भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.19

1.19.1

[अनुष्टुभ्]
[93] तद् एतद् अपि कथन-शेषं समाप्य पूर्ववद् एव सूत-सुतयोर् गतयोः सर्वेऽ पि यथास्वं प्रस्थिताः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
गोत्रभिद्-गर्व-खण्डन-
गोवर्धन-गोत्र-मान-वर्धनम्
नामाष्टादशं पूरणम्
॥18 ॥
(19)
अथैकोनविंशपूरणम्
जम्भ-भेदि-सुरेन्द्रता-स्तम्भन-
नगेन्द्र-धर-गवेन्द्रतालम्भनम्
[1] अथ प्रभाते सभा-तेजसा विभातयोः सूत-जातयोर् मधुकण्ठ-नामा कथयामास-
[2] तद् एवं तादृक्-सम्पदि प्रतिपदि गोवर्धन-समर्धनं सिद्धम् । तृतीयाम् आरभ्य नवम्य्-अवधिकं रम्यं तद्-धारणम् अद्धावधार्यताम् ।
[3] अथ तादृश-दशा-रम्यायां दशम्यां श्री-व्रज-राज-समाजम् अनु निमन्त्रणया प्रामाणि-कमाणिक्य-व्रज-जनाः सुख-योजनं भोजनं संयुज्य मुख-वासनं मुख-वासम् उपज्युज्य वार्तां वर्तयामासुः । [4] यत्र क्षितिधर-धारण-निध्यानान् निर्धारयन्तः पूतनावधादिकम् एतद् अवधिकम् असम्भावितं सम्भावितं चाविशेषतया तत्-कर्म-विशेषतया गणयामासुः ।
[5] पुनश् चैवम् आहुः-
वावहिः पर्वतं बालः सासहिर् न तु चाचलिः ।
बहिर् एव यथा वृष्टिः पापतिर् न तद्-अन्तरे

1.19.2

[अनुष्टुभ्]
[6] तद् एवं परम-प्रभावता तावद् विस्मय-जननी जननीतिम् अतिक्रामति । तस्याम् अपि सत्यामत्यासक्ति-मय-स्नेह-चय-स्वभावता मादृशाम् अन्यादृशाम् अपि तस्मिन् निश्चिता विस्मितिम् आतनोति । [7] तस्य च मादृक्षु विसदृक्षु च यासौ लक्ष्यते, सा तु परम-विलक्षणतयातीव वैलक्ष्यं लक्षयति । किं च-
प्रत्येकं स्वे तनूजे प्रवलयति जनः स्वैरम् एवानुरागं
सर्वेषां नस् तदीये स कथम् अथ कथं शक्यते नापि मोक्तुं ।
सर्वेष्व् अप्य् अस्य सोऽ यं स्फुरति सहभवस् तादृग् एव व्रजेश
स्मारं स्मारं तद् एतत् न कथम् अपि मनाग् उक्तियुक्ती व्रजामः

1.19.3

[स्रग्धरा]
[8] तद् एवं प्रवणतया श्रवणतः श्रीमान् नन्दः प्रजातानन्दः प्रणय-मयतया सम्मत-समयतया च गर्ग-सिद्धान्त-वर्गम् एवानुगद्य निरवद्य-सौहृद्यतस् तेषाम् अमन्देहोद्भव-सन्देहोद्यमं संयमनम् अनैषीत्, श्रूयतां मे वचो गोपो व्येतु शङ्का च वोऽ र्भके [भ्प् 10.26.15] इत्य् आदिना । अन्ते चोक्तवान्-
यद्-अवधि माम् उपदिश्य
प्रास्थित गर्गस् तद्-अवधि जानामि ।
शिशुर् अयम् अद्भुत-चर्यां
वलयति नारायणी यया शक्त्या

1.19.4

[गीति]
[9] तद् एवं श्रीमन्-नन्द-राज-वाक्यतस् तद्-अवकलनानन्द-भाजस् तं यदा समस्त-जनाः समस्त-जनानन्दन-तन्-नन्दन-वार्तया नन्दयन्तः सन्ति स्म, तदा निज-वृन्दैर् वृन्दारकैश् च वन्द्यमानतया नन्द्यमानतया नन्द्यमानतया च वृन्दावन-चन्द्रः सहसा सह-रामः समाजगाम ।
[10] समाजश् चायं समम् एव तं परिवेष इव परितश् छादयामास, चकोर-वार इव तत्-कान्तिम् आस्वादयामास, वारां निधिर् इव चात्मानम् उल्लोलतया सम्पादयामास ।
[11] तद् एवं स्थिते सर्वस्मिन्न् अपि स्वस्थतया चावस्थिते क्षण-कतिपये च प्रस्थिते सर्व एव ते सामाजिकाः प्रतिस्वम् अमनेन्दिराद् आत्म-मन्दिराद् आनीत-प्रीत-सितासित-प्रशस्त-वस्त्र-सङ्करं सद्-अलङ्करणादिकं तं च तद्-भ्रातरं तत्-पितरं च पृथक् पृथग् अलङ्कारं स्वीकारयाञ्चक्रुः ।
[12] यथैवं बहिर् एभिर् आचरितं, तथान्तः-पुरे स-राम-मातृकां गिरिधरस्य मातरम् अभि चैषां महिलाभिर् विरचितम् इति निर्विशेषम् एव तद् उभयत्र पर्वासीत् ।
[13] अथ सुर-पुरे सुरेशस्य वृत्तम् अनुवृत्यताम् । [14] इतो गत्वा दैन्यं मत्वा स्खलद्-ओजा विडौजाः क्षयं गच्छन्न् अप्य् असौ क्षयम् ऋच्छन्न् इव स्थितवान् न तु शचीम् अचीकमत, न च निर्जर-सदसि निर्जगाम ।
[15] तद् एवं वर्ण्यमानम् अवकर्ण्य वाचस्पतिर् वास्तोष्पतिम् अनुरहसं भर्त्सयामास, यतः स खलु विबुधानाम् अपि विबुधः । [16] भर्त्सनं, यथा-
यस्माद् अभजसि विष्णुं जिष्णो तस्माद् अनेधितासे त्वम् ।
न विना चन्द्रं विन्दति जीवन-वृत्तिं वनस्पतिः कोऽ पि

1.19.5

[गीति]
[17] अथवा सहस्रदृशम् अप्य् अहो भवादृशम् अभिभूय भृशी-भवन्ती तादृशी मदान्धता नासदृशी, यतः सुरेशोऽ सि । किन्त्व् अमृतपता तव कथं म्र्तपता जाता? यतस् त्यक्त-प्राण-प्रायण-काय-प्रायतः प्रमादः सोऽ यम् आपतितः ।
[18] तथा च स्मरति-
अपस्नात इव स्नातोऽ प्य् अलम् अस्पृश्य एव सः ।
मृतकं वपुर् आसज्जन् यः सद्भ्यो भय-दायकः

1.19.6

[अनुष्टुभ्]
[19] किं च-वृषाह्वय, तव चेदम् अत्यविचारत एव । तथा हि-
यद्-आलम्बाज् जनः प्राणं यस्माद् रक्षितुम् इच्छति ।
वैपरीत्यं तयोः कुर्वन्न् अनुन्मत्तो न कथ्यते

1.19.7

[अनुष्टुभ्]
[20] इन्द्र उवाच-अविचारितम् एवाचरितम् इदं मया, भवद्भिश् च साम्प्रतं साम्प्रतम् उपदिश्यताम् ।
[21] वाचस्पतिर् उवाच-शतमन्यो, तादृश-विसदृशतायां शतधृतिर् एव धृतिम् आसादयिता, तस्मात् तद्-अनुसरणम् एव शरणम् ।
[22] तद् एवं जम्भभेदी सखेदी-भवन्न् अवधाय धातारम् एव गत्वा सङ्कोचम् अमत्वा स्वापराधम् अवधारयामास ।
[23] स तूवाच-हन्त, विबुधाधिपेनाप्य् अबुधेन भवता भवता दुःसाध-राधः सोऽ यं महान् एवापराधः कृतः, यं खलु साधवः सकृद् अप्य् अवधारयन्तस् त्वाम् अवधीरयन्तः सावधानाः श्रोत्रम् अपिदधते । तथापि सृष्टि-विधित्सा-दुर्विधिना विधिना मया तद् इदम् उपदिश्यते । पूर्वं तन्-महिम-जिज्ञासया धार्ष्ट्यम् अनुष्ठितम् अस्तीति तन्-मात्र-किल्बिष-विषम-विषम-विषह-मानेन मया दुर्माण-मयागाध-भवद्-अपराध-क्षमापणाय क्षमता न लभ्यते ।
[24] किन्तु-
गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणाम् ।
नित्यं गोषु प्रसन्नासु गोपालोऽ पि प्रसीदति ॥
इति गौतमादि-सम्मत्या गोजातिषु प्रीति-रीति-परीतस्य तस्य क्षमापणाय कातरस् त्वं तज्-जाति-मातरं सुरभीम् एव भजस्व, न चेद् असुरतः सुरभी-सङ्गतिर् भविष्यति ।
[25] अथ सुनासीरस् त्व् असुरभीतः सुरभी-लोकम् आसाद्य सद्यस् तद् अवद्य-चरित-प्रचाराद् विमनसम् अपि तां मातुः स्वसारं मुहुः प्रसाद्य वेधसः सविधम् एवानिनाय ।
[26] ततश् च विधातेदम् अभिदधे-अयि, सुरभि, सुरपति-भी-सान्त्वनार्थम् असुरान्तकस्यान्तिकं गच्छ । गत्वा च त्वम् अस्य नूनम् एवम् एव लब्ध-दुश्च्यवन-नाम्नः परिकिल्बिष-कीर्तन-भिया किल कवि-परिषद्-उपेक्षणीय-तन्-नाम-धेयस्य कृष्णतश् च्यवनं विच्यावय । तच् च स्व-सम्पद्-उपकण्ठ-कुण्ठी-कृतापर-वैकुण्ठ-लोक-गोलोक-महेन्द्रता-मर्त्य-लोकेऽ प्य् अस्य व्यक्तीभवताद् इति तद्-अभिषेक-सेवातिरेकतः सम्भाविता इति ।
[27] अथ हरि-वासर-दिवसे सुरभिः सुर-राजम् अनु वृन्दावन-भूपरि-भुवर्-लोक-भागम् आगम्य तद्-अवसरं प्रतीक्षामास । तत्र च दूरतः सुर-पतिं सुरभिर् अभिहितवती-
नासौ मेघः पश्य गोवर्धनाद्रिर्
नायं नव्यस् तस्य भागः स कृष्णः ।
नेयं विद्युल्-लोल-पीतांशुक-श्रीर्
नैतन् मन्दं गर्जितं नर्मवार्ता

1.19.8

[शालिनी]
[28] पश्य पश्य, सम्यग् उत्पतिष्णुः पतग-जिष्णुर् विष्णु-वाहनः सोऽ यम् अस्मद् अप्य् उपरि-भागम् आरूढः सन् विद्युद्-गूढ-वारिद-वार इव यस्य च्छायाम् इच्छन् किल यत्र च्छायां प्रसारयति । [29] सोऽ यं तु-
श्री-गोवर्धन-शैल-रत्न-दृशदि प्रक्षिप्त-शुभ्रास्तरे
वामोरु-स्थित-कञ्ज-चारु-चरणे सव्यं करं दक्षिणे ।
न्यस्यन्न् अन्यम् अपूर्व-रूप-मुरली-नाले मनाग् अत्र नः
स्मेरेणाक्षि-तटेन सन्दधद् अहो मन्ये कृपां वर्षति

1.19.9

[शार्दूल]
[30] अत्र चायम् अस्मन्-मिलनम् अङ्गीकुर्वन्न् एव सङ्गिनः प्रसङ्गान्तराय प्रस्थापितवान् । बलदेवश् च नाद्य वनम् आगतवान् इति चास्थीयते । तस्माद् अतिस्वच्छतर-चेतसम् अमुं भवांस् तावन् निभृततया निभृतम् अव्यग्रतया चाभ्यग्रं गत्वा दण्डवन् नत्वा प्रसादयितुम् अर्हति । यतः,
स्वयम् अपराध्यति कुरुते प्रभुम् अभि तन्-मार्जने सहायं यः ।
तस्येदं पर-शक्तेर् दर्शनम् अथ नैव दैन्यस्य

1.19.10

[आर्या]
यस्मिन् स्वयम् अपराधी नमति रहस् तं सहाय-निर्विण्णः ।
कृपयति सा जन-मात्रं दैन्यावस्था महाजनं किम् उत?

1.19.11

[गीति]
[31] ततश् च पश्चाद् एव विशेष-निवेदनायाम् अहम् आयास्यामि ।
[32] अथ पाक-शासनस् तद्-अनुशासनम् उररीकृत्य प्रच्छन्नतया मुरली-धर-समीपम् आगत्य प्रत्यग्रं चरण-खर-दण्डयोर् दण्डवत् पपात ।
इन्द्रो ननाम च यथाङ्घ्रि-नखा मुरारेर्
अग्र्याम् अमुष्य मुकुटे मणिताम् अवापुः ।
चक्रन्द चाथ स यथाम्बक-कैरवाम्बु-
माध्वीक-विद्रव-विधौ विधुताम् अगच्छन्

1.19.12

[वसन्ततिलका]
[33] अथ क्रन्दति सङ्क्रन्दने पङ्कज-लोचनः सङ्कोचितः किरीटाग्रम् अग्र-हस्तेन साग्रहम् उदस्तम् आचरन्न् उवाच-[34] भगवन्न्, एवम् अयुक्तं मा कार्षीर्, आर्षीणां वाणीनां त्वम् एक एवातिरेकतः परायणम् असि ।
[35] वज्रपाणिस् तु मूर्ध्नि प्रसज्जिताञ्जलि-पाणितया सलज्जं स्वयं स्ववज्र-हत इव मौनम् एवाससज्ज । यतः-
परस्य कायं बध्नाति तेजसा वचसा मनः ।
शक्तः शक्तश् च सोऽ यं यस् तस्य भक्तः कथं न कः?

1.19.13

[अनुष्टुभ्]
[36] तद् एवं तस्य तेजसा कृपया च सुपर्वाधिपस्य विविधा गतिर् जाता, यथा-
अन्यत्र चन्द्रति हरिः शक्रे तर्हि स्म सूर्यति ।
शक्रोऽ पि सूर्यत्य् अन्यस्मिन् खद्योतति हरौ स्म सः

1.19.14

[अनुष्टुभ्]
यदा मौनं ससज्जासौ तदा मूक इवाभवत् ।
यदा तु स्तोतुम् आरब्धस् तदागाद् वावदूकताम्

1.19.15

[अनुष्टुभ्]
यथामूं स्तुतवान् इन्द्रस् तथा वक्तुं न शक्यते ।
श्री-व्रजेन्द्र यतः सोऽ यं त्वत्तः सङ्कुचति स्फुटम्

1.19.16

[अनुष्टुभ्]
[37] अवमानम् अनालोच्य कवमानः स पुनर् एवम् अञ्जसा तद् उपसञ्जहार-
मयेदं भगवन् गोष्ठ-नाशायासार-वायुभिः ।
चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥[भ्प् 10.27.12] इति ।
[38] अयं च प्रहस्य प्रोवाच-
मया तेऽ कारि मघवन् मख-भङ्गोऽ नुगृह्णता । [भ्प् 10.27.28]
यन् मत्-पित्रादि-सच्-छ्रेष्ठान् नातिक्रामेर् मम स्मरन्

1.19.17

[अनुष्टुभ्]
सुरश् चेद् विषयाभोग-गर्वाद् रोचेत वासव ।
तदा विप्रश् च शोभेत शौष्कलं-मन्यता-मदात्

1.19.18

[अनुष्टुभ्]
अहम् उन्मूलयिष्यामि शक्र त्वद्-वैरि-पक्षगान् ।
कथं मन् मन्यसे भीतिं नीतिम् एव प्रवर्तय

1.19.19

[अनुष्टुभ्]
[39] अथ दूरतः सुरभिर् अभीतम् इव तम् अभीक्ष्य, हुङ्कारतः स्व-सन्तान-सन्तानम् आकार्य, कार्य-विदुषी स-तृष्ण-नयना कृष्णम् अभिजगाम । [40] कृष्णश् च स्वजाति-रीतिकावस्थितित एवावनमन्तीम् इव ताम् इमां सहसा सहसाम् अससम्भ्रमम् अञ्जलि-सञ्जित-करः सञ्जगाद-माता कथं समायाता?
[41] ततश् चाशिषः सिषासन्ती ताः सम्भ्रमाद् अनुद्भाव्य सुरभ्य् उवाच-
एते मद्-अन्वया धन्या गोत्वं त्वां सेवितुं गताः ।
अहं तु नेदृक्-पुण्या यद् गोचरत्वं च नागता

1.19.20

[अनुष्टुभ्]
अथवा-
दैत्य-घाती भवान् नित्यं सर्व-लोकैक-पालकः ।
वयं च लोक-मध्ये स्मस् त्वन्-नाथाः स्वत एव तत्

1.19.21

[अनुष्टुभ्]
[42] ततस् तद् इदं किञ्चित् प्रार्थये-
गो-सूक्तं भाषते गावः पदं सर्व-सुपर्वणाम् ।
तद् ब्रह्मादौ सुपर्वत्वम् अवन् विन्द गवेन्द्रताम्

1.19.22

[अनुष्टुभ्]
तवेदं कियद् ऐश्वर्यं यद् ब्रह्मावधि-पालनं ।
वैकुण्ठ-कुण्ठता-कारि यस्य गोलोक-वैभवम्

1.19.23

[अनुष्टुभ्]
सर्वस्य पालकात् क्वापि खण्ड-पालनम् इष्यते ।
जगत्-प्रकाशकाद् भानोर् निज-धाम-प्रकाशवत्

1.19.24

[अनुष्टुभ्]
नास्माकं केवलम् इदं मतं किन्तु विधेर् अपि ।
यद् भवेद् अस्य चेन्द्रस्य दुर्बुद्धेः शुद्धि-भावनम्

1.19.25

[अनुष्टुभ्]
त्वत्-कृपायाः परं स्थानं वयम् इत्य् एष वासवः ।
आशिश्रिये यद् अस्मांस् तद् द्वार-मात्राय कल्पते

1.19.26

[अनुष्टुभ्]
यस्मान् मृग्यति ताम् एव मद्-विधाद् भवतः कृपाम् ।
कूपाद् इव रसान्तः-स्थां तर्षी घन-रस-स्थितिम्

1.19.27

[अनुष्टुभ्]
तद् एव देव पश्येन्द्रः पश्यंस् तव पद-द्वयम् ।
सूचयत्य् अभिषेकं ते नेत्र-धारा-सहस्रतः

1.19.28

[अनुष्टुभ्]
[43] अथ तत्र सचित-सङ्कोचनेन विलोचनेन गोचरितानुमतेः श्री-गोकुल-पतेः प्रसादम् आसादयन्ती सुरर्षि-सुर-मातृ-सुरपति-सुरततिभिर् उपसुर-प्रभृतिभिश् च साकं सुरभी सरभसम् असुर-मर्दनं पुरस्कर्तुं पुरः-सरताम् अवाप ।
[44] ते हि द्रुहिणेन ताव् अनु समनुज्ञाता द्रुतम् एव विद्रुत्य निह्नुत्य च राजीव-लोचनं राजीयन्तः परितः स्थिता बभूवुः, यत्र रुद्र-द्रुहिणाव् अपि तेषाम् अग्रेसरताम् अवापतुः ।
[45] ततश् च सुरभिर् अभिहितवती-श्रीमद्-व्रजेन्द्र-कुल-चन्द्र! भवद्-भवदीय-स्वीय-चरणानाम् अनुचरणतस् तावद् अत्रत्यानि तीर्थानि सार्थकान्य् एव जातानि । धेनवश् च युष्मद्-विहित-दुग्ध-धयनाद् धन्यताम् अधुः । [46] ततश् च स्वर्ग-स्थित-तीर्थ-वरस्य गङ्गा-निर्झरस्य तथात्मीयस्याप्य् ऊधो-भरस्य त्वद्-आराधनया व्यर्थतावधाय पयः समाहर्तुं भवन्तं विधिम् अर्थयामहे । अथवा, यथादिश्यते तथावश्यं प्रथयामः ।
[47] कृष्णः स-स्मितम् उवाच-यथेष्ठम् अनुष्ठीयताम् ।
[48] अथाभ्रवाहन-भ्रू-भ्रमणतः स-सम्भ्रमम् अभ्र-मातङ्गः स्वः-सङ्गत-गङ्गातः समुद्दण्डित-शुण्डा-दण्डेनाम्भः-सम्भृतान् निधि-कुम्भान् निर्विलम्बम् एव मुहुर् अपि लम्भयामास । सुरभिर् अपि सुरभि-पयसा सुर-पति-सरसीम् उपगिरिं विभराञ्चकार । ततश् च-
वाद्य-स्पृग्-गीत-नृत्यैर् उपसुर-सदसां स्तोत्र-मन्त्रैर् ऋषीणां
हर्षान्दोलातिकोलाहल-जय-निनदैर् ब्रह्म-रुद्रादिकानाम् ।
उत्सर्पद्-भक्तिर् इन्द्रः सह हरिद्-अधिपैस् तद्-गणैश् चाभ्यषिञ्चत्
कृष्णं येनैव सर्वेऽ प्य् अहह सुख-सुधासिक्त-रूपा बभूवुः

1.19.29

[स्रग्धरा]
अदितिर् मातृ-कृत्यानि स्वसृ-कृत्यानि पार्वती ।
गरुत्मान् भृत्य-कृत्यानि चाहृत्यात्र मुदं ययौ

1.19.30

[अनुष्टुभ्]
[49] तद् एवं यदा निर्णिक्ततया देवगणस् तम् असिक्त, तदा-
कीर्तिर् याता दिगन्तं परिमल-वलनाप्य् अभ्रमीद् भूमि-गोलं
मङ्गल्य-ध्वान-धारा दिग्-अनुग-करिणां प्राविशत् कर्ण-गर्तम् ।
इत्थं सर्वत्र हर्ष-प्रसर-भर-वर-प्रावृषा प्राणि-जातेः
शाते जातेऽ पि कंसः सरट-पटल-राट्-चेष्टया वेष्ट्यते स्म

1.19.31

[स्रग्धरा]
[50] तद् एवं स व्रजेन्द्र-नन्दनः सर्व-दिग्-गतान् यदा दिग्ये, तदा तु---
यावद् विष्णुपदं विभाति परम-व्योमादि तावत्य् अपि
श्री-गोलोक-पदं प्रशस्तिम् अयते लक्ष्मी-परार्धास्पदम् ।
तत्रापीन्द्रतया विभासि नितरां गोविन्द-नाम्ना यथा
तेन त्वं जगद् अङ्ग तद्वद् अवताद् इत्य् उचिरे ते समम्

1.19.32

[शार्दूल]
आकाश-कुसुमैः सार्धम् आकाश-वचनं तदा ।
गोविन्द इति यद् वित्तं ततः किम् इव साद्भुतम्?

1.19.33

[अनुष्टुभ्]
इन्द्रश् छत्रं विवस्वान् बहु-विध-मधुरालङ्कृतीनां कदम्बं
ब्रह्मा लीलाब्जम् ईशः स्वरचित-मुरलीं माधवाय व्यतानीत् ।
अन्यं च स्वस्वम् अर्थं त्रिदश-पति-ततिर् यत् पुनः सर्वम् एषां
पूर्वं चापूर्वम् आसीद् अभवद् अथ तद्-अङ्गावृतीज्यासु पूज्यम्

1.19.34

[स्रग्धरा]
[51] तद् एवं स्थिते-
राजद्-राजासनम् उपरि-गच्छत्र-चित्रं सुरम्य-
भ्राम्यद्-वालव्य-जन-युगलं प्रस्फुरद्-दिव्य-वेशम् ।
कृष्णं दृष्ट्वा सुर-परिवृतं स्तब्ध-नेत्राणि दूराच्
चित्राणीव क्षण-कतिपयं तत्र मित्राणि तस्थुः

1.19.35

[मन्दाक्रान्ता]
[52] ततश् च कृपया स्नपित-नयनारविन्देन गोविन्देन कृतम् आनन्दनम् अनु फुल्लतया पूर्वतः पुरुषु महेन्द्रादि-देव-गुरुषु छत्रादिकं तरुषु सन्धाय, निज-हित-निबन्धाय तत्-पद-द्वन्द्वम् एव वन्दं वन्दम् अमन्द-बाष्प-निस्यन्दं निजाम् अवज्ञास्पदतां विज्ञाप्य तम् अनुज्ञाप्य दूरं विन्दमानेषु लब्ध-विगत-निन्दमानेषु वृन्दारकेषु, सखि-सन्दोहः शन्दोहम् अनुविन्दन् मन्दं मन्दम् आससाद । आसाद्य च-
अद्राक्षीद् अमहीद् अवोचद् अलगीद् आजिघ्रद् अप्य् अच्युतं
छत्राद्यं च चचाय मित्रपटली पप्रच्छ भूयश् च तम् ।
सोऽ पि व्याजम् इहाचचार बहुधा सा न प्रतीयाय तं
किन्तु प्रीतिभरं मिथः प्रवलयं हासस् तद् आवर्धत

1.19.36

[शार्दूल]
ततश् च-
इह स्थितैः पृथग् अपरैस् तु भूषणैर्
विभुः परस्परम् अपि ताम् अभूषयत् ।
अमी तदा स-कनक-दण्ड-चामरैः
परिच्छेदैः स्वयम् अपि तं सिषेविरे

1.19.37

[रुचिरा]
[53] तस्मिन्न् अथ राजन्य् अति सखि-वृन्दे-
दृष्ट्वा देवततिर् विदूरतरतस् तं सेव्यमानं सुहृद्-
वर्गैस् तद्-गुण-रूप-शील-तुलितैः स्व-प्रत्त-तत्-तच्-छ्रिया ।
तान् स्वज्ञान-विलास-सञ्चित-फलं मेने तथा ताम् अपि
स्व-प्रेमार्जित-कर्म-सम्पदम् अमंस्तान्यन् न मान्यं ततः

1.19.38

[शार्दूल]
[54] तद् एवम् आरब्धेऽ पि गमने स्तब्धे सति सतीपति-प्रभृतयस् तस्मिन्न् अभिषेक-प्रभवं प्रभावान्तरं पश्यन्तः परस्परं साद्भूतम् इदम् उद्भावयामासुः, यथा-
कृष्णार्चारचि दैवतैः सुखम् अयुर् लोकाश् च गावस् तथा
पृथ्वीं दुग्ध-भृतां व्यधुर् बहु-विधान् नद्यो रसान् सुस्रुवुः ।
वृक्षा मध्व् अधुर् उद्दधुश् च गिरयो रत्नानि निर्वैरतां
जीवाः प्रापुर् अहो महत्य् अपचितिः पुष्यत्य् अकर्तॄन् अपि

1.19.39

[शार्दूलविक्रीडित]
किं च-
इन्द्रः क्रूर-चरित्रम् आचरितवान् यत् तेन चिन्तागमे
चित्तं कम्पम् इयर्ति चेद् गिरि कथं चित्तेन तद् व्यज्यताम् ।
कृष्णस् तत्र च यां कृपां बत तया चित्तं द्रवी-भूतताम्
आयाति स्वयम् एव चेद् गिरि कथं चित्तेन सा व्यज्यताम्?

1.19.40

[शार्दूल]
[55] अथ चरमाचलं चुचुम्बिषति भानु-बिम्बे विलम्बः संवृत्त इत्य् अविलम्बम् एव गो-निकुरम्ब-संवलनया सखिभिः समं व्रजं व्रजन् व्रज-राज-जन्मा सन्-मानयद्भिर् निर्जर-व्रजैर् उपर्य् अतुल-पुष्प-वर्षैर् उपचर्य व्रजद्भिर् अनुवव्रजे, यथा-
दिव्यातपत्र-सित-चामर-शस्त-हस्तैः
संसेव्यमान-सविधः सखिभिः प्रगीतः ।
पुष्प-व्रजेन विविधैर् विबुधैश् च सिक्तः
श्री-पृक्त-कान्तिर् अजितः सदनं ससाद

1.19.41

[वसन्ततिलका]
निशमितम् अकरोन् निशामितं च
द्युजनि-विभूषण-भूषणाङ्गम् एतम् ।
व्रज-नृपति-मुख-व्रजः समन्ताद्
अजनि च सात्त्विक-राजिराजि-मूर्तिः

1.19.42

[पुष्पिताग्रा]
[56] यत् तु निशम्य रम्यचेता रामः सानुक्रोशं क्रोशमात्रम् उपव्रज्य निजावरजविजयं पश्यन् सुख-वश्यमनास् तम् आलिङ्ग्य मूर्धानम् आशिङ्घ्य क्षण-कतिपयम् उपविश्य, वचन-चातुरीभिस् तत्-प्रसङ्गं सङ्गतवान् । ततश् च निजानुजेन पूर्वम् एव स्वकृते निर्दिश्य रक्षितैर् दिव्येष्व् अपि दिव्यता-लक्षितैर् अनल्पैर् आकल्पैः सोऽ यम् अग्रजः स्व-करेण विराजयामास । ततश् च स्वानुजं गुरु-जनानाम् अग्रतस् तादृशतया प्रयातुं सङ्कोचम् अरोचयन् सोऽ यम् अग्रजः शनैः सनैर् अनैषीत् ।
[57] अथ तस्मिन् दिने तु गो-सन्दोह-दोह-निबन्धनं तद्-अनुबन्धि-जनान् सन्धाय स्वयं तु तत्-तद्-उदन्तानुसन्धानाय धेनु-सन्निधान एव सानन्दं नन्द-राजः सन्निधाय, वन्दमानं स-राम-सखि-वृन्दं गोविन्दं पुरस्ताद् विधाय समम् एव बन्धुभिः समम् आसनम् आसज्जन्न् आसामास ।
[58] तत्र चानन्तरम् आचरितागतिभिः सम्यग् उरीकृत-श्री-रामानुजानुमतिभिः सूनृत-वादिभिः श्रीदामादिभिः स-समाजाय व्रज-राजाय दिव्यच्-छत्राद्य्-अर्चामत्रादिषु समर्पितेषु सन्तर्पितेषु च सर्वेषु तद् अप्रच्छन्नम् एव स पप्रच्छ-कथ्यतां तथ्यं किम् इदं वृत्तं वृत्तम्? इति ।
[59] श्रीदामा प्राह-वयम् अपि गो-सङ्कलनाय कलित-भूरि-दूरतया चिरं विरम्य स्थिता न सम्यग् अवगम्यं तद् आचराम, किन्तु सामग्रीयम् एव निज-सम्यग्-रीतिम् आवेदयति इति ।
[60] ततो नम्रतां विन्दति श्री-गोविन्दे परस्परम् अवधाय साधु, श्रीदामन्, साध्व् इदम् उक्तम् इत्य् अभिधाय सर्व एवानर्वाचीन-गोपाश् चित्र-प्रतिकृतय इव द्वित्र-क्षणं निर्निमेषताम् अवापुः ।
[61] मधुमङ्गलस् तूच्चैः सहासम् आह स्म-श्रीमन् व्रजराज ! श्रूयताम्-
गौर् एका गिरम् आतनोद् अथ पुमान् अन्यः सहस्रेक्षणोऽ
नंसीत् कोऽ पि करी सितः स्वर्-उदकान्य् आहृत्य शश्वद् ददौ ।
कौचित् पञ्च-चतुर्मुखाङ्ग-वलितौ स्तोत्र-प्रथां चक्रतुस्
ते चान्ये च महामहेन सिषिचुर् गोपेश पुत्रं तव

1.19.43

[शार्दूलविक्रीडित]
[62] अथ स्वयं चात्र सर्वतश् चित्रं माङ्गलिकं कर्म निर्मातुं युक्तम् इति विचार्य चित्रायमाने कृष्ण-प्राणे ससमाजे व्रजराजे विष्णु-पद-चरिष्णु-वाणीयम् आविर्बभूव-
यथाभ्यषिञ्चाम वयं व्रजेशितः
संसज्य गोविन्दतया सुतं तव ।
समं समस्तैः कृत-मङ्गलं तथा
तं यौवराज्येन जवाद् विराजय

1.19.44

[उपजाति 12]
[63] अथ तद् एतद् अमृत-वर्ष-धर्षिता व्रज-वर्षीयांसः परस्परं विचार्य कार्य-माण-मङ्गल्य-तौर्यत्रिक-वादनापौर्वापर्यतः स्वस्ति-वाचनादिकम् आचार्य-द्वारा समाचार्य, प्रतिस्वम् अपि विविध-विधान-दान-पूर्वकं पर्व पूरयित्वा पूर-राजतया तं सभाजयामासुः ।
आगम्याथ शतं शतं व्रज-महेन्द्राणी-प्रधानाङ्गनाः
प्रत्येकं मणि-दीप-सन्तति-करा मङ्गल-कोलाहलाः ।
नीराज्याभिसभाज्य रत्न-निकरैर् निर्मञ्छ्य गेहं प्रति
स्नेहं मूर्तम् इवातियत्न-वलिता गोविन्दम् आनिन्यिरे

1.19.45

[शार्दूलविक्रीडित]
ईदृशस् ते व्रजाधीश सुतः सूत-मुखोत्सवः ।
यो गवेन्द्रतया गां च गां च गां च सुखाकरोत्

1.19.46

[अनुष्टुभ्]
सुभगम्भविष्णु जातं जगद् अपि कृष्णाभिषेकतः पश्चात् ।
अन्धम्भावुकम् आसीद् भावुक-शून्यं कुलं तु दनुजानाम्

1.19.47

[गीति]
[64] तद् एवं दिवा-कथायां वृत्तायां नक्तम् अपि सा पूर्ववद् वृत्ता । यथा मधुकण्ठ उवाच-
भवेद् अनल्पं कुत्रापि स्वल्पं कुत्रापि पोषकम् ।
यथान्न-व्यञ्जनं लोके यथा रस-रसायनम्

1.19.48

[अनुष्टुभ्]
[65] तस्मात् सङ्क्षिप्तम् अप्य् एतद् विस्तरवद् एव मन्तव्यम् । [66] तथा हि-तस्मिन् महसि नीरन्ध्रं पुरन्ध्रीभिः समम् आसाम् अपि समागनं वृत्तं, यत्रोपकण्ठ-गतानाम् अप्य् अमूषां वस्त्रावगुण्ठितानि नेत्राण्य् अतीवोत्कण्ठितानि जातानि ।
[67] तस्मिंश् च तस्य विवाह-समतावहे महा-महे मनसीदम् असीमम् आभिर् विभावितम्-
केयं जगत्य् अहह राजति गोप-कन्या
धन्या यया तु करपीडनम् अस्य गन्ता? ।
हा योग्यताम् अपि विधाय विधिः समस्ताम्
अस्तं निनाय बत नस् तम् अमूं धिग् अस्तु

1.19.49

[वसन्ततिलका]
[68] भवतु, तद् अपि किन्त्व् इदम् अतीवान्याय्यम्-
कुलीना रूपिण्यः परम-गुण-शीलाः प्रणयिता-
भृद्-उत्कण्ठाकण्ठागत-तुलित-जीवा बत वयम् ।
न तावद् वंशी तत्-तद्-अनुगुणताम् अञ्चति जडा
तथाप्य् एषा हा धिक् कलित-हरि-सङ्गा न तु वयम्

1.19.50

[शिखरिणी]
[69] केवलेयं वराकी केवल-मुख-चूषण-सुखा, यतः-
आलिङ्ग्य कण्ठम् उरसि प्रतिपद्य कान्तिं
माले कटं प्रकटम् एव सदा दधासि ।
न श्री-हरिर् न भवती तु वा जनोऽ यं
सङ्कोच-लेशम् अयते त्वम् अतोऽ सि धन्या

1.19.51

[वसन्ततिलका]
[70] तद् एवं मनसि वदन्तीषु-
पूर्णां दृष्टिं विधि-वशतया काचिद् आञ्चीन् मुरारेर्
अर्धं काचिद् व्रज-जन-गता काचिद् अस्यास् त्रिभागम् ।
काचित् किञ्चिन् न च तद् अखिलं तुल्यताम् एव दध्रे
सर्वासां यन् मनसि चक्ल्पे हन्त तापाय तद्वत्

1.19.52

[मन्दाक्रान्ता]
[71] अथ तस्याम् एव निशायां चन्द्रशालिकायां कृत-शयनेन कञ्ज-नयनेन तासाम् अपराह्नेतनापाङ्ग-साङ्ग-शर-निकर-सङ्ग-लब्ध-भङ्गे हृदि समुत्थित-व्यथतया जात-निशीथ-जागरतायाम् अविरतायां तासु निजानिर्वृतिं विवृतीकर्तुं ताम् इव च तर्तुं पुरहर-कृत-वितर-नव-मुरलीकलः खुरलीभिः कलयामासे ।
तदा केदार-रागस् तु प्राप केदारतां निशि ।
गोपीभिर् वासना-बीजम् उप्तं यत्राङ्कुरायितम्

1.19.53

[अनुष्टुभ्]
तत्र च-
तूकारः खलु माथुरेषु परितस् त्वङ्कार-भाषा मता
सोऽ यं वैणव-गानतः प्रतिपदं प्रायः परामृश्यते ।
प्रत्येकं युगपत् प्रियां निशमयन् कृष्णो यदा तं जगौ
मत्वा स्वं प्रति तत् प्रतिस्वम् अपि ताः सर्वा विमूर्च्छां ययुः

1.19.54

[शार्दूल]
किं च-
आनुषङ्गिकतयापि सगानाद्
आस्व् अधाद् यद् अविदुस् तद् अमूश् च ।
उद्दिदेश पुरु यां बत सा तु
स्वं च सम्प्रति विवेद न राधा

1.19.55

[स्वागता]
[72] तद् एवम् अल्प-समयम् अयम् अपि कल्प-चयम् अयम् इव कल्पयित्वा कथकः समापयन् कथनं श्लथयामास-
सोऽ यं ते रमणो राधे लब्धः कृच्छ्रेण यस् त्वया ।
त्वद्-विना-भावतः सौख्यं यश् च कुत्रापि नाप्तवान्

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc