भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.18

1.18.1

[अनुष्टुभ्]
[75] तद् एवं कथायां समाप्त-प्रथायां सर्वे यथा स्व-स्वावासम् आसन्नाः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
वेणु-शिक्षा-मिष-प्रेयसी-भिक्षा नाम
सप्तदशं पूरणम्
॥17॥
(18)
अथ अष्टदशं पूरणम्
गोत्रभिद्-गर्व-खण्डन-
गोवर्धन-गोत्र-मान-वर्धनम्
अथ प्रभाते सदसि व्रजेशितुर्
महा-प्रभावेषु विभात-पङ्क्तिषु ।
आनर्च्छ सामोदम् उदश्रु-कण्ठतां
स स्निग्धकण्ठः कथयाम्बभूव च

1.18.2

[उपजाति 12]
[1] अथ तस्मिन्न् आश्विनावशेषे लब्ध-विशेषे यज्ञ-योग्य-वेशे व्रजाद् बहिः प्रदेशे सर्व एव पर्वणा सान्द्रानन्द-व्रजा इव स-प्रजाः व्रजेन्द्रादयः सम्भ्रान्ताशय-प्रायतया चरन्तः सुरेन्द्र-याग-योगम् आचरन्तः स्थानादि-सञ्चेष्क्रियमाणान् आदिशन्तः स्व-स्व-वसतिं विहाय वसतिं बहिर् वसन्ति स्म ।
[2] तदा च कदाचिद् एकस्यां सन्ध्यायां गोचारण-भू-भागतः समागतः सङ्कर्षण-सहचारितया लब्ध-हर्षः स-कुतुक-तृष्णः श्री-कृष्णस् तदीय-चरितम् आलोचितवान् । तत्रैव च प्रभूत-कुतुकाकुत-सम्भूततया वसति स्म ।
[3] तद् अपि च यद् अपि पूर्व-पूर्व-संवत्सरेषु दृष्टम् इत्य् अपूर्व-दृष्टं न भवति, तथापि सम्प्रति प्रौढताप्रकाशतः शतमन्युं प्रति मन्युं जनयन् जनकादिषु प्रणय-कोपं ज्ञापयन्न् अज्ञानत इव जिज्ञासाञ्चक्रे । यद्यपि शतपर्व-पाणिर् एवं गर्वायते, एते गोपालन-कारकाः के वराकाः? निखिल-लोक-लोकपाल-पालकस्य मम दक्ष-मुख्याः प्रजापतयः स्वीय-मन्वन्तर-पति-प्रभृतयः पृथिवी-पतयः कमलजन्म-जन्म-प्रधाना मुनीशाना यजमाना विराजन्तेतराम् इति, तथाप्य् एते मत्-पितृ-पुरः-सरास् तत्र भक्तिम् अतिरिक्तीकुर्वन्ति इति ।
[4] अथ स्पष्टीकृत-गौरव-सौष्ठवम् अन्तः-कष्ट-परामृष्टं पृष्टवान्-
कथ्यतां वः पितः कोऽ यं सम्भ्रमः समुपागतः? ।
यज्ञार्थो यदि देवः कः? प्रमाणं किं, फलं च किम्?

1.18.3

[अनुष्टुभ्]
[5] व्रजेश्वरे तु ज्ञान-पूर्वक-प्रश्न-विज्ञानतस् तद्-अभिप्रायं प्रायः प्रतिपद्य सद्यः प्रतिवचनम् अदत्तवति, पुनर् लाल्यतोचित-बाल्यतो दीनता-धीनम् इवोवाच-
यथा विधातुं भवतां तथा श्रोतुं च नः स्पृहा ।
उभयेषां यतस् तत्र विशेषाश्रयता-स्थितिः

1.18.4

[अनुष्टुभ्]
[6] अथ, किम् अस्माभिर् व्यक्तं वक्तव्यं गोत्रभित्-सत्रं प्रति, किं वायं वत्सः प्रतिपत्स्येते इति विचिकित्सति तात-पादे तद् एव किञ्चिद् अतिरिक्तं व्यक्तम् इव कर्तुम् इच्छति स्म । [7] यथा च, तात, सर्वत्र निपुणानां वैज्ञानिकानां भवतां पुत्रा वयं न तावद् गोचारकता-मात्र-पर्यवसित-पर्यालोचनाः, किन्तु किञ्चित् किञ्चिज् ज्ञान-नीतिं धर्म-रीतिम् अपि प्रतिपद्यामहे इति व्यञ्जनया मञ्जु वदति स्म-
सर्व-क्षेत्र-प्राज्ञ एकः परात्मा
तस्मिन् जीवाः सन्ति नैवातिभिन्नाः ।
एतद्-विज्ञाः साधवो विद्वद्-इज्यास्
तस्माद् एषां गोपनं नैव युक्तम्

1.18.5

[शालिनी]
योगिनां मतम् एतच् चेन् नीतिर् अप्य् अवधार्यताम् ।
उदासीनोऽ रिवद् वर्ज्यः सुहृद् आत्मैव सम्मतः

1.18.6

यद्य् एष पन्था धर्मस्य सोऽ पि नास्त्य् अविचारतः ।
तत्र यद् विदुषः सिद्धिर् भवेन् नाविदुषः क्वचित्

1.18.7

धर्मो वैदिक एवेष्टौ लौकिकः क्वापि दृश्यते ।
भवद्भिः कस् तयोर् एष विशेषत्वेन सम्मतः?

1.18.8

[अनुष्टुभ्]
[8] तद् एवं स्व-सुतस्य सुपर्व-पति-मान-चर्वणायाविर्भवन्तं सर्व-मत-ज्ञता-गर्वम् अखर्वम् आलोचयन्न्, अपूर्वतया भावनां कुर्वाणस् तेन च निज-पक्षस्यापेक्षणीयतां लक्षयन्न्, इदं व्रज-पतिर् उपक्षिप्तवान्-
धर्मोऽ यं लौकिकस् तात यद्यपि स्याद् अथाप्य् असौ ।
युक्तत्वाद् अपि चाम्नायाद् आम्नायज इवेष्यते

1.18.9

य इन्द्रो देवतात्र स्यात् पर्जन्यः स तु सर्ववित् ।
तस्यार्चनं कुलायातम् अस्माकं केतनं मतम्

1.18.10

[अनुष्टुभ्]
[9] कृष्णस् तद् एतत् कर्म कर्म-प्रधानतया वर्ण्यमानं तद् उत्तरम् आकर्ण्य वासव-ह्रास-वासनया कर्म-काण्ड-पण्डितं-मन्यानां मतम् अनुसृत्य देवता-खण्डनम् आह-
स्वतः कर्म-वशाद् एवादातुं कर्मानुसारिणः ।
ईशश् चेद् अस्ति कर्मानुगाम्य् असौ का नु देवता

1.18.11

सर्वं तद् भस्मनि हुतं पर-तन्त्रे यद् अर्पणम् ।
गार्हपत्ये हुतं तत् तु यद् आत्मात्मीय-पोषणम्

1.18.12

तस्माद् आभीर-वैश्यत्वाद् अघ्न्यासेवा तु नः कृतिः ।
देवता यदि मन्येत मन्तव्या सा तद्-आश्रया

1.18.13

[अनुष्टुभ्]
[10] अथ शतमन्योर् अपि पर्जन्यतया तद्-आश्रयत्वम् आशङ्क्य साङ्ख्य-सङ्ख्यावतां मतात् प्रत्याचचक्षे-
रजो-भूर् यवसाद्य्-अर्थस् तस्मान् नेन्द्रो गवाश्रयः ।
किन्तु गोवर्धनाख्यान-क्षौणी-भृद् यः स एव सः

1.18.14

निजाजीव्यतया गावः कुलागत्या च भू-सुराः ।
आश्रयत्वे समक्षत्वं यान्त्य् एते न दिवौकसः

1.18.15

[अनुष्टुभ्]
[11] तत्र मतान्तरं वितण्डा-पण्डितानां मतेन खण्डयति-
आप्तवाग् अनुमानं च प्रत्यक्षाद् एव गम्यते ।
तस्मात् प्रत्यक्षम् एव स्यात् प्रमाणं सर्व-मर्दकम्

1.18.16

तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यताम् महः ।
ऐन्द्रैर् निर्मीयतां सेयं त्रि-कर्मी हविषां कुलैः

1.18.17

होमो यदि विधातव्यो वह्निम् उद्दिश्य हूयताम् ।
आश्रयः स हि सर्वेषां प्रत्यक्षश् चानुभूयते

1.18.18

अथ विप्राः प्रीणनीया दत्त्वा धेनूः सदक्षिणाः ।
स्वभाव एष भवतां विधि-किङ्करता नहि

1.18.19

[अनुष्टुभ्]
अन्नं दत्त्वा ब्राह्मणादिश्वपाकान्त्-
एभ्यः श्वभ्योऽ प्य् अत्र गोभ्यस् तृणानि ।
क्षौणी-भर्त्रे दीयताम् अन्नकूटो
यस्माद् एषोऽ प्य् अन्न-कूटाभिधः स्यात्

1.18.20

[शालिनी]
[12] तद् एवं श्वपाक-श्व-पर्यन्तेभ्यः प्रदातव्यं, न तु पाकशासनायेत्य् अभिप्रेत्य सर्वान् निर्वचनेकृत्य प्रत्येकं प्रवर्तयन् प्राह-
भुक्त्वा वस्त्रालेप-वेशान् गृहीत्वा
विप्रं वह्निं गां परिक्रामताद्रिम् ।
नात्राप्य् अङ्घ्रि-क्रामितावश्यकत्वं
स्वच्छन्दत्वाद् यानम् अप्य् अत्र दिष्टम्

1.18.21

[शालिनी]
ये वा क्रतुभुजोऽ प्य् अत्र जनास् ते स्युर् जनाव् इह ।
सुपर्वाणः सुमनसो निर्जराश् च सुरा इव

1.18.22

[अनुष्टुभ्]
किं च-
आढ्यङ्-करणी सुभगङ्-करणी तद्वत् प्रियङ्-करणी ।
श्री-गोवर्धन-पूजा-नाम्नी विद्या परिस्फुरति

1.18.23

[उपगीति]
गोवर्धन-गिरि-यज्ञावज्ञा तु गोत्रभित्-पूजा ।
अन्धङ्-करणी पलितङ्-करणी नग्नङ्-करण्य् अपि च

1.18.24

[उपगीति]
[13] तद् एवम् अग्रजमुखं निरीक्ष्य मृदु हसित्वा पुनः सादरम् आह स्म-
इत्य् एतन् मे बाल-भावेन बुद्धं
गो-विप्रादि-प्रेप्सितं मद्-धितं च ।
युष्मभ्यं चेद् रोचते तर्हि शीघ्रं
कार्यं विघ्नः स्याद् विभिन्न-प्रवेशे

1.18.25

[शालिनी]
सर्वं यन्-मानसं वाचिकं वा
युष्मदृग्भिः साध्यते कायिकं वा ।
नित्यं तत् तद् दृश्यते मन्-निमित्तं
तस्माद् एतन् मद्-धितत्वाद् विधेयम्

1.18.26

[शालिनी]
अनुन्मत्तः स्वतः सर्वं वेत्ति स्वीयं हितं पितः ।
नो चेद् वेत्ति न च ब्रूते ब्रूते चेद् वेत्ति निश्चितम्

1.18.27

[अनुष्टुभ्]
[14] तद् एतद् विप्रलम्भ-लम्भनम् अप्य् अक्लिष्ट-वर्णन-विशिष्टम् आकर्ण्य तन्-मुखं च निर्वर्ण्य, तद् एव सवर्णैर् असवर्णैर् अप्य् अधि पर्वम् आगतैः सर्वकैर् निर्णिन्ये । तथा हि-
प्रेष्ठः किञ्चिद् यद् ब्रवीति प्रतीतिं
सर्वेषां तद् याति नूनं रुचिं च ।
तच् चेद् अण्व् अप्य् अर्हितं तर्हि किं वा
वाच्यं तस्मात् तेऽ प्य् अमन्यन्त तद्द् हि

1.18.28

[शालिनी]
[15] तद् एतद् अवधार्य मधुकण्ठस् त्व् अमुक्त-कण्ठं परामृशति स्म, चेद् अप्य् अतिवेदः सुविचारता-नश्वरः सोऽ यम् अनीश्वर-वादः कृत-वक्र-भाव-चक्र-शक्र-पराभव-कौतुक-तात्पर्य-मात्र-पात्रतया तेन प्रयुक्तः, किन्तु न प्रवृत्ति-विरोधि-पात्रतया; तथापि तत्र मित्रतातिचित्रतया लब्ध-निगम-विस्रब्ध-सर्व-पुरुषार्थ-सार्थ-शिरोमणि-रूप-स्वरूपेषु तेषु व्रज-भूपेषु नायुक्तः । ईश्वर-ज्ञान-गुरुभिर् अपि तद्-भावम् एव परि सर्वोपरि-पुरुता-परामर्शात् । यथोक्तम्-
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्ण-ब्रह्म सनातनम् ॥[भ्प् 10.14.32] इत्यादि ।
[16] ततः कौतुक-चारितयापि तेन यद् विचारितम् इव सम्पद्यते, तद् अपि पारमार्थ्य-वर्यतया पर्यवस्यतीत्य् एवम् अहो परम-महो-वर-कर-स्वभाव-धारः सोऽ यं व्रज-धरा-पति-वंश-जन्मा शशधरः इति ।
[17] अथ स्पष्टं चाचष्ट-ततस् ततः?
[18] स्निग्धकण्ठ उवाच-ततश् च दीपावलीनामानम् अमावास्याम् अनु दीपावलि-बलि-कौतुकं प्रतिपद्य प्रतिपत्-प्रातस् तु विश्रम्भतः परमाश्रयताम् आश्रयमाणैर् अमीभिर् यथा तेन विहितं तथा विहितम् ।
[19] तत्र च मुख्य-कल्प-कल्पनाय विचित्र-चित्र-वितान-पताकादिभिः सर्व-सुख-संवर्धनस्य श्री-गोवर्धनस्य कूट-मण्डलं मण्डयित्वा, यथाविधि निर्बन्ध-साधित-साधु-गन्ध-बन्धुर-पाद्यादि-प्राग्र्य-सामग्रीभिर् अभिसभाज्य, तम् अभि प्राज्य-चरणाचलवद् आज्य-प्राघार-निर्झराश् चित्र-वर्ण-व्यञ्जन-व्यञ्जित-धातु-रञ्जनाः, दुग्ध-तटिनी-सङ्कटिता दधि-तडाग-सङ्घटिताः सम्पन्नम् अन्न-कूटाः सङ्घट्टय्य निकटाद् उपढौकयामासिरे । येषां प्राग्-भावेनापूपिकं शाष्कुलिकम् इत्यादि भूयिष्ठ-निष्ठान-कूट-नाम्ना स्थानान्य् अपि चिरम् आम्नातानि ।
नाना-वाद्यं लोक-कोलाहलाढ्यं
स्वर्गं बाढं व्यानशे तत्र सत्रे ।
यत् तद् देव-क्ष्मापतेर् आश्विनेयौ
निर्णिन्याते कर्ण-शूले निदानम्

1.18.29

[शालिनी]
सृष्टेष्व् अद्रेर् अन्न-कूटेष्व् अनल्पः
कृष्णाकारः कश्चिद् आविर्बभूव ।
अल्पीयस्त्वं केवलं भेद-बुद्धेर्
यस्मात् कृष्णे कारणत्वं जगाम

1.18.30

[शालिनी]
[20] तं च प्रथमं वसुन्धराधर-शिला-सन्धितः समेधमान-स्फुरद्-उत्सेधं प्रेक्षाकारिणः समुत्प्रेक्षामासुः-
पीत-श्यामा किं प्रभा? किं तडित्वान्?
किं वा धातु-द्योति-भूभृद् विभाति? ।
सुष्ठूत्तिष्ठन् किं स्विद् एतद् बकीजिन्-
मूर्ति-व्यूहः स्फूर्तिम् अत्रातनोति?

1.18.31

[शालिनी]
काय-प्रायत-भाजिताञ्जन-गिरिर् वस्त्राणि सन्ध्याभ्रजिद्
विस्तार-द्युतिमन्ति वेषमणयः सूर्यादि-जेतृ-प्रभाः ।
उत्तंसा वर-पुष्प-भार-बलवच्-छाखा-सहस्राण्य् अहो
यस्य क्ष्माधर-देव एष कुरुते नेत्राणि चित्राणि नः

1.18.32

[शार्दूल]
[21] ततः स तु चतुरानन-चातुरी-चालन-चतुरः कृष्ण-नाम्ना मधुरः स-प्रश्रयं पप्रच्छ-भगवन्, को भवान्? इति ।
[22] देवस् तु निर्घोष-निभ-घर्घरित-स्वरेणाभ्र-भ्रमं प्रथयन्न्, अर्थेन तु तम् अन्यथयन् वचः प्रचारयाम् आस, पूर्विताखर्ववत्-पर्वन्! पर्वतः सोऽ यम् अहम् अस्मि इति ।
[23] तद् एतद् अवधार्य देवार्य्-अमित्रः श्रीदामादि-मित्रः स्व-भुजौ प्रसार्य विस्फूर्यमाण-कोलाहलानर्गलं गोप-वर्गं निवार्य, नमस्कार्यः खल्व् असौ यस्मात् करुणा-व्यग्रता-जाग्रन्-महा-विग्रह-समग्र-विग्रह-प्रकाश-ग्रहिलतया प्रत्यक्ष-प्रत्ययम् एव स एव देवः प्रत्यवरुद्धवान् इति सर्वान् प्रत्य् अखर्वां वाचम् उवाच ।
[24] उक्त्वा चाखण्ड-दण्डवन्-नतिं कुर्वति सहस-स्मित-पूर्वजे तस्मिन् विस्मित-मनसः सर्व एव प्रति पर्वतं तथाकुर्वत । कृत्वा च श्रद्धया बद्धाञ्जलिषु तदावलिषु सर्व-सुख-वर्धनः स गोवर्धनः पुनर् उवाच-
नान्य-देववद् अस्माकं
भेदं युष्मद् विचक्ष्महे ।
तत् पश्यत भवेद् दत्तं
प्रत्यक्षं भुङ्क्ष्महे वयम्

1.18.33

[अनुष्टुभ्]
[25] तद् एतद् उक्त्वा च-
अन्नान्य् आढक-कोटि-तण्डुल-कृतान्य् आदाय तद्-व्यञ्जनान्य्
अप्य् एष प्रतिकूटम् एक-कवल-प्राप्तान्नम् आदत् तथा ।
मध्यं मध्यम् अनुप्रकृष्य तु यथा नीरं पिबन् पल्वलान्
कुण्डान्य् आशु सरांसि किं च सरितो निन्ये क्षयं सर्वतः

1.18.34

[शार्दूल]
यदा ग्रासाय स करं प्रसारयति चाग्रतः ।
तदा सर्वे द्रवन्ति स्म सर्वतश् चटका इव

1.18.35

[अनुष्टुभ्]
मध्ये-कृत्य व्यञ्जनान्य् अन्न-कूटं
ग्रासं ग्रासं पाणिना दक्षिणेन ।
तर्जन्यासाव् उद्दिशन् वामया तं
शक्रं लोलत्-प्रान्त-गत्या जहास

1.18.36

[शालिनी]
दोष्णस् तस्याश्व् अतिपरिमिति-ग्रास-हेतोः प्रसारे
चाकुञ्चे च स्थगित-हरितः प्राप्त-तत्-तद्-गतीनाम् ।
अक्ष्णाम् आसीद् व्रज-कुल-भुवां चित्र-वृन्देऽ पि चित्रं
यत् क्वाप्य् एकं न किल गणितं सिक्थम् एकं स्थितं न

1.18.37

[मन्दाक्रान्ता]
अतरीतृण्यत ग्रासान् भूभृद्-भूभृद् यथा यथा ।
अचलीक्ल्प्यताप्य् उच्चैर् मांसलाय तथा तथा

1.18.38

[अनुष्टुभ्]
तत्र च-
बाला भीतिं यौवनोन्मत्त-चित्ता
हासं वृद्धाश् चित्रम् अर्हास् तु भक्तिम् ।
याता ये ये तेषु सर्वेषु देवः
शुद्धां तुष्टिं कौतुकित्वाद् बभाज

1.18.39

[शालिनी]
दूराद् दूरात् पूरम् आदाय वारां
वक्त्रं शश्वत् क्षालयन्न् अद्रिदेवः ।
ष्ठीवन्न् उच्चैः पृष्ठ-देशे समन्ताद्
वृष्टिं कुर्वन् शम्प-सृष्टिं चकार

1.18.40

[शालिनी]
गण्डूषाणाम् अन्तरे वंश-दण्डैर्
दन्तान्तर्गान्य् अन्न-पिण्डानि कुञ्चन् ।
उद्यन्-मूर्तिस् तत्र शैलाधिदेवः
पूर्तिं कुर्वन् प्राण-भाजां ससर्ज

1.18.41

[शालिनी]
ताम्बूलानां वीटिकाः कोटि-खर्वं
कूटी-कुर्वंश् चर्वयन् गर्व-फुल्लः ।
प्रान्त-च्छाया-मण्डलश् चण्ड-रश्मिः
प्रातर् यद्वत् तद्वद् आस्यं चकार

1.18.42

[शालिनी]
जातं नीराजनस्य क्षणम् अनु निखिला मोहम् आपुर् यद् एतत्
तस्मिन् द्राघीयसि स्यात् कथम् इति विविधाद् ध्वस्त-चित्ता विचारात् ।
कृष्णस् त्व् अल्पं विहस्य प्रतिविधिम् अकरोत् कल्पिताद् यन्त्र-भेदाद्
यस्मिन् दीपाः सहस्रं तलम् उपरि च ते चाल्यमाना विरेजुः

1.18.43

[शार्दूल]
[26] अथ सर्वम् इच्छन् अन्विच्छन् प्रतीच्छन्न् अपि गिरिर् अयम् अहो गिरिं करोतीति निध्याय, मूर्धनि बद्धाञ्जलितया सर्वस्मिन्न् अप्य् ऊर्ध्वं स्थितवति, सर्वतोऽ पि वरान् वरान् विरचय्यातर्कितम् अन्तर्हिते परम-हिते तस्मिन्न्, अखण्ड-दण्डवत्-प्रणाम-पूर्वम् अत्र द्वित्र-क्षणं चित्रम् इव सर्व एवासीत् ।
[27] अवहिते च बहिर्-अर्थे श्री-हरिर् असौ सर्वान् पर्वत-पर्वागतान् प्रत्य् उवाच-
अहो कलयताचलः करुणयात्म-रूपं महद्
वहत्-प्रकटतां भजन्न् अखिलम् एव भुङ्क्ते स्म सः ।
अनादर-कृतामयं दलयितेति सम्भाव्यते
पुरन्दर-बलि-ग्रहाद् अतिबली तथा तर्क्यते

1.18.44

[शिखरिणी]
[28] ततश् च सर्वोऽ पि विस्रब्धः परम-प्रेम-भाजन-गो-सभाजनम् आरब्धवान् । यत् खलु-
गोभिर् गोपा मिथः स्युः प्रतिपद-दयितास् तत्र नन्द-व्रजस्थास्
तत्र श्री-नन्द-राजः स्वयम् अयम् उपमा तत्र तत्रास्य पुत्रः ।
यद्य् एवं तर्हि गोवर्धन-महसि तद्-अभ्यर्चने ते गवाद्याः
किं वर्ण्याः किन्तु निर्वर्णनम् अनु परमं ज्ञेय-भावं प्रयान्ति

1.18.45

[स्रग्धरा]
तथा च,
लब्धार्चाश् चारु-वेशैः शवलित-वपुषः प्राप्त-भोगावलीका
वत्सैः पृक्ताः प्रमोदं पृथुतरम् अभजन् धेनवः सत्यम् एव ।
किन्तु श्री-कृष्ण-दृष्टि-प्रमद-वलयिता यर्हि तर्ह्य् एव नो चेत्
केचिद् यद्वद् भजन्ते मधुर-विधुरतः संस्कृतं षाडवादि

1.18.46

[स्रग्धरा]
[29] तद्-दृष्टि-पुष्टीकृतास् तु-
स्वर्ण-निर्मित-विषाण-सुरूपा
रूप्य-संवृत-खुरा धृत-हाराः ।
किङ्किणि-प्रकर-झङ्कृति-युक्ता
नैचिकी-निचितयो रुचिम् आञ्चन्

1.18.47

[स्वागता]
[30] तत्र गोपाः श्री-गोपालादि-गोपाल-सत्कृति-चमत्कृतिम् अधिगम्य, विधिम् अनुगम्य, चित्रकाङ्ग-निभ-चित्रातिरम्य-वस्त्रावृताङ्गतया तर्णकम् आक्रम्य, कौतुकतो गाः सम्भ्रम्य, तज्-जात-हास-कोलाहलाद् विरम्य, ग्रास-विश्राणनेन ता विश्रम्य, परिक्रम्य, प्रणम्य, चाचर्यं वार्यम् आचर्य, वितान-वितानेनाग्निं परिचर्य, प्रदक्षिणावर्ततया वर्तमानं च तं प्रदक्षिणं विरचय्य, भूषण-निवह-महितानां पुरोहितादीनां पूजनम् अपि पूरयामासुः ।
[31] तत्र श्री-गोपाल-पूजा, यथा-
स्नानीयांशुक-चित्रकादि-सुरभि-स्रक्-कुण्डलाद्यं यदा-
श्चर्यं तत्र मुहुश् च तोष-रहितास् तत्-तत्-परीवर्ततः ।
तद् गोवर्धन-पूजनाङ्ग-पशुपाभ्यर्चानु कृष्णार्चने
ताताम्बादि-तदीय-बान्धव-जना नान्तं चिराद् ऐयरुः

1.18.48

[शार्दूल]
यथा कृष्णस् तथा रामो रामो यद्वत् तथा स च ।
व्रजेशयोर् नात्र भेदस् तन्-मित्रेष्व् अपि तद्-दृशोः

1.18.49

[अनुष्टुभ्]
[32] गो-सम्भ्रमणं, यथा-
यदा मुदा याति हरिः परोक्षतां
गवां, तदा ता निज-वत्स-कृष्टितः ।
व्यग्रीभवन्ति स्म यदा समक्षतां
यात्य् एष यान्ति स्म तदा तद्-आत्मताम्

1.18.50

[उपजाति 12]
[33] हास-कोलाहलो, यथा-
आकृष्टे वत्स-वृन्दे किल-किलित-रवैर् मातरो रम्भमाणा
दन्तैर् आकर्षकांस् तान् व्यथयितुम् अभितो धावनार्ता यदा स्युः ।
हासं कोलाहलाढ्यं कलयति निखिले तर्हि कृष्णाननाब्जं
जीयाद् उद्भास-हास-द्रव-मधु परितो मादनं यद् ववर्ष

1.18.51

[शार्दूल]
[34] गो-ग्रास-विश्राणनं, यथा-
गोपा ऊचुः कृष्ण गो-ग्रासम् एतं
हस्ताम्भोज-स्पृष्टम् ईषत् कुरुष्व ।
तत् सौगन्ध्य-प्राप्त-सन्धानम् एनं
गावः सुष्ठु प्रीतितः स्वादयन्ते

1.18.52

[शालिनी]
[35] गो-विश्रमणं, यथा-
गोवर्धनाचल-महस्य् अयुतादि-यूथ
गो-रोधनाय पशुपा नहि तत्र शेकुः ।
फुत्कार-केलि-कलया मुरली मुरारेर्
आसीद् अलं यद् असकौ गुण-कोटि-कल्पा

1.18.53

[वसन्ततिलका]
[36] गो-परिक्रमणस् तु श्री-कृष्णेनेत्थम् आदिष्टम्-
न भवति बत बहुलानाम् अतिबहुलानां परिक्रमः सद्यः ।
इत्य् एकस्या व्यक्तेः क्रियतां यस्माद् अशेषगा जातिः

1.18.54

[गीति]
तत्र प्रदक्षिणी-कार्यम् एकं वृद्धं गवौरसम् ।
मूलाराधनतः सर्वाराधनं विबुधैर् मतम्

1.18.55

[अनुष्टुभ्]
[37] गोषु प्रणामात्मिका भक्तिस् तु तेषां वर्णनाय नाभ्यर्णताम् अन्वेति, यतः-
भक्तः स्वभावात् किल गोप-लोकः
श्री-नन्द-लोकस् तु ततोऽ पि गोषु ।
अस्याथ गोवर्धन-यज्ञ-योगे
योगेश-दुर्गा-नमनाख्य-भक्तिः

1.18.56

[इन्द्रवज्रा]
[38] आचार्य-वरण-लक्षणम् अपि विलक्षणम् एव तत्र । यतः-
स्वयम् आव्रियताचार्यस् तत्र नाद्यवद् अर्थितः ।
यत्र सुष्ठु सितं यष्टुश् चित्तं तत्रैव तस्य च

1.18.57

[अनुष्टुभ्]
[39] होमे च-
गोवर्धन-महा-यज्ञे हुतभुग्-व्याजतस् तदा ।
हरेः प्रताप एवेन्धाञ्चक्रे शक्र-प्रतापनः

1.18.58

यदाग्निर् दक्षिणावर्तो यज्ञे जज्ञे तदा जनः ।
सर्वश् च दक्षिणावर्त-परीवर्तम् अवर्तत

1.18.59

[अनुष्टुभ्]
कृते सत्रे वस्त्रं तिलकम् अथ चर्चाम् अवयव-
प्रकारालङ्कारं सकलम् इदम् अप्य् उत्तमतमम् ।
द्विजेभ्यः प्रायच्छल् लषित-लषितं शश्वद् अनुगान्
मुदावादीद् यस्मिन् दद दद दमात्रं व्रजपतिः

1.18.60

[शिखरिणी]
दिव्य-दातव्य-सम्भारे व्रज-राजेन योजिते ।
परीक्षकास् तत्र परं तत्-परीक्षकतां ययुः

1.18.61

[अनुष्टुभ्]
[40] यद् अनु सर्वेऽ पि प्राणिनः प्रीणते स्म । तथा हि वन्दि-जन-वन्दनम्,
अर्थेन गोदुहान् नन्दाद् अर्थेन च सदार्थिनाम् ।
वदान्यश् च वदान्यश् च वदान्यः को भवेद् अतः?

1.18.62

[अनुष्टुभ्]
[41] किन्त्व् अयम् अत्रातिशयः-
अन्नात् पूर्तिर् अभूद् गलावधि नृणां गोवर्धनाद्रेर् मखे
सर्व-प्राण-भृतां तथापि हृदयं नापूरि तत्राण्व् अपि ।
यस्मिन् स्निग्धम् अभूद् अशेष-दिविषद्-वृन्दं यदप्य् अत्र भोः
पश्याश्चर्यम् अथापि हन्त गतवान् सङ्क्रन्दनः शुष्कताम्

1.18.63

[शार्दूल]
[42] अथ तद् एवं विप्रत्राकृत-सत्रादिकः पुरोहित-हित-सहितः श्री-व्रज-युव-राज-महितः स खलु विज्ञानां समाजः पुरस्कृत-व्रज-राजस् तद्-यज्ञावशिष्टं परम् अविशिष्टम् अन्नम् उपभुज्य, वेश-विशेषं संयुज्य, गीत-निबद्धं स-श्रद्धतया हरि-चरितं प्रति रसन् हसन्, विश्वसन्, लसन्, परितो गोवर्धनं परिचक्राम ।
[43] यथा च प्रथा श्री-विष्णु-पुराणे [5.10.45]-
द्विजांश् च भोजयामासुः शतशोऽ थ सहस्रशः ।
गावः शैलं ततश् चक्रुर् अर्चितास् ताः प्रदक्षिणम् ॥
[44] तत्र पूर्वापरीभावो, यथा--
धेनवो हरि-बलादयो द्विजाः
स्वामिनः परिजना गुरु-स्त्रियः ।
नूत्न-यौवत-शतानि दासिकाः
श्रेणि-मुख्य-जनताश् च चक्रमुः

1.18.64

[रथोद्धता]
आक्रष्टुं प्रतिदिशम् अत्र नेत्र-मीनान्
वाद्यादि-प्रकटन-धीवरा नटाद्याः ।
कृष्णस्य प्रथित-गुणालि-गीत-जालं
तन्वानाः पुनर् इह धीवरत्वम् आपुः

1.18.65

[प्रहर्षिणी]
[45] तत्र गोपाङ्गनानां गानं च, यथा-- यत्र प्रश्नमयम् अर्धम् एकस्यास् तदुत्तरम् अयं तु बहूनाम्-
गिरि-पूजेयं विहितं केन? अरचि शक्र-पदम् अभयं येन ।
गिरि-पूजेयं विहितं केन? पूतनिका सा निहता येन ॥
गिरि-पूजेयं विहितं केन? तृणावर्त-तनु-दलनं येन ।
गिरि-पूजेयं विहितं केन? यमलार्जुन-तरुम् उदकलि येन ॥
गिरि-पूजेयं विहितं केन? वत्स-बकासुर-हननं येन ।
गिरि-पूजेयं विहितं केन? व्योमाघासुर-मरणं येन ॥
गिरि-पूजेयं विहितं केन? कालिय-दमनं कलितं येन ।
गिरि-पूजेयं विहितं केन? खर-प्रलम्बक-शमनं येन ॥
गिरि-पूजेयं विहितं केन? दव-युग्मं परिपीतं येन ।
गिरि-पूजेयं विहितं केन? त्रस्यति कंसः सततं येन ॥इति॥ [

1.18.66

]
[मात्रासमक x15]
किन्तु-
तदैव गुणिनां गुणा विविध-कौतुकान्य् अप्य् अहो,
मनो-हरणम् आवहन् व्रज-निवासिनां सर्वतः ।
यदाघरिपु-वंशिकाकल-तुषार-कान्ति-त्विषा
जडीकृत-शरीरता भवति तं तु कालं विना [

1.18.67

] [शिखरिणी]
अग्रे काञ्चन-रत्न-शृङ्ग-वलिता धेन्व्-आदिकाः सर्वतस्
तासां गोप-ततीर् विधाय सखिभिः सार्धं हरिः साग्रजः ।
दीव्यद्-दिव्य-सुवर्ण-वर्ण-वसनाद् उद्गच्छद्-अङ्ग-प्रभः
कन्या-कुङ्कुम-युक्-कराङ्क-विलसत्-पृष्ठः स्फुरद्-वेषवान्

1.18.68

[शार्दूल]
सद्-गन्धारुण-चूर्ण-रोचन-तनुर् यष्टिं नभस्य् उत्क्षिपन्
गृह्णंश् च प्रतिकूल-गामि-धवला विद्रुत्य सङ्कोचयन् ।
हासं क्रीडनकं मिथः करयुतिं संवादितां वादितां
कुर्वन् वादित-वल्गु-वेणु-परितश् चक्राम गोवर्धनम्

1.18.69

[शार्दूल]
[युग्मकम्]
यदा हरिर् यत्र गतिं विलासतश्
चकार मन्दं लघु वा यदृच्छया ।
तदा दृशः सर्व-जनस्य तां दशां
तत्राययुः सूत्र-नियन्त्रिता इव

1.18.70

[उपजाति 12]
[46] तद् एवं बहुल-कुतूहलतश् चालं चालम् अमी गोप-ग्रामण्यस् तद् एव रम्यं यज्ञ-धाम समागम्य परमानन्दाद् वाणिनी-प्रभृति-कृत-नृत्य-वाद्य-गीत-ग्रामिणीं यामिनीं विश्राम्यन्ति स्म । प्रातश् च द्वितीयायाम् अहिमकर-कन्याया महिम-श्रवणतः प्रणततया तस्यां स्नानम् आचर्य निकाय्यम् एवागच्छन्ति स्म ।
[47] तस्यां च भ्रातृ-द्वितीयायां भ्रातृभिः प्रशस्तेन भगिनी-हस्तेन भोक्तव्यम् इति परम-धन्याभिर् उपनन्दादि-कन्याभिर् मिथो मिलन्तीभिर् निमन्त्रितौ प्रणय-यन्त्रितौ तत्र स-तृष्णौ च राम-कृष्णौ सहचर-निकरेण सह भोजन-करेण सह महम् अरोचयताम् ।
[48] तद् एवं वृत्ते वृत्ते, कृष्णस्य समुन्नद्धता-बन्धया कुहनया मद्-यज्ञ-प्रत्यूहनम् इदम् इत्य् ऊहमानः शक्रस् तु वक्र-भाव-चक्रतया चुक्रोध । [49] कृष्णेन तस्य या गूढापि खट्वारूढता तर्किता, सा कथम् अन्यथा सम्पर्कितया वर्तेतेति व्यक्तीकर्तुम् इव मत्सरतस् तत्-सहित-विश्व-महित-श्रीमन्-नन्दादि-निन्दा-पूर्वकं संवर्तक-मेघान् व्रज-विघाताय प्रवर्तयामास । ततश् च-
कौवेर्यां पूर्वम् आसीत् किम् अपि हिम-मरुत् कालिमा मेघलेशः
शम्पा-निर्घोष-वीप्सा-स्पृग् इति पशु-कुले गोष्ठम् एवाशु नीते ।
गोपाद्या दुर्निमित्त-प्रकर-कलनया कृष्णम् आवृत्य वृत्तास्
तन्-निर्देशात् तम् आद्रिं सपदि परिगतास् तस्थुर् ऊर्ध्वं निरीक्ष्य

1.18.71

[स्रग्धरा]
[50] निर्देशा, यथा--
इन्द्रो यदि महा-वृष्टिं नष्ट-सृष्टिं तनिष्यति ।
तद्-अङ्गीकारि-गिरिराट् कृपां साङ्गीकरिष्यति

1.18.72

[अनुष्टुभ्]
[51] उपत्यकाम् उपेत्य, तं विघ्नं निघ्नं कर्तुम् आद्रिम् उपघ्नं कृत्वा कृताधिष्ठाने तु गोष्ठे गोष्ठेन्द्र-तनये च समयं प्रतिपालयति-
घडद्-घडद् इति ध्वन-दघन-घटाभिसङ्घट्टनैः
कठोर-कुठ-कुट्टकैः कुटिल-वायुभिः कुण्ठिते ।
प्रकोष्ठ-कुट-कुट्टिमा-वट-तटादि-मत्य् उज्झिते
जने प्रकटम् आट सा प्रथित-धृष्टि-वृष्टि-प्रथा

1.18.73

[पृथ्वी]
धाराः शक्र-धनुर् विमुक्त-शरतां तन्वन्ति वर्षोपला
वज्रत्वं बत वज्र-पात-निचयाः सूर्य-प्रपात-भ्रमम् ।
इत्थं दुःखितया हरिं गतिम् इते गोष्ठे स गोवर्धनं
हस्तेऽ धत्त यथा न केन च तदा शक्तं दराप्य् ऊहितुम्

1.18.74

[शार्दूल]
[52] तद् एवं मेघङ्करे पुरन्दरे निविडीष-वर्षादिना भयङ्करे चार्तिङ्करे च जाते क्षेमङ्करः स मुरारिः पुरा ह्य् एवं पराममर्श-
इन्द्रः स्वैराभिमानी मयि मद्-अनुगते चावमानी ततश् च
स्वान्तान् मेदूर-मानी तद् अमुम् अनु मया मान-भङ्ग-प्रसक्तः ।
गोष्ठं मद्-गत्य्-अशेषं मम मद्-अनुगतस्यापि मुद्-भृद्-विशेषं
मच्-चित्ते सावशेषं तद् इदम् अथ मया प्राण-साम्येन धार्यम्

1.18.75

इति ।
[स्रग्धरा]
समजनि हलिना न हरेर् गिरि-धृति-सम्भ्रम-वशेन संवादः ।
तद् अपि परस्पर-हार्दा- ज्ञानं तस्मिन्न् अजीजनत् तम् इव

1.18.76

[गीति]
[53] तं नगम् उन्नयमानश् चासौ रोमाञ्चतः सूचि-निचय-निचित-सर्वावयवान् इव निचायन्न्, अमूल-भीरु-माथुराभीर-जाति-जातीय-गम्भीर-मधुर-स्वर-विकस्वर-दूर-भू-विभूति-हूतिभिर् ऊर्जित-गर्जितादि-गर्वं सर्वं खर्वं विधाय प्रियङ्करतया व्यक्तम् उक्तवान्-
[54] यत्र खलु मुहुर् अपि हे-शब्दः प्लुतताप्लुत एवासीत् । तथा हि-अम्ब हे, मा विलम्बस्व । तात हे, अत्रैव यूयम् आयात । आर्य हे, सर्वान् आदायागच्छ इति प्रभृति ।
[55] तद् एवं बलरामेण बलेनान्तिकम् आनीतेषु तेषु पुनर् ऊचिवान्-
पितर् न कुरु सम्भ्रमं जननि नार्तिम् आवर्तय,
प्रशाम्य सुहृदां तते मम तु कोऽ पि नात्र श्रमः ।
यतो गिरि-वरः स्वयं करुणया करे मामके
समुत्पतन-लीलया स वरिवर्ति तूल-प्रभः

1.18.77

[पृथ्वी]
किं च,
भूभृद्-गर्तेऽ प्य् अत्र निश्रेणि-युक्ते
स्थानं पश्यन्न् अस्मि पाताल-कल्पम् ।
विस्तीर्णोऽ भूद् अद्रिर् इत्य् अन्तर्-अम्भः-
सङ्गातीते नो निपत्यादि चात्र

1.18.78

[शालिनी]
[56] पुनश् च तेषां भावान्तरं विभाव्य स्व-कर्तृक-धारणम् अप्य् अर्धम् अङ्गीकृत्य भणति स्म-
मातर् मन्त्रणया मा मां निवर्तयत सत्तमाः ।
उदस्तो येन तद्-धस्ताद् ध्वस्तः स्याद् गिरिराट् कथम्?

1.18.79

[अनुष्टुभ्]
किं च-
मा विलम्बध्वम् अत्यर्थं युष्मद्-दुःखेन कम्प्रताम् ।
मयि गच्छत्य् अद्रिपतिः पतिता विशत द्रुतम्

1.18.80

[अनुष्टुभ्]
अथ पशुप-जनस् तदीय-हार्दाद्
द्रुतम् अविशन् निखिलस् तदाद्रि-गर्ते ।
नहि शरणतया कदाचिद् एनं
स भजति किन्तु तद्-एक-तर्षि-बुद्ध्या

1.18.81

[पुष्पिताग्रा]
ततश् च-
सुविन्यस्त-निःश्रेणि-लब्ध-प्रवेशं
मणि-श्रेणि-विद्योतमान-प्रदेशम् ।
गृहस्येव रत्नाङ्ग-भित्ति-प्रकारं
तद्-ऊर्ध्वं च तत्-तूल्य-शोभा-प्रचारम्

1.18.82

[भुजङ्गप्रयाता]
सुख-स्पर्श-मण्य्-आचित-क्षौणि-भागं
समस्तावकाशार्ह-सन्धा-विभागम् ।
यथापेक्ष-विभ्राजित-स्वच्छ-नीरं
सुखाकारि-धर्माञ्चि-नीचैः समीरम्

1.18.83

[भुजङ्गप्रयाता]
करे स्वस्य वामे तु वामे वसन्तं
गिरिं लीलयास्पृश्य सन्तं हसन्तम् ।
तदीयान्तर्-उद्यन्-महा-कुट्टिम-स्थं
हरिं हारि-रूपादिभिः प्राग्-अवस्थम्

1.18.84

[भुजङ्गप्रयाता]
दधद्-वेणुम् आनम्र-हस्त-प्रधानं
कदाचिन् मुदा सख्युर् अंसे दधानम् ।
ददर्श प्रहर्षं सतर्षं सभीतिं
व्रजावासि-लोको ययौ चातिरीतिम्

1.18.85

[भुजङ्गप्रयाता]
गोवर्धनाद्रिस् तत्रासीद् रत्न-चित्रं महा-गृहम् ।
हरिर् यत्र हरिद्-रत्न-स्तम्भतारम्भि-विभ्रमः

1.18.86

[अनुष्टुभ्]
अपि च-
विलसति मणि-दण्ड-श्रीर् मुकुन्दस्य बाहुस्
तद्-उपरि परितोऽ पि च्छत्र-तुल्यो गिरीन्द्रः ।
प्रतिदिशम् इह मुक्ता-दामवद् वारि-धारा
व्रज-सदन-जनानां प्रत्युताभूद् विभूतिः

1.18.87

[मालिनी]
[57] ततश् च सहसा रोहिणी-सहिता व्रजेश-गृहिणी तं पार्श्वयोर् गृहीतवती । तद् इदं वर्णिभिर् निर्वर्ण्य वर्ण्यते स्म, यथा-
मातृभ्यां पार्श्व-युग्मे धृत-तनुर् असकृन् मृज्यमानाननाब्जः
पित्राद्य्-आत्मीय-वर्गैः स-पुलकम् अभितो वीक्षितोऽ तर्क्य-कर्मा ।
सोऽ यं स्मेराब्ज-नेत्रं कलित-तट-कला-हस्तकः सव्य-हस्त-
न्यस्त-क्षौणी-भृद् उच्चैर् जय-जय-निनदान्वीडितः क्रीडतीव

1.18.88

[स्रग्धरा]
गोवर्धन-धरस्याग्रे विलासान् व्यञ्जतो बलः ।
कृत्स्नान् उत्साहयत्य् एष नाट्ये वा नट-नायकः

1.18.89

[अनुष्टुभ्]
[58] तद् एवं सति-
महा-वृष्टिर् गर्जः खर-हिम-पवनः स्फूर्जथुर् ध्वान्तम् अब्दस्
तथा वज्रीत्य् एवंविध-विविध-गति-क्लेश-हेतुर् बहिर् यः ।
तम् अन्तर् निर्वर्षं मधुर-निगदितं चारु-वायुः प्रगीतं
मरीचिश् चित्रश्रीर् अजितगिरिभृद् इत्य् आप्तशर्म व्यकारीत्

1.18.90

[शोभा]
नृत्य-स्तोत्र-प्रगीतान्य् अतिचटुल-नटाद्य्-अर्थिनां दान-चर्या
वर्याणां स्वस्ति-पाठः श्रुति-समय-विदां क्रीडितं बालकानाम् ।
गर्वात् खर्वाखिलानाम् इति सकलम् अभूद् यस्य तु प्रेम-जातं
स श्री-गोवर्धनाद्रि-प्रवर-धर-करः कं न तोषं पुपोष?

1.18.91

[स्रग्धरा]
गुरौ नम्रा तुल्ये स्मित-युग् अनुपाल्ये धृत-जला
क्वचिल् लीलालोला मघवति तु वक्रा बत सती ।
धृताद्रेर् दृष्टिस् तत् तद् अनु गुणम् अर्थं विदधती
क्रियाम् अन्यां तस्य स्वम् अनु पुनर्-उक्ताम् अकुरुत

1.18.92

[शिखरिणी]
गिरिधर-वदनेन्दो रश्मि-पीयूष-धारां
पिबद् इह पशु-जातं सप्त-रात्रिन्-दिवानि ।
क्षुधम् अपि स-तृषं तन् नाययौ तर्हि तस्य
प्रणयि-जन-गणानां किं ब्रुवे न ब्रुवे किम्?

1.18.93

[मालिनी]
श्री-मुखेन जनता सुधा-रसैर्
अस्य भूधर-धरस्य पूर्यते ।
एवम् अप्य् अवयती तदा प्रसूस्
तन् मुहुर् बहु-रसैर् अपूरयत्

1.18.94

[रथोद्धता]
सप्ताहर्-निश-निर्मिता गिरिभृता ये ये विलासास् तदा
तान् कल्पैर् अपि सप्तभिः कथयिता शेषोऽ पि नाशेषतः ।
एवं चेद् वचनैर् अमूंस् त्रि-चतुरैः सच्-चातुरी-वर्जितैस्
तूर्णं वर्णितवान् कविः स्वयम् असौ दुर्भूय दोदूयते

1.18.95

[शार्दूल]
[59] तद् एवम् अत्र प्रस्तावे लब्धावस्थाने, तत्र शक्रस् तु दुष्ट-क्रमम् अनुष्ठितवान्-
[60] प्रथमं तावत् प्रथमानेन वातेन वातेन ते प्रलयं गता इति सन्दिह्य, तदैव तद्-दैवत-शतम् एव तत्र प्रभूत-दूततया प्रस्थापितवान् । तत् तु तस्माद् अतिसत्वरम् आगत्वरतया तद् अभीष्टं प्रत्याचष्ट । ततश् च बलारातिर् बलात् प्रवर्तित-प्रसारेण जलासारेण तद्-विलापनं प्रतीत्य च सत्यता-प्रतिपत्तये जलद-देवान् एव तद्-वार्तायां वर्तयामास । वर्तिताश् च ते तद्-वीक्षितेन पथा प्रत्यागत्य यथा-पूर्वं तत् प्रत्याशा-पदं प्रत्याख्याय स्थितवन्तः । ततश् च परमम् अपूर्वं मत्वा, मनस्य् अतीव धूर्वणं गत्वा, घनाघन-बृंहणः स घनाघनः स्व-वाहनं घनाघनं क्रोधाद् अङ्कुशेन मङ्क्षु जघान । हत्वा च किञ्चिद् अग्रतो गत्वा सत्वरम् ऐरावतीय-वह्निम् अह्नि चापह्नुत-नेत्र-वीर्यं विकीर्य दूत्याय तद्-देवताम् अवतारयामास
। सा च ततो निवृत्य प्रवृत्त्य्-अन्तरं निवेदयामास-देव, परमाश्चर्य-चर्येयम् अवधार्यताम्, यत् खलु स एव बलि-भोजन-वलित-बलः सन्न् अचलः सम्यग् उत्पतन्न् इवावलोक्यते ।
[61] इन्द्र उवाच-दृश्यतां कीदृशम् अनन्तरम् अन्तरं जातम्? लब्ध-शोकश् च व्रज-लोकः कुत्र वा स-पुत्रः प्रयातः?
[62] अथ सर्वे यथाज्ञापयन्तीति विद्रुत्य पुनः सङ्गत्य संहत्य प्रत्यभाषन्त-सर्वदैव सर्व-दैवत-मान्य! शतमन्यो! मन्यामहे ते सर्वे शत-पर्व-सगर्भ-विद्युद्-वह्निना प्रलीनताम् एव नीताः, यद् बहिर् न हि विलोक्यन्ते ।
[63] इन्द्र स-हर्षम् उवाच-आयुष्मद्भिर् युष्माभिर् पुनर् अपि निरूप्यताम् ।
[64] अथ तथा पुनः सङ्गत्य गत्य्-अन्तरं प्रथयामासुः-दिवीश्वर, नाद्यापि ते नश्वरतां प्राप्ताः, प्रत्युत पातालतल इव गिरि-गर्त-तले प्रविश्य तद् दिशन्तीवानन्द-कोलाहलं कुर्वन्तः प्रतीयन्ते । अचलश् च स्वयं बलानुज-हस्त-न्यस्त-प्राय-ग्राव-निकाय-मय-कायतया प्रतीयते ।
[65] इन्द्र उवाच-लक्षयामि । मया पूर्वं छिन्न-पक्षतिर् अप्य् असौ पुनः किं स-पक्षः सम्पन्नः, यत एव गर्ववान् स पर्वतः सर्वतस् तेषाम् अक्षयाय पक्षपातम् आचचार? भवतु नाम, तम् एनं पुनर् निह्रादि-ह्रादिनी-वह्नि-प्रहारेण संहारे योजयामि, येन तदीय-तले वलमानतया लब्धावलेपास् तेऽ पि तूर्णम् एव चूर्णताम् आसादयन्ति इति ।
[66] तथा च, तद्-वज्रेण बिद्धं विधाय प्रणिधान-द्वारा तद् अन्यथा प्रणिधाय, मनसि कोप-प्रकोपम् आधाय, मुहुर् अपि तद् एव सन्धाय, व्यर्थता-कदर्थित-पुरुषार्थः पुनर् नूतन-दूत-गणं प्रहापयन्न् आह स्म-अरे, निरूप्यतां तिरोभूय, भूयः किं तत्र चित्रम् इव वर्तते, येनाशनेर् अपि प्रचारः स्व-व्यवहाराद् व्यभिचारं सञ्चचार ।
[67] अथामी च तथागत्य स्व-प्रत्यक्षं प्रत्यायामासुः-सुत्रामन्, न तत्र कुत्रचिद् अपि द्वि-त्राण्य् अपि पत्राणि स्रस्तानि दृश्यन्ते, न च काचित् पिपीडिकापि पीडिता । तद् एवं यद्य् उपरितनं वृत्तं परितो वृत्तं, तदा विलसित-रङ्ग-तरङ्गाणाम् अन्तरङ्गानां वार्ता तु दूरे वर्तताम् ।
[68] अथ तं निखिलोच्चं शिलोच्चयं प्रति प्रतिहत-निज-टङ्कतया स-शङ्कः स वज्रपाणिर् विस्मय-लज्जा-भयानि सज्जंश् चिरम् एव तुष्णीम्भूष्णुतया चिन्तयामास-
आं, कृष्णाकारम् अनु विष्णुर् एव तत्राविर्भविष्णुताम् आससाद । कथं वा स च परात् पराजिष्णुताम् आसीदतु, यः खल्व् अहार्यम् अपि हार्यताम् आसादयामास ।
[69] अथ तदानीम् एव मूढः, संज्ञया शङ्खचूडः, कंस-सपक्षः कश्चिद् यक्षः प्रतिकृष्टम् अतितयातिहृष्टः सङ्गम्य प्रणम्य च प्रोवाच-महेन्द्रदेव, द्रुमिल-दानव-नन्दन-महीन्द्र-सदनाद् भवत्-पदारविन्दं विन्दमानः सोऽ यम् अस्मि । स हि परम-हित-सहिततया दुन्दुभि-सन्दोह-निर्घोषं प्रतिदिशं जोषयित्वा भवन्तं प्रति प्रीति-परिणामं प्रणामं निर्दिदेश सन्दिदेश च । तद् इदं भवद्भिर् यद् एतद् अनुष्ठितम्, तेन परम-तुष्टिम् आपन्ना वयम् । यतः क्षुद्रतम-निर्मित-गर्व-किर्मीरित-महद्-अतिक्रमः समस्तस्य च दुःसहः सम्पद्यते । बलाद् उत्पतन-लील-पिपीलिकावद् अमूदृशां तद्-दिष्टतः प्राप्त-दिष्टान्तता च दृष्टा । किं च, कियद् वाभीर-जातीनां यजमानतया भवत्-प्रयोजनं
जनिता? वयम् एव हि नाना-यज्ञान् अनुज्ञाप्य भवत्सु सन्तर्पणम् अर्पयिष्यामः ।
[70] अथ तद् एतद् अवधार्य स देव-कुल-निर्धार्यश् चमत्कारम् आससाद, [71] यत्रैवं चिन्ताम् आप-अहो, शक्राशन-व्यसनतया मम बुद्धिर् न सदा शुद्धिम् अवरुणद्धि, यतो मित्रामित्रता वैपरीत्यं परीत्य रीत्य्-अतिक्रमम् आपन्नवान् अस्मि । तद् एतच् च, गोत्रभिद् इति स्व-नाम-स्फुरद्-उपश्रुति-फलम् इव मम प्रतिभाति । किं च,
गर्विणः सुष्ठु मे युक्ताप्य् एषाभिभव-भावना ।
आत्त-गर्वोऽ भिभूतः स्याद् इति पर्यायता यतः

1.18.96

[अनुष्टुभ्]
[72] प्रकाशस् तु स्व-दासान् उवाच-भवतु, निवर्तन्तां संवर्त-वर्तना मेघ-वार्ताः । अवरजन्मायम् इति व्रजराज-तनूजं प्रति तितिक्षा-भाज एव वयं शिक्षा-मात्र-पात्रताम् आसादितवन्तः, न तु कथम् अप्य् अन्यथा-भाव-भावन-व्यथाम् इति ।
[73] अथ यक्षम् अप्य् आदिदेस, निजं राजानम् इदं सन्दिश-[74] मुहुः कोपितोऽ पि सोऽ पि भवांस् तस्माद् भयम् इव भावयन् वर्तत इत्य् अवधारयत एव ममाधिकः क्रोधस् तत्र वर्धते स्म । यदि तद् अपि तथ्यं स्यात् तदा वयं याथातथ्यम् एव प्रथयिष्यामः: शतमन्योः सहस्राक्षस्य शतकोटि-हस्तस्य ममापि कः खलु खलतयानभीप्सितं कुर्वीत? अपि च-
त्वं पुण्य-जनसेव्य-श्रीर् देवानां प्रियतां गतः ।
सोऽ प्य् अग्रे त्वद्-विधानां स्याद् भोजानां गोप-दारकः

1.18.97

[अनुष्टुभ्]
[75] तद् एतद् अनुभूय कुपूयः खल्व् असौ दूयमान-हृदयतया यक्षः प्रतस्थे, स्वेन चानीतं सन्देशं प्रवाहे मूत्रितम् इवातस्थे ।
[76] तद् एवम् अपध्वस्तं-मन्यः शतमन्युश् च शत-मन्युतया विमान-गतिं प्रति विमान-गतिम् आसाद्य सद्यः सानुशयं संशयानतया शयानतया च निजान्तर्-निलयम् अयाञ्चक्रे । शाब्दिकाष्टकम् अनु विशिष्टतया रलयोर् व्यत्ययम् इवावेत्य, निरयम् एव च तं मन्यते स्म । तथा हि-
विक्षेप्तुं व्रजम् ऐच्छद् एष पवनैर् विक्षेपम् आप स्वयं
वर्षैर् धर्षयितुं च धर्षम् अगमद् बाढं विडौजा हृदि ।
वज्रैस् ताडयितुं तथाप शिरसि स्वे वज्र-ताड्यात्मतां
साधूत्पात-करत्वम् अर्जति विपर्यस्ता गतिर् युज्यते

1.18.98

[शार्दूलविक्रीडितम्]
[77] तद् एवं गेह-गुहाम् अवगाहमाने कौशिके-
अथ द्यवि दिवाकरः प्रकट-भावम् आट द्रुतं
दिशः स्फुरणम् आगमन् धरणिर् आप वर्त्म-प्रथाम् ।
तदा च नयन-श्रवश्-चरण-संहतिः प्राणिनाम्
इदं निज-निजाश्रय-त्रयम् अनु स्ववृत्तिं ययौ

1.18.99

[पृथ्वी]
निर्याते मेघ-जाते हरिर् अथ पशुपानाख्यद् उच्चैर् अमुष्मान्
निर्यात प्रात्त-गृह्या दर च दर-मतिं मा कुरुध्वं त्वरध्वम् ।
यस्मिन् गाम्भीर्य-भाजि स्फुट-वचसि घनाः पूर्वम् अप्य् अस्य कान्त्या
भूभृद्-भूत्या च धूताः पुनर् अहह ययुर् गर्ज-गर्वाद् विधूतिम्

1.18.100

[स्रग्धरा]
[78] अथ तदाम्रेडित-प्रेरिततया वादित-बहुल-काहलादि-हलहलायमान-कोलाहलम् आचर्य हरिदास-वर्य-गिरि-हृदयायमान-कुहरात् तत्-पुरत एव निर्व्रजन् स-गो-समज-व्रजजन-समाजः स-यशः-स्नेह-प्रसर-देह इव तस्य विरराज ।
गावस् तावत् पुरस्ताद् गिरि-वर-विवराच् चाल्यमानाः समन्ताद्
आराद् अप्य् अन्तरन्तर् गिरिधर-वदनं द्रष्टुम् आसन् निवृत्तः ।
यासां निर्यापणायां मुहुर् अपि तद् अलं लोकमानः स लोकः
स्तब्धी-भावं प्रपन्नः, पर-वश-दशया तत्र वैयग्र्यम् आप

1.18.101

[स्रग्धरा]
[79] अथ कथम् अपि निर्गिरि-वर-विवरः सर्वः परस्परम् अनुयानं परीक्ष्य निर्निमेषतया श्री-कृष्ण-निष्क्रमणं प्रतीक्ष्य क्षणतस् तद् अपि निरीक्ष्य जीव इव जीवन-निभं तम् आसीदन् पुनर् अतीव मुदम् अवाप । यतः-
स्वभावः सौन्दर्यं गुण-गरिम-भूमा मृदुलता-
खिल-व्यापि-प्रेमा गिरि-धृतिर् अपि स्वावन-कृते ।
क्रमाद् एते धर्माः प्रणयम् अनु सान्द्रीकृति-परा
यदीयाः सोऽ भ्यागान् निजदृशि गिरेस् तस्य तलतः

1.18.102

[शिखरिणी]
किन्तु-
यद्वद् उत्थापितस् तद्वत् कृष्णेनाद्रिः स रोपितः ।
दृष्टश् च सर्व-लोकेन प्रकारस् तु न लक्षितः

1.18.103

[अनुष्टुभ्]
[80] दर्शनाद् अनन्तरं तु,
अतिशयितम् अवेग-प्रेम-धारा-निमग्ना
विवश-पशुप-लोका गोत्र-गर्तान् मिलन्तम् ।
हरिम् अभि परिरम्भाद्य्-आत्म-योग्यं दधाना
दधुर् अनु निज-लाभं व्युत्क्रमं च क्रमं च

1.18.104

[मालिनी]
गोप्यस् तत्र तु मान्य-भाव-वलिता दध्य्-अक्षतादि-स्फुरद्
भव्य-द्रव्य-सभाजितं विरचयामासुर् जित-स्वर्पतिम् ।
यद्यप्य् एवम् अथापि मूर्ध्नि च करं धृत्वा तम् आशीशिषन्
संवित्ते तद् इदं स एव य इदं हृद्य् अन्वभूत् कर्ह्य् अपि

1.18.105

[शार्दूल]
[81] श्री-व्रजेश्वरादीनां मिलनं तु श्रीमन्-मुनि-वर्येणैवं वर्ण्यते स्म, यत्र चेदं सुष्ठुतरम् अनुष्टुप्-छन्दसा स्वल्प-वद्यम् अपि पद्यम् अमृत-सम्भृत-कुम्भवद् अक्षय-रसं प्रसूते-
यशोदा रोहिणी नन्दो रामश् च बलिनां वरः ।
कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः ॥[भ्प् 10.25.30] इति ।
[82] तथा हि, अहह, नव-नवनीत-नीति-सुकुमारा कुमार-तनुर् इयम् अखर्व-पर्वत-भारतः कीदृग् अभवद् भवति भविष्यति च इति स्नेह-मय-सन्देह-रीति-भीतिमन्तस् ते, तद् एतत् क्लेश-कुलम् अस्मद्-वपुर् आवेशं सन्देशतया प्रयास्यति इत्य् अभिप्रयन्त इव, तम् आश्लिष्यन्तस् तत्राप्य् अविश्वासा इव, विशेषाद् अशेषाशिषः प्रयुञ्जाना, निज-वंशं यशस्वतादि-युक्तं कुर्वाणा इव, ते तत्-तन्-नाम्ना समाम्नाताश् चिरं बाष्प-निष्पत्ति-भित्त-नेत्र-वृत्तयः संवृत्ताः ।
[83] तत्र यद्यपि यौगपद्यतस् तूर्णम् एव चतुर्णां मिलनं समपद्यत, तथापि प्रेम-तारतम्यम् अनुक्रम्य कृष्णावधान-क्रमः क्रमते स्म यस्मात् तस्माद् एव तथा श्री-शुक-देवः प्रचक्रमे यशोदेत्य्-आदिना ।
[84] यत्र ज्ञान-क्रिया-शक्तिभ्यां बलं वलमानस्यापि बलदेवस्य तादृशी स्नेह-कातरता निरता, तत्र किमुतापरस्य । स खल्व् अपर एवेति । तत्र च-
माता साश्रु ममार्ज वक्त्रम् अभितस् तातः शिखाम् अस्पृशद्
द्वाव् अप्य् अङ्गकुलं निभाल्य परितः पप्रच्छतुः शन्तमम् ।
मित्राद्याः समवाहयन्न् अवयवान् एवं व्रजस्थाः परे
प्रेत्येकान्वितम् एव सेवनम् अधुः प्राणा हि सर्वस्य सः

1.18.106

[शार्दूल]
[85] अत्रापरापि कौतुक-परम्परावधार्यताम् । [86] गते च कंस-पक्षे यक्षे यदा स खलु वृद्धश्रवा वृद्धश्रवस्त्वम् एवात्मानं प्रतिमन्यते स्म, तदा सावहित्थम् इदम् उत्थापितवान्-भो मदीय-गणाः, समवधीयताम् । स खलु दानवारिर् वारित-मद्-उद्यमतया विपक्षवद् आचरन्न् अपि वैरि-शमनतया मया सहायतया निश्चितस् तत्-परीक्षार्थम् एव च तथा विभीषित इत्य् अभिनन्दनीय एव भवद्भिः इति ।
[87] ततश् च स-व्रज-व्रजराज-नन्दन-निष्क्रमाद्य्-अनन्तरम्-
दिवि देव-गणाः साध्याः सिद्ध-गन्धर्व-चारणाः ।
तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि सर्वतः

1.18.107

शङ्ख-दुन्दुभयो नेदुर् दिवि देवादि-वादिताः ।
जगुर् गन्धर्व-पतयो येषां तुम्बुरुर् आदितः

1.18.108

[भ्प् 10.25.31-32]
तदा दिवि भुवि स्थितैर् विविध-वाद्य-गीतादिभिः
कृत-स्तवतया चलन्-मुदित-गोप-वृन्दैर् वृतः ।
दिविष्ठ-महिला-जयि-प्रकट-गीत-गोपी-तति-
स्फुरत्-परम-सम्पदं व्रजम् अगाद् व्रजेशात्मजः

1.18.109

[पृथ्वी]
गर्तं प्रविष्टाः शकटादि-दध्य-
क्षतान्तिमार्थ-प्रचिता यथा ते ।
तथा निवासं पुनर् आप्तवन्तः
किञ्चिच् च नाज्ञासिषुर् अर्थ-नाशम्

1.18.110

[उपजाति 11]
[88] गिरि-गर्तान् निष्क्रमणे यथोक्तं श्री-बादरायणिना गोप्यश् च स-स्नेहम् अपूजयन् मुदा दध्य्-अक्षतादिभिः [भ्प् 10.25.29] इति ।
गोप-राज तव सूनुर् ईदृशः
शैलम् अप्य् अधृतः यः स्वकान् अवन् ।
यश् च शक्रम् अपि घातम् अन्तराप्य्
उद्धूतं व्यधित दूर-देशतः

1.18.111

[इन्द्रवज्रा]
धृत्वा गिरिम् असौ नैकधुरताम् आगतः परम् ।
भवतां जगतां चागाद् अपि सर्व-धुरीणताम्

1.18.112

[अनुष्टुभ्]
[89] तद् एवं कथा-प्रथन-पूर्वकं पूर्ववन् निज-निज-प्रयोजनाय कृत-व्रजनायां जनतायाम् अनुकृष्णं रवेः समस्तम् अस्तं यावत् कृत-विहारौ सूत-कुमारौ पुनर् अपि रजनी-सभायां सभाजितौ नन्दिताजितौ बभूवतुः ।
[90] तत्र प्रथमतः परम-श्रेयसीं तत्-प्रेयसीं प्रति स्निग्धकण्ठ उवाच-
स्वल्पापि लीला भवदीयतां गता
विस्तारम् आयाति तथा बकीरिपोः ।
राधे विवेक्तुं नहि शक्यते यथा
प्रथीयसी का बत का तनीयसी?

1.18.113

[उपजाति 12]
[91] ताम् अप्य् अस्माकं ग्रन्थ-लाघवाय सङ्कोचयतां कविषु लाघवम् एव पर्यवस्यति । तथाप्य् अकुण्ठ-बुद्ध्या स्वयम् एव सा बहुधा बुध्यताम् । इत्य् उक्त्वा भ्रातरम् आह स्म, आर्य कथकाचार्य भूयः श्रूयताम्-
परं गिरेर् एव सत्रं हरिणा न प्रकाशितम् ।
किन्तु श्री-राधिकादीनाम् आननेन्दु-रुचेर् अपि

1.18.114

यदा तु मख-सम्भारः कृष्णेन विपुलीकृतः ।
तदालङ्कार-सम्भारस् ताभिर् अप्य् उररीकृतः

1.18.115

यदा दीपालिर् अज्वालि शिखरं शिखरं प्रति ।
स चामूश् च मिथस् तर्हि व्यदृश्यन्तावृत-स्थलात्

1.18.116

यदा प्रवर्तितस् तस्मिन् बकहन्त्रा गिरेर् महः ।
प्रावर्ति च तदा ताभिस् तद्-दिदृक्षा-महा-महः

1.18.117

यदा समुदिता जाता महिला भूमि-भृन् मखे ।
तदा ता मुदिता जाता हरि-दर्शन-निश्चितेः

1.18.118

कृष्णे संलापम् आचेरुर् यदा विविध-सुभ्रुवः ।
तदार्ह-बोध-सदृशं दृशं ताश् च न्ययूयुजन्

1.18.119

यदाद्रिर् जनता-दृष्टिं कृष्टवान् प्रकटी-भवन् ।
आशाधाम ययुः स्वैरं तदासाम् अक्षि-पक्षिणः

1.18.120

यदा गो-पूजनं कर्तुम् आरब्धं सर्वकैस् तदा ।
ताभिः प्रतिस्व-धेन्व्-अर्चा-प्रश्नास्पदम् अकारि सः

1.18.121

यदा गोपाल-पूजाया महो व्यक्तम् अभूद् बहिः ।
तदा मनो-महस् तासां वक्त्रे वक्त्रे व्यलोक्यत

1.18.122

गोप-पृष्ठं यदा दृष्टं कन्यापाण्यङ्कितं पुरु ।
तदासां पाणयः कृष्णं स्प्रष्टुम् उत्कण्ठितां गताः

1.18.123

होम-काले यदा कृष्णः प्राविशद् ब्रह्म-संसदि ।
हुतं बत तदा ताभिर् मानसं विरहानले

1.18.124

गिरेः परिक्रमे यर्हि व्यवधानं ययौ हरिः ।
तदा तां व्यवधाम् एव गिरीयन्ति स्म तत्-प्रियाः

1.18.125

यष्टिं यर्ह्य् उत्क्षिपन् गृह्णन् कृष्णश् चक्राम तर्हि ताम् ।
दृष्ट्वा दूराद् अञ्जनास्रैर् भानुजा भानुजायते

1.18.126

यदा यदा मिथो रूपं द्रष्टुम् आसीद् असम्भवः ।
गवानुद्रव-लक्ष्येण स तासां मध्यम् अद्रवत्

1.18.127

धेन्व्-अनुद्रवण-व्याजात् स्पृशन् वव्राज यां हरिः ।
चिल्ली-वल्ली-ताड्यमानस् तया स स्तम्भम् ईयिवान्

1.18.128

यदा राधाम् अनु स्पृष्टिं दृष्टिर् अस्य गता तदा ।
अयं सर्वं विसस्मार किन्तु सस्मार तन्-मुखम्

1.18.129

यदा रात्राव् अभूद् वासः सर्वेषाम् एक-धामनि ।
तच्-छब्द-मात्र-तात्-पर्याः श्रुतितां तर्हि ताः ययुः

1.18.130

कृष्णायास् तु यदा कृष्णश् चिक्रीड स्रोतसि स्वयम् ।
तदामोदिन्य् अमूस् तस्मिन्न् अक्रीडन्न् अतिदूरतः

1.18.131

भगिनीनां गृहे यर्हि भोक्तुम् अभ्याययौ हरिः ।
सख्य-लक्ष्यात् तदा तासां सर्वास् तत्राप्य् अमूर् गताः

1.18.132

यथा-पूर्वं यदा सर्वे प्रतिस्वं वासम् अव्रजन् ।
तदा कारा-गृहे हन्त मेनिरे ताः पुनर् गतिम्

1.18.133

यदा संवर्त-मेघास् ते प्रावर्तन्त तदा तु ताः ।
अकामयन्त कृष्णाय स्व-स्वच्छ-त्रायमाणताम्

1.18.134

यदा सुहृद्भिश् छत्राद्यैर् लालितं तम् अलोकयन् ।
स्वाङ्ग-भेत्रीम् अमूर् वृष्टिं तदा सौधीम् अमंसत

1.18.135

विछिन्न-प्रखरासार-च्छत्रे तत्रेह दीव्यति ।
कृष्णे स्वैरं गता दृष्टिं मेनिरे वृष्टिम् आमृतीम्

1.18.136

अभि कृष्णं यदा सर्वः शैल-गर्तेऽ न्ववर्तत ।
गृह-प्राप्त-निधीनां वा तदा तासां स्थितिर् मता

1.18.137

[अनुष्टुभ्]
निमेष-रहितास् तदा प्रतिनिमेषम् आसेदिरे
हरेर् मुख-सुधा-रसं रसनया दृग्-आकारया ।
अहो रजनि-सप्तकं व्रज-चकोर-नेत्राः कियत्
कुतः सुकृतम् उद्गतं न इति विस्मृतीर् अव्रजन्

1.18.138

[पृथ्वी]
राधा तत्र सुखातिसीम-दृशया युक्तापि मुक्तावली
स्वच्छे नेत्र-जले तद्-ईक्षण-भवे कोष्णत्वम् इत्थं गता ।
हा धिग् दैव सदैव नास्ति तव कोऽ प्य् उच्चैर् विवेको यतः
कान्तस्यानिश-दर्शितस्य च चिराद् अद्रिः करे दृश्यते

1.18.139

[शार्दूलविक्रीडितम्]
यदा गिरि-वरं दधे मुरहरस् तदा लोचनं
निजार्थित-विनाकृताम् अपि दिशं स निन्ये मुहुः ।
कदाचिद् इह चेत् प्रथां भजति राधिकाया मुखं
तदा फल-मयं मम श्रमतमः प्रसज्जेद् इति

1.18.140

[पृथ्वी]
अयं गिरिवरं दधे करुणयेति कारुण्यवान्
समस्तम् अभितर्क्यते तद् इह चित्त-धैर्यं भज ।
निरन्तरित-लोचन-प्रभव-वृष्टि-भीतीभवद्-
वपुश् च तव रक्षितेत्य् अकृत भावम् एषा तदा

1.18.141

[पृथ्वी]
गिरेर् गर्तान् निष्क्राम-वचनम् आकर्ण्य दयिता
मुरारेस् तं प्राण-प्रतिमम् अपहायापि निरयुः ।
स एवं तं भावं बत विसृजतीत्थं स तु परं
तद् आसां विश्लिष्टेर् भरम् असहमानो निरगमत्

1.18.142

[शिखरिणी]
किं गिरेर् विवरतो बहिर् गतः
किं स वा स्व-हृदयाद् इति स्फुटम् ।
नातिबोद्धुम् अशकन् हरि-प्रियास्
तर्हि यर्हि निरगाद् असौ प्रियः

1.18.143

[रथोद्धता]
यद् दृगम्बु ववृषुः स्तन-भूभृद्
भूरि-भूमि-वलयेषु मृगाक्ष्यः ।
उद्धृत-प्रथित-भूभृति तस्मिंस्
तत् किम् अप्य् अकथयन् निज-हार्दम्

1.18.144

[स्वागता]
[92] अथ समापनम् आह-
राधे परितो यासीद् गोवर्धन-धारिणस् तदा करुणा ।
सास्रान् नयन-प्रान्तात् प्रान्तात् त्वय्य् एव सा सुविश्रान्ता

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc