भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.20

1.20.1

[अनुष्टुभ्]
[73] तद् एवं सङ्क्षेपेनापि कथिते प्रथिते मुहूर्त-द्वयं मुहूर्तवद् एव ताश् च ते च तुष्णीम्भावम् आसेदुः, पुनश् च यथायथम् आवासं समासेदुः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
जम्भ-भेदि-सुरेन्द्रता-स्तम्भन-नगेन्द्र-धर-
गवेन्द्रतालम्भनं नाम
एकोनविंशं पूरणम्
॥19॥
(20)
अथ विंशं पूरणम्
वरुण-लोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनम्
[1] अथ प्रभात-कथायां स्निग्धकण्ठ उवाच-तद् एवम् एकादशी-कथा कथिता । तां च तिथिम् अशिथिलितया प्रथित-मनोरथां प्रतीत्य नित्यवद् एव व्रज-देवः सम्यग् उल्लासम् उपोवास । [2] किन्तु पारण-कारणम् अवशीर्णम् एव द्वादशीम् अवशिष्टाम् अवधाय बह्व्-अवशिष्टायाम् अपि रजन्यां विशिष्ट-विधि-बलतः स्नानादि-कलनाय कलिन्दीं प्रविष्टवान् । प्रविश्य च यथा-यथम् अत्रस्नुः सस्नौ । स्नात्वा चान्तर् एव वारिणः श्री-नारायणम् एकायनतया सागम-निष्ठम् उपतिष्ठमानः सुष्ठु ध्यातुम् आरब्धवान् । तत्र चायं जन्मत एव तन्-मयतया सन्-मतिर् आसीत् । तादृश-नन्दन-लाभानन्दतस् तु तत्राप्य् अतिशयं विन्दति स्म । ततश् च तद्-विध-ध्यानावधानतः समाधिम् अनवधिम् आपन्नवन्तं तं सर्वतः प्रचरन्तः
प्रचेतसश् चराः सहसा समासद्य सद्यः स्वीय-स्वामि-निवासं प्रत्य् एव प्रवासयामासुः । एष निवास-विशेषश् च तस्य जल-स्तम्भ-विद्यालम्भितार-भवान् स्वत एव भास्वान् भास्वत्-कन्या-ह्रद-स्थ-विवरस्याधः-प्रदेशे सदेश एव रसा-विवर-देशे निवेशम् आसीदति । न च कृष्ण-प्रभावता विदित-महितानुभावस्य तस्य तथानयनं नयवतां न सम्भावनीयम् । स हि निरन्तरम् इदं चिन्तयति-यद् अस्य मद्-भाग्य-जाततः सञ्जातस्य सुतस्य यथोत्तर-प्रथमान-मानतया परम-प्रेम-हर्षदम् उत्कर्षं शश्वद् एव पश्याम इति । ततस् तद् एवासकृद् एव योगम् आपयितुं तल्-लीलायाम् उपयोग-मायाताया योगमायाया एव समयास् त एते पूतना-गमनादिवत् । [3] अथ तथावेशिनम् एव व्रजेशानं यदा पाशिनः पुरतस् तद्-आदेशाभिनिवेशिनस् ते सञ्चारितवन्तस्,
तदा तद्-आकारत एव तं निर्धारयन् पुनश् च नारायण-धारणावन्तम् अवधारयन्न् अयम् अतिदरादराभ्यां कृत-दिव्य-वस्त्रादि-प्रशस्तितया वरशय्याम् एवाधिशाययामास । [4] स्वयं च पितृ-हरणासहिष्णु-कृष्णागमनम् अनन्तरम् एव मन्वानः सुदूर-दृष्टि-हेतुं पूर्-द्वारम् अधितिष्ठन्न् ऊर्ध्वम् एव तिष्ठति स्म । [5] अथात्रत्यं वृत्तम् अनुवृत्त्यताम् । [6] यदा खलु कृष्णस्य तातः कृष्णा-पाथसि तन्-नाथवत्ता-मात्र-धनानां जनानाम् अदृश्यताम् अवाप, तदा दिशि दिशि कान्दिशीकास् ते जलम् अवगाह्य तद्-अप्राप्तितस् तद्-बाह्यं प्रदेशम् आगताः । आगम्य च विक्रोशन्त एव व्रजम् अभिगच्छन्तः, कृष्ण-रामाग्रण्यस् तान् व्रज-ग्रामण्यः कलितासुखान् स्वाभिमुखान् एव लेभिरे । [7] तत्र च वृत्ते श्रुत-मात्रे
परम-दुःख-पात्रे सर्वतः कृत-मनो-विरामौ कृष्ण-रामौ विक्रम्य सर्वम् अतिक्रम्य, परमोत्कण्ठित-मत्या झटिति-गत्या पृथिवीम् अपि घट्टयन्तौ, तम् एव घट्टम् आटतुः । तत्र च कृष्णः समग्र-व्यग्रम् अग्रजम् आलिङ्गन् रिङ्गद्-अस्रम् एवेदम् अश्रावयत्-भ्रातर्, मातरम् अकातरतयाभिरक्ष्य सर्व एव रक्षणीयाः, यावद् अहं पितरम् आनीय सुख-वितरं करवाणि । मातर्य् अत्रागतायां तु न कथञ्चिद् अपि पर्याप्तिं पर्यापयितुं शक्ष्यामीति । [8] तद् एवं कृत-संवाद-मात्रः पितरम् आनेतुं निर्मित-यात्रः संहनन-बृंहित-सिंह-लज्जः संहित-परिकर-सज्जः पाताल-विवर-द्वार-पात्रं सरित्-पात्रम् अनु ममज्ज । [9] अनन्तरं च, व्रजेश्वरी-प्रधानाः सर्व एव तत्र चरण-मात्रम् आदधाना रामम् एकम् अवधानाः
कृष्णम् अनुसन्दधानाः पप्रच्छुः-क्व नु यातस् तवानुजातः? इति । [10] स तु तां व्रजेन्द्रसुदृशं विसदृशदृशं परामृशन्न् उवाच-मातर्, न कातरताम् आयाहि । स तु सम्प्रत्य् एव जनकम् आदाय स्वजनसुखं जनयि-ष्यति इति । [11] अथ स्वमातरम् उवाच-हन्त, त्वम् अपि कथं मां हन्तासि? मयि विश्वासतः श्वासमात्रविशिष्टाम् एतां पाहि । [12] ततश् च सर्व एवानर्वाञ्चः कालियदमनप्रक्रमतस् तद्वचनम् अक्लमप्रमम् एव मन्वानास् तां विश्रमयामासुः । किन्तु,
किं स्वप्नः किम् उ जागरः? किम् अथवा मूर्च्छा किम् उन्मादिता?
वेत्य् एतत् परिचेतुम् आपुर् असकृद्-बुद्धिं न तस्मिन् जनाः । किन्तूत्कण्ठिततावगुण्ठित-हृदां तेषाम् अभूद् वाग् इयं
हा हा श्री-व्रजराज हा बत हहा श्री-कृष्ण कुत्रासि भोः?

1.20.2

[शार्दूल]
जनी-चतुष्टय-धृता प्लुष्ट-चित्ता व्रजेश्वरी ।
श्वासास्तिता-तर्क-पात्रं हा हा मात्रं जगाद सा

1.20.3

[अनुष्टुभ्]
[13] अथ तुङ्गाचल-जल-चित-सुरङ्गा-प्रवेशतः प्रचेतः-सदन-गतस्य तस्य व्रज-लक्ष्मी-दयितस्य चरितम् अनुपचरितम् अवधार्यताम् ।
[14] यद तु ते यादसाम्पति-भवनं जवतः श्री-व्रज-राजम् अभाजयंस् तदा स च तत्र सचते स्म । यथा च,
स्निग्ध-श्याम-रुच्य् अपि क्रुद्-अरुण-द्योताद् अदृश्यं वपुर्
ध्वान्त-ध्वांस्य् अपि तीव्रता-शवलनाद् दृग्-रोधनं दृग्-द्वयम् ।
कौमल्यादि-गुणापि रोष-रभसाद् उग्रा तथा तस्य गीः
कल्पान्ताभ्र-तडिद्-ध्वनि-भ्रम-धरान् विस्मापयन्ते स्म तान्

1.20.4

[शार्दूलविक्रीडित]
[15] ततश् च-बिलं वलमानः स खलु जम्बुकः क्व नु वर्तते? इति जल्प-कलनया तस्मिन्न् अवज्ञा-वर्धनस्य श्रीमन्-नन्द-कुल-समर्धनस्य भृशम् अर्दिधिषति दृशम् अर्दिदिषति च तेजसि बहुल-कोलाहल-प्रवाहम् अवलम्बमानः स्व-गल-वलयित-चेलतया क्ष्मामेलित-भालः सर्व-जल-पालः शङ्कित-कलिः कलिताञ्जलिर् विदूर-भू-गत एवाखण्ड-दण्डवत् प्रणनाम । [16] तस्य चेदृशात् खर्व-गर्वतावलोकनात् सर्व एव तन्-नाथास् तथा प्रथाञ्चक्रुः । [17] ततश् च तरुणारुण-कमल-लोचनः सर्व-रोचनः करुणया पुरः-सरताम् आसाद्य सद्यस् तं वरुणं पप्रच्छ-ते तु कुत्र परम-धर्माचरणा मदीय-पितृ-चरणाः? इति । [18] वरुणस् तु गलित-धैर्य-सञ्जनः साञ्जलितया सान्त्वं वचो व्यानञ्ज-पुरुषोत्तम! यत्र खलु तत्र-भवांस्, तत्र
परम् असाव् असमः परम-महान् सम्भवति, नान्यत्र । किन्तु तेषाम् एषां किङ्कराणां किं करवाणि शासनम् आत्मनश् चेति तद् अनुशासनम् आशासे ।
[19] कृष्णः स-शान्त-स्वान्तम् आह-वराकाणाम् एषां दण्डः केवलं दण्डयितुं पौरुषं खण्डयति । अविलम्ब-स्पर्शम् एव तु दर्शयतात् तात-चरण-सरोजातम् । [20] अथ यथादिशन्ति दीर्ण-दीनादीनवास् तत्र-भवन्तः इति । [21] वारि-राजः श्री-व्रज-राज-विराजमान-सदन-पर्यन्तं पन्थानं तच्-चरण-मूलतः परम-दुकूलानुकूलं चकार, तत्र निनाय च गोप-कुल-नायक-कुल-नायकम् । उवाच च-गोविन्द नीयताम् एष पिता ते पितृ-वत्सल [भ्प् 10.28.9] इति । [22] इदम् अहं जानाम्य् एव, तत् कथम् अन्यथा चरामि? कथं वा पराद् अस्य पराभवः स्यात्? इति भावः । [23] तद् एवं वरुणस्य पाशाद् यद् भय-पात्रायमाणत्वम्, तस्माद् अपि स्व-प्रभावेण मोचकस्य तस्य-
उपलभ्य च सौरभ्यम् अलभ्यस्य सुतस्य सः ।
अभ्याययौ बहिर्-वृत्तिं सभ्यानां विस्मयं वहन्

1.20.5

[अनुष्टुभ्]
उन्मीलयामास विलोचने स
श्रीमन् मुखं तस्य च सन्ददर्श ।
सन्दर्शनाद् एव बभूव सास्रः
स्वप्नायितं चास्रवृतेर् अमंस्त

1.20.6

[इन्द्रवज्रा]
[24] कृष्णस् तु तच्-चरण-युगल-तल-स्पर्श-पूर्वकं तम् आलिङ्गन् उन्नमितवान्-तात, सोऽ हम् आगतोऽ स्मि, इत्य् अधिगतवांश् च । 25] तत्र द्वयोर् अपि समग्र-व्यग्रताम् आगच्छतोर् अथ हरिस् तु परितः परीत-पर-परीवार-परीहास-शङ्कया सङ्कुचित-चित्तस् तत्र चात्मनि च बाष्पादि-विकार-व्यतिरिक्ताकारताम् आसादयितुं व्याजहार-तात, परितः समवधीयताम् । [26] अथ व्रज-सूत्रामा परितः समीक्ष्य च कुत्रावाम् आगतौ? इति स-वैलक्ष्यं पुत्राननम् ईक्षते स्म । [27] स चोवाच-तात, मा तन्यताम् अन्यथा-भावः । यथाव्रजनम् एव स्व-व्रजं व्रजिष्यावः । ततः पुरतश् चरण-कमलम् अवधीयमानम् आधीयताम् । [28] तत्र तु तथा कुर्वति व्याकुलताकुल-काकु-पूर्वं वरुण उवाच-
कृपालुस् त्वम् अहो कृष्ण द्वयोर् एकतरं कुरु ।
दण्डं वाथ प्रसादं वा नापराधं तु शेषय

1.20.7

[अनुष्टुभ्]
[29] तद् एवं कृत-यात्रतया स्थितयोर् अपि क्षण-मात्रम् अवस्थितयोस् तयोर् महोपचारांश् चरणाग्रतः समर्पितान् आचरन् प्रणामम् आचचार, चचाल च स ताभ्यां सह यावद्-विवराभ्यासम् । आगम्य च तद्-अभ्यासं तद्-वर्त्म-भाग-स्थित-नीरं विभागम् आगमय्य ताभ्यां सह व्रजं प्रति प्रहित-जन-प्रहित-महितालङ्कृति-मुख-परिबर्ह-सम्भृति-मुहूर्त-सुख-पूर्तितः कृत-कृत्यं-मन्यतया नृत्यन्न् इव निववृते ।
तदा तीर-स्थाना व्रज-जनि-जनाः प्राण-रहित-
प्रभास् तद्-वर्त्मेक्षा-स्थित-शिथिल-जीव-स्थिति-दशाः ।
पिता-पुत्रौ वाराम्पति-चर-युतौ निर्व्यथतया
गतौ दृष्ट्वा भूयोऽ प्य् अहह सुख-तन्द्रीम् अभिययुः

1.20.8

[शिखरिणी]
[30] केवलस् तु बलदेवस् ताव् अभिजगाम, प्रणनाम च व्रज-राजम् । दत्त-सुख-समाजे व्रज-राजे तु, तम् उपगूह्य विस्मृत-बाह्यतया किञ्चन चासमूह्य क्षण-कतिपयं विरमति । पुनश् च रामे पुनः पुनर् नमति, रामानुजः सहसा सहसा परिक्रम्य परम-रम्य-निज-स्पर्शामृत-स्पर्शनतः प्रथमं मातरम् एव कातरः पुनर् जीव-लोकम् आलोकयामास, क्रमशस् त्व् अन्यम् अन्यम् अपि ।
समागते पितरि हरेर् उभाव् अमू
मिलन्त्य् अपि व्रज-जनतामिलन् मिथः ।
तदा न सा परिबुबुधे परं परं
परन्तु ताव् अखिलम् अवैत् परापरम्

1.20.9

[रुचिरा]
हम्बा-रावैर् जन-कलकलैः स्वर्गतः पुष्प-पातैर्
वाद्यैर् नृत्यैः स्तव-रव-शतैर् उत्थितेऽ न्योऽ न्य-मर्दे ।
श्रीमान् रामः पशु-समुदयं वारयन् लोक-वृन्दं
श्लक्ष्णालापैर् अपि समुचित-स्थान-निष्ठं चकार

1.20.10

[शार्दूल]
तत्र च-
स्वयं दत्त्वा शुभ्रासनम् इह महा-गोप-पतये
यथा-योग्यं चान्यान् विदधद् उपविष्टान् अथ बलः ।
उपान्त-प्रक्रान्त-स्थितिम् अनुजम् आपृच्छ्य परितः
कथाम् एतां शृण्वन् पशुप-कुलम् अश्रावयद् अपि

1.20.11

[शिखरिणी]
[31] तत्राथ दत्त-स्वातन्त्र्यतया विप्रान् आमन्त्र्य परमान्नादिभिः सन्तर्प्य तद्-अभीप्सितानि वीप्सया समर्प्य, द्वादश्यतिक्रम-भिया तत्-प्रवण-धिया व्रतम् इदम् अच्छिद्र-प्रथम् अस्त्व् इति प्रार्थ्य, गीर्भिस् तद्-आशीर्भिस् तत्र सामर्थ्यं समर्थ-कृतार्थं-मन्यास् ते धन्या बहुल-कुतूहलतः सर्व एव व्रजम् आव्रजन्ति स्म । [32] यत्र व्रजाध्यक्षः स्वयम् अध्वानं व्रजन्, मध्ये-सुत-द्वयम् अभ्राजिष्ट । [33] अथ कथकस् ताम् एतां कथां समापयन् श्री-व्रजेश्वरं प्रत्य् आह-
पाशि-पाशेन सम्बन्धस् त्वय्य् आसीन् नेति का कथा ।
तद्-भयेनापि नासीत् त्वत्-पुत्रस्यास्य प्रभावतः

1.20.12

तद् उक्तं वरुणेनास्य करुणां वीर्य-भीरुणा ।
गोविन्द नीयताम् एष पिता ते पितृ-वत्सलः

1.20.13

इति । [अनुष्टुभ्]
[34] अथ दिनान्तरे कृष्णम् अन्तरेण सभान्तरे निविष्टा गोप-कुल-शिष्टा व्रज-पतिं प्रति तत्रत्यं चित्रं पप्रच्छुः । [35] स च लोक-पालस्य तस्य तं महोदयम् ऐहिक-लोकानाम् आलोक-पथातीतम् अस्तोकं श्लोकयामास । तत्र च-मित्राणि, चित्रं श्रूयताम् इति तद्-वासिनां कृष्णे भक्तिम् अतिरिक्तां वर्णयामास । [36] तद्-वर्णनान्तरं तु निज-निजम् अन्तरम् अनु विस्मितानां तस्मिन्न् ईश्वरतालम्भक-सम्भावनया सर्वेषाम् एव सेयं भावना-यदि चानश्वर-प्रतिपत्ति-वशाद् अयम् ईश्वरस्, तथाप्य् औत्पत्तिक-स्नेह-सम्पत्ति-विषयाश्रयता-मय-निरामय-सुख-दायीति तु सदा मुख्य-व्यतीत-सर्व-तर्षं समुत्कर्षं द्रष्टुं सुष्ठु मुहुर् उल्लसत्य् एव नश् चेतो-वृत्तिः । तच् च किम् अनेन निर्बाधं साधयिष्यते? इति । [37] एष चाशेषाणाम् एषां
स्वापर-पर्याय-ज्ञातितया स्वाभेदेन विज्ञायमानानाम् एतद् अभिज्ञाय, कारुण्य-जात-यन्त्रणया शीघ्रता-परतन्त्रतया चिन्तितवान्- [38] अहो, एते च ते ते मम परम-स्वजना, मयि पारमैश्वर्यं पर्यालोच्य सर्वतोऽ प्य् असम्भवं मद्-वैभवम् अनुभवितुम् इच्छन्ति, किन्तु नानुभवन्ति यत एव लोक-पाल-वैभव-मात्रं चमत्कार-पात्रं कुर्वन्ति । तादृशं तद् वैभवं पुनर् एषां स्वगति-मयम् एव । तत् तु तन्-मयम् अपि यन् नानुभवन्ति, तत् खल्व् अविद्या-काम-कर्म-निर्मितोच्चावच-गतिमति जगति विरचितम् अवतारम् अनु सर्व-साधारणं-मन्यतया बुद्धि-बाधात एव । सा चैषाम्,
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥[भ्प् 10.11.58]
कृष्णेऽ र्पितात्म-सुहृद्-अर्थ-कलत्र-कामाः [भ्प् 10.16.10] इति । कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः [भ्प् 10.65.6] इति ।
[39] तथा च-
एषां घोष-निवासिनाम् उत भवान् किं देवरातेति नश्
चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति ।
सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥[10.14.35]
इत्य् आदिभिः प्रमित-सर्वोपरि-मद्-वशीकारि-प्रेम-महिम्नां यद्यपि नाविद्यादि-मयी, तथाप्य् एषाम् अन्य-साधारणं-मन्यताम् असहमानोऽ हं मदीय-प्रेम-सन्दोह-मय-मोहाभिलाष-लालना-जालतः सञ्जायमानाम् अप्य् एतां तन्-मयीम् एव मन्ये । [40] वस्तुतस् तु तादृश-प्रेमर्णेनानादि-कल्पत एवान्येभ्यः प्रत्तानवकाशाम् उत्तमर्णतां गतानाम् अप्य् एषां मय्य् अर्पित-सर्वार्थानां गतिर् एव मम गतिस्, तद्-अनुगतम् एव च मम परमं वैभवम्, न पुनर् अतः परम् अपि परं सम्भवति । [41] तद् एवं जलावितुर् वैभवाद् अपि पितुर् मम यश् चमत्कारः, स तु मां दुःखाकरोति । तस्माद् एतेषां यथा मयि प्रेमावेशस् तथा नैतेषु ममेति तद्-अनुसन्धानवता मया तद् एतद् एषाम् एव वैभवम् एतेषाम् एव शुभानुध्यान-मय-योगमायानुभवतः
साम्प्रतम् एनान् अनुभावयानि इति । [42] तद् एतद् विचिन्तनानन्तरं दिनानन्तरे पुनर् आदि-वराह-पुराण-वाचक-याचक-विप्र-द्वारा-पुर-द्वारास्थानी-स्थितिक-विचित्र-पित्राद्य्-आभीर-वीर-परिषदं प्रति-कार्तिक-वर्ति-पूर्णिमा-स्नानम् अक्रूराभीष्ट-प्रदे ब्रह्म-ह्रदे तूर्णम् एव पूर्ण-तत्-फलतां साधयति इत्य् अवधारयन्, सारतया धारयंस् तत्-प्रातः सर्वांस् तान् दायादादीन् आदाय सत्रा तत्रागतवान् । [43] आगत्य च सर्वेण सह तत्र निमज्ज्य, तम् उत्सृज्य, तीरम् आसज्य, प्रकृतितः परतया सच्-चिद्-आनन्द-घनं परम-स्वरूप-रूप-रस-गन्ध-स्पर्श-शब्दतयात्मारामाणाम् अप्य् अलभ्य-घनं गोपानां स्व-निकेतम् एतं गोलोकम् आवरक-शक्तिम् अपाकृत्य व्यक्तीकृतवान् ।
[44] तिरस्करिणीं निराकृत्य विचित्रं दिव्य-चित्रम् इव यं खल्व् अस्य नराकृति-पर-ब्रह्मणः स्व-लोकतया ब्रह्मणो लोक इत्य् आचक्षते । [45] यत्र किल स्वेषाम् एव मध्यम् अध्यासितं निज-कुल-तिलक-कृष्णाकारतया परिचितं कृत-जन्मादि-गोकुल-लीला-स्तुति-श्रुति-साक्षिकतयातिनिश्चितं तम् एतं स-लोकम् आलोकयन् व्रज-लोकः सर्व-शोकं व्यतीत्य, विस्मयानन्द-सन्दोहतः प्रतिक्षणम् एव सुख-संरोहम् अवाप । [46] तद् एवं व्यज्य रज्यन्-मनसस् तान् व्रज-लोकान् गोलोकतः स दैतेयारिर् दैतेयपीडनादि-क्रीडां पूरयितुं पुनर् व्यवधापितवांश् च । [47] अथ कथकः समापनम् आह-
ईदृग् व्रजेश पुत्रस् ते जित-लोकेश-लोककः ।
यस् त्वां च तव लोकं च लोकम् एतम् अलोकयत्

1.20.14

[अनुष्टुभ्]
अधि गोलोके गोपाः स्वयम् अधि गोपेषु गोलोकः ।
इति कलयन् वनमाली यस् तं व्यानञ्ज तं नौमि

1.20.15

[उपगीति]॥
[48] तद् एवं प्रातः-कथायां प्रयातायां विभावरी-कथा विभाति स्म । यथा स्निग्धकण्ठ उवाच-
यदा यातः पित्रा सह वरुण-लोकं हरिर् असौ
तदा राधादीनां स्थितिर् इह मृषा का प्रथयिता ।
जडानां जाड्यं स्याद् असुख-सुख-बुद्धिस् तु सुधियां
न शून्यस्य प्राप्तिं भजति परितः कापि च दशा

1.20.16

[शिखरिणी]
यदायासीत् कृष्णः किल वरुण-लोकं पितृ-कृते
तदा श्री-राधायाः श्वसितम् अमुना सार्धम् अगमत् ।
यदायासीत् तस्माद् अयम् अथ तदा तत्र सहसा
समागाद् इत्य् एषा परम् इह कवीनां सुकविता

1.20.17

[शिखरिणी]
किं च-
आयाते तु व्रज-पति-सुते पाशि-लोकात् तदा काप्य्
एका राधाम् अनु तम् अनु च स्निग्ध-भावा विदग्धा ।
औत्सुक्यं तद् द्वयम् अनु निशि श्रावयन्ती द्वि-निष्ठं
चेतो-वृत्तेर् मुखम् इव तयोर् अञ्जसा जायते स्म

1.20.18

[शार्दूल]
[49] तत्र श्री-राधा-निष्ठम्, तद् यथा-
यदि मां नयसि विधातर्
लोकान्तरम् अन्तरा सेवाम् ।
नय मां तन्-मुख-सुषमा-
स-सुखां विरहान् न दुःखितां तस्य

1.20.19

[उद्गीति]
[50] श्री-कृष्ण-निष्ठं यथा-
आनीताः पितृ-चरणा वारुण-लोकात् प्रनन्दिता लोकाः ।
हा राधा मम शोकाद् बाधा-गीर्णा न जीर्णास्ति

1.20.20

[आर्या]
[51] अत्र काक्वा जीर्णास्त्य् एवेति सम्भाव्यते । [52] तद् एवं सा तस्यां तस्मिन्न् अपि रहसि निवेद्य विशेषतः श्रीकृष्णम् अप्य् उपालब्धवती, यथा-
रागं विनास्ति हृदयं माधव तव रोचते च तत् तुभ्यम् ।
इति नियतं कनकाङ्गी पाण्डू-भवति स्फुटं राधा

1.20.21

[आर्या]
[53] ततश् च तस्य स्नेह-वशाद् देह-द्रवी-भावं व्यवस्य पुनः प्रहस्य प्रोवाच-
भवान् गुणी माधव राधिकापि सा
येनातिदूराद् अपि सुष्ठु कृष्यते ।
राधापि बाढं सरसा निजालयाद् अप्य्
एवम् आर्द्रीक्रियते यया भवान्

1.20.22

[उपजाति 12]
[54] मधुकण्ठ उवाच-केयं वृद्धा? यतस् तत्र नान्य-जनस्य प्रवेशः सम्भवतीति पूर्वं निर्णीतम् । [55] स्निग्धकण्ठः सहासम् आह-पौर्णमास्य् एव नाना-वेशेन तत्र प्रवेशतीति । [56] अथ तदारभ्य-
निशीथं निशीथं तदासौ प्रकर्षाद्
अगासीन् मुरल्येति तथ्यं मृषा न ।
अमूस् तु प्रतीयुः स्फुटं मर्म-भेदी
स वा कः शरैर् यश् छिनत्त्य् आशु सर्वम्

1.20.23

[भुजङ्गप्रयाता]
निवेशे संवेशे मथि पथि जने पाथसि वने
हरिर् यद्य् अप्य् उद्यन् प्रतिहरितम् एव स्फुरितवान् ।
स्फुटं द्रष्टुं स्प्रष्टुं तदपि तद्-अलब्धेर् विधुरजाद्
दधे राधा-बाधा तद्-अनधिगमाद् अप्य् अधिकताम्

1.20.24

[शिखरिणी]॥
[57] अथ समापनम्-
ईदृशस् ते पतिः श्यामे यत्-कान्तेस् त्वं परा गतिः ।
अत्राभिलाषः शोभा वा कान्तिर् इत्य् अधिगम्यताम्

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc