वा मयोदितं करिष्यथ? तत् तु नोपलभामहे । यदि वेत्थम् सत्यम् एव, तदा गत्य्-अन्तरम् अन्तरा, जलाद् उत्थाय सर्व-सम्पद् उत्थाय स्मितेन समेतम् एव समेत, न तु सूक्ष्मयापि रुक्षतया । न चेन्, मिथ्या-सङ्कल्प-जल्पानां तत एवाधर्म-मर्म-कल्पानां साहाय्यम् अस्माभिः कथं वा प्रथनीयम्?
[73] तथापि तासाम् अनुत्थानम् उट्टङ्क्य कठिनता-घटितम् आचष्टे-न वयं वृथा कृताशानां कन्या-पाशानां वः सम्बन्धम् अनुरुन्ध्महे । किन्तु-
इदं च मे दयालुत्वम् एव बुध्यध्वम् अञ्जसा ।
नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति?

1.21.27

[अनुष्टुभ्]
[74] अत्र च राज-पदं व्याजाय व्याजहार । ततश् च मौनं प्रतिलभ्य तासां भयम् उपलभ्य, तेन करुण-सभ्य-शिरोमणिना प्रत्ययम् आचर्य, कथञ्चित् प्रत्यये चाचरिते शीतार्तता-निर्वर्ति-वार्तताम् आहर्तुं व्रीडा-निविड-जड-वपुषोऽ पि जडाद् उत्तेरुर् इति वार्तयन्ति । तद् यदि तथा स्यात् तदा वस्तुतस् तु तत्-कारणम् इदम् अस्तु-

1.21.28

मिस्सिन्ग्!
प्रार्थ्यं चेत् फलति तदा भजेम
देहं नो चेन् नोऽ ति समयस्य यैव सीमा ।
तासां सा यदि विफला क्व तर्हि लज्जा
निर्वस्त्रा गति-विधये हिमं तु लक्ष्यम्

1.21.29

[प्रहर्षिणी]
[75] तद् एवं कथञ्चिद् उदकाद् उक्ताश् च ता न व्यक्तावयवा जाताः । किन्तु-
हस्त-पल्लव-कृताग्र-वस्त्रिकाः
केश-विस्तृति-धृतापराम्बराः ।
आदि-निष्ठित-कनिष्ठ-दारिकाः
कुब्जिकावद् अमिलन् कुमारिकाः

1.21.30

[रथोद्धता]
[76] ततश् च-पश्य कृष्ण, पश्य सर्वतस् त्रस्ता एता लोप्त्राणि वस्त्राणि पाथस्य् एव स्रस्तानि विधायागता इति संलप्य प्रबल-हासं वल्गति बाल-वर्गे, हरिस् त्व् इदं भावितवान् अतीव दयाम् अयामास । यथा-
शशधर-तन्वा तुलनाम् आहत-लक्षणतया ययुर् यद् अपि ।
तद् अपि च तां सहसामूर् आहत-लक्षणतया जिग्युः ॥29॥ [आर्या]
एताः सत्-कुल-सम्भवा वरम् अहो वाञ्छन्ति देहव्ययम्
न व्रीडाक्षयम् एवम् अप्य् अथ दशाम् एतां गता मत्-पुरः ।
बीजं चात्र परन्तु मद्-विमुखताशङ्का ततः कुण्ठताम्
उत्कण्ठा किरती विलोठयति माम् आसां निजाशर्मणि

1.21.31

[शार्दूल]
[77] तथाप्य् आसां सुष्ठु तन्-निष्ठां निष्टङ्कयितुं पङ्क-दर्शिनं मनो-रथ-स्पर्शिनं परिहासम् अप्य् अतीव स्पष्टयितुं चित्तम् इदम् उत्कण्ठते । यदा गता अपि सङ्कोचावगाहतः परस्परम् आहत-प्रकाशावयवा एव तिष्ठन्ति इति ।
[78] प्रकाशयन्न् उवाच-अरे रे, चपलाः, कथं भवन्तो हसन्ति? एताः खलु नग्निका एव कथं नग्निका-भावे दोषम् अर्हन्ति?इति ।
[79] अथ पुनर् वस्त्र-कदम्बं कदम्ब-स्कन्ध-सन्धि-विशेषे स-प्रत्याहारं तत्-प्रत्यक्ष-संवलिततया सन्धाय प्रेम-बन्धाय स-स्मितं ताः प्रत्य् एवम् आह स्म-[80] दास्याङ्गीकार-कारणात् प्रदास्याम्य् एव तान्य् एतानि वस्त्राणि । किन्तु पूर्वम् अशक्य-निर्णयः, सम्प्रति तु निर्वर्ण्य निर्णीतः, सोऽ यं सद्-गुरुतो यजत-नमतां प्राप्तवतीनां भवतीनां दुर्नयः सपदि मां विवर्णयन् वर्तते । तद् एतद् अवधार्यतां भवतीभिः-
शम्बरं प्रविविशे बिम्बाधरं
यत् तद् एव जलदेवहेलनम् ।
छिद्रम् आवरितुम् अत्र तद्व्रते
शीर्षभाक्करयुगं स नम्यताम्

1.21.32

[रथोद्धता]
[81] तास् तु तत्र सापत्रप-चित्ताश् च परम-भीति-भित्तास् तथाकार्यतयावधार्य पश्यत केऽ पि शब्दायन्ते इति बालानां दृष्टीः प्रतार्य पतिर् एव देवता इति विचार्य स-परिहास-विलास-व्याजतस् तम् एव नमश्चक्रुः-स्वामिन्, नमस् तुभ्यम् इति ।
[82] ततश् च कृष्णः स-कौतुक-तृष्णया तासां प्रति प्रतीकं सन्दृश्य, स्निग्धतां विदग्धताम् अपि परामृश्य, लब्ध-प्रसाद-मेलः खेला-वलितं चेलानि यथास्वम् अर्पयामास । यत्र च-दृष्टि-पथ-सेवनाद् एव भवतीनां पुष्टि-दीर्घतादिकं मम मुष्टि-गतं जातं, कथम् अन्यथा समर्पणं कुर्याम्? इत्य् एवं तुष्टिं ददानः स्व-विचक्षणतां लक्षयामास । किन्तु-
प्रातिकूल्य-वचनं च सौहृदाद्
आनुकूल्यम् अभिगम्य शर्मदम् ।
पश्य वस्त्र-हरणादिना हरिः
प्रत्युत प्रमदयाम् बभूव ताः

1.21.33

[रथोद्धता]
[83] ततश् च वृक्षाद् अवतीर्णवति तस्मिन्,
लज्जा-संवरणार्थम् असंवर-मधुर् बाला भृशं लज्जितास्
तर्हि स्वाङ्ग-वृतिं दधुर् मुहुर् अहो व्यक्तान्तरङ्गारति ।
कृष्णाद् अल्प-विवृत्त-वक्त्र-कमलास् तस्थुर् दृगन्तः पुनस्
तत्रागाद् व्रज-सुभ्रुवाम् अहह भोः कामस्य वामा गतिः

1.21.34

[शार्दूल]

1.21.35

मिस्सिन्ग्!
ततश् च-
भृङ्ग-श्रेण्य इवाम्भोजं रस-पूर्णं कुमारिकाः ।
भर्तृ-कामास् तदा कृष्णं वरीतुं परितः स्थिताः

1.21.36

[अनुष्टुभ्]
[84] अथ तेषु चाकरालेषु बालेषु-चल चल किंवा करणीयम् अत्र? इति कर-द्वयं वसनादि-परिकर-चयं चाकृष्य हृष्यत्सु वितरणीयं वरम् अम्बर-हारिताहारी हरिः स्वम् अनुसंहितवान् । ततश् च-
तासां विज्ञाय गोपालः स्व-कर-स्पर्श-काम्यया ।
धृत-व्रतानां सङ्कल्पं कल्पयामास सिद्धिदम्

1.21.37

[अनुष्टुभ्]
यथा-
स्वस्यार्थः स तु यद् विभाति परतः स्वीयं समाराधनं
मय्य् आविष्ट-मनास् त्व् अनादरम् अथाचर्यात्र मा बाधयति ।
तत्राद्ये स्वयम् अस्मि शश्वद् उपमा यूयं द्वितीये ततः
संकल्पो निरुपधिर् एष भवतीष्व् एवातिसत्यो मतः

1.21.38

[शार्दूल]
सर्पिर्-भृष्टम् आगुड-क्वथितताम् आप्ताश् च धाना यथा
वस्यन्ते स्वयम् एव बीजवद् अमूस् तन्वन्ति नान्य-स्पृहाम् ।
मन्-मात्र-स्पृहिणां मदीय-भजनं नो तद्वद् अन्य-स्पृहं
किन्तु स्याद् रसनीयरूपम् इति चेद् युष्माकम् आस्तां कथा

1.21.39

[शार्दूल]
[85] तद् एवम् आकर्णिनीर् वर-वर्णिनी सद्य एव गान्धर्व-पर्व सम्पद्यताम् इत्य् अभिप्रायतया सापत्रप-नयनाः स्वीकृत-मय-समयम् अपेक्षमाणाः प्रति समर्धकतया समर्धकतां गच्छन् पुनर् अच्छम् उवाच, यथा-
मिथः स्वीकारः स्यात् परिणय-विधिस् तत्-परिकारः
परे ते ते धर्माः स पुनर् उदबोधि स्वयम् इह ।
अतो यूयं सिद्धा व्रज-गमनम् एवाद्य कुरुत
क्षपायां कस्याञ्चित् किल मिलनम् अप्य् आशु भविता

1.21.40

[शिखरिणी]
[86] तद् एवं ताभ्यः प्रतिश्रुतवति तस्मिन्न् अधिकम् एव तासाम् आवेशो जातः । यथाह श्री-शुकः-
इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः ।
ध्यायत्यस् तत्-पदाम्भोजं कृच्छ्रान् निर्विविशुर् व्रजम् ॥[भ्प् 10.22.28] इति ।
तथा हि-
अक्षिभ्यां वक्त्र-बिम्बाद् भुज-युग-रुचिभाङ् मध्य-भागान् नितम्बाद्
ऊरुभ्यां जानु-युग्मात् पद-सरसि-रुह-द्वन्द्वम् आपुर् मुरारेः ।
व्रीडा-नम्राः स्व-दृग्भ्याम् अहह मृग-दृशस् तद्-वियुक्तौ तु तत् तत् पश्चाद्
दृष्टं पदं तु प्रतिपदम् उदभूद् अन्तरे लग्नम् आसाम्

1.21.41

[स्रग्धरा]
द्वे चित्तवाससी नीत्वा कुमारीणां परं ददे ।
न पूर्वं तु निराकारं गोपनीयम् अतीव सः

1.21.42

[अनुष्टुभ्]
यत् तर्ह्य् अन्तिम-घस्र-पूर्यम् अपि ता देव्य्-अर्चनं सन्-मदाद्
विस्मृत्य व्रजम् एव जग्मुर् अभवंस् तेनैव पूर्ण-क्रियाः ।
प्रेम्णा यस्य तु तच् च तच् च लषितं तस्याथ साक्षात्-फलं
कृष्णाङ्गी-कृति-शर्म चेद् ववलिरे किं शिष्टम् इष्टं परम्?

1.21.43

[शार्दूल]
[87] मधुकण्ठ उवाच-मासिकम् इष्टम् अनु मिष्टं मिष्टं भुक्तवती देवी कथम् इष्ट-दानार्थम् आगमनं मुक्तवती?
[88] स्निग्धकण्ठ उवाच-
राग एव किल सिद्धि-कृद् आसां
नास्मद् अर्चनम् इति प्रतिपद्य ।
नागमद् वर-विधाव् इह दुर्गा
किन्तु राग-विषयः स्वयम् एव

1.21.44

[स्वागता]
[89] मधुकण्ठ उवाच-नूनम् एताश् च गर्गेणैव गोविन्दाद् अपेताः कृताः ।
[90] स्निग्धकण्ठ उवाच-कृताः, किन्तु न साक्षात् ।
[91] मधुकण्ठ उवाच-कथम् इव?
[92] स्निग्धकण्ठ उवाच-यद्यपि साध्वी-शिरोमणि-रमणीनां राधादीनां दीनायमानानाम् आलोचन-सङ्कोचतस् तस्य पुनर् व्रजागमनम् अनु मनो न जातं, तथापि तद्-अनुसन्धानं विना व्रत-बन्धादि-द्वयं न सन्धातव्यम् इति श्री-व्रज-पति-जम्पत्योः कृत-निबन्धतया, राधादीनां वधूनाम् आभाद् उत्पन्न-मनस्कार-प्रतिबन्धतया च ताः परस्परया पराकृताः ।
[93] मधुकण्ठ उवाच-तर्हि ताः कुमारिकाः कथम् आसन्?
[94] स्निग्धकण्ठ उवाच-बहिः कौमारेण रहस् तु श्री-हरि-परिणीतता-व्यवहारेण ।
[95] मधुकण्ठ उवाच-सत्यं, बाल्यम् एव खलु पूर्वासां बोधस्य विरोधं कुर्वाणम् आसीद् इति विपरीत-रीतिर् जाता । कथम् इव ज्ञानोत्तराणाम् आसां सा भवेत्? इति ।
[96] तद् एतत् कथां प्रथयित्वा कथकः श्री-राधां बोधयति स्म-
एवं बलानुजातेन यद् विलम्बावलम्बनम् ।
तद् बलं बलवज् जातं तव संवलनं विना

1.21.45

[अनुष्टुभ्]
[97] यत एव पूर्वं स्तब्धा वेणु-शिक्षा एन पुनर् आरब्धा । यत्र कथा-विशेष-प्रथनं पद्य-द्वयं साम्प्रत-लीला-मयम् अपि, शरदु-दाशये साधुजात [भ्प् 10.31.2] इत्यादिवत् तासां वचसा रसावहं स्याद् इति तद्-द्वारा श्री-परीक्षिच्-छिक्षा-गुरुणा निक्षिप्तं, तद् यथा-
यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया
दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य ।
अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः
स्थातुं त्वयाभिरमिता बत पारयामः ॥[भ्प् 10.29.36]
इति तासां रास-रजन्य्-आरम्भे दैन्य-संवेदनं निवेदनम् ।
पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग-
श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन ।
तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन
लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥[भ्प् 10.21.17]
इति पूर्व-वर्णित-वेणु-वर्णन-मयम् ।
[98] तद् इदं स्पर्श-द्वितयं कान्त-योगज-भोग-विशेषम् अयं न स्यात्, रास-रजन्यां वक्ष्यमाण-कृष्ण-प्रत्याख्यानायुक्तेः । रासारम्भ एव भगवान् अपि रन्तुं मनश् चक्रे [भ्प् 10.29.1] इत्य् उक्तेश् च ।
[99] तद् एवं त्वयाभिरमिता [भ्प् 10.29.36] इत्य् अस्य तु तत्-स्पर्शानन्तरं त्वया सर्वतो-भावेन प्रयुक्त-रत्य्-आख्य-भावा इत्य् एवार्थः सङ्गच्छते ।
[100] तस्माद् अथेदं विव्रियते । तद् एवं दीर्घ-रात्रतया मन्दता-पात्रं हेमन्तार्धेन सार्धं शिशिरं निशि निशि वंशी-शंसितम् अभ्यस्यति तस्मिन् वसन्त आयातः ।
[101] स च सार्वत्रिक-चार्व्-अनुभवोऽ पि वृन्दावने वृन्दारकताम् अविन्दत, यथा-
वसन्तति निदाघोऽ पि वसन्तस्यात्र किं ब्रुवे ।
वसन्तं यत्र गोविन्दं सर्व-सन्तः सदा विदुः

1.21.46

[अनुष्टुभ्]
[102] तथापि हेमन्त-शिशिराव् अपि तापद्-आपद्-आयतनतया यस्य यासां च प्रतिभासते स्म । तथा च तासां कृष्ण-कृष्ण-प्रेयसीनां प्रत्येकं भावना,
समागन्ता यर्हि प्रथमम् ऋतु-राजः सखि तदा
ऋतूनाम् अन्यायं बत कथयितास्मीति लषितम् ।
तद् आस्ताम् एष प्राक् पर-भृत-शिलीवक्त्र-ततिभिर्
वितर्जन्न् एवास्मान् अकृत-वृजिना धिक् प्रविशति

1.21.47

[शिखरिणी]
द्विरेफो बर्बरः प्रोक्तः पर-पुष्टश् च चेटकः ।
तौ चाग्रण्यौ मधोर् दृष्टौ याप्यता काप्य् अतः किम् उ?

1.21.48

[अनुष्टुभ्]
किं च-
प्रसून-निकराः स्मितं सरसिजानि नेत्र-प्रथां
पिकाः परम-पञ्चमं मधु-लिहां गनाश् चुम्बनम् ।
हरेर् निगमयन्ति चेत् क्व नु कुतः कथं वा गतिर्
भवेद् अहह नः समं सपदि माधवीयैर् वृतम्

1.21.49

[पृथ्वी]
ऋतुराजः प्रणाय्योऽ यं न्याय्यम् अत्र न विद्यति ।
प्रपलाय्य क्व वा यामः श्यामं नः स तु कर्षति

1.21.50

[अनुष्टुभ्]
धूमाः षट्-चरणा विसर्पि-खरता-स्पर्शा मृदु-स्पर्शनाज्
ज्वालाः किंशुक-सञ्चया दिशि विदिश्य् अङ्गार-साराः पिकाः ।
भस्मान्य् अत्र पराग-पुष्प-पटलान्य् अग्निर् मधुश् छद्मना
हा हा कृष्ण-घनं विना कथय को निस्तार-विस्तारकः?

1.21.51

[शार्दूल]
[104] अत्र श्री-कृष्णस्यापि भावनेयं-
यदि न भवति गोप-सुन्दरीणाम्
अयम् अथ मेलयितेति सम्प्रतीतिः ।
कुसुम-शर-शर-प्रणेतुर् अस्य
स्फुटम् अनयत्वम् ऋतोः सहते को वा?

1.21.52

[पुष्पिताग्रा]
[105] राधा-माधवयोश् च यथा-
राधा राधा-पदं मासि माधवे विधुतां विधुः ।
प्रिया-सङ्ग-कृते लब्धुं पौर्णमासीम् अवैक्षत

1.21.53

[अनु]
[106] पुनः सर्वासाम् उद्वेगो यथा-
द्विजानां काकली तत्र वियोगे याग-सम्मिते ।
अजनि व्रजतन्वीनां धाय्येवाग्नि-समिन्धनी

1.21.54

[अनु]
[107] अत्र वृन्दया शिक्षितः शुकः कश्चिच् छ्री-कृष्ण-पुरतः प्रजजल्प-
सहन्ते शशिनो ज्वालां वायोः क्ष्वेडं पिबन्ति च ।
राधादयो महाबाधा वैयग्र्याद् व्रजनायक

1.21.55

[अनु]
[108] अत्र च कस्याम् अपि चम्पकलतायां श्री-राधया स्व-हस्तेन लिखितं पद्यम् इदं वृन्दा श्री-गोविन्दं दर्शयामास, यथा-
वृन्दावने तमालस् त्वम् अहं चम्पकवल्लिका ।
अगयोर् नौ मिथः सङ्गो वृन्दयैव न चान्यथा

1.21.56

[अनु]
[109] तच् च दृष्ट्वा मुहुर् अपि नयनाभ्यां स्पृष्ट्वा कृष्णः स-तृष्णम् इदम् अचिन्तयत्-[110] हन्त, भद्रां पद्मां नित्यम् आगच्छन्न् अपि भद्रां पद्माम् अद्यापि नागच्छन्न् अस्मि । श्यामलाभा-मधुरताम् अञ्चन्न् अपि श्यामलाभिलाष-विधुरताम् अञ्चन्न् अस्मि । नखर-विजित-चन्द्रावलीकताम् आप्नुवन्न् अपि चन्द्रावलीं प्रति लब्ध-तृष्णताम् आप्नुवन्न् अस्मि ।
[111] हन्त हन्त, यद्यप्य् एवम् एवम्, तथापि क्रम-प्राप्त-सुललित-विशाखान्वित-राधतां आव्रजन्न् अप्य् अलब्ध-सुललित-विशाखान्वित-राधतां यदाव्रजामि, तद् इदं माम् अतिदुःखाकरोति । तस्या राधाया एव नूनम् इयं विदग्धता-निदग्ध-बुद्धेः पटीयसी परिपाटी इति ।
[112] अथ माधव-पूर्णिमाम् आसाज्य, सर्वतो विरज्य च, पूर्ण-शिक्षा-विलक्षणं-मन्यमना माधवः किञ्चन दुर्गमं गहनम् अवगाहमानः परम-मुरली-धमन-लीलया धैर्यम् ऊनयन्न्, अमूः प्रधूयनति स्म; मुहुः प्रधर्षयन्न् आकर्षति स्म च, साधारणतया राधापि समागमिष्यतीति ।
[113] राधा तु तत्र द्वित्र-प्रहरं चित्रवद् एवासीन् न पुनर् आकृष्टताम् अवलिष्ट पूर्वम् अन्येषाम् आकर्षणे ता इव ।
[114] अथ श्री-वनमालि-शालि वृन्दावनम् इन्द्रनील-कान्तिभिर् वलितम् इव दृशा, यमुना-जल-परमाणुभिः परिचितम् इव त्वचा, मृगमद-परागैः स-रागम् इव नसा विचार्य, ताभिर् विवेश । ततश् च-
एका द्वित्राश् चतस्रो युत-वियुततया पञ्चषाः सप्त चाष्टौ
पङ्क्तिस् तद्-वृद्धि-सङ्ख्या-मिति-रहिततमास् तत्र याताः समन्तात् ।
यस्माद् व्यक्तिः प्रपन्ना कलित-मुरलिकात् कर्षणी नाम विद्या
तच्-छ्री-वक्त्रं निरीक्ष्य प्रतिहत-मतयः शर्मलीना बभूवुः

1.21.57

[स्रग्धरा]
[115] ततः स-मर्यादाश् च ताः सहसा हरेः समर्यादं सज्जमाना लज्जया तत्रावहित्थाम् अप्य् अवलम्बमानास् तस्य चरण-स्पृष्टि-प्रथमकं दृष्टि-पथम् अधितिष्ठन्ति स्म । तत्र च-
यद्यपि मुरहर-पुरतः किञ्चन न व्यञ्जितं ताभिः ।
तद् अपि विलक्षणम् एवाप्रथयद् अमूषां विलक्षणं भावम्

1.21.58

[उद्गीति]
[116] तद् एवं स च समात्मने तिष्ठमाना गोष्ठ-रमणीर् निरीक्ष्य क्षण-कतिपयं तल्-लक्ष्मी-निष्ठ-मना आसीत् ।
[117] पश्चात् तु राधिका-सामानाधिकरण्यं विना निर्जनारण्यम् अपि सङ्गतास् ता भङ्गी-विशेषाद् अनङ्गी-कुर्वंश् चार्वङ्गीर् आयत्याम् अङ्गीकार-कारणावधारणाञ्चि किञ्चिद् व्यञ्जनया रञ्जयन्न् इव कञ्ज-नयनः पुनर् अकृत-स्पृहाय च गृहाय प्रहापयामास ।
[118] तत्र भङ्गी-विशेषो यथा-
मया स्वभावान् मुरली निनादिता
तस्माद् भवत्यः किल सङ्गता इह ।
अतः परीयुर् बत चेत् परे जनाः
शङ्के ततः सुष्ठ्व् इति नात्र तिष्ठत

1.21.59

[उपजाति 12] इति ।
[119] रञ्जना यथा-
व्रजत बत निवृत्य द्राग्-व्रजं नाप्रतीतं
कुरुत मयि न किं वः प्रीतिम् अप्य् अस्मि वेद्मि ।
अहह यदि न वेद्मि प्राण-सख्यस् तदा सा
भवद्-अभिमत-सिद्धिं स्वेन शीघ्रं दधीत

1.21.60

[मालिनी] इति ।
[120] यत्र तु तासां-
नातृपत् करुणा-दृष्टिर् नात्राप्सीत् प्रापिता श्रुतिः ।
नातार्प्सीत् प्रार्च्छिता नासा नातर्पीद् अर्पितं मनः

1.21.61

[अनु]
[121] तद् एवं गीतं, यर्ह्य् अम्बुजाक्ष [भ्प् 10.29.36] इत्यादि ।
[122] राधायां तु तत्र याम-द्वयं चेतना-विरामतः प्राप्त-बाधायां बन्धु-समवाये च निवृत्त-सर्वोपाये, तूर्णम् एव तद्-अभ्यर्णं पूर्णिमा वृन्दया सह विन्दमाना बभूव । विन्दमाना च कष्ट-भाग् अतिस्पष्टम् आचष्ट-
[123] यदि मद्-उटज-कुटजम् एताम् एकाकिनीं याम-मात्रायामम् अवसरं वासयथ, तदा मया नातिविरामया प्रतिकर्तव्यम् इति ।
[124] ततश् च सर्व-सम्मत्या कथम् अपि जातया तस्यास् तत्र सङ्गत्या स्फुरद्-अत्यावेश-मङ्गला मधुमङ्गलेन शार्ङ्गिणम् आनायितवती । आनाय्य चासनादिना सभाज्य स्मित-स्फुरद्-उपालम्भं सम्भाषते स्म-भवतु, भवता यत् कृतं तत् कृतम् एव । सम्प्रति तत्र सम्प्रतिपत्तिं विधेहि ।
[125] कृष्णः स-मन्दाक्षमम् उवाच-हन्त, कीदृशं कथम् इव?
[126] पौर्णमासी उवाच-आर्तानाम् अस्माकं बहु-वार्ता न वार्तत्वाय वर्तते, किन्तु निज-मूर्ति-स्पर्शतस् तस्या मूर्तिम् अपसारय ।
[127] कृष्ण उवाच-का सा?
[128] मधुमङ्गलः स-प्रणय-रोषम् उवाच-
अन्तरे वसति यस्य चञ्चला
ज्ञायते न जलदेन तेन चेत् ।
व्यक्तिम् ईषद् अपि तर्हि सङ्गता
गोप्यते किम् इति सा मुहुर् मुहुः?

1.21.62

[रथोद्धता]
[129] पौर्णमासी तु स्मित्वा तस्य मुखं पश्यन्ती कृष्ण-मुखं पश्यति स्म ।
[130] श्री-कृष्ण उवाच-स एष वातुलतया तरलः कामं जल्पतु नाम, यद् असभ्यानाम् अभ्याख्यानम् एव च लभ्यम् । भवतीनाम् आज्ञा तु नावज्ञातुं शक्यते, किन्तु युक्तम् एव नियुज्यताम् ।
[131] वृन्दाह-गोकुल-कुल-पालक सर्व-गोकुल-कुल-विलक्षणा लक्ष्मी-लक्षणा सा भवत्-स्पर्श-परामर्शत एव बहिर् दर्शं प्राप्नोति चेत्, का तव हानिः?
[132] हन्त, हन्त-
कृष्ण चेद् बत राधायाम् उदासीनो भवान् अपि ।
उदास्स्व, किम् अहं तत्र कठोर-हृदया ब्रुवे?

1.21.63

[अनु]
[133] क्षणं विभाव्य पुनर् उवाच-
सातिश्रीर् भवतात्याजि श्रीवक्षा न भवांस् तया ।
वयं तु सरला युग्मे युग्मं रोद्धुं न शक्नुमः

1.21.64

[अनुष्टुभ्]
[134] कृष्णस् तुष्णीं स्थितवान् ।
[135] पौर्णमासी उवाच-व्रज-जन-व्रज-जीवन! वाचं-यमताम् आचरन् कथम् इव गिरं मम न सङ्गिरसे?
[136] श्री-कृष्ण उवाच-अधर्म एवात्र मर्म-भेदी भवतीति ।
[137] पौर्णमासी उवाच-अधर्मः खलु मया स्वीकृत एव, धर्मस् तु तव वर्धताम् ।
[138] श्री-कृष्ण उवाच-स्पर्शनं विनान्यद् अनुमन्यताम् ।
[139] वृन्दाह-दर्शनं तावत् क्रियताम् । तन्-मात्रेण सिद्ध-यात्रे सति परम-गुण-पात्रे भवति कथम् अन्यद् अथ प्रार्थयितास्महे?
[140] अथ-
देहेन्द्रिय-मनो-बुद्धि प्राणादीनां प्रियं प्रिये ।
त्वद्-अनादर-भाजो मे जातं सर्वम् अनादृतम् ॥
इति राधां प्रति चेतसि चिन्तयन्तं कृष्णम् अन्तः स-तृष्णम् अपि बहिस् तूष्णीकताम् एव पुष्णन्तं, मधुमङ्गलः कर-सरसिजे गृहीत्वा कुटज-कुञ्ज-गृहम् एव नीतवान् । नीत्वा च तत्-पर्यन्त-भुवि वृन्दां रक्षित्वा बाह्यम् अवगाह्य, पूर्णिमां संवाह्य तस्मिन्न् अन्ते-गुरुतया तत्रकीयं वृत्तं चित्रवद् ईक्षितवान् ।
[141] तत्र श्री-वृन्दा-वचनं यथा-
इन्दुर् इन्दु-भ्रमं याति दर्पणः प्रतिबिम्बताम् ।
मोहं पद्मालया यत्र कृष्ण तन्-मुखम् ईक्ष्यताम्

1.21.65

[अनुष्टुभ्]
[142] ततश् च समावृताजस्र-पुलकास्रतया स च तद् आलुलोके, यथा चाद्यापि सख्यो गायन्ति-
तां रहसि गतां किसलय-शयन-शयानाम् ।
हरिर् आलोकत निज-मुरली-कलकलया चित्रित-भानाम् ॥ध्रुव॥
या निज-वदनामृत-रुचिना तन्-मुख-रत्नम् अजस्रम् ।
बहलम् असिस्रवद् इह यद् भातं प्रतिपद-सम्पतद् अस्रम् ॥ब्॥
यस्या हृदयं स्वान्तरम् अनु तत् कायं भज दव-कलितम् ।
बहिर् अपि तं प्रतिबिम्ब-व्याजाद् व्यानञ्जात्मनि वलितम् ॥च्॥
यस्यां दोष-त्रयम् इति मतिभिः प्रत्तं कुङ्कुम-रागम् ।
मेने मुररिपुर् अथ साक्षाद् इव यातं हृद्-गत-रागम् ॥द्॥
यां पश्यन् स तु सात्त्विक-भावं दधद् अपि चित्त-विकारम् ।
भेजे यत्र प्रतिकृति-कृद् अपि प्रतिकृतिर् इति च विचारम् ॥ए॥
स यया प्रतिकृतिताभ्रमम् आगाद् एवं भावन-शाली ।
भाव-परीक्षण-कृन् मे कृतकोऽ प्य् एताम् इन्द्रक-जाली ॥f॥
तद् अपि च यत्र स्पृहयन्न् अथ याम् एनां मेने राधाम् ।
वृन्दा याच्ञां प्रत्याचष्ट च दधद् अपि दुःखाद् बाधाम् ॥ग्॥
स पुनर् यस्या हेतोः शोचन् व्याजित-वृन्दा-वननम् ।
विदधे यद्द् हृदि निज-पद-पल्लवम् अभितो जीवन-जननम् ॥ह्॥

1.21.66

। इति ।
[143] क्रमस् तु यथा, तत्र तस्य च दुर्निवारं विकारं निशाम्य काम्यमानम् अर्थम् एव वृन्दा प्रार्थयामास-श्री-व्रज-युवराज ! परम-प्रेमवती खल्व् असौ, यतः-
हन्त कृष्ण तव यौवन-स्थितौ
भोग-तर्षम् अनुमाय तन्-मयम् ।
दुःखम् आत्मनि विकृष्य सन्ततं
स्वीय-शर्म विजहाव् इयं रमा

1.21.67

[रथोद्धता]
[144] तद् एतद् अवधाय भवान् अप्य् एतद्-अर्थं वेणु-वादनादिकं कुर्वन्न् एवास्ते, तस्माद् अवधानं सन्धाय समाधीयताम् ।
[145] श्री-कृष्णः स-गद्गदम् उवाच-किं कर्तव्यम्?
[146] वृन्दाह-हस्तम् एव हृदि विन्यस्तं कुरु ।
[147] श्री-कृष्ण उवाच-तद् एतद् अत्यनुचितम् ।
[148] वृन्दाह-तर्हि चरणम् एव तथाचर ।
[149] श्री-कृष्णस् तुष्णीं तस्थौ ।
[150] वृन्दा पादयोः पतन्ती-हन्त, मा विलम्बम् अवलम्बस्व इति काकु-व्याकुला तयोर् एकं बलद् इव तस्या हृदि संवलयामास ।
[151] कृष्णश् च कम्प-सम्पदा पदारविन्दं सन्दधद् एव वैवश्य-वश्यतां विन्दति स्म ।
[152] ततश् च सञ्जीवनी-पल्लव-विन्यासवत् तल्-लव-स्पर्शत एव चक्षुः-पुट-युगम् उद्घटय्य तया स एव दृष्टः ।
[153] तदैव च-
सुभ्रुवो मुररिपोश् च दृग्-द्वयं
बिम्ब-दम्भम् अविशत् परस्परम् ।
शोभया व्यतिविलोभतः स्फुटं
ताव् अमुष्य परिवृत्तिम् ऐच्छताम्

1.21.68

[रथोद्धता]
[154] तदैव स चात्रकीयापत्रपातः शिरसि वसनावरणः सहसा निर्गम्य पूर्णिमां प्रणम्य च चलित एवासीत् । किन्तु स्खलन्न् इव चलन्, कर्मणा नर्मणा च मधुमङ्गल-दत्तावलम्बः सखि-कुलं संवलते स्म ।
[155] सा च स्वप्नम् इव पश्यन्ती वैवश्यत एव समुत्तिष्ठन्ती, निरक्षर-सूक्ष्म-रोदनं चानुतिष्ठन्ती यदा वृन्दया सादरं कृतसान्त्वा, तदा दरसान्त्वा पूर्णिमां नत्वा वृन्दया सह सुहृत्तमेक्षित-तद्-आगमे तस्मिन्न् अपराह्नेतमे व्रजं गत्वा, कथम् अपि समय-कतिपयान् गमयामास ।
[156] तद् आरभ्य तु स खलु परस्परं स्पर्शोऽ यं स्पर्शायैव परं सञ्चक्पे,
[157] यतः सकृत् तादृशं सुखम् उपलभ्य क्षणात् तद्-वियुक्तया तया कथम् इव प्रथमानं दुःखं स्तभ्यताम्? तत् तु सुखं स्व-संवेद्यम् एव, न तु निवेद्यम् । तथा हि-
तयोर् यावस्थासीद् व्यतिमिलन-शर्म प्रसजति कविः
को वा तां स्यात् कवयितुम् इह स्वल्पकम् अपि ।
ययोः काश्मीरं तत् पतितम् अपि पारस्परिकम् अप्य्
अहो पौलिन्दीनाम् अपि तद् इव शश्वद् व्यतनुत

1.21.69

[शिखरिणी]
[158] तद् एवं यदा हरेः पदारविन्दं विन्दमानानि कुङ्कुम-पङ्कानि कृत-तद्-अङ्कानि पुलिन्दी-जातालङ्कारतया जातानि, तदानीम् अन्यासां धन्यानां पूर्ववद् पूर्वानुभव-रचन-पूर्वकं वचनम् इदम्, पूर्णाः पुलिन्द्यः इत्यादि । [भ्प् 10.21.17]
[159] अत्र चेदं व्यञ्जितम्-
आस्तां सा दयिता यदीय-कुच-युक् श्री-कुङ्कुमं तत्-पदं
प्राप्तं तत्-तृणम् अप्य् अहो विजयतां साक्षात् तु तत्-सङ्गि यत् ।
अस्मत्तस् तु पुलिन्द-जाति-सुदृशां भाग्यं च दूरे स्थितं
यास् तत् प्राप्य निजाङ्ग-लेपन-सुखाद् आसेदिरे पूर्णताम्

1.21.70

[शार्दूल]
[160] अथ कथकः समापनम् आह स्म-
स ईदृक्-प्रणयी लब्धस् त्वया राधे पुरा तु यः ।
नाना-मनोरथं चक्रे रथवद् भवद्-आप्तये

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc