भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.1

1.1.1

श्री-श्री-गोपाल-चम्पूः
पूर्व-चम्पूः
(1)
प्रथमं पूरणम्
श्री-श्री-राधा-रमणाय नमः
श्री-श्री-कृष्ण-चैतन्याय नमः
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम्

1.1.2

[1] तद् एवम् आरम्भसम्भवदन्तर्महसा सहसा विलिख्य तद् इदम् उल्लिख्यते । किम् इदम्? मदिष्टदेवस्य, मदन्विष्टदयाशिष्टतद्भक्त-समुदयस्य च क्रमतः स्मरणम् आविर्भूतम् । किं वा, केवलस्य मदिष्ट-देवस्य; किं वा, तद्विशिष्टस्य । आं आं, तन्त्रतस् तत् त्रयम् अपि स्वतन्त्रतया लभ्यते । तत्र प्रथमं तावत् प्रथमतः प्रथयामि । अत्र श्री पदम् अन्यद् अन्यद् अपि किञ्चिद् अनुष्टुप्छन्दःपरच्छन्दतया पूर्वत्र च परपरत्र च यत्र न दत्तं, तत्र च सन्धातव्यम् ।
[2] यथा: हे श्री-कृष्ण-नाम्नातिधन्य! सर्व-मूर्धन्य! हे श्री-कृष्ण-चैतन्य! सर्व-शर्मद-कीर्तन्य! हे महित-श्री-सनातन-सहित-श्री-रूप-नामधेय, मन्-मूर्धन्य् आधेय! हे श्री-गोपाल-भट्टाख्या-प्रवृद्ध-भट्टारकता-समृद्ध! हे श्री-रघुनाथ-दास! नाम-धामतयातिप्रसिद्ध-परम-भक्ति-भराविद्ध! हे तेषाम् एवाप्त-व्रजतासिद्ध-वर्णन-सत्-कर्ण-गर्भाभरण-श्री-भूगर्भादि-सञ्ज्ञाधिकरण! हे श्री-वल्लभ! प्राग्-भवीय-दुर्लभ-सुकृत-सन्धीयमान-मदीय-शरण-पितृ-चरण!
किं वा, हे श्री-रघुनाथस्याप्तान् व्रजत्य् अनुव्रजतीति तत्तया सर्व-वल्लभ! श्रीवल्लभ! मां पाहि! निजचरणच्छायया मत्प्रतिपालकताम् आयाहि । यथा कंसारातेर् आशु सुखविलासं शंसन्ती, सहायतया च लसन्ती च प्रियसखीयते, न तद्वद् अन्यो धन्योऽ पि जनः सम्भवति ।
[3] अथ द्वितीयम् अपि प्रतीयमानं निर्मामि: श्री-कृष्ण इति । श्रीर् अत्र राधा । एषा हि श्रीप्रधानतया साधयिष्यमाणतायां निराबाधा । तद्-अनन्तर-कृष्ण-शब्दश् चात्र शब्द-ब्रह्म-गूध-पर-ब्रह्म नन्द-नन्दन-वाचकतायां रूढः । तेन, "हे श्री-राधाख्य-स्वरूप-शक्ति-युक्त-कृष्ण" इत्य् अर्थश् च निर्व्यूधः ।
कृष्ण इति:
कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥
इति प्रमाण-ज्ञात-चरः कृष्ण-शब्दस् त्व् अत्र योग-पुरस्कृत-रूढितया तत्-परः । भूर् इति
भावक्विबन्तताकरः । स चायं भाव-शब्दवद् धात्व्-अर्थ-मात्रता-धरः । धात्वर्थश् चात्राकर्षणम्, तद् एव स्फुटम् आप्ततयाप्तमनसाम् आकर्षणम् । ततश् च भिन्न-पदार्थतयावगतयोर् दयितयोर् इव तयोर् ऐक्यं योग एवेति तद्-युक्त आनन्दः सर्वाकर्षकानन्द इत्य् अर्थ एवामन्दः; परं ब्रह्म इति, । णराकृति परं ब्रह्म इति हि प्रसिद्धिः । योग-पुरस्कृत-रूढतोपगूधतयापि श्री-नन्दनन्दनम् एव वक्ति तच्-छब्द-शक्तिर् इति व्यक्ति-सिद्धिश् च । तद् एतद् अभिधीयते चाभिधीयते इति । तस्माद् एव तदीय-स्वभाव-विशेष-भावनार्थम् एव पुनर्-उक्तिर् इयं युक्तिं युनक्ति ।
चैतन्य इति । "हे सर्वप्रकाशक! सद्रूपतया सर्वाश्रयस्वरूप!" तद्रूपता च विपश्चिद्भिर् अवगता, सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कर्मणे इति तापनीय-नान्दीनि-शमनात् । त्वय्य् एव नित्य-सुखबोध-तनौ इति श्री-भागवतीय-ब्रह्म-स्तवे निगमनाच् च ।
स-सनातन-रूपक इति, "हे सनातनेन सदातनेन श्वस्वरूपम् अनुभवद्भिर् अपि सुनिरूपण रूपेण सह वर्तमान! तेन स्वभक्तिवित्तचित्तम् अनुवर्तमान!"
गोपाल-रघुनाथाप्त-व्रज-वल्लभ इति, "गोपालेषु ये रघवो लघवो, ये च नाथा मुख्या इति विख्यातगाथास्, तैर् आप्तस्य व्रजस्य बल्लव-तल्लज-व्रजस्य वल्लभ!" किं वा, "गोपालानां लघुर् इष्टः, स च नाथश् च यस्, तस्य सम्बोधनम् त्रिष्व् इष्टेऽ ल्पे लघुर् इति नानार्थवर्गलब्धबोधनम् । आप्तव्रजवल्लभ इति "आप्तव्रजानां स्वजनसमूहानां वल्लभ! परेषाम् अलभ्य ंसत्प्रभ!"
[4] अथ तृतीयम् अपि सम्भृतीकरवाणि: हे श्री-कृष्ण इति । श्रीर् अत्र च परमप्रेयसीषु श्रेयसी राधा, ततस् "तद्युक्ततया मधुरलीलायाम् असंकीर्ण! हे कृष्ण-चैतन्याख्य-भक्तावतार! तादात्म्यापन्नतयावतीर्ण! हे सनातन-रूपाभ्यां परमानुरक्त-सुभक्ताभ्यां सह विद्यमान! हे गोपाल-रघुनाथाभ्यां तत्-तन्-नामाभ्याम् अपि सुभक्ताभ्याम् आप्तः प्राप्तो यो व्रजस्, तस्य वल्लभतया सर्व-विद्यमानं! मां पाहि, मत्-पालकतां याहीति ।
अथ ग्रन्थ-सूचना-
[5] तद् एवम् मङ्गलं सङ्गमय्य कार्यं विचार्यते ।
यन् मया कृष्णसन्दर्भे सिद्धान्तामृतम् आचितम् ।
तद् एव रस्यते काव्यकृतिप्रज्ञा-रसज्ञया

1.1.3

[अनुष्टुभ्]
सोऽ हं काव्यस्य लक्ष्येण मनो निर्मामि तादृशम् ।
तन् महान्तो यद् ईक्षेरंस् तदा हेम्नि चितो मणिः

1.1.4

[अनुष्टुभ्]
पूर्वोत्तरतया चम्पू-द्वयी सेयं त्रयी त्रयी ।
पृथक् पृथग् ग्रन्थ-तुल्या यथेच्छं सद्भिर् ईक्ष्यताम्

1.1.5

[अनुष्टुभ्]
श्री-गोपाल-गणानां गोपालानां प्रमोदाय ।
भवतु समन्ताद् एषा नाम्ना गोपाल-चम्पूर् या

1.1.6

[उपगीति]
यद्यपि चिरम् अन्तर्धा जाता श्री-गोकुल-स्थानाम् ।
तदपि महात्मसु तेषां व्यूह-समूहः पुरः स्फुरन् जयति

1.1.7

[उद्गीति]
[6] अस्ति किल वृन्दावन-नाम-धेयं भाग-धेयम् इव सुभगं वनम् अवनी-देव्याः । यद् अहो, वनम् अप्य् अवनाय कल्पते सकल-लोकस्य । प्रसङ्ग-मात्रतः पवमानम् अपि तत्र क्षिप्रता-प्रतापतः पवमानताम् अप्य् अतिक्रामति । परम-त्रि-वर्ग-दाने निरर्गलम् अपि सर्वदापवर्गम् अपवर्जयति । मुक्ति-सन्ध-सम्बन्ध-गन्धम् अपि स्वबन्ध-निर्बन्ध-निबन्धनं भवति । सदा सदावलीशस्य भक्ति-प्रदम् अपि कदापि न ददाति तद्-भक्तिम् । ब्रह्मणात्मनि यद् अनञ्चितम् अपि मत्वा जन्म वाञ्छितम्, तेन तत् परमञ्चितं मतम् इति निज-हित-महित-महिमारम्भम् उपलम्भयति । तद् एवं गहन-चर्या-पर्याकुलतया विरोधालङ्कारवद् विरुद्धायमानम् अप्य् अर्थम् अनुरुद्धतया पर्यवसानतः परिणमयति । तस्मिन् कवीनाम् अकवितायाम् अपि कविता शम्भाविता भविता । तस्मिन्न् एव च परमोदार-सारतावगम्यते
। तद्द् हि तद्धिततया मुहुर् अवतीर्णस्य सर्वस्याप्य् आनन्दनस्य श्रीमन्-नन्द-नन्दनस्य सर्वम् आनन्द-पर्व सर्वदा पर्वति ।
[7] अस्ति चेह श्री-शुकस्यापि सुख-चमत्कार-कारणं पद्यम्-
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च ।
वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥इति । (भ्प् 10.11.36)
[8] तत्र गोवर्धनस् तु पुरस्ताद् एवं प्रस्तूयते -
यद् गोकुलेश्वर इति प्रथितिः पुराणे
कृष्णस्य तद् भवति गोकुलम् अस्य धाम ।
गोवासता च किल गोकुलता-निदानं
गोवर्धनस् तद् इह सर्व-निधानम् एव

1.1.8

[वसन्त-तिलक]
[9] तत्र चायं विशेषः -
त्रि-जगति मानस-गङ्गा गोवर्धनम् अपि विभिन्दती विदिता ।
अहम् इह मन्ये कृष्ण- स्नेहज-धारा तद्-अन्तरं विशति

1.1.9

[गीति]
किं च,
तस्मिन् श्री-हरि-राधयोर् युगलितं यद् भाति कुण्द-द्वयं
संसङ्गेन परस्परं परिमलान् मन्ये तयोस् तन्-मिषम् ।
प्रेमासीत् प्रकटं यतः श्वसनकैः कम्पान्वितं जाद्य-युग्
भक्तार्द्र-स्थिति-कृच् च तद् घन-रसाकारं दरीदृश्यते

1.1.10

[शार्दूल]
[10] यमुनायां चायम् अतिशयः-
स्नान-जात-सुकृतान् न केवलात्
स्फूर्तिदा मुररिपो रवेः सुता ।
वीक्षणाद् अपि यतो बिभर्ति सा
श्याम-धाम-वर-माधुरी-धुराम्

1.1.11

[रथोद्धता]
तस्यां चोत्प्रेक्षन्ते-
श्व-स्निग्ध-वृन्द-विषय-प्रियता-महिम्ना
स्वेदांश एव किम् उ कृष्णतनोर् विसारी ।
वृन्दस्य कृष्ण-विषय-प्रियतैव किं वा
तद्-भाव-भावित-गतिर् भवति स्म कृष्णा

1.1.12

[[वसन्ततिलका]]
[12] पुलिनानि च तस्या महा-प्रेमोल्लासम् आविष्कुर्वन्ति । तथा हि-
अद्यापि यानि विबुधान् अवलोक-मात्रात्
पुष्णन्ति कृष्ण-कृत-रास-रसं विभाव्य ।
तान्य् अत्र किं वर-रसायन-दिव्य-चूर्णैर्
अभ्यासतः स्व-पुलिनानि चिनोति सौरी?

1.1.13

[[वसन्ततिलका]]
[13] भाण्दीरस् तु स नो मनो व्याकुलयति । तथा हि-
भाण्दीरस्य स्फुटम् अधिहरि प्रेम किं वर्णनीयं
सान्तर्धानं स्थितवति हरौ बाधम् अन्तर्दधे यः ।
यान्तु स्वांशेन च विषयताम् अत्र गोवर्धनाद्या
लोके स्निग्धा रचयितुम् इदं न क्षमः स्याम् इतीव

1.1.14

[मन्दाक्रान्ता]
[14] अहो प्रेमगम्भीर्यम् अस्य पश्य वृन्दावनस्य! यतः-
कुत्र कुत्रचिद् अगस्य दम्भतः
स्तम्भम् एति तद् इदं हरेर् वनम् ।
प्रायशश् चल-दलस्य कम्प्रताम्
अङ्कुरस्य पुलकानि सर्वतः

1.1.15

[रथोद्धता]
[15] आविर्व्रजति च तस्मिन् स-व्रज-वासि-जन-व्रजे व्रज-राज-तनूजे किं किं वा तद् व्यञ्जिजिषया
नाविर्व्रजति? तच् च युक्तम् एवोत्पश्यामः; व्रजपदम् हि सर्व-समीचीन-समूहम् ऊहयति ॥
[16] अस्ति चेह श्री-भागवतीयं पद्यम्,
तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् ।
हरेर् निवासात्मगुणै रमाक्रीदम् अभून् नृप! ॥इति । [भ्प् 10.5.18]
[17] तेषाम् आविर्भावस्य पाद्म-पुराण-सन्दर्भानुसारेण प्रतिकल्पम् अनल्प-सुख-कल्पक-सम्पद्-उदन्त-दन्तवक्र-वधान्ते सर्वतोऽ प्य् एकान्ते कान्ते यत्र प्रवेशस्य निर्देशः प्रथयिष्यते, तस्माद् भव-जन-मनः-काय-निकाय-स्पर्श-विरहिताद् वाराहादि-संकीर्तित-प्रवर-कीर्ति-कदम्बादि-मयात् पाद्म-स्कान्दादि-गतासंकीर्ण-वर्णाकर्णित-तत्-तत्-सनातन-शील-तारामस-राम-गो-गोप-गोपाल-लीला-निधानाद् वृन्दावनस्यैव वैभव-विशेषाद् अशेषं भवति, प्रकृति-स्थितिम् अतीतो हि यः ।
[18] बृहद्-गौतमीय-स्थ-श्री-कृष्ण-वचने तु तत्-तत्-संक्षेपार्थ-निक्षेपः प्रेक्ष्यते ।
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र मे पशवः पक्षि-मृगाः कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मेऽ त्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥इति ।
[19] यं खलु वैभव-विशेषं सर्व-सारेण यथा-स्थानं प्रकाशयिष्यमाण-व्याख्या-विशेषावतारेण श्रीमद्-भागवतानुसारेण गोपानां स्वं लोकं वरुणालयाद् आगतः करुणा-वरुणालयः स्वयं भगवान् अक्रूराय वैकुण्ठ-विशेष-लक्षण-स्व-वैभव-व्यञ्जनया सुख-प्रदे ब्रह्म-ह्रदे मज्जनेन तस्माद् उन्मज्जनेन च तज्-जन-कौतुक-जननाद् अनन्तरं छन्दः-स्तूयमानेनात्मनावित्रा विचित्रम् अत्रैव वृन्दावने तदीय-नर-लीला-वेशेन साधारणम् अन्येभ्यस् तेभ्यः सन्दर्शयामास; यं प्रति सम्प्रत्य् अपि प्रपद्यमाना विद्वांसश् चेतसापि साक्षाद् इव तल्-लीलाः प्रतिपद्यन्ते; यं परि हरि-वंशे गोविन्दाभिषेक-सम्पद्-अंशे महेन्द्रः श्रीमद्-व्रजेन्द्र-तनूज-तनुवद् व्यापकतां सत्यां प्रत्याययामास; यं
पुनर् वृन्दावन-स्थ-समस्त-समभ्यर्णम् अपि तत्-तद्-वर्णनानुसारेण केचित् प्रकृत्य्-आवरणतः परम-वियद्-ऊर्ध्वं निर्वर्णयन्ति; अतएव लीलानुरूप-रूपतया भूमानम् अभूमानं च प्रपद्यन्ते यद् भूमयः । एष एव शेष-निर्विशेषतया ब्रह्म-साक्षात्-काराकारतया च ब्रह्म-संहितादिषु बृंहितं बृहद्भिर् वर्णयामासे । तत्र च प्रकटाप्रकट-प्रकाश-मयस्य वृन्दावनस्य बहु-विध-संस्थानतया बहु-विध-शास्त्र-श्रुतस्याप्रकट-प्रकाश-मय-वैभव-विशेष एव सम्प्रति वर्णनीयः । स च गोकुल-प्रधान एवेति स्व-विवक्षित-हिता ब्रह्म-संहितानु-संहिता क्रियते । तद्-वचनानि तु बोध-क्रमाय क्रमम् अतिक्रम्यानुक्रम्यन्ते, यथा-
भजे श्वेतद्वीपं तम् अहम् इह गोलोक इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ।
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवः
द्रुमा भूमिश् चिन्तामणि-गण-मयी तोयम् अमृतम् ॥
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखी
चिद्-आनन्द-ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ।
स यत्र क्षीराब्धिः सरति सुरभिभ्यश् च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ॥[ब्र.सं. 5.57-58]
[20] किं च, ईश्वरः परमः कृष्णः इत्य् उपक्रम्याह-
षहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् ।
तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ।
तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि ॥
चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् ।
चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥
चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् ।
शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो-दिग्-विदिक्षु च ॥
अष्टभिः निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा ।
मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥
श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षद-र्षभैः ।
शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः ॥
अपि च-
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभीर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥इत्य् आदि ।
बृहद्-वामने-
रत्न-धातु-मयः श्रीमान् यत्र गोवर्धनो गिरिः ।
रत्न-बद्धोभय-तटा कालिन्दी सरितां वरा ॥इत्य् आदि चान्यत्र ।
[21] तद् एतद्-अनुसारेण प्रथमं तावत् काव्यस्य निधानं वस्तु-मात्रं स-प्रमाणं प्रकाश्यते, चित्रस्य फलकम् इव । [22] तथा हि--यस्य खलु लोकस्य गोलोकतया गो-गोप-वास-रूपस्य, श्वेतद्वीपतया चानन्य-स्पृष्ट-परम-शुद्धता-समुद्बुद्ध-स्वरूपस्य
तादृश-ज्ञान-मय-कतिपय-मात्र-प्रमेय-गात्रतया तत्-तत्-परमता मता, परम-गोलोकः परम-श्वेतद्वीप इति । [23] तद् एव युक्तम् उक्तं भवति ।
[24] यत्र हि स्वच्छन्दतानन्द-प्रद-बहु-वचनार्था गोपी-पदार्थाः श्रियः श्रयन्ते । नान्य-वैकुण्ठवत् तद्-एक-वचनार्थताकुण्ठाः । तासां तत्-पदार्थता च तन्-महा-वाग्-अर्थ-साराकर्ष-यन्त्रे महा-मन्त्रे बल्लवी-वल्लभतया तस्य जपम् उपदिशन्तीति सिध्यति ।
[25] अत्र न केवलं तस्य द्वि-वर्ण-पदस्य वृत्ताव् एव रूढिम् अवलम्बामहे, अपि तु ध्यानेऽ पि । किन्तु, नायं श्रियोऽ ङ्ग इति शुकानुवादः सामान्य-लक्ष्मी-विजयं व्यनक्ति । लक्ष्मी-सहस्र इति विरिञ्चि-वाणी लक्ष्मी-विशेषत्वम् उरीकरोति, यस्माद् अत्र कुरु-पाण्दव-शब्दवद् यथावसरं खण्दाखण्द-वाचकता मता । तद् एवं सति, तत्रापि राधा परमेति
पाद्म-स्कान्दादिवाराह-विमिश्र-मात्स्ये । गोविन्द-वृन्दावन-नाम-तन्त्रेऽ प्य् अभाषि यत्, तत् कथम् अन्यथा स्यात्?
लक्ष्मीर् अभितः स्त्रितमा गोप्यो लक्ष्मीतमाः प्रथिताः ।
राधा गोपितमा चेद् अस्याः का वा समा रामा?

1.1.16

[उपगीति]
[26] तद् एवंविधानां तासाम् अपि सर्वासाम् एक एव रमनस्, तत एव गोकुलधामा गोविन्दनामा प्रत्येकम् एकाम् एकां रमां रमयतां रमा-रमणनाम्नां
पुरुपुरुषाणां परमः । [27] यत् तु मध्ये मायया प्रत्यायितम् औपपत्यं, तत् खल्व् अवास्तवत्वात् परस्ताद् अवध्वस्तम् इति श्रीपरमपुरुषशब्दाभ्यां प्रमितम् । कथायां तु प्रमाण-विशेषग्रथनया प्रथमिष्यामः । [28] एवं शिष्टः श्रीरामोऽ प्य् अतिदिष्टः ।
[29] किं च, अशेषा एवतरवः कल्पतरवः सङ्कल्पदानबलात् केवलान्, न तु मान्यता-धन्य-सामान्य-विशेषात् । तेषु च जात्या कल्प-तरवस् तु विलक्षण-तया कृत-लक्षणा एव ।
[30] किं च, आदर्शनिभस्वच्छविभवनानादर्शस्पर्शादिमयभूमिका भूमिश् च कान्तेर् उत कान्तेर् वृष्टिसृष्टिकारिणी चिन्तामणीयते । [31] आस्तां तावद् उत्तरम् अनु तारतम्य-रम्यता-गम्य-महिमा गृहादिषु महा-चिन्तामणि-मयी, यस्माद् उद्भिन्नास् तद्-उद्भिदश् च
तदीय-शोभाम् आत्मन्य् उद्भावयन्ति । यत्र च,
दृष्टि-श्रवणम् अयातास् तद्-गोचरिताश् च जाति-रूपाभ्याम् ।
नग-मृग-पक्षि-विशेषास् तत्रत्यानां च चित्रम् आदधति

1.1.17

[गीति]
[32] किं च, तोयम् अप्य् अमृतायते, किम् उतामृतम्? किं च, कथापि यथा गानं तथा कर्णयोः पानकायते, किम् उत स्वयम् एव गानम्? किं च, गमनम् अपि नृत्य-चातुरी-धुरीणताम् उरीकरोति, नृत्यं पुनर् अतीवादृत्यम् । किं च, वंशी यथा कंसारातेर् आशु सुख-विलासं शंसन्ती, सहायतया च लसन्ती च प्रिय-सखीयते, न तद्वद् अन्यो धन्योऽ पि जनः सम्भवति ।
[34] किं च, चिदानन्द एव केवलं स्वरूपानतिरिक्त-शक्ति-व्यक्ति-वशाद् व्यक्ति-विशेषतया व्यक्तीभवन्, गोकुल-शब्द-बल-लब्ध-लोकवल्-लीला-कैवल्य-कलनाय पुष्पवद्-आदि-लक्षण-प्रकाशकतया तत् तत् प्रकाश्य पुष्पादि-लक्षणास्वाद्यतया च लापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायं गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् ।
[35] तथा च, हायशीर्ष-पञ्चरात्रे पञ्च-तत्त्व-निरूपणे वैकुण्ठ-स्थ-द्रव्य-तत्त्वं निरूपितम् -
गन्ध-रूपं स्वाद-रूपं द्रव्यं पुष्पादिकं च यत् ।
रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥
हेयांशानाम् अभावाच् च रस-रूपं भवेच् च तत् ।
त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ।
तत् सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥इत्य् आदि ।
तथापि,
प्रपञ्चं निष्प्रपञ्चोऽ पि विदम्भयसि भूतले ।
प्रपन्न-जनतानन्द-सन्दोहं प्रथितुं प्रभो ॥[भ्प् 10.14.37]
इति ब्रह्मवचनानुसारेण कृत-प्रपञ्चानुकारे लीला-सारे तस्य तत्-प्रपन्न-जनस्य च यथावेशः स्यात्, न तथा ञित्याकारेऽ पीति लभ्यते ।
हेयांशानाम् अभावाच् च रसरूपं भवेच् च तत् । त्वग्
बीजं चैव हेयांशं कठिनांशं च यद् भवेत् । तत्
सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥
[36] ततः पूर्वत्र तस्य तस्य चावेशः परत्र च प्रवेशः स्यात् । [37] ततश् च, तद्-इच्छा-वशाल् लीला-शक्तिः परत्र च प्रायः सर्वं व्यक्तीकरोतीति विवेक्तव्यम् ।
[38] किं च, मुरजिन्-मुरली-कली-खुरली च स्व-माधुरी-प्रदुग्ध-मुग्ध-सुरभि-दुग्धानां सुरभीनाम् ऊधो-गिरितः सरितः प्रसारयन्ती परितः परिखायमाणं क्षीर-वारिधिं विस्फारयति । तत्र कामधेनुतया निकामम् एव स्नुवतीनां क्षीर-वाहितापि
प्राचुर्येणैव पर्यवसाय्यते । [39] ततो नाना-रसा अपि ता नद्यः प्रतिपद्यन्ते विद्या-वद्भिः ।
[40] किं च, यत्र च तत्-कैशोरानुरूपार्ध-वार्धक-यौवन-नव-यौवनादि-वयस
एव तत्-पितृ-भ्रातृ-सखि-प्रभृतयस् ते निखिल-वर्गा नान्याम् अवस्थाम् आश्रिता भवन्ति ।
[41] अन्यच् च, यस्य च गोलोकस्य मध्यम् अध्यास्य स्फुटतरानेक-सहस्र-पत्री-परिचितम् अजस्रम् एव खल्व् अमलं महा-मणि-कमलं गोकुल-नामतया निज-रूपं निरूपयति, "गो-गोपावास-व्रज-रूप-व्रज एवाहम् अस्मि" इति ।
[42] न्याय-विन्यस्तम् एव च खल्व् इदम्, रूढिर् योगम् अपहरति इति । यथा जलज-शब्देनाप्सव्य-मात्रं नोच्यते, किन्तु कमलम् एव । रूढिताम् एव खल्व् आख्या-ग्रहणम्
आविष्करोति । [43] श्री-शुक-देवेनाप्य् एतद्-अपेक्षयोक्तं, भगवान् गोकुलेश्वरः इति । वरट्-प्रत्ययः खल्व् अत्र शीलार्थता-परः । तद् एव चाम्नातं गोकुलं वन-वैकुण्ठम् इति ।
[44] अथ श्रीमद्-व्रज-राज-तनूजता-शील-लीलस्य महा-भगवतस् तदीय-कर्णिकां-मध्यम् अधिकृत्य नाना-वर्ण-धामतया निर्वर्णित-मणि-मय-महा-धाम निकामम् उद्भ्राजते, यद् एव स्वयम् अनन्तांश-सम्भूतम् इति स्फुटम् अनन्तधा प्रकाशते ।
यस्मिन् केसर-विसरान् प्राचीराङ्गान् समन्ततः समया ।
सदया दायादायाः सोपासीना वसन्ति गोपालाः

1.1.18

[गीति]
[45] गोकुलताबलतस् तद् अपि संवलते । तथा हि,
अंशा भागा दायास् तद्-धित-योगेन दायवन्तश् च ।
तत् किल जातेर् भागा बकजिति ते सन्ति दायवन्तश् च

1.1.19

[गीति]
तस्मिन्न् अंशो येषाम् इति वा गम्यो बहु-व्रीहिः ।
व्रीहि-निभस् तत्-प्रेमा तेषां वृत्तौ तद्-आश्रयो युक्तः

1.1.20

[उद्गीति]
[46] तद् एवम् एषां तज्जातित्वम् एवोक्तं श्री-शुकेन-
एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥इति । (भ्प् 10.36.15)
पत्राणि तत्र कमले कमलालयानाम्
अंशेन केलि-विपिनानि भवन्ति येषु ।
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु निभृतं रमते मुकुन्दः

1.1.21

[वसन्ततिलका]
तत्राधिराज्यं किल राधिकाम् अनु
प्रत्तं प्रियेणेति पुराण-विश्रुतम् ।
अहं तु मन्ये पुनर्-उक्तम् एव तद्
गुणेन तस्याः स च यद् वशं-गतः

1.1.22

[उपजाति 12]
[47] इह च पूर्वं यद् एव श्री-परम-पुरुष-शब्दाभ्याम् अध्यवसितं, तद् एवाध्यवसीयते । तासु केवलासु व्रज-राज-सुत-वधू-भावस्य लब्ध-प्रसिद्धितां विना
व्रज-कमल-सकल-पत्रावल्य्-आधिपत्यं न प्रसिध्यतीति ।
[48] अथ किञ्चित्-कुञ्चित-कमल-पत्रवद्-उन्नत-पार्श्व-द्वयावयवतया बहिर्
दुर्लङ्घ-शृङ्ग-मणि-मयालवाल-शोभा-मत्राणां पत्राणाम् अन्तरालेषु केशराद् अवतीर्णानि विस्तीर्णानि पृथक् पृथग् उपनिष्कराणि विराजन्ते । तेषाम् अग्रिम-सन्धिषु स्फुटम् अधिमध्य-मध्यम् अध्यस्त-समस्तेश-गोष्ठानि गोष्ठानि विभ्राजन्ते ।
अतएव तत्पर्यन्तस्य तस्य गोकुलतावकलिता ।
तत्रापि दोह-समयं समया समेन
गो-वृन्द-पाल-वलयेन निविश्य पश्यन् ।
चिन्तामणि-प्रचित-सद्मसु कल्प-शाखि-
पद्मावृतेषु सुरभीर् अभिपाति कृष्णः

1.1.23

[वसन्ततिलका]
[49] यस्य च समीपगानाम् आलय-रूपस्य कमलस्य सर्वतश् चतुरस्रं भवति, तद् इदं सर्वं वृन्दावनम् इति वदन्ति । तद्-बहिर्-अन्तरं समस्त-दीपायमानः स
महा-द्वीपायमानः परम-सुवेशः सर्वश् च देशः श्वेतद्वीप इत्य् आचक्षते गोलोक इति च । यस् तु बहिर्-भागः सागरवद् अपरिच्छेद्यस् तत्र विगत-शोका धारित्र-निभ-विचित्र-लोकाः सलोका विद्यन्ते । पत्र-स्थितानि तु वनानि केलि-वृन्दावनानीति भणन्ति । यथोक्तं
पाञ्चरात्रे - महावृन्दावनं तत्र केलिवृन्दावनानि च इति ।
[50] अथ चतुरस्रम् अनु कमलात् पतयालुतया परितः स्रवन्तीर् मधु-धाराः पिबन्त इव पुनर् उपरत-तत्-पानाय वमन्त इव च दक्षिण-पश्चिमयोः सर्वतः पर्वतः पर्वत-षट्-पदा दृश्यन्ते । यत्र च तत्रापि महा-मणि-मय-कूट-घनः श्री-गोवर्धनः कुटी-भूत-महा-निधिवद् अखर्वम् आनन्द-गर्वं सर्वाधिपतेर् अप्य् आविर्भावयति ।
[51] श्री-गोवर्धन-नामा चायं रमणीय-मणि-शिलाभिः समासनम् आसनम्,
खगावलि-कलित-काकलीभिः स्वागतं स्वागतम्,
श्यामाक-दूर्वाब्ज-विष्णुक्रान्तापर्यग्-आक्रान्त-तिर्यग्-निर्झरिभिर् निष्पाद्यं पाद्यम्,
चञ्चन्-मृग-चरण-न्यञ्चद्-अक्षत-दर्भानन्ताङ्कुरैः समर्घ्यम् अर्घ्यम्,
तीर-सनीड-जाती-लवङ्ग-कक्कोल-सङ्गत-पल्ललैर् अलम् आचमनीयम् आचमनीयम्,
नव-नव-नव-प्रसूत-गवी-नवीन-स्नुत-क्षीर-परिणत-दधि-तत्-प्रसृत-घृत-शबलनैस् तरूपहृत-मधुपर्कं मधुपर्कम्,
शिखर-शेखर-शिलासर-प्रखर-धारा-पातैर् अनुकृत-स्नपन-परिचर्या-प्रीति-मज्जनं मज्जनम्,
दुकूलवद्-अनुकूल-संश्लेष-स्वर्ण-वर्ण-वृक्ष-विशेष-वल्कलैः कलित-सुख-वसनं वसनम्,
स्वभावानुबन्ध-गन्ध-सुगन्ध-शिला-शत-परिणत-हरि-चन्दन-गौर-गैरिकैश् चर्चातिशयं चर्चातिशयम्,
प्रफुल्ल-माल-मालती-लतादिभिर् नन्दित-सुमनसः सुमनसः,
गव्याखुरव्याहति-जातागुरु-दारु-धूमैर् व्याहत-सर्व-धूपं धूपम्,
दिवापि विद्योति-मणि-निकर-ज्योतिभिः सर्व-सम्पद्-उद्दीपं दीपम्,
मञ्जुल-गुञ्जापिञ्छा-दिवि न्छोलीवाञ्छित-निर्माणैः कृत-सुषमा-भरणम् आभरणम्,
अभिलाषानुकूल-फल-मूल-वलयैः सर्व-सुख-समाहारं समाहारम्,
पुष्प-वासित-शीतल-जल-वलयित-पुनर्-आचमनम् अनु विमल-परिमलातुल-तुलसिका-पल्लवादिभिर् मुख-वासनं मुख-वासनम्,
मरुद्-उच्चल-स्फुट-पुष्प-सम्पच्-चम्पक-दीपावल्या स्फुटम् आरात्रिकम् आरात्रिकम्,
घन-किसलय-वलय-सङ्कुल-बकुल-मुख-शाखा-निकरैः शोभान्तरतमातपत्रम् आतपत्रम्,
मलय-मरुल्-लव-चलत्-पल्लव-विशाल-शालैर् नन्दित-भव्य-जनं व्याजनम्,
निज-स्वर-विवेकिनां केकिनाम् अनेकाङ्ग-केकाभिः कलिलास्यं लास्यम्,
हरि-वेणु-ध्वनि-भ्रम्-कीचक-कल-क्रम-क्ताकर्स-वनितान्वित-शय्यायमान-पुस्प-पात-पर्यायैः क्त-सर्वातिशयनं शयनम्,
काकली-कलिल-कल-कोकिल-कुलैर् लब्ध-सङ्गानं सङ्गानम् अपि हरिं परिकलयन् पूर्व-पूर्व-सिद्ध-निज-हरि-दास-वर्यतां पर्यापयन्न् आस्ते ।
[52] कृत-हरिदास-वर्य-सङ्गा मानस-गङ्गा च सर्व-सुख-स्थेमनि कृष्ण-प्रेमणि मानस-द्रव-मयीति किल तन्-नामतया तां वर्णयन्त्य् उपश्लोकयन्ति च-
स्वल्पेनाघजिद्-अंश-वामन-पद-स्पर्शेन गङ्गा सदा
सर्वाघ-प्रशमन्य् अभूद् अपि शिवस्यारूढ-मूर्धाजनि ।
स्वेनैवाघजिता सदा विहरता ब्रह्मेश-लक्ष्मी-जयि-
प्राशस्त्येन सह व्रजेन मिलिता गङ्गापरा किं पुनः

1.1.24

[शार्दूला]
[53] अथ यत्राप्य् उत्तर-पूर्वयोः कस्यानन्द-व्रज-रूपस्य व्रजस्यालिन्दाद् अदूरभवेति किल कालिन्दीति-नाम्नी यमुना विलसति । या खलु-
कदाचिद् धाराभिर् वहति हरि-रत्न-द्रव-निभा
कदाचित् स्तब्धाङ्गी स्फुरति हरि-रत्न-क्षितिर् इव ।
क्रमाद् वेणौ तस्मिन् न नदति नदत्य् अर्क-तनया
जलस्थल्योः शर्म प्रसवति हरेः सेवन-विधौ

1.1.25

[शिखरिणी]
पश्यन्ती जलजेक्षणा घन-रसावर्त-श्रुतिः शृण्वती
जिघ्रन्ती झष-नासिका तरल-दोर् आलिङ्गनं कुर्वती ।
जल्पन्तीव च हंस-चक्र-वदना नीरात्मना कृष्ण-भाग्
या कृष्णा बत साथ कीदृग् असकृद् देव्यात्मना चेष्टते

1.1.26

[शार्दूला]
[54] यत्र च सर्वत्र सरांसि चैवम् उत्प्रेक्ष्यन्ते-
व्रज-विपिन-विभागे निश्चलो यस्य वासः
स्वयम् अयम् अपरेषां पोषको जञ्जनीति ।
कलय वर-सरांसि स्रोतसाम् अत्र वृन्दैर्
विदधति यमुनादि-द्वीपिनीः स्हीत-तोयाः

1.1.27

[मालिनी]
यत्र च-
काश्चित् पङ्क-कैरवावलि-लसत्-स्रोतस्वती-प्रान्तगा
नाना-पुष्प-वनी-विराजद् अवनी-मध्य-स्थिताः काश्चन ।
केका-झङ्कृति-मत्-कुहू-मधुरिताः कान्ताङ्ग-चर्चाचिता
नासादृक्-श्रवसः सदापि सुखदा रासाङ्किता भूमयः

1.1.28

[शार्दूला]
किं च-
भाण्डीरस् तरणि-पदं समुन्नतेर् न
प्रायातः परम् इह किन्तु विस्तृतेश् च ।
तच्-छाखाः परिविहरन्न् अवार-पारे
कालिन्द्या मुहुर् अभियाति गोप-सङ्घः

1.1.29

[प्रहर्षिणी]
तथा-
क्वचित् सद्माभास-प्रकट-बलवत्-कोटर-घटः
क्वचित् पल्यङ्काभ-प्रथित-पृथु-शाखा-सुखतमः ।
क्वचिद् दोलातुल्य-ग्रथित-लतिका-पालि-वलितः
सदासौ भाण्डीरः कम् इव हरि-केलिं न तनुते

1.1.30

[शिखरिणी]
तद्-उदीचीम् अनुदेशः
प्रथयति सौख्यानि राम-घट्टाख्यः ।
यत्र च रामं कुर्वन्
सुखयति रामः सरामताम् अञ्चन्

1.1.31

[गीतिः]
[55] अथ तस्य लोकस्य लोअक-पालैर् वरणीयानि विमान-चारिणां वराण्यावरणानि सुर-वर्त्मनि वरीवृतति । यत्र च वासुदेवादि-संज्ञं स्वयम् एव चतुर्व्यूह-वृन्दं लोक-पालायमानं सेना-व्यूहताम् उररीचरीकरीति । तत्र च पुरुषार्थादयः के वराकाः ?
[56] तद् एवं सति गोलोक-नामायं लोकः परम-मान्यः सामान्यतयापि केन वर्ण्यताम् ? यः खल्व् अमृत-सिन्धुर् इत्य् अमृतान्धसः, यशसः सवया इति कवयः, विचित्री-धर्माकृतिर् इति विश्वकर्माणः, आनन्दानां ब्रह्म-साक्षाद् इति ब्रह्मानुभविनः, प्रेमा स्वयं व्यक्त इति भगवद्-भक्ता मन्यन्त इत्य् अनेक-मत-परामृष्टतया दृष्टः ।
किं च-
किं तेजः किं नु चित्रं किम् उत नट-कला किन्तरां कोऽ पि लोकः
किं वा प्रेमा स साक्षाद् इह कलित-वपुर् यः शुकेन प्रगीतिः ।
इत्थं तल्-लोकपाल-प्रमुख-दिविषदां संहतिस् तर्कयन्ती
तस्मिन् गोविन्द-धाम्नि प्रतिदिनम् अयते सम्भ्रमं च भ्रमं च

1.1.32

[स्रग्धरा]
[57] तद् एवं बुद्ध-पद्धतिम् अप्य् अतीतवान् असौ लोकः प्रसभं बुद्धि-मध्यम् अध्यारोहति । यतः-
ये ये प्रीतिं ददति विषया ये च तत्-तद्-विदूरास्
तेषूत्कण्ठा मम नहि कदाप्य् अत्र सत्यं करोमि ।
कृष्णे स्नेहं बत वितनुते यश् च यत्रापि कृष्णः
शश्वल्-लोकं स तु सरभसं मां दिदृक्षुं करोति

1.1.33

[मन्दाक्रान्ता]
यस्याकर्णनम् अप्य् अपूर्वम् अमित-ब्रह्माण्ड-कोटि-व्रजे
वैकुण्ठेष्व् अपि वाञ्छितं किम् अपरं यल्-लालसा श्रीर् अपि ।
गोलोके स तु बान्धवाग्रिमतया विभ्राजते सर्वदा
येषां तन्-मधुरिम्णि हन्त मम हृन् मज्जन् मुहुः सज्जति

1.1.34

[शार्दूला]
[58] हन्त किं करवाणि ? सहसैवारब्धवान् एतद् वर्णनम् । निर्वाहं तु न पश्यामि । [59] यतः प्रथमतश् चतुरस्र-परि-हरि-चरित-चारुता-प्रणिधान एवेदृशता दृश्यते, यथा-
गवां क्षेपश् चारं प्रति सखिभिर् आक्रीड-परता
मुहुस् तासां दूरे गमनम् अनुसम्भालन-विधिः ।
तद्-आह्वानं तासु क्रमम् अनुविसृष्टिः सवयसां
पुनः क्रीडावेशः स्मृति-पदतया क्षोभयति

1.1.35

[शिखरिणी]
तत्रापि-
क्व चापि कृष्ण-रामौ तौ कर-बद्ध-करौ मिथः ।
हसन्तौ हासयन्तौ च कुर्वाते चित्तम् आकुलम्

1.1.36

[अनुष्टुभ्]
किं च-
वृक्षान् अङ्कुरयन्तु विद्रुत-दशाम् अद्रीन् नयन्तु द्रुतं
स्तम्भं चाम्भसि लम्भयन्तु सरितां किं वा प्रतीचीनताम् ।
वेणु-ध्वान-घटा यतोऽ तिनिकटाः कस्माद् अकस्माद् बलात्
कर्णाभ्यर्ण-गता इव स्फुटम् अमून् धुन्वन्ति तद्-ध्यायिनः

1.1.37

[शार्दूला]
[60] यतस् तद्-अनुभविनां सुखं तु मनसि स्फुरद् अपि न वक्तुम् ईश्यते ।
यस्मिन् हरिर् याति विहार-हेतोस्
तस्मिन् मुदा फुल्लति चेत् कुटोऽ पि ।
न तत्र पृच्छा न च वक्तृता तन्
न पृच्छ्यम् एतन् न च वाच्यम् अस्ति

1.1.38

[उपजाति]
[61] इदं च सुजन-मतिम् अतीवाकर्षति ।
गायन्ति तत्र धवलाः परिपालयन्तः
पारावतीं मधुर-रागवतीम् उदस्राः ।
जन्मादि-कृष्ण-चरितानि चिरं गतानि
स्मृत्वा यतः सपदि मुह्यति सर्व एव

1.1.39

[वसन्त]
[62] अहो कुतः कुतो वा मनः संयमनीयम्, यतो गोष्ठानि च तानि द्रष्टुं मनः प्रसभम् उत्कण्ठयन्ति । यथा-
विराजत्-कस्तूरी-द्युति-परिमलैर् गोमय-मय-
स्फुरच्-चूर्णैः सद्म-प्रतिकृति-वपुभिस् तरु-वरैः ।
दिवा नूत्नैर् वत्सैर् निशि सुरभिजिद्भिः सुरभिभिः
समनाद् गोष्ठानिइ प्रतिमति दिशन्ति स्मृति-शतम्

1.1.40

[*2] [शिखरिणी]
[*2] थे त्wओ लत्तेर् लिनेस् अरे अल्सो fओउन्द् अत् थे एन्द् ओf ग्च् (उत्तर-चम्पू 37व्55).
सन्ध्ययोस् तु-
वत्सान् मोचयतां धनानि दुहतां दुग्धानि सञ्चिन्वतां
गाः सम्भालयतां गृहान् प्रचलतां कृष्णं पुरः कुर्वताम् ।
तल्-लीलाः परिगायतां पुलकिताम् अश्राणि चातन्वतां
गोपानां बत चित्तम् उच्चित-मदं मच्-चित्तम् आक्रामति

1.1.41

[शार्दूला]
[63] सदा चैतानि राज-वर्त्मानि तत्-कीर्तन-चत्वराणीव प्रसभं मच्-चित्तम् आकर्षन्ति । तथा हि-
रामः कृष्णः कृष्ण-रामौ च कृष्णः
कृष्णः कृष्णः कृष्ण इत्य् एष जल्पः ।
यातायातं कुर्वतां सर्वदापि
स्वैरालापे श्रूयते तत्र तत्र

1.1.42

[शालिनी]
[64] श्री-कृष्ण-प्रमदानां प्रमदानां प्रमद-वन-पात्राणि पत्राणि तु वर्ण्यमानानि कवीनाम् अपत्रपाम् एव बिभ्रति, यतस् तत्रत्यं सर्वम् एव चित्रम् इति दुष्प्रत्यायतां प्राप्नोति । येषु हि-
क्वचित् कुञ्जाः सद्म-भ्रमकर-रुचैस् तैर् अवयवैः
क्वचिच् चित्रैः सद्मान्य् अपि तुलित-कुञ्जानि शतशः ।
जलानि क्वाप्य् उद्यत्-कमल-वलितानि प्रतिपदं
स्थलान्य् अप्य् एवं क्वाप्य् अथ किम् इव किं निर्णय-पदम्

1.1.43

[शिखरिणी]
सखीनां सारण्य-त्रिदश-सुदृशां गान-वलनां
मुहुः प्रोद्यन्-मूर्च्छां मधु-मधुर-राग-प्रणयिनीम् ।
हरि-प्रेमार्त-स्त्री-प्रथम-रचितां शृण्वति जने
सुखं वा दुःखं वेत्य् अवकलयितुं कः प्रभवति

1.1.44

[शिखरिणी]
क्वचिद् गानं सूक्ष्मं क्वचिद् अपि च तौर्यत्रिक-कला
क्वचित् प्रेम्णा गोष्ठी क्वचिद् अपि महा-केलि-कलहः ।
इति स्फारं ताभिः प्रणय-मय-सारं विहरणं
हरेर् ध्यायन् नाना भवति कवि-चित्तं मुहुर् अपि

1.1.45

[शिखरिणी]
प्रेमा कामति तत्-क्रिया कलहति स्तम्भादि-भावावली
सख्यां सञ्चरति श्रुतं च चरितं सर्व-श्रुतं लङ्घति ।
इत्थं केलि-कला-कलाप-कलितं वृन्दावनान्तर्-वने
दम्पत्योर् निखिलं विचार-पदवीम् उद्धूय विभ्राजते

1.1.46

[शार्दूल]
अकुण्ठाम् उत्कण्ठां वहति हरिर् आसु प्रतिपदं
हराव् अप्य् एता यद् व्यतिमिलन-सौख्यं विजयते ।
अहो यस्माद् अस्मिन् निरुपधि सखी-वृन्दम् उभय-
प्रकृष्टोत्कण्ठित्वं विशति तद् इदं हन्त किम् इव

1.1.47

[शिखरिणी]
अपि सुन्दरतां प्रति ताः, सुन्दरतां किल वहन्ति गोपाल्यः ।
यन् निर्दूषण-भूषण-, भूषण-कृष्णे विभूषणायन्ते

1.1.48

[उद्गीतिः]
न भजति लक्ष्मीस् तुलनाम्, इति किं स्तुतये घटेत राधायाः ।
या लक्ष्मीम् अपि जेत्रीः, स्व-रुचा गोपीः पृथक् कुरुते

1.1.49

[आर्या]
[65] तस्माद् असाम्प्रताय तु साम्प्रताय मद्-विधाय स्वं वर्णयितुं किम् उत निर्वर्णयितुम्-
रव्य्-आदि-द्युति-जिष्णु-दिव्य-धरणि-क्षौणी-रुहान्तर्गत-
प्रासाद-स्थित-सिंह-पीठ-महसि च्छन्नान्य-दृष्टि-त्विषि ।
स्पष्टात्मीय-दृशि प्रकीर्णक-विकीर्णाली-हिताली-वृता
राधा-माधव-माधुरी-वर-सुधा तृष्णां मुधा यच्छति

1.1.50

[शार्दूल]
[66] तद् एवम् आनन्द-सत्र-पत्रादि-स्थितानाम् उपरि सान्द्र-शाखाभिर् अलक्ष्य-तलानाम् अनल्प-कल्प-वृक्ष-लक्षाणाम् अधिमध्यं राज-समाज-विराजमानां वर्णित-मञ्जु-किञ्जल्क-कर्णिकाम् अधिवसन्तः सदा लसतः स-परिवार-वार-सुरभी-पाल-भूपाल-कुमारस्य तस्य सर्व-चिन्तातीत-चिन्तामणि-मयम् अक्षामं सप्त-कक्ष्यारामं धाम निकामं धाम विस्तारयन् नेत्राणि विस्तारयति । तत्र च भासमानं तद् आवासम् अभितः सततम् उपपरार्धे गणनीयानां सजातीयानाम् अद्वितीया वसतिः । सेयम् अभिस्निह्य वन्दिभिः सन्दिह्यते ।
अब्जं तद् आलिङ्गितुम् अब्ज-बन्धोर्
बन्धुर् ययौ किं परिवेष एषः ।
गोपालयानां वलयावलिर् वा
गोपेश-वेश्माभित एवम् अस्ति

1.1.51

इति । [इन्द्रवज्रा]
[67] तद्-वासिनस् त्व् एवं स्तूयन्ते-
अर्थाः सर्व-जनार्थनाम् अतिगताः कामा निकामाग्रिमा
धर्माः कर्मठ-देव-धर्म-महिता मोक्षाश् च मोक्षातिगाः ।
तेषां तत्र वसन्ति सेवकतया कृष्णाय तृष्णा-जुषां
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् तत्-कृते

1.1.52

[शार्दूला]
नेत्रं श्रोत्रं चित्तम् अप्य् अन्यद् अन्यत्
तुच्छं यस्मिन् भाति कृष्णं विना तु ।
घोषे तस्मिंश् चक्षुषश् चक्षुर् एवं
श्रौती वार्ता पश्य दृश्या विभाति

1.1.53

[शालिनी]
विभ्राजन्ते सूत्र-सञ्चार-विद्या
पाञ्चाल्यः किं विश्व-विस्मायनाय ।
किं वा गोपाः स्वान्तरे कृष्ण-भावैर्
बद्धाः सन्तस् तत्र तत्र भ्रमन्ति

1.1.54

[शालिनी]
किं च-
पितायं मातेयं पितृ-सहज-वर्गः स्वयम् असौ
तथैवान्ये चान्य-प्रथित-हित-सम्बन्ध-महिताः ।
व्रजे ख्यातिर् यैषा बकरिपु-गणे भाति खलु तां
क्वचित् तुल्यः प्रेमा पथिकम् अनु शश्वद् भ्रमयति

1.1.55

[शिखरिणी]
[68] अथान्यद् अपि किम् अपि विभाव्य सम्भाव्यते । तद् यदि सताम् अनुभवम् अप्य् अनुभविता, तदा भव्यम् एव खल्य् भव्यम्, न चेन् नव्य-काव्यता तु न व्यभिचरिता । अथवा, तथापि यत् किञ्चिद् अपि तेषां वाञ्छितं स्याद् एवेति सर्व अञ्चितम् एव मन्यामहे ।
[69] तत् तु सम्भावनं, यथा-अथ गोपावासाभ्यन्तरे तादृशाम् एव सभ्यानां लभ्या सभावलिर् उपलभ्यते,
यत्र भूरि-वैचित्री-धुराणि महा-गोपुराणि पुराणीव विराजन्ते,
येषां पन्थानः किल किञ्जल्क-वलज-पर्यन्ताः समस्ताद् विभ्राजन्ते,
यत्र च परस्परम् अभिमुखाः सुमुखा महान्तस् ते गृहा मिथः पृथुल-शोभा लोक-स्पृहा इव विमृश्य दृश्यन्ते,
यत्र च सिंह-संहननानां पुरुष-सिंहानां निश्चलाङ्घ्रीणि महा-सिंहासनानि विचित्रतया नेत्राणां परिबृंहणताम् अंहन्ते,
यत्र च परावर-कक्ष्या-वासि-लोक-लक्षाणि समम् एव समक्षाणि सन्ति, मिथः सुख-शतानि वर्षन्ति,
यत्र चैकत्रासीनानाम् अन्यत्रापि रूपक-काव्य इव प्रतिरूपाणि रूपाणि प्रतीयन्ते-न च तानि केवलानि, अपि तु प्रतिध्वनयश् च ध्वनि-काव्य इव ध्वनितया विभाव्यन्ते, यतः स्वच्छान्तः-करणा महान्तः खलु पर-गुणान्तराण्य् अपि आयच्छन्तीति प्रथितिः प्रथीयसी; यदा च तथा प्रथीयन्ते विभाव्यन्ते च, तदा ह्य् आगन्तुका नाना-जनास् तत्-तद्-रूपाणां जानानाः परितः परिहास्यन्ते;
यत्र च कुत्रापि यदा सदा परमानन्द-स्यन्द-सन्दोह-दोहन-कान्ति-कन्दली-लम्भित-सुख-तन्द्रः श्रीमन्-नन्द-कुल-चन्द्रः स्वयम् आलोक-सुधया लोक-चक्षुश्-चकोर-वारपाराणाम् आपूरयति, तदा तूत्सवानाम् अपि महान् उत्सवः स्फुरति ।
[70] अथ सभा-वलयम् अन्तरा च कक्ष्या-पञ्चकतया लब्ध-बोधः सर्व-चित्तावरोधः स तु व्रज-नृपावरोधः समुद्भ्राजते । तत्र तम् एव हि सह-मातर-पितरादि-वृन्दः श्री-गोविन्दः स्वयम् आवसति । यत्र सभा-वलयान्तर्-अन्तः परितः परीतश् चतस्रोऽ प्य् अन्तः पृथग्-अवरोध-लक्षाः कक्ष्या लक्ष्यन्ते । अन्या च पञ्चमी धन्या सर्व-मध्य-लब्ध-न्यासतया यत्र चित्रीयते, यस्यां तु महा-प्राङ्गण-सङ्गिन्यां प्रतीचीम् अनु स्वान्तर-अङ्गम् अङ्गणम् अङ्गणं परितो निकायानां निकायः सर्वतोऽ पि श्रेयस्या श्रीमद्-व्रज-नर-देव-प्रेयस्या समाश्रियते । उदीचीम् अनु सुख-मयूख-रोहिण्या रोहिण्या । प्राचीम् अनु समस्त-कृत-सेवेन श्रीमद्-व्रज-नरदेवेन । अवाचीम् अनु स्वजन-सभाजन-भोजनापवर्जन-प्रयोजन-सामग्र्या ।
[71] अथ तद्-बहिर् बहिर् अन्तः-पुर-प्रयुत-विभाग-प्रचुराणां परम-सन्तुष्ट-जन-पुष्टानां चतुष्टयीनां च कक्ष्याणां पश्चान् निश्चित-पश्चिमादि-ककुभं शुभां रीतिम् अवलम्ब्य सकल-शर्म-दृश्वरी श्रीमद्-व्रजेश्वरी राम-घट्टाभिरामः श्रीमद्-बलरामः सर्व-लोक-गतिः श्रीमद्-व्रजाधिपतिः स च गोवर्धनानन्दनः श्रीमद्-व्रजाधिपति-नन्दनः पतिर् अतीव राजते ।
[72] तत्र चाहरहर् अविरह-रहः-केलि-कलित-तृष्णयो राम-कृष्णयोर् विख्यात-तत्-तन्-नामसु मध्यम-कक्ष्या-द्वय-धामसु परम-रमा-गण-श्रेयसीनां प्रेयसीनाम् आवास-प्रासादावलिर् उद्भासते; [73] यत्र चावेशनम् अनु सावेशं नाना-कला-कलापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायां गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् ।
[74] तयोर् द्वयोर् आवरणतया लक्ष्ये ये चान्यतरे प्रत्यन्तर-कक्ष्यम् एक-भूम-द्वि-भूमतादि-प्रकारेणाधिक-भूमिका-रचनाभिर् उच्चतर-रीतिकायाः समान-मान-गृह-स्व-स्व-वीथिकाया धारिणी गोलोक-धरणी-लोक-हारिणी भवति । तत्र सर्वास् तु गृह-लेखा-मणि-भित्ति-सम्बध्य-मध्य-रेखा-लब्ध-द्वैविध्या समन्ताद् उभयतः-स्थित-द्वारतया परस्पर-सम्मुखता-शोभानन्दित-दिग्-अन्ताः कैमुत्यम् आसादयन्ति ।
[76] यत्र च सर्व-मध्यमावरोधस्याधिमध्यं बृहत्-प्राङ्गणम् अधिकृत्याखण्ड-पुट-भेदन-मुकुट-भङ्गी-लङ्गिनं निश्रेणि-श्रेणि-मिश्रान्तः-श्वभ्र-शुभ्र-लघु-लघु-द्वार-सुखारोह-सञ्चार-मेर्व्-आकार-चार्व्-अङ्ग-कुट्टिमाद् उपरि परितः स्तम्भ-वार-सङ्गतम् अगारम् एकं सर्वतश् चलत्-पताकम् अवलोक्यते । [77] यदा च तस्य सर्व-ककुदम् उदञ्चितस्य धिष्ण्यस्य पुरूपरि चालङ्करिष्णुतया श्री-कृष्णः स्वयं वर्तिष्णुर् भवति, तदा सर्व-जिष्णु-तद्-उपरिचरिष्णु-जिष्णु-नील-मणिर् इव कं वा तल्-लोक-भविष्णु-लोकं कान्ति-कन्दलीभिर् न पुष्णाति?
[78] या चेयं कर्णिकायाम् उपरि पुरी, तद्-अधस्ताद् अन्यापि समन्ताद् अस्ति, किन्तु सा प्रति-कृष्ण-कान्ता-धामन्य् एव निजाङ्गन-निभ-पत्र-पङ्क्ति-सीमन्य् एव चायन्त्रित-द्वार-गणेति परेषाम् अज्ञाता, द्युमणिवन्-मणि-गण-समुज्ज्वलालय-कलापा, वातानीत-सुजात-परिमल-सम्पाता, निर्जनता-जनित-स्वैरतानारत-रति-प्रदा, शय्यासन-च्छत्र-चामरादि-सामग्रीति-बहुल-शती-प्रीतिदा-नाना-क्रीडा-भाण्ड-मण्डल-मण्डिताखण्ड-मण्डपा, तत्-तच्-चेष्टाधिष्ठान-नर-मृग-पक्षि-प्रतिकृति-लक्ष-विलक्षिता प्रेयसीषु विभक्त-प्रदेश-विशेषा शेषालयायते । यत्रत्येन पथा यथावत् प्रेयसी-नामानन्दनः श्रीमान् नन्द-नन्दनस् तत्र पत्र-समुद्यद्-उद्यान-वृन्दम् अमूभिर् अनुविन्दन्न् अतीव नन्दति । तस्माद् उद्यानाद् अन्तर्-द्वारेण चतुरस्रं
प्रत्युद्यानम् अपि विन्दति ।
[79] एवं श्री-बलरामस्य राम-घट्टाख्य-निज-क्रीडा-वन-गमनं च तल-वर्त्मनैव वर्तते, किन्तु संक्षिप्ततया निहितेन पत्रावलि-पर्यन्ताल-वाल-पिहितेन मन्तव्यम् ।
[80] ताम् एताम् उपरिगतां श्रीमद्-व्रजेश्वर-पुरीं परि तु श्लोकाः परिगीयन्ते-
यस्तां पताका मृदु-वात-कम्पिता
नानामुखीभावम् इताः पुनः पुनः ।
सौरभ्यम् आयाति यदा यतस् तदा
विवृत्य पश्यन्ति दिशाम् अमूम् इव

1.1.56

[उपजाति 12]
नित्यं सुधा-धामज-धाम-सङ्गतः
पूर्णाङ्गताम् अङ्गल-सङ्गतिं गताः ।
यत्रापि कुम्भा विधु-कान्त-सम्भवाः
कूटान्तरत्व-मुकुटा इव स्थिताः

1.1.57

[इन्द्रवंशा]
यत्रान्विता कुम्भा विधुकान्त-सम्भवाः
कूटान्तरत्न-मुकुटा इव स्थिताः ।
यत्रान्विता स्वच्छतया विभातया
हीरादि-रत्न-च्छदिर् आलिर् ईक्ष्यते

1.1.58

[इन्द्रवंशा]
मयूर-पारावत-कोकिलाद्या
वसत्नि यस्यां तु विनापि यत्नम् ।
शब्दायमाना विपिनस्य तैर् ये
विवाद-संवादवद् आचरन्ति

1.1.59

[उपजाति 11]
विचित्र-रत्नावलि-चित्र-चर्चिता
सौवर्ण-भित्तिः परितश् चकासती ।
गोपाल-बाल्यादिइ-विलास-माधुरीः
साक्षाद् इवालक्षयते शिशून् अपि

1.1.60

[उपजाति 12]
विस्तारितोत्सङ्ग-निभैर् अलिन्दैः
श्लिष्यन्ति कृष्णं भवनानि नित्यम् ।
येषां सदान्तर् निवसन्ति ते तद्-
भक्ता अमी तादृशतां व्रजन्ति

1.1.61

[इन्द्रवज्रा]
प्राङ्गणानि मणि-दर्पण-च्छवीन्य्
उल्लसन्ति सदनावलीम् अनु ।
येषु नूतन-वधूर् बकान्तकं
व्रीड-नम्र-वदनापि वीक्षते

1.1.62

[स्वागता]
चन्द्रकान्त-मणि-बद्ध-भूतले
पल्वलानि च लसन्ति सर्वतः ।
राधिकादि-मुख-कान्ति कन्दली
यानि पूरयन्ति हन्त सर्वदा

1.1.63

[स्वागता]
लोकः श्रीनाथ-लोक-प्रतिरुचि-विजयी काननं श्री-स्पृहाजिद्-
वासः श्री-राजधानी-निखिल-शुभ-रुचां वासिनस् ते त एव ।
भोक्ता कृष्णः स भोग्यः प्रणय-मधुरिमा शश्वद् इत्य् एवम् अस्मिन्
प्रत्येकं सर्वम् अन्तःकरणम् अतिगतं कस् तद्-अन्तं लभेत

1.1.64

[स्रग्धरा]
[81] तत्-प्रेम-शर्मणां सर्वातिशयि-धर्मतायाम् अहम् अपि मर्म-वेत्ता, यतः-
हरिर् गोप-क्षौणी-पति-मिथुनम् अन्ये च विबुधा
न नः क्रूरं चित्तं मृदुलयितुम् ईशा लवम् अपि ।
अहो तेषां प्रेमा विलसति हरौ यस् तु बलवान्
हरेर् वा यस् तेषु द्रुतयति स एव प्रतिपदम्

1.1.65

[शिखरिणी]
[82] अतः सर्वतः क्षेमाणां स एव प्रेमा सर्वत्र स्फुरति । तथा हि-
हरिः प्रेमा साक्षाद् इव भवति किं वा व्रज-जनस्
तयोर् एकस्मिंश् च स्फुरति स हि शश्वत् स्फुरति नः ।
इदं वारं वारं विधि-शिव-सुरर्षि-प्रभृतयः
स्फुटं कर्तुं शक्तिं दधति नतरां यत् कियद् अपि

1.1.66

[शिखरिणी]
[83] स तु परमाश्चर्य-चर्यः, यतः-
तदीयानां प्रेमा यद् अपि कृति-चर्यातिग-सुखअस्
तथाप्य् उच्चैर् हेतुर् भवति हरि-साहायक-विधौ ।
जगत्-कार्ये यद्वच् छ्रुति-मत-पर-ब्रह्म नितराम्
अचिन्त्यो यो भावः स हि न हि वितर्कं विषहते

1.1.67

[शिखरिणी]
[84] यस्माद् एवं स एव चित्तम् आकर्षति, तस्मात्-
ज्ञात्वा कर्म स्वयम् उत परात् कृष्ण-तृष्णानुकूलं
तस्मिन्न् अन्तर् बहिर् अपि सदा गोप-राजावरोधे ।
यातायातं मुहुर् अतितरां कुर्वताम् आदृतानाम्
अप्य् उत्कण्ठाचलित-मनसां मानसं भावम् ईहे

1.1.68

[मन्दाक्रान्ता]
[85] तत्रत्यानां समूहावलोकनं तु परम-परमाद्भुतम्, तथा हि-
उद्घूर्णन्ते प्रिय-परिजनाः स्निग्ध-भावा यथा-स्वं
गोप-क्षौणी-पतिम् अनुगतास् तस्य चात्म-द्वितीयाम् ।
यौ प्रेमाख्य-प्रबल-रशना-यन्त्रनात् कृष्ण-कान्ति-
ज्योतिश्-चक्रे रवि-शशि-तनू ये च नक्षत्र-सङ्घाः

1.1.69

[मन्दाक्रान्ता]
[86] गानं तु प्रतिगणं साधारणम् अपि कञ्चिद् विशेषं वहति, यथा-
जन्माद्य्-अर्भकता हरेः प्रवयसां मध्ये-सभं प्रायशः
पौगण्डादिषु निर्जरारि-विजितेः प्रायः सुहृन्-मण्डले ।
कालियाइदिषु दुर्जनेष्व् अपि कृपा-भक्त-व्रजेऽ नल्पशः
प्रायेनात्मनि राग-रीतिर् अभितः कान्ता-गणे गीयते

1.1.70

[शार्दूला]
तत्र च-
सङ्गाने चेद् भजति मुरजिद्-भक्त-मात्रं विमोहं
शर्माशर्माप्य् अनुमिति-मियान् तर्हि न प्रेक्षकाणाम् ।
शान्तिर् दास्यं सहचर-दशा वत्सलत्वं तथान्यद्
गच्छेद् एषां हृदि कथम् इह क्षीर-वार्-वद् विवेकम्

1.1.71

[मन्दाक्रान्ता]
[87] हन्त! पद्य-द्वयम् इदम् आलोले मनसि उद्भूय तद् एवान्दोलयति । यथा-
मातर् मातर् जननि मम तद् देहि देहीति शब्दैर्
वत्सायुष्मन् सुत वदसि किं प्राण-लाल्येति चार्द्रैः ।
नानालाप-प्रणय-वलिता मां बलात् स्नेह-मुद्रा
तस्मिन् गोष्ठे स्मरयतितरां तौ सवित्री-कुमारौ

1.1.72

[मन्दाक्रान्ता]
गेहेशि त्वं चरित-सुकृता हन्त वत्सस् त्वद्-अग्रे
वक्ति प्साति प्रथयति रुचिं याचते जाहसीति ।
अर्धाद् एवं स्थगित-वचनं स्नेह-पूराद् व्रजेशं
ध्यायेद् वृत्तिं बत न लभते मन्-मनो बम्भ्रमीति

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc